SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४२७ चतुःषष्टितम पर्व । सैतस्मिन्नगरे देशे भरते वा महागुणा । पूर्वकर्मानुभावेन संजाताऽत्यन्तमुत्तमा ॥ ९७ ॥ परमं स्नानवादीदं तेन तस्या महागुणम् । सोपसर्ग कृतं पूर्व तया येन महातपः ।। ९८ ।। अनेन वारिणाऽमुस्मिन्देशेऽयं विषमोऽनिलः । महारोगकरो जातः क्षयं शासितविष्टपः ॥९९ ॥ कुतोऽयमीदृशो वायुरिति पृष्टेन भाषितम् । मुनिना भरतायैवं तदा कौतुकयोगिने ।। १०० ॥ गजाहानगरादत्य विंध्यो नामा महाधनः । अयोध्यां सार्थवाहेशः खरोष्ट्रमहिषादिभिः ॥१०१॥ मासानेकादशामुष्यां सन्नगयोमसौ स्थितः । तस्यैकमहिषस्तीव्ररोगभारेण पीडितः ॥१०२ ॥ पुरमध्ये महादुःखं कृत्वा कालं व्रणान्वितः । अकामनिर्जरायोगाद्देवभूयमशिश्रियत् ॥ १०३ ॥ जातो वायुकुमारोऽसावश्वकेतुर्महाबलः । बाह्यावर्त इति ख्यातो वायुदेवमहेश्वरः ।। १०४ ॥ श्रेयस्करपुरः स्वामी रसातलगतो महान् । असुरो भासुरः क्रूरो मनोयातक्रियासहः ॥ १०५ ॥ अज्ञासीत्सावधिज्ञानः प्राप्तपूर्वपराभवम् । सोऽहं महिषकोऽभूवं प्राप्तोऽयोध्यां तदा वणी ॥१०६॥ क्षुत्तष्णापरिदिग्धांगो महारोगनिपीडितः । रथ्याकर्दमनिमग्नस्ताडितो जनसंपदा ॥ १०७ ॥ कृत्वा मे मस्तके पादं तदाभ्यासीज्जनोऽखिलः । पतितस्य विचेष्टस्य निर्दयो विड्मलांचितम् ॥ अचिरान्निग्रहं घोरं तस्य चेन्न करोम्यहम् । अनर्थकं सुरत्वं मे तदेवं जायते महत् ॥ १०९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy