________________
३५०
पद्मपुराणम् ।
त्रिपंचाशत्तम पर्व। एका नानासपत्नीनां सहस्रः संभ्रमस्पृशम् । अष्टादशभिरत्युप्रैः कोपकंपितमूर्तिमिः ॥ १२० ॥ समं करतलैर्हन्तुमुद्यता वेगधारिभिः । निर्भर्त्सनमतिरैराक्रोशैः कुर्वती भृशम् ॥ १२१ ॥ श्रीमांस्तावन्मरुत्पुत्रः समुत्थाय जवान्वितः । अवस्थितोऽन्तरे तासां सरितामिव भूधरः ॥१२२॥ ता दुःखहेतवः सर्वा वैदेहीं हन्तुमुद्यताः । वेदना इव वैयेन श्रीशैलेन निवारिताः ॥ १२३ ॥ पादताडितभूभागा विभूषादरवर्जिताः । ययुः क्रूराशयाः सवों वनितास्ता दशाननम् ॥१२४॥ आंजनेन ततः सीता प्रणिपत्य महादरम् । विज्ञापिता सुवाक्येन भोजनं प्रति साधुना १२५ समर्थितप्रतिज्ञासौ सुनिर्मलमनोरथा । अभ्युपागच्छदाहारं कालदेशज्ञमानसा ॥ १२६ ॥ ससागरा मही देवि रामदेवस्य शासने । वर्तते तेन नैवेदमन्नं संत्यकामहसि ॥ १२७ ॥ एवं हि बोधिता तेन वैदेही करुणावनिः । ऐच्छदनं यतः साध्वी सर्वाचारविचक्षणा ॥१२८॥ इरा नाम ततस्तेन चोदिता कुलपालिता । यथानं प्रवरं श्लाघ्यं द्रुतमानीयतामिति ॥ १२९ ।। मुक्ता कन्या स्वशिविरं श्रीशैलेन क्षपाक्षये । भानावभ्युदिते जातो विभीषणसमागमः ॥१३०॥ आहारो वायुपुत्रेण तत्र भुक्तो मनोहरः । एवं कर्तव्ययोगेन मुहूर्तास्ते त्रयो गताः ॥ १३१॥ मुहूर्तेऽथ चतुर्थे नु समानीतमिरास्त्रिया । आहारं मैथिलीभुक्तमिति जानन्ति कोविदाः ॥१३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org