SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३९७ षष्टितम पर्व। ततो नष्टेषु सर्वेषु सामन्तेषु यथायथम् । अपश्यद्रावणं वातिरेव स्थितमग्रतः॥४३॥ आरुह्य च रथं सिंहैर्युक्तं परमभासुरैः । अधावद्वाणमुद्धृत्य विंशत्यर्द्धमुखं प्रति ॥ ४४ ॥ दशास्यस्त्रासितं वीक्ष्य निजं केसरिभिर्बलम् । समीपं चांजनासूनुं कृतान्तमिव दुद्धरम् ॥ ४५ ॥ चके योद्धभभिप्रायं यावत्सनाहतत्परः । तावन्महोदरोऽस्यान्ते सक्रोधेन समुद्ययौ ॥ ४६॥ महोदरस्य च वातेश्च वत्तेते यावदाहवः । तावत्ते हरयः प्राज्ञेगहीताः स्वामिभिः शनैः ॥४७॥ वशीभूतेषु सिंहेषु जाता सन्तो महारुषः । वायुपुत्रं समुत्पेतुः समस्ता राक्षसध्वजाः ॥४८॥ तथाप्यनिलसूनोश्च मुंचतः शरसंहतीः । दधार मंडलीभूतान् पतत्रिसचिवैः कृती ॥४९॥ ते शिलीमुखसंघाताः प्रहितास्तस्य राक्षसैः। संयतस्य यथाऽऽक्रोशा नाभवन्कंपकारिणः । ५०॥ रक्षोभिर्वेष्टितं दृष्टा तैस्तमतिभूरिभिः । इमे वानरवर्गीणाः समराय समुधुयुः ॥५१॥ सुषेणो नलनीलौ च प्रीतिंकरो विराधितः । संत्राहको हरिकोटिः सूर्यज्योतिर्महाबलः ॥ ५२ ॥ जांबूनदसुताद्याश्च सिंहेभाश्वयुतैः रथैः । कृच्छ्राद्रावणसैन्यस्य निवारयितुमुद्यताः॥५३ ॥ तैः समापतितैः सैन्यं दशग्रीवस्य सर्वतः । परीषहैरिव ध्वस्तं महातुच्छधृतं व्रतम् ।। ५४ ॥ आत्मीयानाकुलान् दृष्ट्वा युयुत्सुं च दशाननम् । आदित्यश्रवणो योद्धमुद्गतो सुमहाबलः ॥५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy