________________
पद्मपुराणम् ।
षडविंशतितमं पर्व।
कन्यया मुदितश्चौरः पिंगलो धनवर्जितः । न विभाति यथा लोभी तृष्णया धर्मवर्जितः ॥१२॥ विदग्धनगरं चापदुर्गमं परराष्ट्रिणां । वहिः कृत्वा कुटी तत्र तस्थौ निस्वकपाटकः ॥ १३ ॥ ज्ञानविज्ञानरहितस्तृणकाष्ठादिविक्रयात् । अनुरक्षति तां पत्नी मनो दारिद्रयसागरे ॥ १४ ॥ पुत्रः प्रकाशसिंहस्य परराष्ट्रभयंकरः । जातोत्र प्रवरावल्यां राजा कुंडलमंडितः ॥ १५ ॥ तेन दृष्टान्यदा बाला निर्यातेन कथंचन । हतश्च पंचभिर्वाणैर्मारस्याभूत्सुदुःखितः ॥ १६ ॥ प्रच्छन्नं प्रेषिता दूती तया रात्रौ नृपालयं । यथासीत्कमलामेला सुमुखस्य प्रवेशिता ॥ १७ ॥ तया सह सुखं रेमे प्रीतः कुंडलमंडितः । उर्वश्या सह संरक्तो यथासीन्नलकूवरः ॥ १८ ॥ ततः स पिंगलाख्योऽपि श्रांतः स्वगृहमागमत् । तामपश्यद्विशालाक्षी मन्नो वैधुर्यसागरे ॥१९॥ विस्तीर्णेन किमुक्तेन सोयं विरहदुःखितः । न कचिल्लभते सौख्यं चक्रारुद इवाकुलः ॥२०॥ हृतभार्यो द्विजो दीनस्तं राजानमुपागमत् । ऊचे चान्विष्य मे राजन् पत्नी केनापि चोरिता २१ भीषितानां दरिद्राणामार्तानां च विशेषतः । नारीणां पुरुषाणां च सर्वेषां शरणं नृपः ॥२२॥ अमात्यं धृतमाहूय समायं पार्थिवोऽब्रवीत् । चिराय मा कृथा माम जायाऽस्यान्विष्यतामिति २३ जगादेति च तत्रैकः सविकारेण चक्षुषा । सा दृष्टा पथिकैर्देव पौदनस्थानवत्मनि ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org