________________
६३
पद्मपुराणम् ।
त्रिंशत्तम पर्व। इत्युक्ते विस्मयं प्राप्ता सर्वा वैद्याधरी सभा । चंद्रायणश्च संविमो न्यस्य भामंडले श्रियं ॥१११॥ माता पिता च ते वत्स दुःखं शोकेन तिष्ठति । तयोर्नेत्रोत्सवं यच्छेत्येवमुक्त्वा समागतः॥११२॥ जातस्य नियतो मृत्युस्ततो गर्भस्थितिः पुनः । इति भीतो भवादेष चंद्रः प्राज्यमाप्तवान् ११३ अत्रांतरे विदेहाजः संशयं परिपृच्छति । स्नेहश्चंद्रायणादीनां मयि कस्मात्परः प्रभो ॥ ११४ ॥ ततः सर्वहितोऽवोचन्निबोध द्युतिमंडलः । यथा पिता च माता च तव पूर्वभवे स्थितौ ॥११५॥ दास्यामे तु विप्रोभूद्विमुचिस्तस्य भामिनी । अनुकोशातिभूतिश्व तनयः सरिसा स्नुषा ॥११६॥ ऊर्या मात्रा सहप्राप्तः कयानाख्योऽन्यदा द्विजः । अहरत्सरसां सारं धनमंतर्गतं च यत् ११७ अतिभूतिश्च तद्धेतोः शोकी बधाम मेदिनीं । ततो निष्पुरुषे गेहे शेषं स्वमपि लुंठितं ॥१८॥ विमुचिर्दक्षिणाकांक्षी देशांतरगतः पुरा । श्रुत्वा कुलकुटं भग्नं निवृत्तस्त्वरयान्वितः ॥ ११९ ॥ तीर्णवस्त्रावशेषांगामनुकोषां सुविह्वलां । सांत्वयित्वा तया सार्धमुर्गा चान्वेष्टुमुद्यतः ॥ १२० ॥ प्रजाभिः पृथिवीपृष्ट कथ्यमानं समंततः । अवधिज्ञानकरणैर्जगद्येनावभासितं ॥ १२१ ॥ तमाचार्य परिप्राप्तः पुरे सर्वारिनामनि । प्रष्टुं किल महाशोको नष्टचित्तस्तुषात्मजः ॥ १२२ ॥ दृष्टा गणेश्वरीमृद्धिं श्रुत्वा च विविधां स्थितिं । तीव्र संवेगमासाद्य विमुचिमुनितां गतः १२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org