SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३९५ षष्टितम पर्व । विधिर्वितापिनाऽन्योन्यमेवं जाते महाहवे । भटेष्वज्ञातसंज्ञेषु निपतत्सूपलेष्विव ॥ १७॥ शार्दूलस्ताडितः पूर्व वज्रोदरमताडयत् । सक्रोधं सुचिरं युद्धं क्षपितारिरमारयत् ॥ १८ ॥ विशालद्युतिनामा च शंभुना विनिपातितः । मृत्यु स्वयंभुवा नीतो विजयो यष्टिताडितः ॥१९॥ वितापिविधिना ध्वस्तो गदाघातेन कृच्छ्रतः । सामन्तैरिति हन्यन्ते सामन्ताः शतशस्तदा ॥२०॥ अवसीदत्ततो दृष्ट्वा स्वं किष्किन्धपतिर्बलम् । परमक्रोधसंभारो यावत्संन्न मुद्यतः ॥ २१ ॥ अंजनातनयस्तावत्तत्स्वसैन्येन युग्महीम् । वारणोढं रथं हेममारूढो योद्धुमुद्ययौ ॥ २२ ॥ रक्षःसामंतसंघातो दृष्दैव पवनात्मजम् । गवामिव गणो भ्रान्तस्त्रस्तः केशरिदर्शनात् ॥ २३ ॥ ऊचुश्च राक्षसाः सोयं हनूमान् वानरध्वजः । अद्यैव विधवा योषाः परं वहीः करिष्यति ॥२४॥ माली तस्साग्रतो भूतो युद्धार्थी राक्षसोत्तमः । समुद्भुतत्य शरं तस्य पुरो वातिरजायत ॥ २५ ॥ तयोरभून्महाद्धं शरैराकणेसंहितैः । उपात्तसाधुनिस्वान क्रमेण परमोद्धतम् ॥ २६ ॥ सचिवाः सचिवैः साकं रथिनो रथिभिस्तथा । सादिनो सादिभिः सत्रा लग्ना युक्तरणोद्धताः॥२७॥ मालिनं नष्टमालोक्य शक्त्या पवनजन्मनः । वज्रोदरोऽभवत्तस्य पुरः परमविक्रमः ।। २८ ।। चिरं कृतरणोऽथायं वातिना विरथीकृतः । रथमन्यं समारुह्य मारुतिं समधावत ॥ २९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy