________________
पद्मपुराणम् ।
त्रिपंचाशत्तम पर्व। मंदोदरी ततोऽवोचत्कोपालिंगितमानसा । अहो तव सदोषस्य प्रगल्भत्वं निरर्थकम् ॥ १०७॥ दूतत्वेनागतं सीतां यदि त्वां वेत्ति रावणः । भवेत्प्रकरणं तत्ते जातं यन्नैव कस्यचित् ॥१०८ ॥ येनेवेन्दुनखानाथो दैवयोगेन मारितः । पुरस्कृत्य तमेवास्य कथं सुग्रीवकादयः ॥१०९ ॥ भृत्यत्वं दशवक्त्रस्य विस्मृत्य स्वल्पचेतसः । स्थिताः किमथषा कुर्युवराकाः कालचोदिताः॥ अतिमूढहतात्मानो निर्लज्जाः क्षुद्रवृत्तयः । अकृतज्ञा वृथोसिक्ताः स्थितास्ते मृत्युसन्निधौ ॥१११॥ इत्युक्ते वचनं सीता जगौ कोपसमाश्रिता । मन्दोदरि सुमंदा त्वमेवं या कथ्यसे वृथा ॥११२॥ शूरकोविदगोष्ठीषु कीय॑मानो न किं त्वया । प्रियो मे पद्मनाभोऽसौ श्रुतोऽत्यद्भुतविक्रमः ११३ वजावतें धनुष श्रुत्वा यस्य रणागमे । भयज्वरितकंपांगाः सीदन्ति रणशालिनः ॥ ११४॥ लक्ष्मीधरोऽनुजो यस्य लक्ष्मीनिलयविग्रहः । शत्रुपक्षक्षयं कर्तुं समर्थो वीक्षणादपि ॥ ११५ ॥ किमत्र बहुनोक्तेन समुत्तीर्य महार्णवम् । पतिरेष समायाति लक्ष्मणेन समन्वितः ॥ ११६ ॥ पश्यात्मीयं पतिं युद्ध स्वल्पकैरेव वासरैः । निहतं मम नाथेन जगदुत्कटतेजसा ॥ ११७ ।। एषा गतासि वैधव्यं क्रन्दस्येषा चिरोज्झिता । या त्वं पापरतेभेरनुकूलत्वमागता ॥ ११८॥ मयदैत्यात्मजा तीव्रमेवमुक्तातिकोपगा । परमं क्षोभमायाता कंपमानाऽधराधरा ॥ ११९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org