________________
२८२
पद्मपुराणम् ।
षट्चत्वारिंशत्तम पर्व। सुग्रीवं कैष्कुनगरमन्यांश्च भटपुंगवान् । वहिस्थापयतोद्युक्तानगर्या रक्षकारिणः ॥ २१९ ॥ एवंकृते न ते भेदं जानन्ति वहिराहिताः । कार्ये नियोगदानाच्च जानन्ति स्वामिनं प्रियम् २२० एवं दुर्गतरे जाते कार्ये सर्वत्र सर्वतः । को जानाति हृतां सीतां स्थितामत्रापरत्र वा ॥ २२१ ॥ रहितश्चानया रामो ध्रुवं प्राणान् विमोक्ष्यति । यस्येयमीदृशी कान्ता वर्तते विरहे प्रिया ॥२२२॥ रामे च पंचतां प्राप्ते शोकविक्लवमानसः । एकाकी क्षुद्रयुक्तो वा सौमित्रिः किं करिष्यति॥२२३॥ अथवा रामशोकेन मरणं तस्य निश्चितम् । दीपप्रकाशयोर्यद्वदनयोः संगतं परम् ।। २२४ ॥ अपराधाब्धिमनः सन् यास्यति क विराधितः । सुग्रीवस्यापि वाश्वंतं श्रयते लोकतः परम् ।।२२५॥ मायां सुग्रीवसंदेहकारिणीं यश्च नाशयेत् । दशवक्रेश्वरादस्य कोसौ लोके भविष्यति ॥ २२६ ।। तस्मात्तद्दुर्गसंसिद्धौ सनाथं भजतेतराम् । योगवायं विभोर्वाद परिणामे शुभावहः ।। २२७ ॥ प्रकारेणामुना शत्रूनेतानन्यांश्च जेष्यति । दशाननस्ततो यत्र क्रियतामत्र वस्तुनि ॥ २२८ ॥ एवं विमृश्य विद्वांसः प्रमोदान्वितमानसाः । यथास्वं निलयं जग्मुः कर्तव्यकृतनिश्चयाः॥२२९॥ विभीषणेन यंत्राद्यैः शालो दुर्गतरीकृतः । विद्याभिश्च विचित्राभिलंका गहरतारका ॥ २३० ॥
कृत्यं किंचिद्विशदमनसामाप्तवाक्यानपेक्षम् । नाप्नैरुक्तं फलति पुरुषस्योषितं पौरुषेण ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org