SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३३० एकपचाशत्तम पर्व। दुर्जने विजने राजत्साधुयुग्मं नभश्वरम् । अष्टाहं लंबितभुजं योगमुग्रमुपाश्रितम् ॥ ८ ॥ तस्य कोशचतुर्भागमात्रदेशे व्यवस्थिताः । मनोज्ञनयनाः कन्याः सितवस्त्रा जटाधराः ॥ ९॥ तप्यन्ते विधिवद्घोरं तपस्तिस्रः सुचेतसः । शोभालोकत्रयस्येव नवभूषणतां गतः ॥ १० ॥ अथासौ साधुयुगलं ग्रस्यमानं महाग्निना । अंजनातनयोऽपश्यत्पादपद्वयनिश्चलम् ॥ ११ ॥ असमाप्तव्रताः ताश्च कन्याः लावण्यपूरिताः । उद्गममजालेन स्पृष्टा वहलवर्तिना ॥ १२ ॥ अथातस्थौ सुनिर्गन्थौ युक्तयोगी शिवस्पृहौ । त्यक्तारागादिसंगेच्छौ निरस्तांशुकभूषणौ ॥१३॥ प्रलंबितमहाबाहू प्रशान्तवदनाकृती । युगान्तापितसदृष्टी प्रतिमास्थानमाश्रितौ ॥ १४ ॥ मृत्युजीवननिःकांक्षावनघौ शान्तमानसौ । समप्रियाप्रियासंगौ समपाषाणकांचनौ ॥ १५ ॥ दानेन महता राजन् तेनात्यासन्नातिना । अभिभूतौ समालोक्य वात्सल्यं कर्तुमुद्यतः ॥ १६ ॥ आकृष्य सागरजलं मेघहस्तः ससंभ्रमः । अवर्षदुन्नतो व्योनि परमं भक्तिसंगतः ॥ १७ ॥ सुभृशं तेन वह्निः सं-वारिपूरेण नाशितः । महाक्रोध इवोद्भुतः क्षांतिभावेन साधुना ॥ १८ ॥ यावच्च कुरुते पूजां भक्त्या पवननंदनः। तयोभेदंतयोनोनापुष्पादिद्रव्यसंपदा ॥ १९ ॥ ताकत्ताः सिद्धसंसाध्या मेरुं कृत्वा प्रदक्षिणम् । तत्सकाशमनुप्राप्ताः कुमार्यः सुमनोहराः॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy