________________
पद्मपुराणम् ।
८३
एकत्रिंशत्तमं पर्व ।
अहो महानुभावोयं ज्यायान् पुरुषसत्तमः । मुनेरपीदृशं स्वांतं दुष्करं जातु जायते ॥ १९४ ॥ किमयैव करोम्यन्यां सृष्टिमुत्सृज्य दुर्जनात् । भरतस्य बलादाहो करोमि विमुखां श्रियं ॥। १९५ ।। विधातुमथ सामर्थ्य भनज्मि चिरमूर्जितं । निरुद्धयापादयोर्ज्येष्ठं करोमि श्रीसमुत्सुकं ॥ १९६ ॥ न युक्तमथवा चित्तं जातको धानुगस्य मे । क्रोधः करोति मोहांधमपि दीक्षामुपाश्रितं ॥ १९७ ॥ किमनेन विचारेण कृतेनानुचितेन मे । ज्येष्ठस्तातश्च जानाति सांप्रतासांप्रतं बहु ॥ १९८ ॥ सितकीर्तिसमुत्पत्तिर्विधातव्या हि नः पितुः । तूष्णीमेवानुगच्छामि ज्यायसं साधुकारिणं ॥ १९९ ॥ प्रशमय्य स्वयं को पमित्यादाय शरासनं । प्रशाम्यापृच्छ्य चाशेषं जनं गुरुपुरस्सरं ॥ २०० ॥ महाविनयसंपन्नौ मार्गयोग्यकृताकृतिः । लक्ष्मीनिलयवक्षस्कः पद्मस्यानुपदं ययौ । २०१ ॥ पितरौ परिवर्गेण सहितौ तनयान्वितौ । वर्षेव कुर्वाणौ तौ धाराभिर्नयनांभसा ॥ २०२ ॥ परिसांत्वनसूरिभ्यां प्राप्ताभ्यां निश्चयं परं । कृच्छान्निवर्तितौ ताभ्यां प्राणिपत्य पुनः पुनः॥ २०३ ॥ निर्वृत्यमानबंधूनां समूहेनान्विताविमौ । राजगेहाद्विनिक्रांतौ देवाविव सुरालयात् ॥ २०४ ॥ वर्तते किमिदं मातः कस्येदं व्रतमीदृशं । अभाग्येयं पुरी कष्टमथवा सकला मही ॥ २०५ ॥ यामोऽनेन समं दुःखमेताभ्यां सह गम्यते । महाशक्ताविमौ कृच्छ्राद्धरणीधरगहरात् || २०६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org