SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । રકરૂ त्रिचत्वारिंशत्तम पर्व । श्रुत्वा तद्वचनं तस्यास्त्रपया परिवर्जितं । परस्परं समालोक्य स्थितौ तूष्णीं नरोत्तमौ ॥१०९ ।। सर्वशास्त्रार्थबोधांबुक्षालितं हि तयोर्मनः । कृत्याकृत्यविवेकेषु मलमुक्तं प्रकाशते ॥ ११ ॥ निर्मुक्तदुःखनिश्वासं गच्छामीति तयोदिते । पद्मनाभादिभिः सोक्ता यथेष्टं क्रियतामिति १११ तस्यां प्रयातमात्रायां तदाशालीनताहृतौ । ससीती विस्मितौ वीरौ स्मेरवक्त्रौ बभूवतुः ।।११२॥ अंतर्हित्य च संक्रुद्धा समुत्पत्य त्वरावती । याता चंद्रनखा धाम निजं शोकसमाकुला ॥११३॥ शोभयापहृतस्तस्या लक्ष्मणस्तरलेक्षणः । पुनरालोकनाकांक्षो विरहादाकुलोऽभवत् ॥ ११४ ।। उत्थायाज्ञाय देशेन रामदेवसकाशतः । अटवीं पादपद्माभ्यां बभ्रामान्वेषणातुरः ॥ ११५ ॥ अचिंतयच्च खिनात्मा वाष्पव्याकुललोचनः । आत्मन्यनादृतप्रीतिरिति तत्प्रेमनिर्भरः ॥ ११६ ॥ रूपयौवनलावण्यगुणपूर्णा घनस्तनी । मदनाविष्टनागेंद्रवनितासमगामिनी ॥ ११७ ॥ आयांत्येव सती कस्मादृष्टमात्रा न सा मया । स्तनोपपीडनाश्लेषं परिरब्धा हतात्मना ।।११८॥ आयोग मे हुतं चेतश्युतं कर्तव्यवस्तुनः । सांप्रतं शोकशिखिना दह्यते मे निरंकुशं ॥ ११९ ॥ जाता सा विषये कस्मिन् कस्य वा दुहिता भवेत् । यूथभ्रष्टा मृगीवेयं कुतः प्राप्ता सुलोचना ॥ संचित्पति कृतभ्रांतिस्तामपश्यत्समाकुलः । मेने वदनमाकाशपुष्पतुल्यं समंवतः ।। १२१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy