________________
पद्मपुराणम् ।
षविंशतितमं पर्व। पत्न्यां जनकराजस्य गर्भमाश्रित्य मंडितः । साकमन्येन जीवेन विवेद स्थित इत्यसौ ॥११६॥ सूतां तावदियं देवी युगलं किममानया । गर्भद्विततयोगिन्या मृतयास्ति प्रयोजनं ॥ ११७ ॥ ततो निलुंठितं संतं पापं मंडितकं ध्रुवं । नेष्यामि यदहं दुःखं ततमेव दुरीहितं ॥ ११८ ॥ इति संचितयन् क्रुद्धः पूर्वकर्मानुबंधतः । देवो रक्षति तं गर्भ सन्मृदन् पाणिना करं ॥११९।। इति ज्ञात्वा क्षमं कर्तुं दुःखं जंतोर्न कस्यचित् । कालव्यवहितं तद्धि कृतमात्मन एव हि।।१२०॥ कालेनाथ सुतं देवी प्रसूता युगलं शुभं । सुतं दुहितरं चांते जहार पुथुकं सुरः ॥ १२१ ॥ आस्फाल्य मारयाम्येनं शिलायां पूर्वमंडितं । इति ध्यातं पुरा तेन पुनरेवमचिंतयत् ॥ १२२ ॥ धिग्मया चिंतितं सर्व संसारपरिवद्धनं । जायते कर्मणा येन तत्कुर्वीत कथं बुधः ।। १२३ ॥ तृणस्यापि पुरा दुःखं श्रामण्येन कृतं मया । सर्वारंभनिवृत्तेन तपो विविधवाहिना ॥ १२४ ॥ गुरोस्तस्य प्रसादेन कृत्वा धर्म सुनिर्मलं । ईदृशी द्युतिमाप्तोऽस्मि करोमि दुरितं कथं ॥१२५॥ स्वल्पमप्यर्जितं पापं व्रजत्युपचयं परं । निमग्नो येन संसारे चिरं दुःखेन दह्यते ॥ १२६ ॥ निर्दोषभावनो यस्तु दयावान् सुसमाहितः। स्थितं करतले तस्य रत्नं सुगतिसंज्ञकं ॥ १२७ ॥ घृणावान् संप्रधाउँदं तमलंकृत्य बालकं । कुंडले कर्णयोरस्य चक्रे दीप्तांशुमंडले ॥ १२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org