Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji
Catalog link: https://jainqq.org/explore/002357/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE PRABHÂVAKACHARITA OF CHANDRAPRABHASÛRI WITH CRITICAL ANALYSIS. EDITED BY Pandit HÎRÂNANDA M. SHARMA, SHASTRÎ, M. A., M. O. L. PART I. PUBLISHED BY TUKÂRÂM JAVAJÎ, PROPRIETOR, JAVAJI DADAJI'S “NIRNAYA-BAGAR" PRESO. Bombay: 1909. Price 11 Rupee. Page #2 -------------------------------------------------------------------------- ________________ [All rights reserved by the Publisher.] Registered under the Act XXV of 1867. BOMBAY : Printed by B. R. Ghanekar at the "Nirnaya-sagar" Press for the publisher. Page #3 -------------------------------------------------------------------------- ________________ चन्द्रप्रभसूरिप्रणीतं प्रभावकचरितम् । महाकविगुणदोषविवेचनात्मकम् । ८ पण्डित हिरानन्द एम्. शर्मशास्त्रिणा एम्. ए. एम्. ओ. एल्. इत्युपपदधारिणा संस्कृतम् । प्रथमो भागः मुम्बय्यां तुकाराम जावजीकृते तेषामेव निर्णयसागराख्यमुद्रालये बा. रा. घाणेकर इत्यनेन मुद्रितम् । शाके १८३१; सन १९०९. मूल्यं १॥ सार्थो रूप्यकः। Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ PREFACE. THE present edition of the Prabhâvakacharita is based on four manuscripts. Two of them were kindly borrowed for me by my friend Lala Jaswant Rai Jaini of Lahore, one from Pâtan and the other from Hoshiarpur (Punjab) Bhandara (collection )Third copy I got from a Jaina library at Jandiala (Punjab) and fourth from the Deccan College Library Poona. In the foot notes, where different readings are given, they have respectively been designated by P., H., J and D, the initial letters of the names of these towns. Unfortunately none of these manuscripts is correct, consequently this edition is far from being satisfactory. The Patan manuscript proved best and has been mostly followed. If in future I succeeded in securing more accurate copies I shall not fail to present to the literary public a revised edition of this highly interesting text or at least publish an addenda corrigenda and give corrections of the mistakes which, conjectural emendations not being resorted to, I am afraid, may be numerous. Here I must record sincere gratefulness to the said Lâla Jaswant Rai but for whose help and initiative this edition would perhaps have never appeared. LAHORE, 25-7-09. HIRANANDA. Page #6 --------------------------------------------------------------------------  Page #7 -------------------------------------------------------------------------- ________________ प्रभावकचरितविषयक्रमः। ६९ १० .. , १०३ १२३ विषयः १ श्रीवज्रप्रबन्धः ... ... २ आर्यरक्षितप्रबन्धः ... ... ३ श्रीआर्यनन्दिलप्रबन्धः ४ कालसूरिप्रबन्धः ... ५ श्रीपादलिप्तप्रबन्धः... ६ श्रीविजयसिंहसूरिप्रबन्धः ७ जीवसूरिप्रबन्धः ... ... ८ वृद्धवादिप्रबन्धः ... ... ९ हरिभद्रसूरिप्रबन्धः... १० मल्लवादिप्रबन्धः ... ११ बप्पभट्टिप्रबन्धः ... १२ मनतुंगसूरिप्रबन्धः... १३ मानदेवसूरिप्रबन्धः... १४ सिद्धर्षिसूरिप्रबन्धः... १५ श्रीवीरप्रबन्धः ... १६. शान्तिसूरिप्रबन्धः १७ महेन्द्रसूरिप्रबन्धः १८ सूराचार्यप्रबन्धः १९ अभयदेवप्रबन्धः ... २० वीरप्रबन्धः ... २१ देवसूरिप्रबन्धः ... २२ हेमचंद्रसूरिप्रबन्धः.... ... • १२८ १८० . १९१ ... .२०६ :... २१७ २२४ : ... २४५ २६१ २७२ २७८ Page #8 --------------------------------------------------------------------------  Page #9 -------------------------------------------------------------------------- ________________ प्रभावकचरितम्। ॐ नमो भगवते श्रीपार्श्वनाथाय । __ श्रीवज्रप्रबंधः । अर्हत्तत्त्वं स्तुमो विश्वशासनोन्नतिकारकम् । यत्प्रसादेन पूर्वेऽपि महोदयपदं ययुः॥१॥ श्रीसर्वमंगलोल्लासी वृषकेतुरंनङ्गभित् । शंभुर्गणपतिस्तीर्थनाथ आद्यः पुनातु वः ॥२॥ हरिणाङ्को नभोगश्रीर्जनतापापहारकः। महाबलः प्रभुः शान्तिः पातु चित्रं ध्रुवं स्थितिः॥३॥ दशावतारो नः पायात्कमनीयाअनद्युतिः। किं श्रीपतिः प्रदीपः किं न तु श्रीपार्श्वतीर्थकृत् ॥४॥ यद्गोव्रजश्चरन् भव्यगोचरे पात्रपूरकः । श्रेयःपीयूषतः पातु वर्धमानः स गोपतिः॥५॥ सा पूर्वागमितामोदा सुमनोर्ध्या सरस्वती । बहुपादोदया न्यस्ता येन तं गौतमं स्तुवे ॥६॥ संपत्तिः सत्पदार्थानां यत्प्रसादात्प्रजायते । जीवसंजीवनीं नौमि भारती च श्रियं च ताम् ॥ ७॥ यहत्तैकार्थरूपस्य वृद्धिः कोटिगुणा भवेत् । श्रीचन्द्रप्रभसूरीणां तेषां स्यामनृणः कथम् ॥ ८॥ सज्जनः स कथं विष्णुर्योऽलीकादरतत्परः। परावर्ण गुणीकृत्य दोषोद्योगं दधाति नः॥९॥ असन्तः किमुत स्तुत्याः स्तुत्यां ये नादृताः परम् । दीपयन्ति कृताभ्यासाः क्षणवीक्षणतः क्षणे ॥१०॥ कलौ युगप्रधानः श्रीहेमचन्द्रप्रभुः पुरा । श्रीशलाकानृणां वृत्तं प्रास्तावीनृपबोधकृत् ॥ ११ ॥ श्रुतकेवलिनां षण्णां दशपूर्वभृतामपि। श्रीवज्रस्वामिवृत्तं च चरितानि व्यधत्त सः॥१२॥ १ P gives ओं नमः श्रीजिनाय ॥ श्रीउपाध्यायमुनिसागरपरमगुरुभ्यो नमः ॥ instead. २J & H read रङ्गभित्. ३P reads पातुश्चित्रं ध्रुवस्थितिः. ४ J and H read या पूर्वी गमिता गोदा सुमतोा सरस्वती । बहुपादैर्देयान्यस्ता येन तं गौतमं स्तुवे ॥ ५ P reads जिष्णु. ६ P reads कलौयुगप्रधानश्रीहेमचन्द्रः. ७ Refers to त्रिषष्टिशलाकापुरुषचरित्रम् by Hemachandra. Page #10 -------------------------------------------------------------------------- ________________ प्रभावकचरिते ध्याततन्नाममन्त्रस्य प्रसादात्प्राप्तवासनः। आरोक्षन्निव हेमाद्रिं पादाभ्यां विश्वहास्यभूः ॥१३॥ श्रीवज्रानुप्रवृत्तानां शासनोन्नतिकारिणाम् । प्रभावकमुनीन्द्राणां वृत्तानि कियतामपि ॥१४॥ बहुश्रुतमुनीशेभ्यः प्राग्ग्रन्थेभ्यश्च कानिचित् । उपश्रुत्येतिवृत्तानि वर्णयिष्ये कियन्त्यपि ॥ १५॥ विशेषकम् । श्रीदेवानन्दशैक्षश्रीकनकप्रभशिष्यराट् । श्रीप्रद्युम्नप्रभुर्जीयाद्रन्थस्यास्यापि शुद्धिकृत् ॥ १६ ॥ श्रीवज्रो रक्षितः श्रीमानार्यनन्दिल इत्यपि । सूरि:श्रीकालिकाचार्यपादलिप्तप्रभुस्तथा ॥ १७ ॥ रुद्रदेवः प्रभुः सूरिः श्रमणसिंह इत्यपि । अथार्यखपटः सूरिर्महेन्द्रश्च प्रभावकः ॥१८॥ सूरिर्विजयसिंहश्च जीवदेवमुनीश्वरः। वृद्धवादी सिद्धसेनो हरिभद्रप्रभुस्तथा ॥ १९ ॥ मल्लवादिप्रभुर्बप्पभट्टिः कोविदवासवः । श्रीमानतुंगसूरि श्रीमानदेवो मुनीश्वरः ॥२०॥ सूरिश्च सिद्धव्याख्याता श्रीमान् वीरगणिप्रभुः। वादिवेतालबिरुदः शान्तिसूरिः प्रभुस्तथा ॥ २१ ॥ श्रीमान्महेन्द्रसूरिः श्रीधनपालेन संगतः। सूराचार्यप्रभुः श्रीमान्कृतभोजसभाजयः ॥२२॥ श्रीमानभयदेवश्च वीराचार्यः कवीश्वरः। देवसूरिर्गुरुः श्रीमान्हेमचन्द्रप्रभुस्तथा ॥ २३॥ सप्तभिः कुलकम्। मादृशोऽल्पमतिः कीदृगेतेषां गुणकीर्तने । कलध्वनि सितास्वादे मूकोऽपि कुरुतेऽथवा ॥२४॥ एतच्चरितशाखिभ्यः संमील्य सुमनश्चयम् । तवृत्तमालामुद्दामा गुम्फिष्यामि गुरोगिरा ॥ २५॥ निधिः सौभाग्यभाग्यस्य नाम यस्यादिमङ्गलम् । वज्रवामिविभोः पूर्व वृत्तं तस्य मयोच्यते ॥२६॥ अस्त्यवन्तीतिदेशः क्षमासरसीसरसीरुहम्। यहुणग्रामरङ्गेण बद्धसख्ये रमागिरौ ॥२७॥ तत्र तुम्बवनो नाम निवेशः क्लेशवर्जितः। अभूवन्यस्य वासाय नाकिनोऽप्यभिलाषुकाः ॥ २८ ॥ तत्र श्रेष्ठी धनो नाम कामधुकल्पपादपौ। अमानमानयद्दानजितौ त्रिदिवमाश्रितौ ॥ २९ ॥ १ P reads शिष्य. २ P reads प्रभोः. Page #11 -------------------------------------------------------------------------- ________________ वज्रप्रबन्धः । AU तस्यार्थिजनदौःस्थित्यमुस्तोच्छेदमहाकिरिः । पुत्रो धनगिरि म कामप्रतिमविग्रहः ॥ ३०॥ आबाल्यादप्यबाल्याभविवेकच्छेकमानसः। नाभिलाषी परिणये प्रणयेन महात्मनाम् ॥ ३१ ॥ धनपालाख्यया तत्र व्यवहारी महाधनः। यल्लक्ष्मीवीक्षणाल्लक्ष्मीपतिराविक्षदम्बुधिम् ॥ ३२॥ तस्यार्यसमितः पुत्रः सुनन्दा च सुताभवत् । तयोः समागमस्तत्र लक्ष्मीकौस्तुभयोरिव ॥ ३३ ॥ सुनन्दा यौवनोद्भेदमेदुराङ्गी विलोकयन् । वरं धनगिरिं दध्यौ तत्पिता गुणगौरवात् ॥ ३४॥ तत्सुतः समितो गेहवासेऽपि यतिवद्वसन् । यायावरेषु भोगेषु वैराग्यं परमं दधौ ॥ ३५॥ श्रुतश्रीखण्डमलयगिरेः सिंहगिरेः प्रभोः। स दीक्षामग्रहीत्पाा पार्श्वे निर्वृतिवेश्मनः ॥ ३६॥ अन्यदा धनपालश्च प्रोचे धनगिरिं सुधीः। सागरस्येव रेवास्तु सुनन्दा ते परिग्रहे ॥ ३७॥ स प्राह ज्ञाततत्त्वार्थों भवतां भवचारके। सुहृदां सहृदां किं स्याद्वन्धनं कर्तुमौचिती ॥ ३८ ॥ प्रोवाच धनपालोऽपि पुरा श्रीऋषभप्रभुः। तृणवद्भोगकर्मेदं भुक्त्वा मुक्तो भवार्णवात् ॥ ३९ ॥ न चानुचितमेतत्तन्मानिन्मानय मद्गिरम् । मानसेऽतिविरक्तेऽपि मेने तत्प्रश्रयाच्च सः॥४०॥ उदुवाह शुभे लग्ने स (तु) तां सततोत्सवैः । अनासक्तः स विषयान्वुभुजे मर्त्यदुर्लभान् ॥ ४१ ॥ स वैश्रमणजातीयसमानिकसुरोऽन्यदा । अष्टापदाद्रिशृङ्गे यः प्रत्यबोधीन्द्रभूतिना ॥ ४२ ॥ सुनन्दाकुक्षिकासारेऽवतीर्णः स्वायुषः क्षये। प्राक्प्रेरणा दत्तसुस्वप्नैरस्वप्नै रहितो दृढम् ॥४३॥ युग्मन् । ततो धनगिरिर्धन्यंमन्योऽवसरलाभतः । अपृच्छत व्रते पत्नीं तुष्टां पुत्रावलम्बनात् ॥४४॥ जरद्रज्जुमिव प्रेमबन्धं छित्त्वा स सत्वरम् । तत्रायातस्य तत्पुण्यैः पार्श्वे सिंहगिरेर्ययौ ॥ ४५ ॥ व्रतं तत्राददे लोचपूर्व सामयिकोत्तरम् ।। दुस्तरं स तपस्तप्यमानोऽप्रीयत चानिशम् ॥ ४६॥ १ P सामानिक. Page #12 -------------------------------------------------------------------------- ________________ प्रभावकचरिते पूर्णे कालेऽन्यदासूत सुनन्दा सुतमुत्तमम् । तेजोभी रत्नदीपानामपि सापल्यदुःखदम् ॥४७॥ निजैः प्रवर्तितस्तत्र पुत्रजन्मोत्सवो मुदा। यदीक्षणादनिमिपा दधुः स्वं नाम सार्थकम् ॥४८॥ अजल्पत्तत्र कोऽप्यस्य प्रावाजिप्यन्न चेत्पिता। महेऽधिकतरो हर्षस्ततोऽत्र समपत्स्यत ॥ ४९॥ प्राच्यदेवभवज्ञानांशेन संजीव नन्दनः । दध्यावहो महापुण्यो मत्पिता संयमग्रहात् ॥ ५० ॥ ममापि भवनिस्तारः संभवी संयमाद्यदि । अत्रोपायं व्यमृक्षञ्च रोदनं शैशवोचितम् ॥५१॥ अनेकोल्लापनस्नानदेहसंवाहनादिभिः । गजाश्वकाविवीक्षाभिरपरैरपि कौतुकैः ॥ ५२ ॥ भृशं प्रलोभ्यमानोऽपि न तस्थौ स क्षणं सुखम् । कथं वदति यो जाग्रच्छेते कैतवनिद्रया ॥ ५३॥ युग्मम् ध्यौ मातापि सोमश्रीवत्स आप्यायको दृशाम् । यदुच्चकैरवक्लेशप्रदस्तद्धि दुनोति माम् ॥ ५४ ॥ एवं जग्मुश्च षण्मासाः षड्वर्षशतसंनिभाः। तन्निवेशनमागाच्च तदा सिंहगिरिर्गुरुः ॥ ५५॥ तत्र गोचरचर्यायां विशन्धनगिरिमुनिः। गुरुणा दिदिशे पक्षिशब्दज्ञाननिमित्ततः॥५६॥ अद्य यद्रव्यमाप्नोषि सचित्ताचित्तमिश्रकम् । ग्राह्यमेव त्वया सर्व तद्विचारं विना मुने ॥ ५७॥ तथेति प्रतिपेदानस्तदार्यसमितान्वितः । सुनन्दासदनं पूर्वमेवागच्छदतुच्छधीः ॥ ५८ ॥ तद्धर्मलाभश्रवणादुपायातः सखीजनः। सुनन्दां प्राह देहि त्वं पुत्रं धनगिरेरिति ।। ५९ ॥ सापि निर्वेदिता बाढं पुत्रं संगृह्य वक्षसा। नत्वा जगाद पुत्रेण रुदता खेदितास्मि ते ॥ ६० ॥ गृहाणेनं ततः स्वस्य पार्श्वे स्थापय चेत्सुखी । भवत्यसौ प्रमोदो मे भवत्वेतावतापि यत् ॥ ६१ ॥ स्फुटं धनगिरिः प्राह ग्रहीष्ये नन्दनं निजम् । परं स्त्रियो वचः पंगुवन्न याति पदात्पदम् ॥ ६२॥ क्रियन्तां साक्षिणस्तत्र विवादहतिहेतवे । अद्यप्रभृति पुत्रार्थे न जलप्यं किमपि त्वया ॥ ६३ ॥ अतिखिन्ना च सावादीदत्रार्यसमितो मुनिः। साक्षी सख्यश्च साक्षिण्यो भाषे नातः किमप्यहम् ।। ६४॥ Page #13 -------------------------------------------------------------------------- ________________ वज्रप्रबन्धः । अजातवृजिना बन्धपात्रबन्धे नियोज्य तम् । विरतं रोदनात्तुष्टिपुष्टं संदर्य तत्पुरः॥६५॥ बहिःकृतान्तरारातिर्बहिः कृत्वा गृहाङ्गणात् । भज्यमानभुजस्तस्य भारादागाहुरोः पुरः॥६६॥ युग्मम् । आयान्तं भुग्नमात्रं तं वीक्ष्य संमुखमाययुः। तद्वाहोः पात्रबन्धं च गुरवः खकरे व्यधुः॥६७॥ वज्रोपमं किमानीतं त्वयेदं मम हस्तयोः। भारकृन्मुमुचे हस्तान्मयासौ निजकासने ॥ ६८॥ इत्युक्त्वा च समैक्षन्त गुरवस्तं शशिप्रभम् । साध्वास्यचन्द्रकान्तानां सुधास्त्रावनिबन्धनम् ॥ ६९॥ गुरुश्च वज्र इत्याख्यां तस्य कृत्वा समा(मर्पयत् । साध्वीपाच्छिाविकाणां व्यहादिन्यतस्ततः॥ ७॥ गुरुभक्त्याथ तद्भाग्यसौभाग्याच्च वशीकृताः। धर्मिनार्यः क्षीरपानमुख्यशुश्रूषणैः शिशुम् ॥ ७१ ॥ प्रावर्धयन्निजापत्याधिकवात्सल्यकेलितः। साध्वीनामाश्रये रात्रौ वस्त्रदोलाशयं मुदा ॥ ७२ ॥ युग्मम् । तत्र स्थितो वितन्द्रः सन्नङ्गान्येकादशाप्यसौ। साध्वीभिर्गुण्यमानानि निशम्याधिजगाम सः ॥७३॥ ततो विशेषिताकारं तदीयपरिचर्यया । तत्रायाता सुनन्दापि तं निरीक्ष्य दधौ स्पृहाम् ॥ ७४॥ प्रार्थयश्चाथ ताः साध्वी सुतं मे ददतेति सा। ऊचुस्ता वस्त्रपात्राभा गुरुस्थापनिका ह्यसौ ॥७५॥ कथं शक्योऽर्पितुं बालस्तस्मादत्रस्थ एव सन् । लाल्यः परं गृहे नेयो न गुर्वनुमतिं विना ॥ ७६॥ अन्यदा गुरवः प्रापुस्तत्पुरं तजनन्यपि । नन्दनं प्रार्थयामास गृहिवत्पत्युरन्तिके ॥ ७७॥ स च प्राह नृपादेश इव सन्मर्त्यवागिव ।। कन्याप्रदानमिव च महतामेकशो वचः॥ ७८॥ गृहीतमुक्तं जायेत नो बालपरिधानवत् । एवं विमृश्य धर्मक्षे नो वा सन्त्यत्र साक्षिणः ॥ ७९ ॥ निर्विचाराग्रहा साप्यवलेपं न त्यजेद्यदा। संघप्रधानपुरुषैः पर्यच्छेदि सुभाषितैः ॥ ८० ॥ तत्राप्यमानयन्ती सा गता राज्ञः पुरस्तदा। यतयश्च समाहूताः संघेन सह भूभृता ॥८१॥ १ P अजातव्रजिनां बंधः. २ P reads गत्वा. ३ H and J read तः. Page #14 -------------------------------------------------------------------------- ________________ प्रभावकचरिते धर्माधिकरणे युक्तैः पृष्टौ पक्षावुभावपि । अङ्गीकारं तयोः श्रुत्वा विचारे मुमुहुश्च ते ॥ ८२ ॥ एकत्र दुःप्रतीकारा माता पुत्रं प्रयाचति । अन्यत्र संघः श्रीतीर्थनाथैरपि निषेवितः ॥ ८३ ॥ विचचार स्वयं राजा स्वरुच्या नन्दनो ह्ययम् । यत्पाय याति तस्यास्तु किं परैर्बहुभाषितैः ॥ ८४ !! ततो माता प्रथमतोऽनुज्ञाता तत्र भूभृता । क्रीडनैर्भक्ष्यभोज्यैश्च मधुरैः सा न्यमंत्रयत् ॥ ८५ ॥ सुते तथास्थिते राज्ञानुज्ञातो जनको मुनिः । रजोहरणमुद्यस्य जगादानपवादगीः॥८६॥ वत्स त्वं यदि तत्त्वज्ञः संयमाध्यवसायवान् । गृहाण तदिदं कर्म रजोहरणहेतवे ॥ ८७॥ युग्मम् । उत्प्लुत्य मृगवत्सोऽथ तदीयोत्सङ्गमागतः । जग्राह चमराभं तच्चारित्रधरणीभृतः ॥ ८८ ॥ ततो जयजयारावो मङ्गलध्वनिपूर्वकम् ।। समस्ततूर्यनादोर्जि सद्यः समजनि स्फुटः ॥८९ ।। संघस्या! तदाकार्षीद्राजा तहुरवस्ततः । संस्थानं मुदिता जग्मुर्धर्मिव्रातपुरस्कृताः ॥९० ॥ दध्यौ सुनन्दा सोदर्य आर्यपुत्रः सुतोऽपि च । मदीया यतयोऽभूवंस्तन्ममापीति सांप्रतम् ॥ ९१ ॥ त्रिवार्षिकोऽपि न स्तन्यं पपौ वज्रो व्रतेच्छया। दीक्षितो गुरुभिस्तेन तत्र मुक्तः समातृकः ॥९२॥ अथाष्टवार्षिकं वज्रं कृत्वा साध्वीप्रतिश्रयात् । श्रीसिंहगिरयोऽन्यत्र विजह्वः सपरिच्छदाः ॥ ९३ ॥ तदा चाप्रतिबन्धेन तेषां विहरतां सताम् । पर्वतासन्नमेदिन्यामीर्यासमितिपूर्वकम् ॥ ९४ ॥ वनप्राग्भवमित्रैश्च तं दृष्टा ज़म्भकामरैः। वैक्रियाविष्कृता मेघमाला तस्य परीक्षणे ॥ ९५ ॥ कुरंकरस्वरैः केकिकेकारावेण मिश्रितैः।। तिलतन्दुलितो नादः श्रुतिस्वाद्यसुधाभवत् ॥ ९६॥ नीरैर्नदद्भिद्दामसंभवद्भिर्निरंतरम् । प्लाविता भूस्तदद्वैतघटितेव तदाभवत् ॥ ९७ ॥ विपुले तस्थिवांसस्ते गिरेरेकत्र कन्दरे । गुरवस्तोयजीवानां विराधनमनिच्छवः ॥९८ ॥ 5 P reads जिसज्जः. २ P खं स्थानं. ३P दीक्षित्वा. दिलतुन्द०. ५H and J तीरैर्नद०. ) Page #15 -------------------------------------------------------------------------- ________________ वज्रप्रबन्धः । एवं घनाघने घोरे कथंचिद्विरते सति । उपोषिता अपि श्रेयस्तृप्तास्ते मुनयोऽवसन् ॥ ९९ ॥ जगजीवनमोषेण तदा सूरोऽपि शङ्कितः । रसावस्थापनाद्विश्वे बभूव प्रकटोदयः॥१००॥ आनीय वारिधेर्वारि जगतीपरिपूरणात् । अवसन्ने च पर्जन्ये श्रमात्स्वप्न इवाध्वनौ ॥ १०१ ॥ ततस्तच्चारुवृत्तेन लेखैहृल्लेखशालिभिः। वाणिज्यकारकव्याजात्पारणाय न्यमन्त्रि सः॥१०२॥ युग्मम् । एषणात्रितये चोपयुक्तो भुक्तावनादृतः। तत्र वज्रो ययौ प्राप्य गुरोरनुमति ततः॥ १०३॥ द्रव्यक्षेत्रकालभावैरुपयोगं ददौ च सः।। द्रव्यं कूष्माण्डपाकादि क्षेत्रं देशश्च मालवः॥ १०४॥ कालो ग्रीष्मस्तथों भावे विचार्ये निमिषा अमी। अस्पृष्टभूकमन्यासा अम्लानकुसुमस्रजः ॥ १०५॥ चारित्रिणां ततो देवपिण्डो नः कल्प्यते नहि । निषिद्धा उपयोगेन तस्य हर्ष परं ययुः॥१०६॥ त्रिभिर्विशेषकम् । तत्र च प्रकटीभूय प्राणमस्तं मुनि तदा। वजं सद्वृत्ततेजोभिर्भाखरं भाखदंशुवत् ॥ १०७ ॥ अन्यत्र विहरंतश्चान्यदा ग्रीष्मर्तुमध्यतः। प्राग्वदेव सुरास्तेऽमुं घृतपूरैय॑मन्त्रयन् ॥ १०८ ॥ वज्रे तत्रापि नियूंढे विद्यां ते व्योमगामिनीम् । ददुर्न दुर्लभं किंचित्सद्भाग्यानां हि तादृशाम् ॥१०९ ॥ बाह्यभूमौ प्रयातेषु पूज्येष्वथ परेद्यवि। . सदेषणोपयुक्तेषु गीतार्थेषु च गोचरम् ॥११०॥ अवकाशं च बाल्यस्य ददच्चापलतस्तदा । सर्वेषामुपधीर्नामग्राहं भूमौ निवेश्य च ॥ १११ ॥ वाचनां प्रददौ वज्रः श्रुतस्कन्धवजस्य सः। प्रत्येकं गुरुवक्रेण कथितस्य महोद्यमात् ॥११२॥ त्रिभिर्विशेषकम् । श्रीमान्सिहगिरिश्चात्रान्तरे वसतिसन्निधौ । आययौ गर्जितौर्जित्यं शब्दं तस्याशृणोच्च सः॥ ११३ ॥ दध्यौ किं यतयः प्राप्ताः स्वाध्यायैः पालयन्ति माम् । १J and H उपोषितान्यपि. २J and H-जीवनपोषेण. ३J and I read भूरि. ४H and J सुप्त इवधनो. ५ J and H दाभावविचार्ये. ६H and J वः changed into दः for नः. ७ H and J-बाल. ८ H & J-मुपधीना०. ९P तोर्जि०. Page #16 -------------------------------------------------------------------------- ________________ प्रभावकचरिते निश्चित्यैकस्य वज्रस्य शब्दं ते तोषतो बभुः ॥ ११४ ॥ पुनर्दध्यावयं गच्छो धन्यो यत्रेदशः शिशुः। क्षोभोऽस्य माभूदित्युच्चैः स्वरं नैषेधिकं व्यधात् ॥ ११ ॥ वज्रोऽपि तं गुरोर्बानं श्रुत्वा लजाभयाकुलः । संनिवेश्य यथास्थानं वेष्टिकाः संमुखोऽभ्यगात् ॥ ११६ ॥ प्रतिलेख्य ततः पादौ प्रक्षाल्य प्रासुकांभसा । पादोदकं ववन्दे च गुरुणा समुदेक्षितः ॥११७ ॥ वैयावृत्यादिषु लघोर्मावज्ञास्य भवत्विति । ध्यात्वाहुर्गुरवः शिष्यान्विहारं कुर्महे वयम् ॥ ११८ ॥ ततस्ते प्रोचुरस्माकं कः प्रदास्यति वाचनाम् । ते प्राहुर्वज्र एवात्र कृतार्थान्वः करिष्यति ॥ ११९ ॥ तत्ते तथेति प्रत्यैच्छन्निर्विचारं गुरोर्वचः । ईदृस्वगुरुभक्तेभ्यः शिष्येभ्योऽस्तु नमोनमः ॥१२० ॥ प्रतिलेख्य निपध्यां च तस्यावक्राः प्रचक्रिरे । ततोऽसौ वाचनां दातुमारेभे यतिसंहतेः ॥ १२१॥ शास्त्राणामितितात्पयमनायासेन सोऽभ्यधात् । सुखं यथावगच्छन्ति ते मन्दधिषणा अपि ॥ १२२ ॥ दिनैः कतिपयैरागात्सूरिरभ्युत्थितश्च तैः ।। तदुदन्तमपृच्छच्च संभूयोचुश्च ते ततः ॥ १२३ ॥ पूज्यपादप्रसादेन संजज्ञे वाचनासुखम् । अस्माकं वाचनाचार्यो वज्र एवास्तु तत्सदा ॥ १२४॥ श्रुत्वेति गुरवः प्राहुर्मत्वेदं विहृतं मया । अस्य ज्ञापयितुं युष्मान् गुणगौरवमद्भुतम् ॥ १२५ ॥ तपस्याविधिसंशुद्धवाचनापूर्वकं ततः। अधीतवान्मुनिर्वज्रो यावंहुर्वागमागमम् ॥ १२६ ॥ गत्वा दशपुरे वज्रमवन्त्यां प्रैषुरादृताः। अध्येतुं श्रुतशेषं श्रीभद्रगुप्तस्य संनिधौ ॥ १२७ ॥ स ययौ तत्र रात्रौ च पूर्बहिर्वासमातनोत् । गुरुश्च खप्नमाचख्यौ निजशिप्याग्रतो मुदा ॥ १२८ ॥ पात्रं मे पयसा पूर्णमतिथिः कोऽपि पीतवान् । दशपूर्व्याः समनायाः कोऽप्यध्येता समेष्यति ॥ १२९ ।। इत्येवं वदतस्तस्य वज्र आगात्पुरस्ततः। गुरुश्चाध्यापयामास श्रुतं स्वाधीतमाश्रुतम् ॥ १३०॥ १P नैषेधिकीं. २ Hand J read गतः पादौ. ३ - आशुकांभसा. ४J and I read तं. ५J and I rettl हि नत. J and H यावद्वज्रागमागगं. Page #17 -------------------------------------------------------------------------- ________________ वज्रप्रबन्धः । श्रीभद्रगुप्तसूरिश्च तमध्याप्य पुनर्गुरोः। प्राहिणोत्संनिधौ तस्यानुज्ञायै समयस्य सः ॥१३१॥ वज्रप्राग्जन्मसुहृदो ज्ञानाद्विज्ञाय ते सुराः। तस्याचार्यप्रतिष्ठायां चक्रुरुत्सवमद्भुतम् ॥ १३२ ॥ सर्वानुयोगानुज्ञां च प्रददुर्गुरवः शुभे। लग्ने सर्वाहतां तेजस्तत्त्वं तत्र न्यधुर्मुदा ॥ १३३ ॥ गुरौ प्रायाद्दिवं प्राप्ते वज्रस्वामिप्रभुर्ययो। पुरं पाटलिपुत्राख्यमुद्याने समवासरत् ॥ १३४ ॥ अन्यदा स कुरूपः सन् धर्म व्याख्यानयद्विभुः। गुणानुरूपं नो रूपमिति तत्र जनोऽवदत् ॥ १३५॥ अन्येाश्चारुरूपेण धर्माख्याने कृते सति । पुरक्षोभभयात्सूरिः कुरूपोऽभूजनोऽब्रवीत् ॥ १३६॥ प्रागेव तद्गुणग्रामगानात्साध्वीभ्य आदृता। धनस्य श्रेष्ठिनः कन्या रुक्मिण्यत्रान्वरज्यता(त) ॥ १३७ ॥ बभाषे जनकं स्वीयं सत्यं मद्भाषितं शृणु। श्रीमद्वज्राय मां यच्छ शरणं मेऽन्यथानलः ॥ १३८ ॥ तदाग्रहात्ततः कोटिशतसंख्यधनैर्युताम् । सुतामादाय निर्ग्रन्थनाथाभ्यणे ययौ च सः॥ १३९ ॥ व्यजिज्ञपच्च नाथं त्वां नाथते मे सुता ह्यसौ । रूपयौवनसंपन्ना तदेषा प्रतिगृह्यताम् ॥ १४० ॥ यथेच्छदानभोगाभ्यामधिकं जीवितावधि । द्रविणं गृह्यतामेतत्पादौ प्रक्षालयामि ते ॥१४१॥ अथ श्रीवज्र आहस्म सरलस्त्वं वणिग्वरः। वन्द्भुमिच्छसि दूरस्थान्स्वयं बद्धः परानपि ॥ १४२॥ रेणुना रत्नराशिं त्वं कल्पवृक्षं तृणेन च । गी(र्त)कोलेन कुम्भींद्रं वायसेन सितच्छदम् ॥ १४३॥ सौधं निषादगेहेन क्षारनीरेण चामृतम् । कुद्रव्यविषयास्वादात्तपो मे संजिहीर्षसि ॥१४४॥ युग्मम् । विषयाः कम्बलोल्लासं दधत्यविकटोदयाः। सर्व धनं महाभोगैरन्यूनं चारकोपमम् ॥ १४५॥ एषा मय्यनुरक्ता चेच्छायावदनुगामिनी। मया वृतं व्रतं धत्तां ज्ञानदर्शनसंयुतम् ॥ १४६॥ १J and H सर्वानुयोगो. २ J_and I read व्याख्यायत.. ३ Preds रुक्मिण्यत्रान्वरज्यतः. ४ J & H read तद्भाषितं. ५J & H read महाभागैः. ६P reads मयादृतं. Page #18 -------------------------------------------------------------------------- ________________ प्रभावकचरिते श्रुत्वेति प्रतिबुद्धा साभिलाषगरले हृते । गृहीत्वा संयम संयमिनीपार्श्वमशिश्रयत् ॥ १४७ ॥ महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थितात् ।। श्रीवजेणोद्धृता विद्या तदा गगनगामिनी ॥ १४८ ॥ अवृष्टेरन्यदा तत्राभूहुर्भिक्षमतिक्षयम् । सचराचरजीवानां कुर्वदुर्वीतलेऽधिकम् ॥ १४९ ॥ सीदन् संघः प्रभोः पार्श्वमाययौ रक्ष रक्ष नः । वदन्निति ततो वज्रप्रभुस्तन्निदधे हृदि ॥ १५० ॥ पटं विस्तार्य तत्रोपवेश्य संघं तदा सुदा । विद्ययाकाशगामिन्याचलयोना सुपर्णवत् ॥ १५१ ॥ तत्र शय्यातरोदू(ई)रं गतस्तृणगवेषणे। अन्वागतो वदन्दीनः सोऽपि न्यस्तारिसूरिणा ॥ १५२ ॥ आययौ सुस्थदेशस्थामचिरेण महापुरीम् । वौद्धशासनपक्षीयनृपलोकैरधिष्टिताम् ॥ १५३ ॥ सुखं तिष्ठति संघे च सुभिक्षाद्राजसौस्थ्यतः। सर्वपर्वोत्तमं पाययौ पर्युषणाभिधम् ॥ १५४ ॥ राजा च प्रत्यनीकत्वात्कुसुमानि न्यषेधयत् । संघो व्यजिज्ञपद्वजं जिना चिन्तयार्दितः॥ १५५॥ उत्पत्य तत आकाशे काशसंकाशकीर्तिभृत् । माहेश्वर्या उपर्यागान्नगर्याः कोविदार्यमा ॥ १५६ ॥ आरामस्थः पितुर्मित्रमारामिकगुणाग्रणीः। . वज्रं च कुलसिंहाख्यो वीक्ष्य नत्वा च संजगौ ॥ १५७ ।। किमप्यादिश मे नाथ कार्य सूरिरतोऽवदत् ।। सुमनः सुमनोभिर्मे कार्यमार्य कुरुष्व तत् ॥ १५८॥ पूज्यैावृत्तिवेलायां ग्राह्याणीति निशम्य लः। ययौ देव्याः श्रियः पार्श्वे तं क्षुद्रहिमवगिरिम् ॥ १५९ ॥ धर्मलाभाशिषानन्ध तां देवीं कार्यमादिशत् । ददौ सहस्रपत्रं सा देवार्चार्थ करस्थितम् ॥ १६० ॥ तदादाय प्रभुर्वज्रः पितृमित्रस्य संनिधौ । आययौ विंशतिर्लक्षाः पुष्पाणां तेन ढौकिताः ॥ १६१ ॥ १J & H read अदृष्टे. २J & H readd स्वस्थ. ३ Halil J read पुरिम्. ४ J_and P reul उपत्यत आकाशे. ५ . reads महेश्वर्या, H माहेश्चर्या. ६J& Hread ककुलसिंहाख्यो. ७J and H read कार्याकार्य. ८J& H देयाः श्रियः chungel to देत्या श्रयः and हिमवद्गिरम्. Page #19 -------------------------------------------------------------------------- ________________ वज्रप्रबन्धः । विमानवैक्रिये तांश्चावस्थाप्यागान्निजे पुरे । जृम्भकैः कृतसंगीतोत्सवे गगनमण्डले ॥ १६२ ॥ ध्वनत्सु देवतूर्येषु शब्दाद्वैते विजृम्भिते। तं तदूर्व समायान्तं दृष्ट्वा बौद्धाश्चमत्कृताः ॥१६३॥ ऊचुर्धर्मस्य माहात्म्यमहो नः शासने सुराः। आयान्ति पश्यतां तेषां ते ययुर्जिनमन्दिरे ॥१६४॥ श्राद्धसंघः प्रमुदितः पूजां कृत्वा जिनेशितुः । तत्र धर्मदिने धर्ममश्रौषीद्वज्रसगुरोः॥१६५ ॥ प्रातिहार्येण चानेन राजा तुष्टोऽभ्युपागमत् । प्रत्यबोधि च वज्रेण बौद्धाश्चासन्नधोमुखाः ॥१६६ ॥ विहरन्नन्यदा स्वामी प्रययौ दक्षिणापथम् । कुत्रचिच्छुद्धभूभागोद्यानेऽसौ समवासरत् ॥१६७॥ श्लेष्मरोगापनोदायानाययद्विश्वभेषजम् । उपयुक्तावशेषं च श्रवणे धारयत्ततः॥१६८ ॥ प्रत्युपेक्षणकाले तत्तत्रस्थं चापराह्निके। मुखवस्त्रिकयात्रस्यत्कर्णयोः प्रतिलेखने ॥ १६९ ॥ दध्यावायुरहोक्षीणं विस्मृतिर्यन्ममोदिता । पुनर्दुर्भिक्षमाप्तं च प्रागुक्तादधिकं ततः ॥ १७० ॥ वज्रसेनस्तैदादिश्य वंशार्थ वज्रसूरिभिः। प्रहितः स शनैः प्रायात्कुंकुणानं चित्तवच्चणान् ॥ १७१ ॥ अलब्धभिक्षान्दुर्भिक्षाद्विद्यापिण्डेन भोजितान् । साधूनाह च भोज्योऽयं नित्यं द्वादशवत्सरीम् ॥ १७२ ॥ ग्राह्यं चानशनं ते च श्रुत्वा तत्प्रायमाविशन् । श्रीवज्रः कुत्रचिच्छैले साधुभिः सहितो ययौ ॥ १७३॥ मार्गे गच्छद्भिरेकत्र ग्रामे प्रालम्भि सूरिभिः। शिष्य एकः स तज्ज्ञात्वा वैराग्यं परमं दधौ ॥ १७४ ॥ दध्यौ च प्रोज्झ्य मामेते जग्मुर्जीवत्वसाविति । निःसत्वोऽहं कथं दृष्टः प्रभुं नानुव्रजामि तत् ॥ १७५ ॥ ध्यात्वेति तप्तपाषाणे पादपोपगमं व्यधात् । व्यलीयत मधूच्छिष्टमिव सत्वरितस्तदा ॥१७६॥ तद्विपत्तौ महे देवैः क्रियमाणे मुनीश्वरः। यतीनां पुरतोऽवादीच्छिशोः सत्वमिदं महत् ॥ १७७॥ १P reads विमाने वैक्रियेता. २J and H-समायातं. ३ J& H-वातेन. ४ J and H-श्रस्यत्कर्णयोः. ५ P reads स्तथा. ६ J& H-कुंकुणाविन्नवच्चरान्. Page #20 -------------------------------------------------------------------------- ________________ १२ प्रभावकारिते तच्छ्रुत्वा मुनयः सर्वे परं वैराग्यमादधुः । प्रशान्तविग्रहास्तस्थुः स्थण्डिलेषु पृथक् पृथक् ॥ १७८ ॥ प्रत्यनीका सुरी तत्रोपसर्गायोपतस्थुषी । निशीथे दिवसं कृत्वा दधि तेषामढौकयत् ॥ १७९ ॥ विज्ञायाऽप्रीतिकं तत्रान्यत्र शृङ्गेऽथ ते ययुः । मृत्युजीवितयोर्येनाशंसास्तेषां सुराः किमु ॥ १८० ॥ यथायोगं च ते प्राणान् परित्यज्य सुरालयम् । श्रीवोsपि जगाम द्यामध्यानवैभवः ॥ १८१ ॥ शक्रस्तत्राययौ पूर्वभवस्नेहेन तद्ययम् । ज्ञात्वा चतुर्दिशं स्वीयरथमावर्त्तताथ सः ॥ १८२ ॥ गहनानि तरूणां च तत्रोन्मूल्य समां भुवम् । कृत्वा तत्र क्षणं तस्थौ सुपर्वश्रेणिसंभृतः ॥ १८३ ॥ ततः प्रभृति विख्यातो रथावर्त्ताख्यया गिरिः । असावचलतां याति ख्यातिर्या गुरुभिः कृता ॥ १८४ ॥ वज्रसेनश्च सोपारं नाम पत्तनमत्यगात् । जिनदत्तप्रियास्त्यत्रेश्वरीत्याख्या चतुःसुता ॥ १८५ ॥ अक्षाम गुरुशिक्षाढ्यः स तस्या मंदिरे ययौ । चिन्तामणिमिवायान्तं तं हर्षमाप सा ॥ १८६॥ प्राहाथ साहसं साधोऽस्माभिरद्य विचिन्तितम् । स्थालीपाकोऽत्र लक्षेण पूरितः केष्टकल्पनात् ॥ १८७ ।। द्रव्यसंपदि सत्यामप्यन्नदौस्थ्यान्मृतिर्धुवम् । ततोऽत्र पायसे पक्के निक्षेप्यं विषमं विषम् ॥ १८८ ॥ युग्मम | तदत्रावसरे पूज्यदर्शनं पुण्यतोऽभवत् । कृतार्थाः सांप्रतं पारत्रिकं कार्यमिहादधे ॥ १८९ ॥ इत्याकर्ण्य मुनिः प्राह गुरुशिक्षाचमत्कृतः । धर्मशीले शृणु श्रीमद्वज्रस्वामिनिवेदितम् ॥ १९० ॥ स्थालीपाके किलैकत्र लक्षमूले समीक्षिते । सुभिक्षं भावि सविषं पार्क मा कुरु तथा ॥ १९१ ॥ सापि प्राह प्रसादं नः कृत्वैतत्प्रतिगृह्यताम् । इत्युक्त्वा पात्रपूरेण प्रत्यलाभि तया मुनिः ॥ १९२॥ एवं जातेऽथ संध्यायां वहित्राणि समाययुः । प्रशस्यशस्यपूर्णानि जलदेशान्तराध्वना ॥ १९३ ॥ = P का १ All read यामध्यानवैभव:, but Pgives मध्या as त्रुटि the margin which makes यामध्यामध्यानवैभवः. ३ H & J - सत्यमेष्यन्नदोः ख्या. ४P मूल्ये, 1 Page #21 -------------------------------------------------------------------------- ________________ आर्यरक्षितप्रबन्धः । सुभिक्षं तत्क्षणं जज्ञे ततः सा सपरिच्छदा। अचिन्तयदहो मृत्युरभविष्यदरीतितः ॥ १९४ ॥ जीवितव्यफलं किं न गृह्यते संयमग्रहात् । वज्रसेनमुनेः पार्श्वे जिनबीजस्य सहरोः ॥ १९५॥ ध्यात्वेति सा सपुत्राथ व्रतं जग्राह साग्रहा। नागेन्द्रो निर्वृतिश्चन्द्रः श्रीमान् विद्याधरस्तथा ॥ १९६ ॥ अभूवंस्ते किंचिदूनदशपूर्वविदस्ततः। चत्वारोऽपि जिनाधीशमतोहा(द्धा)रधुरंधराः ॥ १९७॥ अद्यापि गच्छास्तन्नाम्ना जयिनोऽवनिमण्डले । वर्तन्ते तत्र तीर्थ च मूर्तयोऽद्यापि साहणाः ॥ १९८ ॥ इति श्रीमद्वज्रप्रभुचरितमेतदिविषदा मपि स्तुत्यं तत्त्वं किमपि जिननाथोपनिषदाम् । थियां हेतुः सेतुर्भवजलधिनिस्तारविधये । प्रदेयादानन्दं जयतु शशिसूर्यावधि यथा ॥ १९९॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्पिचरित्ररोहणगिरौ श्रीवज्रवृत्ताभिधः श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽगमत्प्राक्तनः ॥२०॥ मूर्तिः लाष्टापदश्रीर्विमलगिरिरतित्तारणः श्रीभरोयम् दुःखार्तानामपापा किल मतिरसतां स्तम्भनश्च प्रभावः। चेतः स्यादुजयन्तस्थितिकृदनुपमं चारुरूपं यशस्तत् श्रीमन्(त) प्रद्युम्नसूरेऽर्बुदगुणविजयी तीर्थरूपस्त्वमेव ॥ १ ॥ ग्रंथानं २०७ अक्षर ॥ ११॥ आयरक्षितग्रवन्धः । अब्यादव्याहतं भव्यान् स श्रीमानार्यरक्षितः । सलूलघातमाहन्ति धर्मो यस्यान्तरद्विषः॥१॥ पीयूपमिव यवृत्तमनिर्वाच्यं बुधैरपि । वैचक्षण्यवलिप्ती मे मतिः किं नु विक्ष्यति ॥२॥ पुनस्तथापि वातापितापनत्य तमोऽम्बुधेः। तस्य वृत्तं स्मृतौ बाचं प्रणये प्रणयावधिः ॥ ३ ॥ १]-जैनबीजस्य.. २P-रतितार०. ३J and H-दुःखानामपाप्य ............... प्रभावंतः स्यादुजयं......दण्ड चारुरूपं यस्तत् श्रीप्रा०. ४ P-ग्रंथ २०७ अक्ष ११ इतिवयर (वज्र) स्वामिप्रवन्धः. ५ P.वैचक्षिण्यावि० किंनु विनश्यति. ६J & H वृत्तस्मृतौ वाचं. Page #22 -------------------------------------------------------------------------- ________________ १४ प्रभावकचरिते सदानन्दनबाहुल्यपराभूतद्युसत्पुरम् । पुरं दशपुरं नामावन्तिकान्तिकसप्तकी ॥ ४ ॥ उदायनो निशानाथ इव नव्योऽकलङ्कभूः । अगम्यस्तमसोऽक्षीणकलोऽभूत्तत्र भूपतिः ॥ ५ ॥ सौवस्तिकपदप्राप्तप्रतिष्ठोऽतिविशिष्टधीः । वर्णज्येष्ठः कुलश्रेष्टः क्रियानिष्ठः कलानिधिः ॥ ६ ॥ आसीच्छ्री सोमदेवाख्यः शमितेष्वमितेष्वपि । यन्मन्त्रैः शत्रुवर्गेषु शृङ्गाराय चमूचयः ॥ ७ ॥ युग्मम् । रुद्रसोमाभिधास्याभूत्प्रिया प्रियवचःक्रमैः । संपूर्णदानैरर्थिभ्यः कृतदारिद्र्यविद्रवा ॥ ८ ॥ सूर्याश्वयोरिव यमौ तयोः पुत्रौ बभूवतुः । आर्यरक्षित इत्याद्येो द्वितीयः फल्गुरक्षितः ॥ ९॥ पुरोहितेन तौ तेन साङ्गान्वेदान्प्रपाठितौ । आत्मजानां विनीतानां स्वामृद्धिं निह्नुते हि कः ॥ १० ॥ अतृप्तः शास्त्रपीषे विद्वानप्यार्य रक्षितः । पिपठीस्तद्विशेषं स प्रययौ पाटलीपुरम् ॥ ११ ॥ अचिरेणापि कालेन स्फुरत्कुण्डलिनीबलः । वेदोपनिषदं गोप्यामप्यध्यैष्ट प्रकृष्टधीः ॥ १२ ॥ अथोपाध्यायमापृच्छ्य व्यावृत्तः स्वभुवं प्रति । आरूढवद्ययौ सोऽथाययौ परिसरे पुरः ॥ १३ ॥ ज्ञातोदन्तेन राज्ञा स पितृविज्ञपनादथ । प्रावेशि गजमारुह्य संमुखागामिना स्वयम् ॥ १४ ॥ प्रधानकुलवृद्धाभ्यः सुलब्धाशीर्गृहे गृहे । अपराह्ने निजावासप्राङ्गणं प्रागमत्ततः ॥ १५॥ रुद्रसोमा पुनस्तत्र श्रमणोपासका तदा । विज्ञातजीवाजीवादिनवत्तत्त्वार्थविस्तरा ॥ १६ ॥ कृतसामायिका पुत्रमुत्कण्ठाकुलितं चिरात् । इलातलमिलन्मौलिं वीक्ष्यापि प्रणतं भृशम् ॥ १७ ॥ अवर्द्धयत नाशीर्भिः सामायिकभिदाभिया । अतिखिन्नस्ततः प्राह स धीमानार्यरक्षितः ॥ १८॥ त्रिभिर्विशेषकम् ॥ धिग्ममाधीतशास्त्रौघं बह्वप्यवकरप्रभम् । येन मे जननी नैव परितोषमवापिता ॥ १९ ॥ ध्यात्वेत्युवाच किं मातः परितोषो न तेऽभवत् । साह तुष्याम्यहं केन पाठैस्तैर्दुर्गतिप्रदैः ॥ २० ॥ १P कान्तैकसप्तकी. २ J & H गोपांगमप्यध्यै ३ J & H खद्भु. ४ P - विज्ञाततत्त्वा जीवादि नवभेदितिविस्तारा. Page #23 -------------------------------------------------------------------------- ________________ १५ आर्यरक्षितप्रबन्धः। स प्राह चाविलम्बेन तदलं मे समादिश । येनाधीतेन ते तुष्टिः कार्यैरन्यैस्तु किं मम ॥२१॥ रोमाञ्चकञ्चकोद्रेदमेदुराथ जनन्यपि। प्रधानं मन्यमाना स्वं पुत्रिणीनामवोचत ॥२२॥ अधीष्व विष्वगुन्निद्राभद्रविद्रावणक्षमम् । दृष्टिवादं जिनोपशमन्यैरज्ञातसंज्ञकम् ॥ २३॥ तमाकर्ण्य सुतो दध्यौ तावन्नामापि सुन्दरम् । दृष्टिवाद इदानीं तदवश्यं कार्यमेव मे ॥२४॥ समस्ततीर्थमूर्द्धन्ये मम मातः समादिश। अध्यापकं तदभ्यासे यथाभ्यस्यामि तं द्रुतम् ॥ २५॥ उवाच रुंद्रसोमापि वत्स ते विनयावने । अवतारणके यामि सावधानस्ततः शृणु ॥२६॥ जैनर्षयो महासत्त्वास्त्यक्ता ब्रह्मपरिग्रहाः। परमार्थस्थितवान्ताः सज्ज्ञानकुलभूमयः ॥२७॥ अस्य ग्रन्थस्य वेत्तारस्तेऽधुना स्वेक्षुवाटके। सन्ति तोसलिपुत्राख्याः सूरयो ज्ञानभूरयः॥२८॥ त्रिभिर्विशेषकम्। पठाशठमते तेषां पार्श्वे ग्रन्थमिमं वरम् । यथा त्वदीयवृत्तेन कुक्षिमै शीतलीभवेत् ॥ २९॥ श्रुत्वेत्यहर्मुखे यामीत्युक्त्वा तद्ध्यानतत्परः। निशां निन्ये विनिद्रः सन्निरगाश्च बहिस्ततः ॥ ३०॥ अर्द्धमार्गे पितुर्मित्रं संमुखोऽस्य द्विजोऽभवत्। . इक्षोर्नवलताः सार्धाः स्कन्धे तद्धेतवे वहन् ॥ ३१॥ तेनाभिवादयन्नालिलिङ्गे प्रीत्यार्यरक्षितः। व्यावृत्त्यागच्छ गेहे त्वमित्युक्तश्चायमब्रवीत् ॥ ३२॥ मात्रादेशेन यात्वाहं समायास्यामि शीघ्रतः। पूज्यैर्गन्तव्यमावासे निजबन्धुप्रसत्तये ॥३३॥ इत्युक्त्वा संचरन्निक्षुवाटाभिमुखमादृतः। दध्यौ मनस्यहो सम्यगस्मादृढनिमित्ततः॥ ३४॥ अध्याया वा परिच्छेदा नव सार्दा मया ध्रुवम् । अस्य ग्रन्थस्य लप्स्यन्ते नाधिकं निश्चितं ह्यदः॥ ३५ ॥ प्रातःसंध्याक्षणे तत्र मुनिः स्वाध्यायडम्बरैः। शब्दाद्वैतमयं शृण्वन्नाश्रयद्वारमार्थयत् ॥ ३६॥ किंकर्तव्यजडस्तत्राजानन् जैनपरिश्रमम् । ढट्टरश्रावकं सूरिवन्दकं प्रेक्षदागतम् ॥३७॥ १P-मज्ञै. २P मतमाम. ३P reads सोमरुद्रा. ४J and H प्रवृत्या. ५J and H लभ्यते. ६J and H रमाश्रयन्. Page #24 -------------------------------------------------------------------------- ________________ प्रभावकचरिते तत्पृष्ठस्थो ययौ सोऽपि विदधे वन्दनादिकम् । तद्वदेव महाप्राज्ञस्तादृशां किं हि दुष्करम् ॥ ३८॥ सर्वसाधुप्रणामानन्तरं श्रावकवन्दनम् । अशिक्षितत्वान्नाकार्य्यनाख्यातं बुध्यते कियत् ॥ ३९ ॥ चिहृनानेन विज्ञाय नवं तं सूरयस्तदा । कुतो धर्मस्य संप्राप्तिरिति पप्रच्छुरादरात् ॥ ४०॥ ढहरं दर्शयन्नस्मादेव धार्मिकपुंगवात् । इत्यूचिवांसमेकश्च मुनिर्लक्षयतिस्म तम् ॥ ४१॥ आह कल्यदिने राज्ञा प्रावेश्येष महोत्सवात् । पुरोहितसुतश्राद्धरुद्रसोमाङ्गसंभवः॥ ४२ ॥ चतुर्वेदी समस्ताद्यगुणस्थानभृतां वरः। असंभाव्यागमः कस्मादत्रायाज्ज्ञायते न तत् ॥४३॥ अथार्यरक्षितः प्राह मातुरुक्तमनातुरः। आकण्यति प्रभुर्दध्यौ तच्चरित्रचमत्कृतः॥४४॥ कुलीन आस्तिको विप्रः कुलानुचितमार्दवः। संभाव्यसुकृताचारो जैनधर्मोचितो ह्ययम् ॥४५॥ उपयोगं श्रुते दत्वा पूर्वपाठोचितं च तम् । प्रभावकं भाविनं च श्रीमद्वज्रादनन्तरम् ॥४६॥ ध्यात्वा तं सूरयोऽवोचन जैनप्रव्रज्यया विना। नदीयते दृष्टिवादो विधिः सर्वत्र सुंदरः॥४७॥ त्रिभिर्विशेषकम्। स प्राह प्राच्यसंस्कारां ममासन्नव केशिनः। ततो जैनेन्द्रसंस्कारैरलंकुरुत मे वपुः ॥४८॥ परं किंचिच्च विज्ञप्यमास्ते तदवधार्यताम् । मिथ्यामोहेन लोको हि सर्वो मय्यनुरागवान् ॥ ४९ ॥ राजापि ज्ञातवृत्तान्तो दीक्षामुत्सर्जयेदपि । अबुधस्वजनानां च ममकारो हि दुस्त्यजः॥५०॥ शावरूपे निजे तस्मात्प्रसद्य(ह्य) मयि दीक्षिते । अन्यदेशे विहर्त्तव्यं माभूच्छासनलाघवम्॥५१॥ त्रिभिर्विशेषकम् । ओमित्युक्त्वा गुरुस्तस्य सार्वज्ञपरमाक्षरैः। अभिमन्त्र्याथ तन्मूर्ध्नि वासानक्षि(नाक्षे)पतोऽक्षिपत् ॥५२॥ सामा(म)यिकव्रतोच्चारपूर्व पूर्वाभिलाषिणः।। केशान् क्लेशानिवाशेषानपनिन्ये मुनीश्वरः ॥५३॥ १P-वंदना. २J and H यस्तथा. ३ P-तः श्राद्धारुद्र. ४ J and H. संस्काराः समासन्न. ५J-मुत्सृज H-मुत्सृर्ज. ६ and H-वासानक्षेपतो. P क्षिपन्. Page #25 -------------------------------------------------------------------------- ________________ आर्यरक्षितप्रबन्धः । ईशानकोणे गार्हस्थ्यनेपथ्यं परिहाय सः। परिधाप्य सिते वस्त्रे यतिवेषेण योजितः ॥ ५४॥ विहारं तत्क्षणात्ते च विदधुनगरान्तरे । विधाय पुरतस्त्वार्यरक्षितो नवदीक्षितः ॥ ५५ ॥ अध्यापितः समूलाङ्गोपाङ्गादिग्रन्थमण्डलम् । तत्तत्तपस्यया पूर्वाणि च कान्यपि सूरिभिः॥५६॥ अधीतपूर्वी शास्त्राणि बुद्धपूर्वी हिताहितम् । विनीतपूर्वी स्वाचारं ज्ञातपूर्वी व्रतान्यभूत् ॥ ५७ ॥ गुरवः शेषपूर्वाणां पाठायोजयिनीपुरि । तमार्यरक्षितं प्रैषुः श्रीवज्रस्वामिनोन्तिके ॥५८॥ गीतार्थैर्मुनिभिः सत्रा तत्रागादार्यरक्षितः। श्रीभद्रगुप्तसूरीणामाश्रये प्राविशत्तदा ॥ ५९॥ युग्मम् । आश्लिष्य मेहतः प्राहुः प्रत्यभिज्ञाय ते च तम् । आर्यरक्षित कच्चित्ते भद्रपूर्वाभिलाषुकः॥ ६०॥ अभिसंधिर्मम प्रायोपवेशनविधौ भवान् । निर्यामो भव तद्वेला कुलीनानामियं यतः ॥ ६१ ॥ तथेति प्रतिपद्याथ तथाशुश्रूषत प्रभुम् । यथा जानाति नैवासावुदयास्तमने रवेः॥ ६२॥ समाधौ परमे लीनोऽन्यदा प्रोवाच हर्षतः।। क्षुत्तटक्लमं न जानेऽहं वत्स त्वद्वरिवस्यया ॥ ६३ ॥ इहलोकेपि देवत्वं संप्राप्त इव तसात् । गोप्यं किंचिच्छिक्षयिष्ये त्वां ततोऽवहितः शृणु ॥ ६४॥ श्रीवज्रस्वामिपादान्ते त्वया पिपठिषाभृता । भोक्तव्यं शयनीयं च नित्यं पृथगुपाश्रये ॥६५॥ यतस्तदीयमण्डल्यामेककृत्वोऽपि योभुनक् । रात्रौ सुप्तश्च पार्श्वे यत्तस्य तेन सहात्ययः॥६६॥ प्रभावको भवानर्हच्छासनाम्भोधिकौस्तुभः। संघाधारश्च भावी तदुपदेशं करोतु मे ॥६७॥ त्रिभिर्विशेषकम् । इच्छामीति प्रभोरंही शिरसि प्रणिधाय सः। ओमिति प्रतिपेदेऽतिविनीतानामियं स्थितिः॥ ६८॥ अथ श्रीभद्रगुप्तेऽस्मिन् कालधर्ममुपागते । सौनन्देयप्रभोः पार्श्वे प्रचचालार्यरक्षितः॥ ६९ ॥ तदा च ददृशे स्वप्नः श्रीवज्रेणाप्यजलप्यत । विनेयाग्रेऽद्य संपूर्णः पायसेन पतगृहः ॥ ७० ॥ १J and H omit it. २J and H-काचित्त्वं. ३ J& H सहायय. Page #26 -------------------------------------------------------------------------- ________________ प्रभावकचरिते पारितोऽतिथिनागत्य किंचिच्छेषमवास्थितम् । तदेतस्य विचारोऽसौ चित्तांतर्घटते मम ॥ ७१ ॥ युग्मम् । अद्य प्राज्ञोऽतिथिः कश्चिदागत्य मम संनिधौ । श्रुतं ग्रहीष्यतेऽशेषमल्पं स्थास्यति किंचन ॥ ७२ ॥ एवं वदत एवास्य समागादार्यरक्षितः। दृष्टो हि महता स्वप्नोऽवश्यं सद्यः फलेग्रहिः॥ ७३ ॥ अपूर्वमतिथि दृष्ट्राभ्युत्थाय स्वागतोन्नतः। नमस्कुर्वन्तमेनं च स प्रभुाहरत्तदा ॥ ७४॥ कौतस्कुतोऽयं भावत्क आगमः स ततोऽवदत् ।। श्रीमत्तोसलिपुत्राणामन्तिकादागमं प्रभो ॥ ७५॥ श्रुत्वेति स प्रभुः प्राह किं भवानार्यरक्षितः। पूर्वशेषस्य पाठार्थमस्मत्पार्श्व इहाययौ ॥ ७६॥ तेवोपकरणं कुत्र पात्रसंस्तारकादिकम् । तदानयातिथिर्नस्त्वमद्य मा गोचरं चरेः ॥ ७७॥ भुत्वात्रैव ततोऽध्यायमारभखेति तद्रिः । श्रुत्वा स प्राह चाभ्यर्थि मया पृथगुपाश्रयः ॥ ७८ ॥ स्वापं भुक्तिं च तत्रैव कृत्वाध्येक्षे तवान्तिके। श्रीवज्रः प्राह पार्थक्यस्थितैः कथमधीयते ॥ ७९ ॥ अथार्यरक्षितोऽवोचद्भद्रगुप्तगुरोर्वचः। इदमित्युदिते वज्र उपयोगं ददौ श्रुते ॥ ८० ॥ भुक्तौ स्वापे मया साध दिष्टान्तोपि भवेत्सह । ततः समुचितं प्राहुः प्रभवस्तद्भवत्विदम् ॥ ८१ ॥ एनमध्यापयामासुस्ततः श्रीवज्रसूरयः। अर्द्ध दशमपूर्वस्य प्रारेमे घोषितुं च सः॥ ८२ ॥ अस्मिन् ग्रन्थे दुरध्येयाभंगकैर्दुर्गमैर्गमैः। पर्यायैर्दुर्वचैः शब्दैः सदृशैर्जविकावलिः ॥ ८३॥ चतुर्विंशतिसंख्यानि जविकानि च सोऽपठत् । अधीयानस्य चायासोऽभवत्तस्याद्भुतः किल ॥८४॥ युग्मम् । इतश्च रुद्रसोमापि तस्य माता व्यचिन्तयत् । अहो ममाविमर्शो दुरनुतापाफलेग्रहिः॥ ८५॥ हृदयानन्दनो धीमान्नन्दनः शीलचन्दनः। आर्यरक्षितसंकाशो मया प्रैष्यल्पमेधसा ॥ ८६ ॥ उद्योतं चिन्तयन्त्या मे तमित्रं जातमद्भुतम् ।। तस्मादाहूतये तस्य प्रहेयः फल्गुरक्षितः ॥ ८७॥ १J and H omit शेष. २J H तत्रोपकरणं. ३ J anal H omit sts 79 to 88. Page #27 -------------------------------------------------------------------------- ________________ आर्यरक्षितप्रबन्धः । सोमदेवस्तया पृष्टः श्रोत्रियः सरलोऽवदत् । त्वं यत्कृतप्रमाणा मे ततो यद्भावि तत्कुरु ॥ ८८॥ प्रजिघाय ततः सापि द्वैतीयीकं निजाङ्गजम् । वत्स गच्छ निजभ्रातुर्मम वाक्यं निवेदय ॥ ८९ ॥ जनन्या बन्धुसंसर्ग मोहं चं त्याजितो भवान् । परं वत्सलताबुद्धिर्जिनेन्द्रैरपि मानिता ॥९०॥ . स्वमातुर्गर्भवासेऽपि श्रीवीरो भक्तिभूर्यतः।। शीघ्रतस्तत्समागच्छ निजमास्यं प्रदर्शय ॥ ९१॥ युग्मम् । तथा ममाप्यसौ मार्गों भवता यः समाश्रितः। तदनु त्वत्पितुः पुत्रपुत्रीवर्गेऽप्यसौ पुनः॥ ९२॥ यदि न स्नेहबुद्धिः स्यात्ततोऽप्युपकृतौ मुदा । एककृत्वः समागच्छ कृतार्थत्वं प्रयच्छ मे ॥९३ ॥ युग्मम् । आख्यायास्त्वमिदं गच्छ पथि देहे च यत्नवान् । त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः॥ ९४ ॥ इत्याकर्ण्य वचो मातुर्नम्राङ्गः फल्गुरक्षितः। गत्वोपबन्धु कथयांचकार जननीवचः॥९५॥ षडिः कुलकम् । क ईदृक्षो भवत्तुल्यः सोदराम्बासु वत्सलः। भवत्तातस्तु नहि मामाकोशेत्कुललजया ॥ ९६॥ अतिस्वच्छं तदागच्छ वत्स स्वं दर्शयास्यकम्। त्वदर्शनामृतैस्तृप्ता वितृष्णा संभवामि यत् ॥९७॥ रुद्रसोमात्मनो माता संदिदेशेति मदिरा। तस्मात्प्रसादमासाद्य गम्यतांमातृवत्सल॥९८॥ त्रिभिर्विशेषकम् । बन्धोः श्रुत्वा वचः प्राह वैराग्यादार्यरक्षितः। फल्गुरक्षित को मोहः संसारे शाश्वतेतरे ॥ ९९॥ अस्तु वाध्ययनस्यान्तरायं कः कुरुते सुधीः। फल्गुना वल्गु नो कोपि परित्यक्तुं समीहते ॥ १०० ॥ भवांश्चेन्मयि सस्नेहस्तत्तिष्ठतु ममान्तिकम् । दीक्षां विना न च स्थातुं शक्यं तत्तां गृहाण भोः ॥१०१॥ स तथेति वदस्तेन तत्क्षणं समदीक्ष्यत । श्रेयःकार्येषु को नाम विलम्बायोपतिष्ठते ॥ १०२॥ जविकै र्णितो बाढं धीमानप्यार्यरक्षितः। श्रीमद्वज्रप्रभुं प्राह किमस्मादवशिष्यते ॥ १०३॥ अधीष्व पृच्छया किं ते इत्युक्त्वा पठतिस्म सः। कियत्यपि गते काले पुनः पप्रच्छ तहुरुम् ॥ १०४ ॥ १ P-द्वतीयकं. २ P-तfor च. ३ J and H वल्गुना. Page #28 -------------------------------------------------------------------------- ________________ प्रभावकचरिते ततः श्रीवज्र आचख्यौ सर्षपः पठितस्त्वया । मेरुरत्रावतिष्ठेत तन्ममैकं वचः शृणु ॥ १०५ ॥ काञ्जिकेन कथं क्षीरं कर्पूरं लवणेन च । कुङ्कुमं च कुसुंभेन जातरूपं च गुञ्जया ॥ १०६ ॥ उषया वज्रषा(खा)निं च चन्दनं कनकद्रुणा । पूर्वाध्ययनमल्पेन स्वमोहेन यदुज्झसि ॥ १०७ ॥ ततः पठ श्रुताम्भोधेर्मध्यं प्राप्तः फलं यथा । सज्ज्ञानशक्तिरत्नौघं लभसे लिप्सया विना ॥१०८॥ इत्याकर्ण्य पठन्नुञ्चैर्वासराणि कियन्त्यपि। अनुजेन पुनः प्रेरि स्वैरिण्याह्वानकृद्विरा ॥१०९ ॥ आपप्रच्छे पुनः सूरिमायासितः पुनदृढम् । संबन्धिसंगमे स्वामिन् प्रहिणूत्कण्ठितं जनम् ॥ ११० ॥ पाठाय पुनरायास्ये शीघ्रं तैः सह संगतः। इति श्रुत्वा श्रुते प्रादादुपयोगं पुनः प्रभुः ॥ १११ ॥ अज्ञासीत्पुनरायातो मिलिष्यति न मे पुनः। मदायुषस्तनीयस्त्वादियत्येवास्य योग्यता ॥ ११२ ॥ तथा दशमपूर्व च मय्येव स्थास्यति ध्रुवम् । तत्प्राह वत्स गच्छ त्वं मिथ्या दुःकृतमस्तु ते ॥ ११३॥ यदामुण्यायणो मेधानिधिस्त्वं नेदशोऽपरः। ततोऽभूदादरोऽस्माकमध्यापनविधौ तव ॥ ११४ ॥ प्राप्तिरीदृक् क ते सन्तु पन्थानः शिवतातयः। श्रुत्वेत्यंही प्रभोर्नत्वा चचालात्मभुवंप्रति॥११५॥चतुर्भिः कुलकम्। अखण्डितप्रयाणैः स शुद्धसंयमयात्रया। संचरन्नाययौ बन्धुसहितः पाटलीपुरम् ॥ ११६॥ श्रीमत्तोसलिपुत्राणां मिलितः परया मुदा । पूर्वाणां नवके सार्द्ध संगृहीती गुणोदधिः॥११७ ॥ तं च सूरिपदे न्यस्य गुरवोऽगुः परं भवम् । अथार्यरक्षिताचार्यः प्रायादशपुरं पुरम् ॥११८ ॥ अग्रेभूय निजावासमाययौ फल्गुरक्षितः। वर्द्धये वर्द्धये मातर्मुरुस्तत्सुत आगमत् ॥ ११९ ।। आस्यायत्युंछने गान्ते वचनाय बलिक्रिये(?)। आर्यरक्षितनामा यः कुत्र कुत्र स पुत्रकः ॥ १२० ॥ १J and H-वज्रवोनि; H adds र on the margin. २P मायासितपनदृढम् with correction on the margin मायासितमतिदृढम्. ३ J & H. पुनः पुनः for पुनः प्रभुः. ४ J andH मय्यवस्था. Page #29 -------------------------------------------------------------------------- ________________ आर्यरक्षितप्रबन्धः । अस्मिन्पुण्यवतीक्षा किं यद्रक्ष्यामि तन्मुखम् । एवं वदन्त्या एवास्याः पुरोऽभूदार्यरक्षितः ॥ १२१ ॥ जैनलिङ्गधरं तं चाप्रेक्ष्यमाणमथादरात् । रोमाञ्चकञ्चकोद्भेदमेदुराभिगमाद्भुतम् ॥ १२२ ॥ श्रोत्रियः सोमदेवोऽपि तत्रागात्संगमोत्सुकः । दृढमाश्लिष्य च प्राह स्वात्मजस्नेहमोहितः॥१२३॥ शीघ्रमागाः कथं वत्स तं प्रवेशोत्सवं विना। हुं ज्ञातं विरहार्त्तायाः स्वमातुर्मिलनोत्सुकः ॥ १२४ ॥ इदानीमपि गच्छ त्वं बाह्योद्याने यथा नृपम् । विज्ञप्य नगरोत्साहोत्सवपूर्व प्रवेशये ॥ १२५॥ ततः श्रमणवेषं च परित्यज्य पुनर्गृहे । द्वितीयाश्रममव्यग्रः पालयस्व कृतालयः॥१२६॥ यायजूककुलोत्पन्नानुरागस्था कनी मया । रूपयौवनसंपन्ना चिन्तिताग्रे तवोचिता ॥ १२७ ॥ श्रौतेन विधिना तां त्वं विवहस्व महोत्सवैः। तथा त्वजननी कौतुकानां स्वादं लभेतव (लभेत वै) ॥१२८॥ द्रविणोपार्जने चिन्ता कापि कार्या नहि त्वया । आसप्तमकुलापूर्ण नृपपूज्यस्य मे धनम् ॥ १२९ ॥ अङ्गीकृते गृहोद्धारे भवता भवतानवम् । दृष्टवन्तो वयं दध्मो वानप्रस्थाश्रमे मतम्॥१३०॥ अष्टभिः कुलकम् । अथात्मभूर्मुनिः प्राह तात त्वं मोहवातकी। वाहीक इव शास्त्राणां भारं वहसि दुर्धरम् ॥१३१॥ भवे भवे पिता माता भ्राता जामिः प्रिया सुता । तिरश्चामपि जायन्ते हर्षस्तद्वेत्तुरत्र कः ॥ १३२ ॥ राजप्रसादतः को हि गर्यो भृत्यतयोर्जितात् । द्रव्ये हि पुनरास्था का बहूपद्रवविद्रुते ॥ १३३॥ दुष्प्रापं मर्त्यजन्मेदं रत्नवद्गृहमोहतः। नश्वरावकरप्रायाद्वारयेन्न हि कः सुधीः ॥ १३४ ॥ तत्परीक्ष्य तमुत्सृज्य प्रव्रज्याप्ताहती मया । मुक्तानपुनरादास्ये भोगान्भोगीशभोगवेत् ॥ १३५ ॥ दृष्टिवादोऽपि नो पूर्णः पठितस्तत्कथं पितः । अवतिष्ठेऽभ्युपगमः सत्यं पुंसां हि दुस्त्यजः ॥ १३६॥ भवतां मयि चेन्मोहः सर्वाणि प्रव्रजन्तु तत् ।। भ्रमेणापि सिताभुक्ता पित्तोपद्रवहाँरिणी॥१३७॥सप्तभिः कुलकम् १ J_H omit दृढ...मिलनोत्सुकः. २J H-कनीयया. (?) ३ JH-इष्ट०. ४ P. द्धारयेत. ५ JH- भोगवान्. ६ JH-कारिणी. Page #30 -------------------------------------------------------------------------- ________________ प्रभावकचरिते उवाच सोमदेवोऽपि सांप्रतं मम सांप्रतम् । त्वदीयं वकुलीनं चाचरितं दुश्चरं तपः॥१३८ ॥ त्वन्माता तु पुनः पुत्रीजामातृशिशुपालनैः । मोहवीचिं भवाम्भोधिं कथं तरति मूढधीः ॥ १३९ ॥ अथार्यरक्षितो दध्यौ यदि मिथ्यात्वमन्दिरम् । तातः कथंचिद्बुध्येत शुद्ध्येत च तपोभरैः ॥ १४०॥ तदम्बा दृढसम्पक्ववज्रवज्राकरावनिः।। बुद्धव यत्प्रभावान्मे मोक्षाध्वा प्रकटोऽभवत् ॥ १४१ ॥ रुद्रसोमामथोवाच विचारय वचः पितुः। दुर्बोध्यां मन्यते यस्त्वां खं तु ज्ञानमहानिधिम् ॥ १४२॥ त्वदादेशादृष्टिवादं पठतो मे भवोदधेः। निस्तितीर्षा स्थिता चित्ते श्रीवज्रः प्रापि च प्रभुः ॥१४३ ॥ श्रीसुनन्दा कलौ धन्या या वज्रं सुषुवे सुतम् । त्वां ततोऽप्यधिकां मन्ये मातर्गुणत एकतः ॥ १४४ ॥ ददे तयार्जवात्पूर्व पुत्ररोदनखिन्नया । पितुर्मुनेः पुनश्चके विवादस्तन्निमित्तकः ॥ १४५॥ श्रीमत्तोसलिपुत्राणां पाठायार्पि त्वया त्वहम् । उत्तितारयिषामन्तध्यात्वा संसारनीरधेः ॥१४६॥ प्राप्तः श्रीवज्रपादान्तमपुण्यैरतिदुर्लभम् । अधीतपूर्वपूर्वाङ्गः पुनरागां त्वदन्तिके ॥ १४७॥ सपरीवारया तस्मात्स्वकीयोपक्रमात्त्वया। व्रतान्महांगतः पारं प्राप्यं भवमरोर्बुवम् ॥ १४८॥ पुरोहितप्रिया प्राह वदति स्म ऋजुर्द्विजः। आर्त्या व्यग्रा कुटुम्बस्य नैषा व्रतभरक्षमा ॥ १४९॥ शीघ्र दीक्षस्व मां पूर्व परिवारोऽपि यो मयि । निबिंडस्नेहभूः सोऽपि मामनुप्रव्रजिष्यति ॥ १५० ॥ अथार्यरक्षितस्तातमाहाम्बाया वचः श्रुतम् । इह लोके भवांस्तीर्थ तत्त्वदुक्तं करोम्यहम् ॥ १५१॥ उपतस्थे च दीक्षायामहंपूर्विकया तदा।। श्रोत्रियस्य परीवारः स्नेहादेवेतरेतरा(र)म् ॥ १५२ ॥ १J and H omit मम सांप्रतम्. २J H and-मुकु०. ३ JH मातान. ४ P दृढसम्पत्कवज्रवज्राकरावनिः. ५0 P-मातु०. ६J and H-श्रीवज्रपादान्तपुण्यैरतिदुर्लभं'. Pप्राप्तश्री. ७H and J-अधीतपूर्वः पूर्वांगः पुनरागात्त्वदंतिके. ८J andH दीर्घस्व मां. ९JH-निवडःस्नेहभूः १०J and H च वस्तीर्थ. Page #31 -------------------------------------------------------------------------- ________________ आर्यरक्षितप्रबन्धः। २३ अपनीय ततस्तेषां केशपालीमनालयः। सामायिकं ददौ योगपद्येन प्रणिधानतः ॥ १५३ ॥ वेशः स्थविरकल्पस्य सर्वैस्तैर्निर्विचारतः। जगृहे जीर्णभावात्तु सोमदेवस्तदावदत् ॥ १५४ ॥ वत्स कच्छाभिसंबद्धं ममास्तु परिधानकम् । नग्नैः शक्यं किमु स्थातुं स्वीयात्मजसुतापुरः॥१५५।। इत्याकर्ण्य गुरुर्दध्यौ दुष्करं चिन्त्यमस्त्यदः। अथवास्तु समाचारमादाप्योयं शनैः शनैः ॥ १५६॥ आहाथ मम तातस्याभिप्रायः परिपूर्यताम् । स च प्राह गुरुस्तेऽहं स्वाभिप्रायं वदामि तत् ॥ १५७ ॥ उपानही मम स्यातां तथा करकपात्रिका।। छत्रिकाथोपवीतं च यथा कुर्वे तव व्रतम् ॥ १५८॥ पादयोः शिरसस्तापो यथा न स्यात्तथा शुचिः। भवाम्यूढं यदाजन्म तत्त्यक्तुं हि न शक्यते ॥ १५९ ॥ अनिषिद्धानुमत्यानुमेने सूरिस्तदाग्रहम् ।। स्वाध्यायं तु स्वयं शिक्षयन्ति स्म पितरं स्वकम् ॥ १६० ।। श्राद्धानां शावरूपाणि गुरूणां शिक्षयान्यदा। चैत्येषु गच्छतः साधून् प्रणामायोपतस्थिरे ॥ १६१ ॥ सर्वानपि प्रणंस्यामो मुक्त्वा छत्रधरं मुनिम् । उपाश्रयागतोऽपृच्छदवन्द्यः किमहं पुनः॥ १६२॥ तातः किमेवं वन्द्यः स्यान्मुञ्च छत्रं तथापि हि । पटं शिरसि देयास्त्वमुष्णताप उपस्थिते ॥ १६३॥ एवं भवत्विति प्राह वृद्धः स्नेहात्सुतप्रभोः। इत्थं स त्याजितो वाग्भिस्तेनालं पादुके अपि ॥१६४॥ अनुष्णक्षणबाह्योर्वीगामिन्मुक्तपरिग्रह । उपवीतेन किं बाह्यजनप्रत्यायकेन ते॥१६५॥ इति को वा न जानाति यद्वयं द्विजसत्तमाः। एवं शनैः स गार्हस्थ्यवेषं संत्याजितस्तदा ॥ १६६॥ पूर्वरीत्यान्यदा बालाः परिधानकृतेऽवदन् । स ब्रह्मतेजसा दीप्तस्तदाह पृथुकान् प्रति ॥ १६७ ॥ नग्नो न स्यामहं यूयं मा वन्दध्वं सपूर्वजाः। स्वर्गोऽपि सोऽथ माभूयाद्यो भावी भवदर्चनात् ॥१६८ ॥ १J and H मतालयः. २-P सर्वस्तै०. ३ J & H तत्सकच्छा० ४. P प्रेतं. ५J H शिष्यया. ६J and H पह...उपस्थितम्. ७ J & H नानानस्याम्यहं...स्वर्गोपि सोप्यथ मा०. Page #32 -------------------------------------------------------------------------- ________________ प्रभावकचरिते अन्यदाऽनशनात्साधौ परलोकमुपस्थिते । संज्ञिता मुनयो देहोत्सर्गाय प्रभुणा दृढम् ॥१६९ ॥ गीतार्था यतयस्तत्र क्षमाश्रमणपूर्वकम् । अहंप्रथमिकां चक्रुस्तत्तनूद्वहने तदा ॥ १७० ॥ कोपाभासाहुरुः प्राह पुण्यं युष्माभिरेव तत । उपार्जनीयमन्यूनं न तु नः स्वजनवजैः॥ १७१ ॥ श्रुत्वेति जनकः प्राह यदि पुण्यं महद्भवेत् । अहं वहे प्रभुः प्राह भवत्वेवं पुनः शृणु ॥ १७२॥ उपसर्गा भवन्त्यस्मिन्नुह्यमाने ततो निजम् ।। किं तातमनुमन्येऽहमस्मिन्दुष्करकर्मणि ॥ १७३॥ उपसर्गर्यदि क्षुभ्येत्तन्नः स्यादपमङ्गलम् । विज्ञायेत्युचितं यत्ते तद्विधेहि समाधिना ॥ १७४ ॥ वहिक्षाम्येव किमहं निःसत्त्वो दुर्बलोऽथवा । एतेभ्यो मामकीना तन्न कार्या काप्यनिर्वृतिः॥१७५॥ पुरा प्रत्यूहसंघातो वेदमन्त्रैर्मया हतः। समस्तस्यापि राज्यस्य राष्ट्रस्य नृपतेस्तथा ॥ १७६॥ ततः संवोढुरस्यांशे शवं शवरथस्थितम्। आचकर्षार्निवसनं शिशवः पूर्वशिक्षिताः॥ १७७॥ अन्तर्दूनोऽप्यसौ पुत्रप्रत्यूहभयतो न तत् । अमुञ्चत्तत उत्सृज्य स्थण्डिले च वले रयात् ॥ १७८ ॥ गुरुणापृच्छि किं नग्नस्तातः सोऽप्युत्तरं ददौ । उपसर्गः समुत्तस्थौ त्वदचो ह्यनृतं नहि ॥ १७९ ॥ स न्यषेधि मया दाढादेवंवादिनि तत्र च । शाटकं पृथुलं दीर्घ गृहाणेत्यथ तेऽवदन् ॥१८० ॥ तदाकर्ण्य पिता प्राह द्रष्टव्यं दृष्टमेव यत् । को नः परिग्रहस्तस्मान्नाग्न्यमेवास्त्वतः परम् ॥ १८१॥ एवंप्रायप्रपञ्चैश्चावलेपान् पर्यहापयन् । गुरवो न तु भैक्ष्येऽस्य मनः शक्ता नियोजितुम् ॥ १८२॥ एवं त्ववकरं नायं त्यजति प्रभुणापि च । अनेकश उपायैस्तैः सुपरिच्छेदितोऽपि सन् ॥ १८३॥ १J & H साधो परलोकमुपेयुषि । संज्ञिता मुनया देहोपसर्गाः. २J & H क्षमाश्रवणपूर्वक. ३ J & H पुनः प्राह. ४ J and H वहिष्यवामेवकिमहंति. ५J & H प्यति. ६J & H वलले. ७J and H तद्वचो नोनृतं क्वचित्. ८J and H एवं प्रथं वैश्वा०. ९J H मनः . शक्त्या नियोजितं. १० J& H एवं त्ववकरन्नायां०. Page #33 -------------------------------------------------------------------------- ________________ आर्यरक्षितप्रबन्धः । २५ कदाचिदायुः क्षीयेतास्माकं तन्निस्तरिष्यति। ... कथं जरनसौ तस्माद्भिक्षां ग्राह्यः कथंचन ॥ १८४ ॥ . ध्यात्वेति शिक्षयन्ति स्म रहस्ते मुनिपुङ्गवान् । मण्डल्या नास्य दातव्य आहारो भोज्यमेककैः ॥ १८५॥ अरुच्यमपि चित्तस्य तथा ते प्रतिपेदिरे। ततो गुरुवचःश्रद्धानिष्ठेभ्योऽस्तु नमो नमः ॥ १८६॥ विहारं चक्रुरन्यत्रान्यदा ते गुरवो बहिः। मण्डल्यां यतयो न न्यमन्त्रयन्त जरन्मुनिम् ॥ १८७ ॥ यह्ने गुरव आजग्मुरार्यं च समभाषयन् । ततः प्रमन्युराहासौ श्रूयतां सुत मद्वचः॥१८८॥ दिनानि चेद्बहूनि त्वमवास्थास्यो बहिर्भुवि। . अकालेपि तदा प्राणान् पर्यत्याक्षमहं ध्रुवम् ॥ १८९ ॥ मुनयोऽमी त्वदादिष्टा अपि वाती न मामकीम् । वहन्ति हेतो! वेद्मि तन्न कस्याप्यहं प्रभो ॥१९०॥ ततस्ते कृतकक्रोधाद्विनेयानूचिरे चिरम् । तातः कथं भवद्भिर्न भोजनेन निमन्त्रितः ॥ १९१॥ ते प्राहुः पूज्यपादेभ्यो विना नः शून्यचेतसाम् । झूणं पतितमेवैतत् क्षन्तव्यं बालचेष्टितम् ॥ १९२ ॥ श्रुत्वेति तद्वचः प्राहुः सूरयः श्रूयतां पितः। न विधेया परस्याशा मूलहेतुः पराभवे ॥ १९३॥ वयं त्वदुचिताहारान्वेषणाय खयं ननु । यास्यामः कीदृशोऽमीषां पाटो व्रीडावहः स्फुटम् ॥ १९४ ॥ इत्युक्त्वा स्वयमुत्थायादाय चाथ स्वपात्रकम् । चेलुस्तावञ्च वर्षीयानाह साहसवद्वचः ॥ १९५॥ अहमेव प्रयास्यामि भिक्षायै किं मयि स्थिते । वत्स गच्छपतिस्त्वं हि भिक्षुभिक्षां भ्रमिष्यसि ॥ १९६॥ इत्युक्त्वा मंच सोत्साहं प्रतिषिद्धोपि सूरिभिः । सपात्रः संचचालासौ प्राप्तश्चेभ्यस्य मन्दिरम् ॥ १९७॥ अपद्वाराप्रविष्टोसौ भिक्षाशिक्षास्वनिष्ठितः। मूलद्वारा कथं नागा गृहिणेत्युदितस्ततः ॥ १९८॥ आयातीह शुभा लक्ष्मीरपद्वारापि धार्मिक । श्रुत्वेति स गृही दध्यौ वृद्धस्तत्कालधीरयम् ॥ १९९॥ द्वात्रिंशन्मोदकांस्तेन तुष्टेन प्रतिलाभितः। आगत्योपाश्रये सूरेः पुरश्चौलोचयत्ततः ॥ २०० ॥ १ क्षुल्लं इति स्यात्.२ J H पाठो. ३ J and H read शिक्षासिक्षाव. ४ P-आयांतीह. ५J & H सूरिः परश्चा. Page #34 -------------------------------------------------------------------------- ________________ २६ प्रभावकचरिते गुरुणा प्रथमे लाभे शकुनोऽत्र विचारितः। द्वात्रिंशत्संख्यया शिष्या भविष्यन्ति ममानुतः ॥ २०१॥ अपृच्छच्च पुनस्तात यदा राजकुलाद्धनम् । लब्धा ततो भुक्तशेषं दध्वं कस्य भावतः ॥२०२॥ आर्योप्याह गुणोदग्रश्रोत्रियेभ्यः प्रदीयते। सत्पात्रेभ्यो यतो दत्ता लक्ष्मीः सुकृतभूर्भवेत् ॥ २०३॥ प्रधानाः साधवोऽस्मच्च वैयावृत्यादिसहुणैः। अमीषां देहि तत्तात जन्म स्खं सफलं कुरु ॥२०४॥ बालग्ना(शा)नादिसाधूनामानीतं चेन्मयाशनम् । उपकारि(रो)भवेदेषां किं न लब्धं मयात्र तत् ॥ २०५॥ एवं वदन्नसौ वृद्धो भिक्षायामारं वहन् । परमाराध्यतां प्राप्तो गच्छे दानैकशुद्धधीः ॥२०६॥ तत्र गच्छे त्रयः पुष्पमित्राः सुत्रामतेजसः। स्वप्रज्ञाशातशास्त्रार्थाः सन्ति संतोषभूमयः ॥ २०७॥ घृतपूर्वस्तेषु पूर्वो वस्त्रपूर्वो द्वितीयकः। सुधीर्दुर्बलिकापूर्वः पुष्पमित्रस्तृतीयकः ॥ २०८ ॥ तत्राद्यपुष्पमित्रस्य लब्धिरासीच्चतुर्विधा। द्रव्यतः क्षेत्रतश्चापि कालतो भावतस्तथा ॥ २०९॥ द्रव्यतो घृतमेव स्यात् क्षेत्रतोऽवन्तिमण्डलम् । ज्येष्ठाषाढे कालतस्तु भावतोऽथ निगद्यते ॥२१०॥ दुर्गता ब्राह्मणी षड्भिर्मासैः प्रसवधर्मिणी। तद्भतेति विमृश्याज्यं भक्षित्वा संचये दधौ ॥ २११॥ ततः सा प्रसवे चाद्यश्वीने क्षुद्बाधितं द्विजम् । तद् घृतं याचमानं तं रुणझ्यन्यनिराशया ॥ २१२॥ स मुनिश्चेदर्थयेत दत्ते तदपि संमुदा।। यावद्गच्छोपयोग्यं स्यात्तावदाप्नोति भावतः॥२१३॥ वस्त्रादि पुष्पमित्रस्य प्रेक्ष्यते लक्षणं त्विदम् । द्रव्यतो लभते वस्त्रं क्षेत्रतो मथुरा पुरी ॥२१४॥ वर्षाशिशिरहेमन्ते कालतो भावतस्त्विदम् । तस्य लब्धिविशेषोयं क्षयोपशमसंभवः ॥ २१५॥ अनाथा महिला कापि कर्पासोच्चयमूल्यतः। तूलं संपिण्ड्य कर्तित्वा वानकर्मकृतां गृहे ॥ २१६ ॥ कर्म कृत्वा वेतनेन पटं तेभ्यः प्रवाययत् ।। १J & H गुणादग्र०. २. J & H बालग्लाना०. ३ JH गच्छ, ४ J & H निराशयः. ५ P-सा मुदा. Page #35 -------------------------------------------------------------------------- ________________ आर्यरक्षितप्रबन्धः । शाटकं विपटा तेनार्थिता तमपि यच्छति ॥ २१७॥ दुर्बलः पुष्पमित्रोपि यथा लब्धं घृतं धनम् । भुनक्ति स्वेच्छयाभीक्ष्णं पाठाभ्यासात्तु दुर्बलः ॥२१८॥ स मनीषाविशेषेण गृहीतनवपूर्वकः। समभ्यस्यत्यहोरात्रं मा विस्मार्षीन्मम श्रुतम् ॥ २१९ ॥ सनाभयो दशपुरे तस्य तिष्ठन्ति विश्रुताः।। सौगतोपासकास्ते च सूरिपार्श्वे समाययुः॥ २२० ॥ ऊचुयॊष्माकधर्मेऽस्मिन् ध्यानं नास्ति स चावदत् । ध्यानमस्माकमस्तीह यत्तत्तेषां न विद्यते ॥ २२१ ॥ भौवत्कः पुष्पमित्रोयं ध्यानेनैवास्ति दुर्बलः। ते प्राहुर्मधुराहाराभावः कायाय सव्रते ॥ २२२॥ गुरुः प्रोवाच वृद्धानां प्रसादेन घृतप्लुतम् । भुंक्ते यथेच्छं सततं गुणनेन त्वयं कृशः ॥२२३॥ कुतो वः स्नेहसंपत्तिरित्युक्ते गुरुरुत्तरम् । प्रादाद्धतं पुष्पमित्रः समानयति तद् घनम् ॥ २२४॥ अथ न प्रत्ययो वस्तन्नयतामुं निजे गृहे । दिनानि कतिचिच्चास्य स्निग्धाहारं प्रयच्छत ॥ २२५॥ खयं ज्ञास्यथ सद्भावं दौर्बल्यहेतुमप्यथ । तैराहूतोप्यनुज्ञातो गुरुभिस्तदृहं ययौ ॥ २२६॥ पोष्यमाणो वराहारैरप्यसौ कृशतां भजेत् । अहर्निशमधीयानो रसास्वादं न बुध्यते ॥ २२७॥ स्वजनावि(व्य)मृशन्नस्य भुक्तं भस्मनि होमवत् । ददुर्बहुतरं ते च ततोप्यस्य न किंचन ॥ २२८ ॥ प्रेक्षिरे व्यतिरेकं ते प्रांताहारप्रदायिनः। न्यषेधयन्नध्ययने पुरावस्थांगभागभूत् ॥ २२९॥ प्रतीतास्तेन संबोधं प्राप्यन्त स्वजना निजाः । पुनरागाहुरूपान्ते शान्ते चेतसि सुस्थितः ॥ २३० ॥ तत्र गच्छे च चत्वारः प्राज्ञा मुनिमतल्लिकाः। दुर्बलः पुष्पमित्रोथ विन्ध्याख्यः फल्गुरक्षितः ॥ २३१ ॥ गोष्टामाहिलनामा च जितौशनसचेतनः। तेषां विन्ध्योऽथ मेधावी गुरून् विज्ञपयत्यदः॥ २३२॥ १JH शाकटं. २. J H समभ्यस्यहो० पीन्ममश्रुतः। ३ JH भवेत्कः. ४ J and H-स्वजनात्यमुशन्नस्य भुंक्ते; ५ J & H-omit 'ददुर्बहुत......भागभूत्.' Page #36 -------------------------------------------------------------------------- ________________ . प्रभावकचरिते महत्यामनुयोगस्य मण्डल्यां पाठघोषतः। । स्खलति श्रुतपाठो मे पृथग्मे कथ्यतांततः॥२३३॥ त्रिभिर्विशेषकम् । सूरिराह स्वयमहं व्याख्यामि भवतः पुरः। व्याख्यानमण्डली तूलचयामि महती कथम् ॥ २३४॥ तस्मात्ते वाचनाचार्यो दुर्बलः पुष्पमित्रकः। महामतिरुपाध्यायोऽधीष्व शीघ्रं तदग्रतः॥२३५॥ एवं कृते दिने(नैः)कैश्चित्स विन्ध्योऽध्यापको गुरून् । कृतांजलि(ली) रहोऽवादीत् प्रभो शृणुत मद्वचः ॥ २३६ ॥ अहं वाचनया व्यग्रः स्वाधीतं विस्मरामि यत् । गुणने भंगपातेन तत्खिन्नः किं करोम्यहम् ॥ २३७॥ यदा स्वकगृहे प्रैषि पूज्यैर्गुणनवारणात् । तत्कृतात्स्खलितं किंचित् तदाधीतं पुरापि यत् ॥ २३८॥ यद्यतःपरमेतस्य वाचनां दापयिष्यथ । ततो मे नवमं पूर्व विस्मरिष्यत्यसंशयम् ॥ २३९॥ श्रुत्वेत्यचिन्तयत्सूरिरीदृग्मेधानिधिर्यदि । विस्मरत्यागनं तर्हि कोऽन्यस्तं धारयिष्यति ॥ २४० ॥ ततश्चतुर्विधः कार्योनुयोगोऽतः परं मया । ततोंगोपांगमूलाख्यग्रन्थच्छेदकृतागमः॥ २४१॥ अयं चरणकरणानुयोगः परिकीर्तितः। उत्तराध्ययनाद्यस्तु सम्यग्धर्मकथापरः॥२४२॥ . सूर्यप्रज्ञप्तिमुख्यस्तु गणितस्य निगद्यते । द्रव्यस्य दृष्टिवादोऽनुयोगाश्चत्वार ईदृशः२४३ त्रिभिर्विशेषकम् । विन्ध्यार्थमिति सूत्रस्य व्यवस्था सूरिभिः कृता। पुरा चैकत्रसूत्रेऽभूदनुयोगचतुष्टयम् ॥ २४४ ॥ अन्यदा मथुरापुर्यामार्यरक्षितसूरयः । तस्या भूमेरधिष्ठातुर्व्यन्तरस्याश्रयेऽवसन् ॥ २४५॥ इतश्चास्ति विदेहेषु श्रीसीमंधरतीर्थकृत् । तदुपास्त्यै ययौ शक्रोऽश्रीषीयाख्यां च तन्मनाः ॥ २४६ ॥ निगोदाख्यानमाख्याच्च केवली तस्य तत्त्वतः। इन्द्रः पप्रच्छ भरते कोऽन्यस्तेषां विचारकृत् ॥ २४७॥ अथाहत्प्राह मथुरानगर्यामार्यरक्षितः । निगोदान्मद्वदाचष्ट ततोऽसौ विस्मयं ययौ ॥ २४८॥ १JH-तूर्ण लघयामि महती कथम्. २ JH-कश्चित् संबंध्योऽध्यापको. Page #37 -------------------------------------------------------------------------- ________________ २९ . आर्यरक्षितप्रबन्धः । प्रतीतोऽपि च चित्रार्थ वृद्धब्राह्मणरूपभृत् । आययौ गुरुपार्वे स शीघ्रं हस्तौ च धूनयन् ॥ २४९ ॥ काशप्रसूनसंकाशकेशो यष्टिश्रिताङ्गकः। सश्वासप्रसरो विष्वग्गलच्चक्षुर्जलप्लवः॥ २५०॥ युग्मम् । एवंरूपः स. पप्रच्छ निगोदानां विचारणम् । यथावस्थं गुरुर्व्याख्यात्सोऽथ तेन चमत्कृतः॥२५१॥ जिज्ञासु नमाहात्म्यं पप्रच्छ निजजीवितम् । ततः श्रुतोपयोगेन व्यचिन्तयदिदं गुरुः ॥ २५२॥ तदायुर्दिवसैः पक्षैर्मासैः संवत्सरैरपि। तेषां शतैः सहनैश्चायुतैरपि न मीयते ॥२५३ ॥ लक्षाभिः कोटिभिः पूर्वैः पल्यैः पल्यशतैरपि । तल्लक्षकोटिभि व सागरेणापि नान्तभृत् ॥ २५४ ॥ युग्मम् । सागरोपमयुग्मे च पूर्णे ज्ञाते तदायुषि । भवान् सौधर्मसुत्रामा परीक्षां किं म ईक्षसे ॥ २५५ ॥ प्रकाश्याथ निजं रूपं मनुष्यप्रेक्षणक्षमम् । यथावृत्ते समाख्याते शक्रः स्थाने निजेऽचलत् ॥ २५६॥ प्रतीक्षिणेऽर्थिते किंचिद्यावद्यतिसमागमम् । रूपर्द्धिदर्शनैः साधुर्निदानेन न्यषेधयत् ॥२५७॥ तथापि किंचिदाधेहि चिह्नमित्यथ सोऽतनोत्। वेश्म तद्विपरीतद्वाः प्रययौ त्रिदिवं ततः ॥२५८ ॥ आयाते मुनिभिर्द्वारे नाते गुरुरुदैरयत्। विपरीतपथायाताजग्मुस्ते चातिविस्मृताः॥२५९ ॥ संभ्रमात्कि किमित्यूचिवांसस्ते बोधितास्तदा । गुरुभिर्गोत्रभृवृत्तं याथातथ्यान्निवेदितम् ॥ २६० ॥ देवेन्द्रादर्शनात् खिन्ना इव किंचित्तदावदन् । मन्दभाग्यैः कथं नाम दृश्यन्ते वासवा नरैः॥२६१ ॥ अथो विजहरन्यत्र प्रभवो मथुरां पुनः। आगतो नास्तिवादी च तं गोष्टामाहिलोऽजयत् ॥ २६२ ॥ असौ तत्रैव संघेन चतुर्मासी व्यधाप्यत । वादलब्धियुतस्ताक् केनावस्थाप्यते नहि ॥१६३॥ आर्यरक्षितसूरिश्च व्यमृशत् कः पदोचितः। ... दुर्बलः पुष्पमित्रोऽयं तद्विचारे समागमत् ॥ २६४ ॥ सूरीणां निजवर्गीया व्यमृशन् फल्गुरक्षितम् । १JH-काशप्रशस्त. २ P-व्याख्यत्. ३J H-तेषां सहस्रैः शतैश्चायुतैरपि. ४ J H-प्रतिक्षणे. ५JH-ता. Page #38 -------------------------------------------------------------------------- ________________ ३० प्रभावकचरिते गच्छाधिपत्ये तं गोष्टामाहिलं चात्र मोहतः ॥ २६५ ॥ कुम्भत्रितयमानायि तत्राचार्यैः सुपूरितम् । निष्पावतैलसर्पिर्भिरंथ तच्च विरेचितम् ॥ २६६ ॥ वल्लाः सर्वेऽपि निर्यातास्तैलमीषत्पुनः स्थितम् । घृतं च बहुसंलग्नं पयश्तेमामुदाहुतिम् ॥ २६७ ॥ दुर्बलेऽहं मुनौ जज्ञे शतशिंम्बिककुम्भवत् । बंन्धौ तैलकुटौपम्यो मातुले घृतकुम्भवत् ॥ २६८ ॥ तन्मत्पदेऽयमेवास्तु प्रतीष्टं तैर्गुरोर्वचः । ततो न्यवेशयत्तत्र परमाक्षरमार्हतम् ॥ २६९ ॥ ततो गुरुभिरादिष्टं दुर्बलस्य नवप्रभोः । मदीयमातुलभ्रात्रोर्वर्त्य मद्वत् पितुश्च मे ॥ २७० ॥ यैतयोऽन्येऽपि गच्छस्था गुरुभिः पितृसोदरौ । तावशिष्यन्त साध्यश्च वचोभिर्मधुरैस्तदा ॥ २७९ ॥ यूयं मयीव वर्तध्वं मत्तोऽपि विनयाधिकाः । अस्मिन् यतो (तौ) व्रताचारे स्मृते वा विस्मृतेऽपि वा ॥ २७२ ॥ अकृते वा कृते वापि तत्सर्वं ममृषे मया । पुनरेष नवत्वेनाकृतेक्षूणमवाप्स्यति ॥ २७३ ॥ युग्मम् । ततोऽस्यापर्तितं वाक्यं कार्यमेव सदोद्यतैः । आमृत्यु पादमूलं च न मोक्तव्यममुष्य भोः ॥ २७४ ॥ एवं गच्छव्यवस्था तैरार्यरक्षितसूरिभिः । विहिता प्रान्तकाले त्वनशनं प्रत्यपादि च ॥ २७५ ॥ निर्यामिताश्च गीतार्थैर्दैवीं भुवमुपाययुः । पृथक्करणतः सर्वानुयोगस्यानुवर्तकाः ॥ २७६ ॥ युग्मम् । श्रीपुष्पमित्रसुरिश्च गच्छं वर्तयते ततः । गुरुतोऽभ्यधिकां चास्य समाधिमुपपादयत् ॥ २७७ ॥ स गोष्टामाहिलस्तत्र यथाविप्रतिपत्तिभूः । निह्नवः सप्तमो जज्ञे ज्ञेयं शास्त्रान्तराद्धि तत् ॥ २७८ ॥ इत्यार्यरक्षितविभोविंशदं चरित्रं चित्रं जगन्त्रितयपावनगाङ्गवारि । विद्वज्जनश्रवणकुण्डलतां प्रयात मापुष्पदन्तरुचि नन्दतु वन्दनीयम् ॥ २७९ ॥ १JH - मोहितः २ JH - रिव ३J H - लो. ४ JH - शम्बिक ५ J H-बन्धो तेलकुटो. ६ JH - यतयोपि स्वगच्छस्था. ७ JH-क्ष. J Hos P - का. Page #39 -------------------------------------------------------------------------- ________________ श्रीआर्यनंदिलप्रबन्धः। श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी सोमार्षिसूनोः कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो द्वितीयोऽगमत् ॥२८०॥ ग्रन्थागं० २८५ अक्षर ११॥ उभयं ४९२ । अक्षर २२॥ ॥ श्रीआर्यनंदिलप्रबन्धः। आर्यरक्षितवंशीयः स श्रीमानार्यनन्दिलः। संसारारण्यनिर्वाहसार्थवाहः पुनातु वः ॥ १ ॥ क आर्यनन्दिलखामिगुणवर्णन ईशिता । अष्टौ कुलानि नागानां यदाज्ञां शिरसा दधुः॥२॥ यत्प्रसादेन वैरौद्या क्षमाया उपदेशतः। नागेन्द्रदयिता जशे नाममन्त्राद्विषापहा ॥३॥ किंचित्प्रस्तौमि तद्वृत्तं गुरुणा गुरुणावृतः । प्रसादेन मृगाङ्कस्थो (स्य) मृगः किं नाचते नभः ॥४॥ अस्ति स्वस्तिनिधिः श्रीमत्पद्मिनीषण्डपत्तनम् । मण्डितं सारकासारैः पद्मिनीखण्डमण्डितैः॥५॥ तत्र वित्रासिताशेषशत्रुपक्षः क्षमापतिः। पद्मप्रभाभिधः पद्मासद्मपद्मनिभाननः ॥६॥ तस्य पद्मावती कान्ता कान्ताशतशिरोमणिः । यया देहश्रिया जिग्ये कान्ता स्वर्गपतेरपि ॥७॥ तत्रामात्रश्रियां पात्रं श्रेष्टी श्रेष्ठकलानिधिः। अर्थिचातकपाथोदः पद्मदत्तोस्ति विश्रुतः ॥ ८॥ तस्य पद्मयशा नाम वल्लभाऽस्ति रतिप्रभा। पुत्रः सुत्रामपुत्राभरूपः पद्माभिधस्तयोः ॥९॥ कलाकलापसंपूर्ण तं मत्वा सार्थनायकः । वरदत्तः स्वकां पुत्रीं वैरोद्याख्यां व्यवाहयत् ॥१०॥ अन्यदा वन्यदावाग्निदुस्सहे समुपागते । अन्तप्रतिभुवि न्यक्षपक्षेषु जगतोऽशिवे ॥११॥ युतः स परिवारेण पुण्यनैपुण्यसंक्षयात् । वरदत्तः पुरं प्राप विपापः समवर्तिनः ॥ १२॥ युग्मम् । ततः प्रभृति तुच्छत्वात् श्वश्रूः शुश्रूषिताप्यलम् । वैरोद्यामवजानाति तां निष्पितृगृहामिति ॥१३॥ १ JH-क्षमया. २ P-दृ. ३ JH-प्रा. ४ JH-व. Page #40 -------------------------------------------------------------------------- ________________ ३२ प्रभावकचरिते रूपं राढा(?)धनं तेजः सौभाग्यं प्रभविष्णुता । प्रभावात्पैतृकादेव नारीणां जायते ध्रुवम् ॥ १४ ॥ ततस्तद्वचनैर्द्वना विनीतानां शिरोमणिः । साहोरात्रं भजेत्कार्य कर्मोपालम्भतत्परा ॥ १५ ॥ अन्येद्युः साथ भोगीन्द्रस्वप्नसंसूचितं तदा । उवाह रत्नगर्भेव रत्नं गर्भं शुभाद्भुतम् ॥ १६॥ तृतीये मासि पूर्णे च दोहदं द्रोहदं द्विषाम् । बभार सा रसत्वाढ्या दृढं पायसभोजने ॥ १७ ॥ अथार्यनन्दिलः सूरिरुद्याने समवासरत् । साधुवृन्दवृतः सार्द्धनवपूर्वधरः प्रभुः ॥ १८ ॥ तस्यामापन्नसत्वायामपि श्वश्रूरदक्षिणा । वदन्ती कद्रदा यत्किचिदपि प्रतिकूलति ॥ १९ ॥ अस्याः कथं सुतो भावी निर्भाग्यैकशिरोमणेः । सुतैव भाविनी निष्पित्र्या या दारिद्र्यदीर्घिका ॥ २० ॥ इत्थं दुर्वचनैर्दूना साथ प्रभुपदान्तिकम् । आयाद्विमृष्य यच्चैत्यगृहं पितृगृहं न तु ॥ २१ ॥ अभिवन्द्याथ सावादीदुदश्रुः प्राग्भवे मया । प्रभो विराधिताम्बा किं यन्मेय्यति विरोधिनी ॥ २२ ॥ प्रभुराह पुराकर्मकृते दुःखसुखे जने । तत् किमन्यस्य दोषो हि दीयतेऽत्र विवेकिभिः ॥ २३ ॥ मानुषे दुर्लभे लब्धे सुखदा श्लाघ्यते क्षमा । यदस्यामादृतायां ते सर्व भावि शुभं शनैः ॥ २४ ॥ ज्ञानाज्ज्ञातो मया वत्से दोहदस्तव पायसे । अवतीर्णः ः स पुण्येन सोपि संपूरयिष्यते ॥ २५ ॥ इति वागमृतैस्तस्याविध्यायन्मन्युपावकः (१) । शीतीभूता ययौ गेहे स्मरन्ती तद्वचो हृदि ॥ २६ ॥ पुण्डरीक तपश्चैत्र पौर्णि (र्ण) मास्यामुपोषिता । व्यधात्पद्मयशास्तस्योद्यापनं च प्रचक्रमे ॥ २७ ॥ तद्दिने पायसापूर्णः प्रदीयेत पतग्रहः । गुरूणां समधर्माणां वात्सल्यं क्रियतेऽथ सा ॥ २८ ॥ तस्मिन्कृते समस्तेऽपि कदर्यानं ददे तदा । श्वश्र्वावज्ञावशाद्वध्वा धिग्दर्पं गुणदूषकम् ॥ २९ ॥ १J H - प्रतिगृहं नतु २ J & H - मय्यपि ४P - मन्युपावका. ५J H - पयसा पूर्णः . ३ P - अवतीर्णनृपुण्येन. J H - समस्तोपि. Page #41 -------------------------------------------------------------------------- ________________ श्रीआर्यनंदिलप्रबन्धः । वधूदोहद माहात्म्यात्किंचिच्छेषं च पायसम् । वस्त्रे वा घटे क्षिप्त्वा जलायेव बहिर्ययैौ ॥ ३० ॥ कुम्भं मुक्त्वा तरोर्मूले यावद्याति जलाश्रये । अंह्निशौचाय सद्वृत्ता क्षैरेयीस्वादतन्मनाः ॥ ३१ ॥ ततोऽलिञ्जरनागेन्द्रकान्ताप्यागाद्सातलात् । भ्रमन्ती पायसे लुब्धा तदैक्षिष्ट घटे च सा ॥ ३२ ॥ वस्त्रखण्डात्समाकृष्य बुभुजे चाथ तत्तया । पुनर्यथागतं प्रायात्पातालं नागवल्लभा ॥ ३३॥ प्रत्यावृत्तौ च वैरोद्या तदप्रेक्ष्य घटान्तरा । न शुशोच न चाकुप्यत्सा सती किंत्विदं जगौ ॥ ३४ ॥ येनेदं भक्षितं भक्ष्यं पूर्यतां तन्मनोरथः । यादृग्ममेति शान्तान्तःकरणेत्याशिषं ददौ ॥ ३५ ॥ इतश्च पन्नगेन्द्रस्य कान्तया पत्युरग्रतः । निवेदितेऽवधेर्ज्ञात्वा सर्वे तां स विगीतवान् ॥ ३६ ॥ सानुतापा ततः सापि तदुपन्नगृहस्थितेः । स्त्रियः स्वप्नं ददौ तस्याः क्षमया रञ्जिता सती ॥ ३७ ॥ यदलिंजरनागस्य प्रियाहं तनया च मे । वैरोद्या पायसं दद्या अस्या दोहदपूरकम् ॥ ३८ ॥ तथा च मद्वचः कथ्यं तैवाहं यत्पितुर्गृहम् । ध्रुवं निवारयिष्यामि श्वश्रूभवपराभवम् ॥ ३९ ॥ भोजिता पायसं भक्त्या तया सा पुण्यवर्णिनी । संपूर्ण दोहदप्रीता जीजनत्सुतमद्भुतम् ॥ ४० ॥ नागकान्तापि सूते स्म नागानां शतमुत्तमम् । वर्द्धन्ते तेजसा तेऽपि तेजः प्रतिनिभप्रभाः ॥ ४१ ॥ वैद्या नागिनीं दध्यौ नामारोपणिपर्वणि । नन्दनस्य ततोम्बाया आदेशात्पन्नगोत्तमैः ॥ ४२ ॥ वयं पितृगृहं तस्याः प्रतिश्रुत्येति मानुषे । लोके तैरेत्य तद्रेहमलञ्चक्रे ससंमदैः ॥ ४३ ॥ युग्मम् । केचिन्मतङ्गजारूढा अश्वारूढाश्च केचन । सुखासनगताः केचित्केचिन्नरविमानगाः ॥ ४४ ॥ ३३ १ J H-जलाय च. २ JH - क्षैरयी. ३ P on the margin दोहदातू for भ्रमंती: JH पायासलुब्ध्वा. ४ JH - प्रत्यावृत्त्या. ५JHकरणात्या ०. ६ J H ततश्च - निवेदितोऽवधे.. ७ JH - सानुतप्य ततः साव्हेस्थिते. ८JH प्रियाहमनया० H - तेजः प्रतिनिभाप्रभाः ११ J & H - नागारोपण. ९JH - तथाहं यत्. १० J Page #42 -------------------------------------------------------------------------- ________________ ३४ प्रभावकचरिते वक्रियातिशयाद्रूपशतभाजः सुरा अथ । तद्वेश्म संकटं चक्रुः पाटकं चापि पत्तनम् ॥४५॥ केपि बाला घटे क्षिप्त्वा अपिधानावृतास्यके।। रक्षार्थमंचयों सी वैरोद्यायाः समर्पिताः॥ ४६॥ वधूपितृकुले तस्मिन्नायाते श्रीकुलाद्भुते । श्वश्रूः स्नानादिभिस्तेषां सत्कर्तुमुपचक्रमे ॥४७॥ अहो लक्ष्मीवतामेव पक्षः श्रेयान् जयीजने । यजातेयं विगीता सा तन्निजागौरवास्पदम् ॥४८॥ कयापि कर्मकर्याथ पर्वकर्मविहस्तया । अश्मन्तकस्थितस्थालीमुखे नागघटो ददे ॥ ४९ ॥ दृष्टा व्याकुलया वैरोद्यया चोत्तारितो घटः। स्नातया जननी वाक्यात्केशाद्भिः सोऽभ्यषिच्यत ॥ ५० ॥ ते तत्प्रभावतः स्वच्छास्तस्थुरेकः पुनः शिशुः । अस्पर्शाजलबिन्दूनां विपुच्छोऽजायत क्षणात् ॥ ५१ ॥ स्खलिते यत्र तत्रापि क्षुतादौ वदति स्म सा । बण्डो जीवत्विमां वाचं तस्य स्नेहेन मोहिता ॥५२॥ बन्धवो नागरूपास्ते सर्वेभ्यो ददुरद्भुतम् । क्षौमसौवर्णरत्नौघमुक्ताभरणमण्डलम् ॥५३॥ तत्र पर्वणि संपूर्णे यथास्थानं च ते ययुः। नागास्तेन प्रभावेण गौरव्यासाभवद्गृहे ॥ ५४॥ अन्यदालिञ्जरः पुत्रान्नागराजो निभालयत् । बण्डं ददर्श कोपञ्च चक्रेऽवयवखण्डनात् ॥ ५५॥ तज्ज्ञात्वावधिना गेहे वैरोद्यायाः समाययो। दंशमस्या विधास्यामि ध्रुवं मन्नन्दनद्रुहः ॥५६॥ इति संश्रवमाकर्ण्य पत्युस्तंद्रक्षणोद्यता। समागान्नागिनी भक्ता वैरोद्येति प्रवादिनी ॥ ५७ ॥ गिरेति श्रुतया पत्न्याः किञ्चिच्छान्तः परीक्षितुम् । अन्तर्गृहं कपाटस्य पश्चाद्गृढतनुः स्थितः ॥ ५८॥ प्रदोषतामसाकिचिदरिं स्थितमग्रतः। अदृष्ट्वा रभसा यान्ती सा गुल्फे पीडिता भृशम् ॥ ५९ ॥ बण्डो जीवत्विति ततो वादिनी फणभृत्पतिम् । सद्यः संतोषयामास तुष्टोऽसौ नूपुरे ददौ ॥ ६०॥ १ P-वापि पत्तनम्. २ J_H-मंबया सी. ३ JH-चोरितो घटः । ४ JH-केशाभिः. ५J H-ततः प्रभावतः स्वस्था. ६JH-प्रभावने. ७ J H-स्तद्हणो. ८ JH-दरिरिं०. Page #43 -------------------------------------------------------------------------- ________________ श्रीआर्यनंदिलप्रबन्धः। ३५ यातायातं चानुजज्ञे तस्याः पातालवेश्मसु । तेन नागाश्च तद्गहमायान्त्यपि यथा तथा ॥ ६१ ॥ ततो बालावलामुख्योऽभवल्लोकोभयभ्रमिः। इति ख्यातं च तद्नेहं दुर्गमं नागमन्दिरम् ॥ ६२ ॥ विज्ञप्तं पद्मदत्तेन गुरूणां तद्यथातथम्। जगदुस्तेच नागानां स्ववध्वा ख्यापयेरिदम् ॥ ६३॥ अस्मद्गृहे न वैस्तव्यं जनानुग्रहकाम्यया । वस्तव्यं वा न दष्टव्यमिति कृत्यं मदाज्ञया ।। ६४॥ वैरोद्यायाः समादिष्टं त्वं गच्छाशीविषाश्रये। वक्तव्या नागिनीपुत्रा उल्लङ्घयाज्ञा हि मे नहि ॥६५॥ तया गत्वा च पाताले ज्ञापिताः फणवद्वराः। आज्ञां प्रभोस्ततो मान्यामीषामाख्ययमद्धता ॥६६॥ जीवितान्नागिनीनागशतं चास्यास्तथा पिता। आलिञ्जरश्च नागेन्द्रो विषव्यालाप्लुताम्बरः॥ ६७ ॥ अनाथाहंच सन्नाथा कृता येन सनूपुरौ । चरणौ रचितावित्याशिषं प्रादात्सुधोर्मिभाम् ॥ ६८ ॥ छत्रध्वजावृतिध्यानाद्देवदेवजिनेशितुः । पन्नगप्रेतभूताग्निचौरव्यालभयं नहि ॥ ६९ ॥ डाकिनीशाकिनीवृन्दं योगिन्यश्च निरन्तरम् । न विद्रवन्ति जैनाज्ञा यस्य मूर्धनि शेखरः॥ ७० ॥ यश्च तस्य गुरोराज्ञां वैरोद्यायास्तथा स्तवम् । नित्यं ध्यायति तस्य स्यान्नैव क्षुद्रभवं भयम् ॥ ७ ॥ गुडाज्यपायसैः स्वाद्यं बलिं ढौकयते च यः। जिनस्य जैनसाधोश्च दत्ते सा तं च रक्षति ॥ ७२ ॥ उपदेशं प्रभोरेनमाकान्येऽपि भोगिनः। उपशान्तास्तथा पूज्या वैरोद्याख्याभवत्सती ॥ ७३ ॥ नागदत्तश्च तत्पुत्रा भाग्यसौभाग्यरङ्गभूः। तत्कुलोन्नतिमाधत्त धर्मकर्मणि कर्मठः॥ ७४॥ संसारानित्यतामन्यदिने सद्गुरुगीभरात् ।। संभाव्य नागदत्तं स्खे पदेन्याधाहुणोज्ज्वलम् ॥ ७५॥ पद्मदत्तः प्रियापुत्रसहितो जगृहे व्रतम् । उग्रं ततस्तपस्तत्त्वा सौधर्म ससुतो ययौ ॥ ७६॥ १J H-ततो वलोवला. २J H-स्तेन नागानां स्ववधाः. ३Pवास्तव्यं. ४ JH-माज्ञा भिषामाख्यैय. ५P-वैरोद्यायास्तवं. ६JH-भुनभवं. ७ JH-उपदेशांतास्त०. ८ J-वैरोद्याख्यान०. ९ P-न्यास्थद्. Page #44 -------------------------------------------------------------------------- ________________ ३६ प्रभावकचरिते तथा पद्मयेशाः पूज्यादेशाद्वध्वा तया सह । मिथ्यादुष्कृतमाधाय देवी तत्रैव साभवत् ॥ ७७ ॥ वैद्यापि फणीन्द्राणां ध्यानाद्धर्मोद्यता सती । मृत्वाभूद्धरणेन्द्रस्य देवी श्रीपार्श्वसेवितुः ॥ ७८ ॥ सापि प्रभोर्भक्तिमतां चक्रे साहाय्यमद्भुतम् । विषवह्नयादिभीतानां दधात्युपशमं ध्रुवम् ॥ ७९ ॥ श्री आर्यनन्दिलः स्वामी वैरोद्यायाः स्तवं तदा । नमकुणजिणं पासमिति मन्त्रान्वितं व्यधात् ॥ ८० ॥ एकचित्तः पठेन्नित्यं त्रिसंध्यं य इमं स्तवम् । विषाद्युपद्रवाः सर्वे तस्य न स्युः कदाचन ॥ ८१ ॥ ये वैरोद्याख्यानमेतत्पवित्रम् क्षान्त्यक्षीणश्रेयसां मूलशाला । श्रुत्वा मर्त्या ये क्षमामाद्रियेरन् तेषां स्वर्गे नापि मोक्षो दुरापः ॥ ८२ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीनन्दिलाख्यानकं श्रीप्रद्युनमुनीन्दुना विशदितः शृङ्गस्तृतीयोऽजनि ॥ ८३ ॥ प्रभो श्री प्रद्युत्रभिनवरसधाराधरविनाभवन्तं सर्वक्षरविषयतृष्णातरलितम् सुलम्भान्यश्रीमद्भुवननिरपेक्षं विंशदने गिरीं सारैः शिष्यं ननु धिनु निजं चातकशिशुम् ॥ ८४ ॥ अक्षर २४ ॥ उभयं ५७७ ॥ श्रीकालकसूरिप्रबन्धः ४ श्रीसीमंधरतीर्थेशविदितोऽणुतो गुणान् । कुतश्चिदपि सोऽव्याद्वः कालकः सूरिकुञ्जरः ॥ १ ॥ प्राच्यैर्बहुश्रुतैर्वृत्तं यस्य पर्युषणाश्रयम् । आतं कीर्त्यते किं न शकटी शकटानुगा ॥ २ ॥ नरस. १ P - पद्मजसा २P - दैवी. ३ JH-मुनीद्राणां ४ P - चुम्नाभिघ५J H- विददतै. ६ P - गिरासारै. P - ग्रन्थाग्र उभय ५७७ अ ४८ इति श्रीनंदिलाचार्यप्रबंधस्तृतीयः । ७JH - ननणुतोगुणात्. Page #45 -------------------------------------------------------------------------- ________________ श्रीकालकसूरिप्रबन्धः। श्रीधारावासमित्यस्तिनगरं नगरोजयी (?)। द्विजिह्वास्यसमुद्गीर्णो यत्र साधुवचोऽमृतैः॥ ३॥ आशशाङ्कं बलं वाढ्या (?) महाबलभरोच्छ्रिता । कीर्तिः पताकिका यस्याक्रान्तव्योमा गुणाश्रया ॥ ४॥ युग्मम् । श्रीवीरसिंह इत्यस्ति राजा विक्रमराजितः। यत्प्रतापो रिपुस्त्रीणां पत्रवल्लीरशोषयत् ॥५॥ तस्य श्रीशेषकान्तेव कान्तास्ति सुरसुन्दरी। उत्पत्तिभूमिर्भद्रस्य महाभोगविराजिता ॥६॥ जयन्त इव शक्रस्य शशाङ्क इव वारिधेः। कालकोकालकोदण्डखण्डितारिः (?) सुतोऽभवत् ॥ ७॥ सुता सरस्वती नाम्ना ब्रह्मभूर्विश्वपावना। यदागमात्समुद्रोऽपि गुरुः सर्वाश्रयोऽभवत् ॥ ८ ॥ कालकोऽश्वकलाकेलिकलनायान्यदा बहिः । पुरस्य भुवमायासीदनायासी हयश्रमे ॥९॥ तत्र धौरितकात् प्लुत्या वल्गितेनापि वाहयन् । उत्तेजितालसद्गत्या हयानुत्तेरितादपि ॥१०॥ श्रान्तस्तिमितगन्धर्वो गन्धर्व इव रूपतः।। अशृणोन्मसृणोदारं स्वरमाराममध्यतः ॥ ११ ॥ अथाह मन्त्रिणं राजपुत्रः कीदृक् खरो ह्यसौ। मेघगर्जितगम्भीरः कस्य वा ज्ञायतां ततः ॥१२॥ व्यजिज्ञपत्स विज्ञाय नाथ सूरिर्गुणाकरः । प्रशान्तपावनी मूर्ति विभ्रद्धर्म दिशत्यसौ ॥ १३ ॥ विश्राम्यद्भिर्नृपारामे श्रूयतेऽस्य वचोऽमृतम् । अस्त्वेवमिति सर्वानुज्ञाते तत्राभ्यगादसौ ॥ १४ ॥ गुरुं नत्वोपविष्टे च विशेषादुपचक्रमे । धर्माख्यां योग्यतां ज्ञात्वा तस्य ज्ञानोपयोगतः॥१५॥ धर्माहदुरुतत्त्वानि सम्यग्विज्ञाय संश्रयः। ज्ञानदर्शनचारित्ररत्नत्रयविचारकः॥१६॥ धर्मो जीवदयामूलः सर्वविद्देवताजिनः । ब्रह्मचारी गुरुः संगभङ्गभूरागभङ्गभित् ॥ १७ ॥ १ P-श्रीधरावास. २ P-आशाकंबा(ठा)वलंवाढ्या महाबलभरोच्छ्रिता. ३ P-वैरिसिं. ४ J H-कांतवकंतास्ति० ५ J_H कायोन्यदा. ६J धौ. रितकोप्लुत्या वल्गिते. म-धौरितकोप्लुत्या वल्गिते नापि वादयत्. ७P-संश्रियः margin श्रयं. Page #46 -------------------------------------------------------------------------- ________________ प्रभावकचरिते mM व्रतपञ्चकसंवीतो यतीनां संयमाश्रितः। दशप्रकारसंस्कारो धर्मः कर्मच्छिदाकरः ॥ १८॥ य एकदिनमप्येकचित्त आराधयेदमुम् । मोक्षं वैमानिकत्वं वा स प्राप्नोति न संशयः ॥ १९ ॥ अथो गृहस्थधर्मश्च व्रतद्वादशकान्वितः। दानशीलतपोभावभङ्गीभिरभितः शुभः ॥२०॥ स सम्यक्पाल्यमानश्च शनैर्मोक्षप्रदो नृणाम् । जैनोपदेश एकोऽपि संसाराम्भोनिधेस्तरी ॥२१॥ श्रुत्वेत्याह कुमारोऽपि मंगिनी मंगिनी (?) दिशः। दीक्षां मोक्षं यथाज्ञानवेलाकूलं लभे लघु ॥२२॥ पितरौ स्वावनुज्ञाप्यागच्छतस्तस्तु चिन्तितम् । अत्यादरेण तत्कृत्वागाजाम्या सहितस्ततः॥२३॥ प्रवज्यादायि तैस्तस्य तया युक्तस्य च स्वयम् । अंधीती सर्वशास्त्राणि स प्रज्ञातिशयादभूत् ॥ २४॥ स्वपट्टे कालकं योग्यं प्रतिष्ठाप्य गुरुस्ततः । श्रीमान् गुणाकरः सूरिः प्रेत्यकार्याण्यसाधयत् ॥२५॥ अथ श्रीकालकाचार्यों विहरन्नन्यदा ययौ । पुरीमुजयिनीं वाह्यारामेऽस्याः समवासरत् ॥२६॥ मोहान्धतमसे तत्र मनानां भव्यजन्मिनाम् । सम्यगर्थप्रकाशेऽभूत्प्रभूष्णुर्मणिदीपवत् ॥२७॥ तत्र श्रीगर्दभिल्लाख्यः पुर्या राजा महाबलः। कदाचित्पुरवाह्योा कुर्वाणो राजपाटिकाम् ॥ २८ ॥ कर्मसंयोगतस्तत्र वजन्तीमैक्षत स्वयम् । जामि कालकसूरीणां काको दधिघटीमिव ॥ २९ ॥ युग्मम् । हा रक्ष रक्ष सोदर्य क्रन्दन्ती करुणं स्वरम् । अपाजीहरदत्युग्रकर्मभिः पुरुषैः स ताम् ॥३०॥ साध्वीभ्यस्तत्परिज्ञाय कालकप्रभुरप्यथ । स्वयं राजसमज्यायां गत्वावादीत्तदग्रतः॥३१॥ वृत्तिर्विधीयते कच्छे रक्षायै फलसंपदः । फलानि भक्षये झैवाख्येयं कस्याग्रतस्तथा ॥ ३२॥ १J-मंगिनी दिशा, H मंगिनी मंगिनी दिशा. २ P-तत्ते. ३ Pप्रवृज्या. ४ JH-अधीत०. ५ J H-स्वे० ६J H-पुरिमुज्जयिनीवाह्या०. ७ P-जामिकालक०. ८J H-omit अथ. ९J H-भक्षयित्सैख्येयं. Page #47 -------------------------------------------------------------------------- ________________ श्रीकालकसूरिप्रबन्धः । राजन् समग्रवर्णानां दर्शनानां च रक्षकः । त्वमेव तन्न ते युक्तं देर्यनिव्रतलोपनम् ॥ ३३॥ उन्मत्तकभ्रमोन्मत्तवदुन्मत्तो नृपाधमः । न मानयति गामस्य म्लेच्छ (व) द्वंसते तथा ॥ ३४ ॥ संघेन मन्त्रिभिः पौरैरपि विज्ञापितो दृढम् । अवाजीगणदारूढो मिथ्यामोहे गलन्मतिः ॥ ३५ ॥ प्राकृक्षात्रतेज आचार्य उन्निद्रमभजत्ततः । प्रतिज्ञां विदधे घोरां तदा कातरतापिनीम् ॥ ३६ ॥ जैनापभ्राजिनां ब्रह्मबालप्रमुखघातिनाम् । अर्हद्विम्बविहन्तॄणां लिप्येहं पाप्मना स्फुटम् ॥ ३७॥ न चेदुच्छेदये शीघ्रं सपुत्रपशुबान्धवम् । अन्यायकर्दमक्रोडं विब्रुवन्तं नृपब्रुवम् ॥ ३८ ॥ युग्मम् । असंभाव्यमिदं तत्र सामान्यजनदुष्करम् । उक्त्वा निष्क्रम्य दम्भेनोन्मत्तवेषं चकार सः ॥ ३९ ॥ एकाकी भ्रमति स्मायं चतुष्के चत्वरे त्रिके । असम्बद्धं वदन् द्वित्रिश्चेतनाशून्यवत्तदा ॥ ४० ॥ गर्द्दभिल्लो नरेन्द्रश्चेत्ततस्तु किमतः परम् । यदि देशः समृद्धोस्ति ततस्तु किमतः परम् ॥ ४१ ॥ वदन्तमिति तं श्रुत्वा जनाः प्राहुः कृपाभरात् । स्वसुर्विरहितः सूरिस्तादृग्ग्रहिलतां गतः ॥ ४२ ॥ युग्मम् । दिनैः कतिपयैस्तस्मान्निर्ययावेक एव सः । पश्चिमां दिशमाश्रित्य सिन्धुतीरमगाच्छनैः ॥ ४३ ॥ शाखिदेशश्च तत्रास्ति राजानस्तत्र शाखयः । शैकापराभिधाः सन्ति नवतिः षट्ड्निरर्गला ॥ ४४ ॥ तेषामेकोधिराजोस्ति सप्तलक्षतुरङ्गमः । तुरङ्गायुतमानाश्चापरेपि स्युर्नरेश्वराः ॥ ४५ ॥ एको माण्डलिकस्तेषां प्रेक्षि कालकसूरिणा । अनेककौतुकप्रेक्षाहुतचित्तः कृतोऽथ सः ॥ ४६ ॥ असौ विश्वासतस्तस्य वयस्यति तथा नृपः । तं विना न रतिस्तस्य तं बहूक्तैर्यथाक्षणम् ॥ ४७ ॥ सभायामुपविष्टस्य मण्डलेशस्य सूरिणा । सुखेन तिष्ठतो गोष्टयां राजदूतः समाययौ ॥ ४८ ॥ प्रवेशितश्च विज्ञेप्तेः प्रतीहारेण सोऽवदत् । प्राचीनरूढितो भक्त्या गृह्यतां राजशासनम् ॥ ४९ ॥ १J H - दर्शन. २ J H-लेच्छ द्वंसते. ३ J H - चेतनाः शून्य. ४ P - शकाः पराभिधाः ५J H - विज्ञापू ३९ Page #48 -------------------------------------------------------------------------- ________________ १० प्रभावकचरिते असिधेनुं च भूयोऽथ तद्गृहीत्वाशु मस्तके । उर्बीभूयाथ संयोज्य वाचयामास च स्वयम् ॥ ५० ॥ इति कृत्वा विवर्णास्यो वक्तुमप्यक्षमो नृपः। विलीनचित्तः श्यामाङ्गो निःशब्दाषाढमेघवत् ॥ ५१ ॥ पृष्टश्चित्रान्मुनीन्द्रेण प्रसादे स्वामिनः स्फुटे। आयाते प्राभृते हर्षस्थाने किं विपरीतता ॥५२॥ तेनोचे मित्र कोपोऽयं न प्रसादः प्रभोर्ननु । प्रेष्यं मया शिरश्छित्वा स्वीयं शस्त्रिकयानया ॥ ५३॥ एवं कृते च वंशे मे प्रभुत्वमवतिष्ठते । नो चेद्राष्ट्रस्य राज्यस्य विनाशः समुपस्थितः॥५४॥ शस्त्रिकायामथैतस्यां षण्णवत्यङ्कदर्शनात् ।। मन्ये षण्णवतेः सामन्तानां क्रुद्धो धराधिपः॥ ५५ ॥ सर्वेऽपि गुप्तमाह्वाय्य सूरिभिस्तत्र मेलिताः। तरीभिः सिन्धुमुत्तीर्य सुराष्ट्रान्ते समाययुः ॥५६॥ घनागमे समायाते तेषां गतिविलम्बके । विभज्य षण्णवत्यंशैस्तं देशं तेऽवतस्थिरे ॥५७ ॥ राजानस्ते तथा शूरा वाहिनीव्यूहवृद्धिना। राजहंसगुहा भूयस्तरवारितरङ्गिणा ॥ ५८ ॥ साध्वी साध्वी त्वया पाप श्येनेन चटकेव यत् । समारुध्यन्त मेघेन बलिष्ठेनेव शत्रुणा ॥ ५९॥ निर्गमय्यांसनादुग्रदु(मु)पसर्गमुपस्थितम् । प्रापुर्घनात्ययं मित्रमिवाब्जास्यविकाशकम् ॥ ६० ॥ परिपक्रिमवाक्शालिः प्रसीदत्सर्वतोमुखः।। अभूच्छरदृतुस्तेषामानन्दाय सुधीरिव ॥ ६१॥ सूरिणाथ सुहृद्राजा प्रयाणेऽजल्प्यत स्फुटम् । स प्राह शंबलं नास्ति येन नो भावि शंबलम् ॥ ६२॥ श्रुत्वेति कुम्भकारस्य गृह एकत्र जग्मिवान् । वह्निना पच्यमानं चेष्टकापाकं ददर्श च ॥ ६३॥ कनिष्ठिकानखं पूर्ण चूर्णयोगस्य कस्यचित् । आक्षेपात्तत्र चिक्षेपाक्षेप्यशक्तिस्तदा गुरुः॥ ६४॥ विध्यातेऽत्र ययावने राशःप्रोवाच यंत्सखे। विभज्य हेम गृहीत यात्रासंवाहहेतवे ॥ ६५ ॥ १P-मस्तकैः. २ P-वंशे नः. ३ JH क्षुद्रो. ४ JH तरिभिः ५P_ विभज्यः. ६J & H-निर्गथ्यासनादुग्रमुपसग्रमुपस्थितम् , & निर्गमथ्यासनादुप्रमुपसग्रमुपस्थितम् । ७ P-कनिष्टिकानखः ८JH क्षेपाक्षेप्य. ९J Hविध्यातोत्र. १०J&H-यन्मुखे. Page #49 -------------------------------------------------------------------------- ________________ ४१ श्रीकालकसूरिप्रबन्धः | तथेत्यादेशमाधाय तेऽकुर्वन् पर्व सर्वतः । प्रस्थानकं गजाश्वादिसैन्यपूजनपूर्वकम् ॥ ६६ ॥ पञ्चाललाटदेशेशभूपान् जित्वाथ सर्वतः । शका मालवसंधि ते प्रापुराक्रान्तविद्विषः ॥ ६७ ॥ श्रुत्वापि बैलमागच्छन् विद्यासामर्थ्यगर्वितः । गईभिल्लनरन्द्रो न पुरी दुर्गमसज्जयत् ॥ ६८ ॥ अथाप शाखिसैन्यं च विशालातलमेदिनीम् । पतङ्गसैन्यवत्सर्वं प्राणिवर्गभयंकरम् ॥ ६९ ॥ मध्यस्थो भूपतिः सोऽथ गर्दभीविद्यया बैलैः । नादर्युन्मादरीतिस्थः सैन्यं सज्जयतिस्म न ॥ ७० ॥ कपिशीर्षेषु नोटिं वा कोट्टकोणेषु नधसाः । विद्याधरीषु नो काण्डपूरणं चूरणं द्विषाम् ॥ ७१ ॥ न वा भटकपाटानि पूःप्रतोलीष्वसञ्जयत् । इति चारैः परिज्ञाय सुहृद्भूपं जगौ गुरुः ॥ ७२ ॥ अनावृतं समीक्ष्येदं दुर्गमाभूरनुद्यमः । यदष्टमीचतुर्दश्योरर्चयत्येष गर्दभीम् ॥ ७३ ॥ अष्टोत्तरसहस्रं च जपत्येकाग्रमानसः । शब्दं करोति जापान्ते विद्या सा रासभी निभात् ॥ ७४ ॥ तंबू ( फू) त्कारखरं घोरं द्विपदो वा चतुष्पदः । यः शृणोति स वक्रेण फेनं मुंचन् विपद्यते ॥ ७५ ॥ अर्द्धतृतीयगव्यूत (ति) मध्ये स्थेयं न केनचित् । आवासान् विरलान् दत्वा स्थातव्यं सबलैर्नृपैः ॥ ७६ ॥ इत्याकर्ण्य कृते तत्र देशे कालकसद्गुरुः । सुभटानां शतं साष्टं प्रार्थयच्छब्दवेधिनाम् ॥ ७७ ॥ स्थापिताः स्वसमीपे ते लब्धलक्षाः सुरक्षिताः । स्वरकाले मुखं तस्या बभ्रु (भौ) ब (बा) णैर्निषङ्गवत् ॥ ७८ ॥ सा मूर्ध्नि गर्छभिल्लस्य कृत्वा विण्मूत्रमर्ष्यया । हत्वा च पादघातेन रोषेणान्तर्दधे खरी ॥ ७९ ॥ अबलोयमिति ख्यापयित्वा तेषां पुरो गुरुः । समग्रसैन्यमानीयमानीतां दुर्गमाविशत् ॥ ८० ॥ पातयित्वा धृतो बच्वा प्रपात्य च गुरोः पुरः । गर्दभिल्लो भटैर्मुक्तः प्राह तं कालको गुरुः ॥ ८१ ॥ १ P - प्रास्थानिक. २ P - राष्ट्रेश. ३ JH - तलमागच्छन्. ४J Hविशाललात. ५ P– विद्ययाबले. ६JH - अर्द्ध तृतीये. ७P - मानीतदुर्ग. ८ P - कालक प्रभुः. Page #50 -------------------------------------------------------------------------- ________________ प्रभावकचरिते बलभिद्धनुरुल्लासवता चाशुगतीभृता। नीता गुरुविनीतापि तत्कर्मकुसुमं ह्यदः ।। ८२ ॥ फलं तु नरकः प्रेत्य तद्विबुध्याधुनापि हि । उपशान्तः समादत्व प्रायश्चित्तं शुभावहम् ॥ ८३॥ आराधय परं लोकं भविता रुचितं निजम् ।। विधेहीति श्रुते नस्त्यक्तोऽरण्ये ततोऽभ्रमत् ॥ ८४॥ व्याघ्रण भक्षितो भ्राम्यन् दुर्गतो दुर्गतिं गतः । तादृक्साधुदुहामीहक् गतिरित्यल्पकं फलम् ॥ ८५॥ . सूरेरादेशतो मित्रं भूयः स्वामी ततोऽभवत् । विभज्य देशमन्येऽपि तस्थुः शाखिनराधिपाः ॥ ८६ ॥ आरोपिता व्रते साध्वी गुरुणाथ सरस्वती। आलोचितप्रतिक्रान्ता गुणश्रेणिमवाप च ॥८७॥ विद्यादेव्यो यतः सर्वा अनिच्छुस्त्रीव्रतच्छिदः। कुप्यन्ति रावणोऽपीटक्सीतायां न दधौ हठम् ॥ ८८ ॥ एतादृक् शासनोन्नत्या जैनतीर्थ प्रभावयन् । . बोधयन् शाखिराजांश्च कालकः सूरिराष्ट्र बभौ ॥ ८९॥ शकानां वंशमुच्छेद्य कालेन कियतापि हि। राजा श्रीविक्रमादित्यः सार्वभौमोपमोऽभवत् ॥९०॥ स चोन्नतमहासिद्धिः सौवर्णपुरुषोदयात् । मेदिनीमनृणां कृत्वाचीकरद्वत्सरं निजम् ॥९१॥ ततो वर्षशते पञ्चत्रिंशता साधिके पुनः। तस्य राज्ञोऽन्वयं हत्वा वत्सरः स्थापितः शकैः ॥९२॥ इति प्रसङ्गतोऽजल्पि प्रस्तुतं प्रोच्यते ह्यदः। श्रीकालकः प्रभुर्देशे विजहे राजपूजितः॥९३॥ इतश्चास्ति पुरं लाटललाटतिलकप्रभम् । भृगुकच्छं नृपस्तत्र बलमित्रोऽभिधानतः ॥९४ ॥ भानुमित्राग्रजन्मासीत्स्वस्रीयः कालकप्रभोः। स्वसा तयोश्च भानुश्री बलभानुश्च तत्सुतः॥९५॥ युग्मम् । अन्यदा कालकाचार्यवृत्तं तैर्लोकतः श्रुतम्। तोषादाहूतये मन्त्री तैर्निजःप्रेष्यत प्रभोः॥९६॥ विहरन्तस्ततस्ते चाप्रतिबद्धं विबुद्धये ।। 9 P-aeito. H also but here at is correction of aft. २J H-उपशान्तसमादित्स्व. ३ JH-आराधकः परं लोकम्. ४J & H-ब for ख. ५J H-विद्यादेव्यो जितः सर्वा अनिच्छुः स्त्रीव्रतच्छिदः. ६ P-श्रीकालकप्रभुः. ७JH-चार्यवृत्तं ते लोकतः. ८J & H मन्त्रितैfast: and higaatst:. respectively. Page #51 -------------------------------------------------------------------------- ________________ ४३ श्रीकालकसूरिप्रबन्धः । आययुनगरे तत्र बहिश्च समवासरन् ॥ ९७॥ राजा श्रीबलमित्रोऽपि ज्ञात्वाभिमुखमभ्यगात् । उत्सवातिशयात्सूरिः प्रवेशं विदधे मुदा ॥९८॥ उपदेशामृतस्तत्र सिञ्चन्भव्यानसौ प्रभुः। पुष्करावर्तवत्तेषां विश्वं तापमनीनशत् ॥ ९९ ॥ श्रीमच्छकुनिकातीर्थस्थितं श्रीमुनिसुव्रतम् । प्रणम्य तच्चरित्राख्यादिभिर्नुपमबोधयत् ॥ १००॥ अन्येास्तत्पुरोधाश्च मिथ्यात्वग्रहसब्रहः। कुविकल्पवितण्डाभिर्वदन्वादे जितः स तैः ॥ १०१॥ ततोऽनुकूलवृत्त्याथ तं सूरिमुपसर्पयन् । उवाच दम्भभक्त्या स राजानमृजुचेतसम् ॥ १०२॥ नाथामी गुरवो देवा इव पूज्या जगत्यपि । एतेषां पादुकाः पुण्या जनैर्धार्याः स्वमूर्धनि ॥ १०३॥ किश्चिद्विज्ञप्यते लोकभूपालानां हितं मया। अवधारय तच्चित्ते भक्तिश्चेन्मानुजे गुरौ ॥ १०४ ॥ विशतां नगरान्तर्यच्चरणा बिम्बिताः पथि । उल्लङ्घन्यन्ते जनैरन्यैः सामान्यैस्तदधं बहु ॥ १०५॥ धर्मार्जनं तनीयोऽत्र परं कुरु महामते। प्रतीत आर्जवाद्राजा प्राहास्ते संकटं महत् ॥१०६॥ विद्वांसो मातुलास्तीर्थरूपाः सर्वार्चिता इमे। तथा वर्षा अवस्थाप्य पार्यन्ते प्रेषितुं किमु ॥ १०७॥ द्विजः प्राह महीनाथ मन्त्रये ते हितं सुखम् । तव धर्मो यशस्ते च प्रयास्यन्ति स्वयं सुखात् ॥ १०८ ॥ नगरे डिण्डिमो वाद्यः सर्वत्र स्वामिपूजिताः। प्रतिलाभ्या वराहारैर्गुरवो राजशासनात् ॥ १०९ ॥ आहारमाध्य(१)कर्मादि दृष्ट्वानेषणयान्वितम् । स्वयं ते निर्गमिष्यन्ति काप्यश्लाघा न ते पुनः॥११०॥ अस्त्वेवमिति राज्ञोक्ते स तथेति व्यधात्पुरे । अन्वेषणां च ते दृष्ट्वा यतयो गुरुमभ्यधुः॥१११॥ प्रभोः सर्वत्र मिष्टान्नाहारः संप्राप्यतेतराम् । गुरुराहोपसर्गोऽयं प्रत्यनीकादुपस्थितः ॥११२॥ गन्तव्यं तत्प्रतिष्ठानपुरे संयमयात्रया। १JH-नृपमवोचत. २J H-राजानं मृदुचेतसम्. ३ JH-तथामी ......पादुकाः पुण्यजनैर्धार्या स्व०. ४ JH °त्रापरं. ५ P-षणयाश्रितम्. ६JH- इहोपस. Page #52 -------------------------------------------------------------------------- ________________ ४४ प्रभावकचरिते श्रीसातवाहनो राजा तत्र जैनो दृढव्रतः ॥ ११३ ॥ ततो यतिद्वयं तत्र प्रैषि सङ्घाय सूरिभिः । प्राप्तेष्वस्मासु कर्त्तव्यं पर्वपर्युषणं ध्रुवम् ॥ ११४॥ तौ तत्र सङ्गतौ संघमानितौ वाचिकं गुरोः । तत्राकथयतां मेने तेनैतत्परया मुदा ॥ ११५ ॥ श्रीकालकप्रभुः प्राप शनैस्तन्नगरं ततः । श्रीसातवाहनस्तस्य प्रवेशोत्सवमातनोत् ॥ ११६ ॥ उपपर्युषणं तत्र राजा व्यज्ञपयद्गुरुम् । अत्र देशे प्रभो भावी शक्रध्वजमहोत्सवः ॥ ११७ ॥ नभस्यशुक्लपञ्चम्यां ततः षष्ठयां विधीयताम् । स्वं पर्व नैकचित्तत्त्वं धर्मे नो लोकपर्वणि ॥ ११८ ॥ प्रभुराह प्रजापाल पुरार्हद्गुणभृद्गणः । पञ्चमीं नात्यगादेतत्पर्वास्मगुरुगीरिति ॥ ११९ ॥ कम्पते मेरुचूलापि रविर्वा पश्चिमोदयः । नातिक्रमति पर्वेदं पञ्चमीरजनीं ध्रुवम् ॥ १२० ॥ राजावदच्चतुर्थ्यां तत्पर्वपर्युषणं ततः । इत्थमस्तु गुरुः प्राह पूर्वैरप्याहतं ह्यदः ॥ १२१ ॥ अर्वागपि यतः पर्युषणं कार्यमिति श्रुतिः । महीनाथस्ततः प्राह हर्षादेतत्प्रियं प्रियाम् ॥ १२२ ॥ यतः कुहूदिने पर्वोपवासो पौषधर्त्विताः । अन्तःपुरपुरन्ध्रयो मे पक्षादौ पारणाकृतः ॥ १२३ ॥ तत्राष्टमं विधातॄणां निर्ग्रन्थानां महात्मनाम् । भवतु प्राशुकाहारैः श्रेष्ठमुत्तरपारणम् ॥ १२४ ॥ उवाच प्रभुरप्येतन्महादानानि पञ्च यत् । निस्तारयन्ति दत्तानि जीवं दुष्कर्मसागरात् ॥ १२५ ॥ पथश्रान्ते तथाग्लाने कृतलोचे बहुश्रुते । दानं महाफलं दत्तं तथा चोत्तरपारणे ॥ १२६ ॥ ततः प्रभृति पञ्चम्याश्चतुर्थ्यामागतं ह्यदः । कषायोपशमे हेतुः पर्वसांवत्सरं महत् ॥ १२७ ॥ श्रीमत्कालकसूरीणामेवं कत्यपि वासराः । जग्मुः परमया तुष्ट्या कुर्वतां शासनोन्नतिम् ॥ १२८ ॥ १J H - जैनदृढव्रतः. २.J H - संघमानी तौ . ३ P - विज्ञपय. ४ I H-धर्मो. ५ JH - प्रियं प्रियम्. ६ 5 H - स्थिता. ७P - निग्रं. ← JH - पंचम्याचतु. ८ Page #53 -------------------------------------------------------------------------- ________________ ४५ श्रीकालकसूरिप्रबन्धः। अन्येयुः कर्मदोषेण सूरीणां तादृशामपि । आसन्नविनयाः शिष्या दुर्गतौ दोहदप्रदाः ॥ १२९ ॥ अथ शय्यातरं प्राहुः सूरयो वितथं वचः। कर्मबन्धनिषेधाय यास्यामो वयमन्यतः ॥ १३०॥ त्वया कथ्यममीषां च प्रियकर्कशवाग्भरैः। शिक्षयित्वा विशालायां प्रशिष्यान्ते ययौ गुरुः ॥१३१ ॥ इत्युक्त्वागात्प्रभुस्तत्र तद्विनेयाः प्रगे ततः। अपश्यन्तो गुरूनूचुः परस्परमवाङ्मुखाः॥१३२॥ एष शय्यातरः पूज्यशुद्धिं जानाति निश्चितम् । एष दुर्विनयोऽस्माकं शाखाभिर्विस्तृतोऽधुना ॥१३३ ॥ पृष्टस्तैः स यथौचित्यमुक्त्वोवाच प्रभुस्थितिम् । ततस्ते संचरन्ति स्मोजयनी प्रति वेगतः ॥ १३४॥ गच्छन्तोऽध्वनि लोकैश्चानुयुक्ता अवदन्मृषा । पश्चादग्रस्थिता अग्रे पश्चात्स्थाः प्रभवो ननु ॥ १३५॥ यान्तस्तन्नाम शृङ्गारात्पथि लोकेन पूजिताः।। नारीसेवकशिष्याणामवज्ञा स्वामिनं विना ॥१३६॥ इतः श्रीकालकः सूरिर्वत्रवेष्टितरत्नवत् । यत्याश्रये विशालायां प्राविशच्छन्नदीधितिः ॥ १३७ ॥ प्रशिष्यः सागरः सूरिस्तत्र व्याख्याति चागमम् । तेन नो विनयः सूरेरभ्युत्थानादिको दधे ॥ १३८ ॥ तत ईयाँ प्रतिक्रम्य कोणे कुत्रापि निर्जने । परमेष्ठिपरावर्त्त कुर्वस्तस्थावसङ्गधीः ॥ १३९ ॥ देशनानन्तरं भ्राम्यस्तत्रेत्य सूरिराह च । किंचित्तपोनिधे जीर्ण पृच्छ सन्देहमादृतः ॥ १४०॥ अकिंचिज्ज्ञो जरत्त्वेन नावगच्छामि ते वचः॥ तथापि पृच्छये नाहं संशयोपगमक्षमः॥१४१॥ अष्टपुष्पीमथो पृष्ठो दुर्गमा सुगमामिव ।। गर्वाद्यत्किचनव्याख्यादनादरपरायणः ॥ १४२॥ दिनैः कैश्चित्ततो गच्छ आगच्छत्तदुपाश्रयम् । सूरिणाभ्युत्थितोऽवादीहुरवोऽग्रे समाययुः ॥१४३॥ वास्तव्या अवदन् वृद्धं विनैकं कोऽपि नाययौ । तेवागच्छत्सु गच्छोऽभ्युदस्थात्सूरिश्च सत्रपः ॥ १४४ ॥ १ P-शिय्यातरं. २ P-गुरुर्ययौ. ३ P-गच्छतो...श्चानयुक्ता. ४J H-यान्तस्तनम. ५P नारीशवक. ६ JH-इति P वस्त्रे. ७ Hइ. ८ P-तत्रत्यसूरि. ९ P-व्याख्यादः. १० JH-वागमत्सु. Page #54 -------------------------------------------------------------------------- ________________ प्रभावकचरिते गुरूनक्षमयद्गच्छः पल्लग्नः सूरिररप्यभूत् । तं च तं चानुशिष्यते सूरिमित्थमबोधयन् ॥ १४५ ॥ सिकतासंभृतः प्रस्थः स्थाने स्थाने विरेचितः। रिक्ते तत्रावदद्वत्स दृष्टान्तं विद्ध्यमूदृशम् ॥ १४६॥ श्रीसुधर्मा ततो जम्बूः श्रुतकेवलिनस्ततः। षट्स्थाने पतितास्ते च श्रुते हीनत्वमाययुः ॥ १४७॥ ततोऽप्यनुप्रवृत्तेषु न्यूनं न्यूनतरं श्रुतम् ।। अस्मद्रुषु यादृक्षं ताङ्ग मयि निष्प्रभे ॥१४८॥ यादृग्मे त्वहुरोस्तन्न यादृक्तस्य न तेऽस्ति तत् । सर्वथा मा कृथा वत्स गर्व सर्वकषं ततः ॥ १४९ ॥ अष्टपुष्पी च तत्पृष्टः प्रभुाख्यानयत्तदा। अहिंसासूनृतास्तेयब्रह्माकिंचनता तथा ॥ १५० ॥ रागद्वेषपरित्यागो धर्मध्यानं च सप्तमम् । शुल्कज्ञानमष्टमं च पुष्पैरात्मार्चनाच्छिवम् ॥ १५१ ॥ एवं च शिक्षयित्वा तं मार्दवातिशय स्थितम् । आपृच्छय व्यचरत्सङ्गहीनोऽन्यत्र पवित्रधीः ॥ १५२॥ श्रीसीमंधरतीर्थेशनिगोदाख्यानपूर्वतः। इन्द्रप्रश्नादिकं ज्ञेयमार्यरक्षितकक्षया ॥ १५३॥ श्रीजैनशासनक्षोणी(णी)समुद्धारादिकच्छपः । श्रीकालकप्रभुः प्रायान्यायाद्देवभुवं शमी ॥ १५४ ॥ श्रीमत्कालकसूरिसंयमनिधेर्वृत्तं प्रवृत्तं श्रुतात् श्रुत्वात्मीयगुरोर्मुखादवितथख्यातप्रभावोदयम् । संदृब्धं मयकातमस्ततिहरं श्रेयःश्रिये जायताम् श्रीसंघस्य पठन्तु तच्च विबुधा नन्द्याच्च कोटीः समाः ॥१५५॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रःसूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीकालकाख्यान श्रीप्रद्युम्नमुनींन्दुना विशदितः शृङ्गश्चतुर्थोऽभवत् ॥ १५६ ॥ उभयं ७३४ ॥ अक्षर ॥१५॥ १P-रप्यमून्. २ J & H omit सर्व before कषं ३ Pशुक्लध्यान. ४ P कंक्षया. ५ P-समद्वारादि. P-प्रायात्प्रायाद्देव भुवं. ६ P adds इति श्रीकालकाचार्यप्रबन्धः ग्रंथा १५७ अ. २३. Page #55 -------------------------------------------------------------------------- ________________ ४७ श्रीपादलिप्तप्रबन्धः । श्रीपादलिप्तप्रबन्धः । जयन्ति पादलिप्तस्य प्रभोश्चरणरेणवः । श्रियः संवनने वश्यचूर्ण तत्प्रणताङ्गिनाम् ॥१॥ गुणैकदेशमप्यस्य किमहं वर्णितुं क्षमः। जडस्तथापि तस्योक्तिर्लोकयुग्मोपकारिणी ॥२॥ विमृश्यैवं भणिष्यामि पूज्यैर्मस्तकहस्तितः । खण्डखण्डश्रुतं वृत्तं चित्रं शृणुत कौतुकात् ॥३॥ सरयूजाह्नवीवारिसेवाहेवाकिमानवा। अस्ति विस्तारकुशला कोशला नामतः पुरी ॥४॥ तत्रासीद्वास्तिकास्मीयापहस्तितरिपुवजः। विजयब्रह्म इत्याख्याविख्यातःक्षितिनायकः॥५॥ संफुल्लमल्लिकावल्लीकुसुमप्रोल्लसद्यशाः। फुल्लाख्यः फुल्ललक्ष्मीकः श्रेष्ठी श्रेष्ठगुणावनिः ॥६॥ रूपेणाप्रतिमानस्य प्रतिमाख्यातिवल्लभा । सुधा मुधाकृता यस्या गिरयागाद्रसातलम् ॥ ७॥ अपत्यीयितचित्तायास्तस्या हस्तनिरीक्षणम् । होराविद्यामहामन्त्रा वन्ध्यागर्भकराण्यपि ॥८॥ औषधानि प्रयुक्तानि क्षेत्रपद्रादिदेवताः। उपयाचितलौश्चाराद्वा आसंश्च निष्फलाः॥९॥ युग्मम् । तीर्थस्नानप्रयोगाश्च यथा कथनतः कृताः। अपत्यार्थमहोमोहः स्त्रीणां सौहत्यहजने ॥१०॥ अस्ति श्रीपार्श्वनाथस्य चैत्ये शासनदेवता । वैरोद्यानामविद्याया निर्विष्णा सा समाश्रयत् ॥ ११ ॥ कर्पूरमृगनाभ्यादिभोगैः संपूज्यतामसौ। उपवासैर्व्यधादष्टाह्निकामेकाग्रमानसा ॥१२॥ अष्टमेऽहनि तुष्टा सा प्रत्यक्षीभूय तां जगौ । वरं वृणु तया पुत्रो ययाचे कुलदीपकः ॥१३॥ अथो फणीन्द्रकान्तासावादिदेश सुते शृणु । पुरा नमिविनम्याख्यविद्याधरवरान्वये ॥ १४ ॥ १P-स्तथापि तद्भक्तिर्लो. २J & H-मास्तक. ३J & H-श्रीया P-ख्याविख्यातक्षि. ४ J & H-रूपेण प्रतिमानस्य । गिरायागादसातलात् ५J & H-अपत्ती यि. ६J & H-द्रादि. ७J & Homit अप...हः and give सौहृत्यवजने. ८ P-स्वस्ति for अस्ति ९P-वैरोद्यातामटाद्याया. १०P-भागैः. Page #56 -------------------------------------------------------------------------- ________________ ४८ प्रभावकचरिते आसीत्कालिकसूरिः श्रीश्रुताम्भोनिधिपारगः । गच्छे विद्याधराख्यस्यायनागहस्तिसूरयः॥१५॥ खेलादिलब्धिसम्पन्नाः सन्ति त्रिभुवनार्चिताः । पुत्रमिच्छसि चेत्तेषां पादशौचजलं पिबेः॥१६॥ त्रिभिर्विशेषकम् श्रुत्वेति चैत्यतःप्रातस्तेषामागादुपाश्रये । प्रविशन्ती च सापश्यत्साधुमेकं तटस्थितम् ॥ १७॥ करस्थप्रभुपादाब्जक्षालनोदकपात्रकम् । तत्पार्श्वे प्रार्थनापूर्व तत्पयः सापिबन्मुदा ॥१८॥ युग्मम् अथ तत्राग्रतो गत्वा नमश्चक्रे प्रभोः पदौ । धर्मलाभाशिषं दत्वा नमित्तं (त) चाहसहरुः॥ १९ ॥ अस्मत्तो दशभिर्हस्तै (र) दूरे पीतं त्वयोदकम् । दुशभियॊजनैरन्तरितो वर्धिष्यते सुतः ॥२०॥ यमुनापरतीरे च मथुरायां प्रभावभूः । भविष्यन्ति तथान्ये ते नवपुत्रा महाद्युतः ॥ २१ ॥ साहाथ प्रथमः पुत्रो भवतामर्पितो मया । अस्तु श्रीपूज्यपार्श्वस्थो दूरस्थस्यास्य को गुणः ॥ २२॥ श्रुत्वेत्याह प्रभुः सङ्घानंतोद्धारादिशूकरः। स भविष्यति ते पुत्रः सुत्रामसचिवो धिया ॥ २३ ॥ इत्यादाय प्रभोर्वाक्यं शकुनग्रन्थिबन्धिनी। गृहं ययौ गृहेशस्य तुष्टा वृत्तं न्यवेदयत् ॥ २४ ॥ गर्भोभूत्तहिनेऽमुष्या नागेन्द्रस्वप्नसूचितः । तदौचित्यकृतश्चास्या वृद्धः सार्ध मनोरथैः ॥ २५॥ दिनेषु परिपूर्णेषु सुतो जज्ञे सुलक्षणः । रूपेणातिस्मरः श्रीमांस्तेजसा चातिभानुमान् ॥ २६॥ वैरोद्यायास्ततः पूजां कृत्त्वा तत्पादयोः पुरः। न्यस्यातो गुरुपादान्ते मुक्तस्तेषां तथार्पितः ॥२७॥ वर्धतामस्मदायत्त इति प्रत्यर्पितः स तैः। प्रवर्धितोऽतिवात्सल्यात्तथा तगुरुगौरवात् ॥ २८॥ नागेन्द्राख्यां ददौ तस्मै फुल्ल उत्फुल्ललोचनः। आत्तो गुरुभिरागत्य सगर्भाष्टमवार्षिकः ॥ २९ ॥ तेद्गुरुभ्रातरः सन्ति संगमसिंहसूरयः। आदेशं प्रददुस्तेषां प्रभवः शुभमायतौ ॥ ३०॥ १P-पिब १ JH-निमित्तं. २ P-यमुनापुर. ३ वृद्धिः ४ J & Hतद्गुरुः ५ P-संगमः सिंह. Page #57 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। ४९ प्रव्रज्यां प्रददुस्तस्य शुभे लग्ने स्वरोदये । उपादानं गुरोर्हस्तं शिष्यस्य प्राभवे न तु ॥ ३१॥ गणिश्च मण्डनो नाम तदीयगणमण्डनः। आदिष्टः प्रभुभिस्तस्य शुश्रूषाध्यापनादिषु ॥ ३२॥ वैदग्ध्यातिशयादन्यपाठकानां पुरोपि यत् । ख्यातं तदपि गृह्णाति स्वपाठ्येषु तु का कथा ॥ ३३ ॥ लसल्लक्षणसाहित्यप्रमाणसमयादिभिः। शास्त्रैरनुपमो जज्ञे विशेशो वर्षमध्यतः॥३४॥ गुणैरुत्तमतां प्राप्य नृषु प्रथमरेखया। धूनन्नवनवाविश्वलक्षणेभ्योऽधिकस्ततः॥३५॥ अन्येधुरारनालाय प्रहितो गुरुभिस्तदा । विधिना तत्समादायोपाश्रये पुनराययौ ॥ ३६॥ तदीर्यापथिकीपूर्वमालोचयदनाकुलः। गाथया कोविदश्रेणीहृदयोन्माथया ततः ॥ ३७॥ तथाहि-अंबं तं वछीए अपुष्पियं पुष्पदंतपंतीए । नेवमालिकं जियं नववहूइकुडएणमेदिन्नम् ॥ ३८॥ श्रुत्वेतिगुरुभिः प्रोक्तः शब्देन प्राकृतेन सः। पलित्तो इति शृङ्गाराग्निप्रदीप्ताभिधायिना ॥ ३९ ॥ स च व्यजिज्ञपत्पूज्यैः शिष्यः कर्णात्प्रसाद्यताम् । श्रुत्वेति प्रज्ञया तस्य तुतुषुर्गुरवो भृशम् ॥ ४०॥ विमृश्येत्यतिहल्लासपूरितास्ते तद्ग्रतः। पादलिप्तो भवान्व्योमयानसिद्ध्या विभूषितः॥४१॥ इत्यसौ दशमे वर्षे गुरुभिर्गुरुगौरवात् । प्रत्यष्ठाप्यत पट्टे स्वे कषपट्टे प्रभावताम् ॥४२॥ मथुरायां गुरुः प्रैषीदसंख्यातिशयाश्रयम् । तेजोविस्तारसंघोपकारहेतोस्तमन्यदा ॥४३॥ दिनानि कतिचित्तत्र स्थित्वासौ पाटलीपुरे । जगाम तत्र राजास्ति मुरण्डो नाम विश्रुतः ॥४४॥ केनापि तस्य चित्रायस्तत्र ग्रथितवृत्तकः । गूढवक्रमिलत्तंतुवयात्क्रांतावसानकः ॥४५॥ ढौकितः कन्दुकः पादलिप्तस्य च गुरोः पुरः। राक्षा प्राहीयत प्रज्ञापरीक्षावीक्षणोद्यमात् ॥४६॥ युग्मम् । १JH-क्रमशो वर्ष. २P-च ३ P-समादायौ. ४ J_H गाथायाः कोवि योन्माथया. ५ P-नवसालिकजियं. ६. P-विज्ञपत. P-प्रभावनाम्, ७ P-नापितस्य, J H-ग्रंथित. ८ JH-तंतुभयाज्ञाता. Page #58 -------------------------------------------------------------------------- ________________ प्रभावकचरिते अथोत्पन्नधिया सूरिविलोल्योष्णोदकाप्लवैः । सिक्थकं निपुणं प्रेक्ष्य तत्तन्तुप्रान्तमाप सः॥४७॥ उन्मोच्य प्रहितो राक्षे तद्वद्धयासौ चमत्कृतः । प्रज्ञाविज्ञाततत्त्वाभिः कलाभिः को न गृह्यते ॥४८॥ तथा गङ्गातरोर्यष्टिः समाश्लक्ष्णा समर्पिता। तन्मूलाग्रपरिज्ञानहेतवे स्वामिना भुवः॥४९॥ तारयित्वा जले मूले गुरुत्त्वात्तन्निमजनात् । अग्रमूले परिज्ञायाचख्यौ राज्ञः पुरस्ततः ॥ ५० ॥ तथा समुद्कोऽनीक्ष्य सन्धिः सूरेः प्रदर्शितः। उष्णोदकात्समुद्धाट्य तच्चित्रं प्रकटीकृतम् ॥ ५१ ॥ श्रीपादलिप्ताचार्येण तन्तुग्रथिततुम्बकम् । पेशीकोशायितं वृत्तं प्रहितं राजपर्षदि ॥५२॥ उन्मोचितं न तत्तत्र केनापि मुमुचे ततः। तहुप्तं तेन मोच्येत नान्यरित्यतिभाषिभिः॥५३॥ भूपाहूतः स आगत्योजग्रन्थ च यतीश्वरः । मुरण्डनृपतिस्तत्राक्षिप्तश्चिन्तयते तदा ॥ ५४॥ बालाचार्योऽयमीक्षैः खेलनीयः कुहेतुभिः । दध्यावहमयं किंत्वधृष्यः केसरिवच्छिशुः॥ ५५ ॥ वयस्तेजसि नो हेतुरिति सत्यं पुरा वचः। को हि सिंहार्भकं सत्रेऽणुरूपमपि लंघयेत् ॥५६॥ शिरोवेदनयाक्रान्तः सोऽन्यदा भूपतिः प्रभुम् । व्यजिज्ञपत्प्रधानेभ्यः क्षुते नष्टे स्मृतीरवेः॥ ५७॥ तर्जनी प्रभुरप्येष त्रिः स्वजानावचालयत् । भूपतेर्वेदना शान्ता तस्य किं दुष्करं प्रभोः॥५८॥ तथाहि-जह जह पएसिणि जाणुयंमि पालित्त उं भमाडेइ । तह तह सिसिरवियणा पणस्सइ मुरण्डरायस्स ॥ ५९॥ मन्त्ररूपामिमां गाथां पठन्यस्य शिरः स्पृशेत् । शाम्येत वेदना तस्याद्यापि मूनोऽतिदुर्धरा ॥ ६०॥ स तत्कालोपकारेण हृतान्तःकरणो नृपः। सूरेर्वालस्य पादानां प्रणामेच्छूरवेरिव ॥ ६१ ॥ समाययौ ययौ श्रेष्ठेद्रागाहा(?) तदाश्रयम् । सकर्णः को न गृह्येत गुणैः सत्यैर्लघोरपि ॥ ६२ ॥ युग्मम् । १ P-ल्लाल्योष्णो दकोप्लवैः; सिक्तक. २J H-तंतुप्रैथित., पशीकोशाशायित. ३ P-यमीक्षौश्वखलनीयः त्वदृष्यः. ४ P-शरोवे. ५J H-श्रेष्ठो द्रागामृत्य. Page #59 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। प्रभोरुपांतमासीनो रहः पप्रच्छ भूपतिः । भृत्याः कृत्यानि नः कुर्युवेतनस्यानुसारतः॥ ६३॥ तद्विनामी विनेयाश्च युष्माकं तु कथं विभोः । भिक्षकवृत्तिपात्राणां ते कार्यकरणोद्यताः॥६४ ॥ युग्मम् ॥ सूरयः प्राहुरस्माकं विना दानं सदोद्यताः। कार्याणि भूप कुर्वन्ति लोकद्वयहितेच्छया ॥६५॥ भूपः प्राह न मन्येऽहं द्रव्यस्वादे जनस्थितिः। निःस्वस्त्याज्यः पुमाल्लोकेऽरण्यं दग्धं मृगैरिव॥ ६६ ॥ अथाह सूरिीश त्वमृत्या बहुवृत्तयः। तादृगुक्तं न कुर्वन्ति यादृझे दानमन्तरा ॥ ६७ ॥ इहाथै प्रत्ययो भूप कौतुकावलोक्यताम्। दक्षः शुचिर्गुणी कश्चित्प्रतिष्ठा प्रापितः सदा ॥ ६८ ॥ ताम्बूलाभरणक्षौमैरात्मतुल्यः सदेक्षितः। विश्वासस्य परा भूमिर्मूर्त्यन्तरमिवापरम् ॥ ६९ ॥ आहूयतां पुमान्पृष्टः सौष्टवीकोपि भृत्यराट्। यथा प्रतीतिसम्पत्तिमद्वाक्यस्य भवेत्ततः॥७०॥ त्रिभिर्विशेषकम् क्षत्रा क्षत्रपतिस्तत्राहूतवान्प्राग्गुणान्वितम् । प्रधानमाजगामायं मूर्धन्यस्तकरद्वयः ॥ ७१ ॥ स प्रोवाच प्रसादं मे स्वामिन्नादेशतः कुरु। सुदुष्करतरेप्यर्थे भृत्यलेशे निजे मयि ॥ ७२॥ राजा प्राह सख्खे गङ्गा वहतीह कुतोमुखी। इत्युक्तेऽन्तःस्मितः सोपहासं चिन्तयति स्म सः॥७३॥ अहो बालर्षिसंसर्गाद्राज्ञः शैशवमागतम्। गङ्गाकुतोमुखी बालाङ्गनाख्यातमिदं वचः ॥ ७४ ॥ ततः प्रमाणमादेश इत्युक्त्वा स ययौ बहिः। ऐश्वर्यग्रहिलो राजा नाहमप्यस्मि तादृशः॥ ७५॥ फल्गुवाग्भिस्ततः स्वीयं सुखं परिहरामि किम् । ध्यात्वेति व्यसनी तत्र प्रायः प्रायाद्दरोदरे ॥ ७६ ॥ खेलनिर्वाह्य तत्रासौ चतस्रः पञ्च नाडिकाः। गत्वा स्वामिपुरः पूर्वामुखीत्युत्तरमाह सः॥ ७७॥ अपसप्यः प्रसर्पद्भिस्तद्वृत्तं भूपतेः पुरः। न्यवेद्यथ यतिस्वामी स्मितं कृत्वाभ्यधादिति ॥ ७८॥ भूपालचेष्टितं दृष्टं धनमानातिशायिनः । १ P-जनस्थितः. २ J क्षोदामेरात्मतुल्ये H क्षोदामेरात्मतुल्यः. ३JH न्यवेद्यत. Page #60 -------------------------------------------------------------------------- ________________ प्रभावकचरिते निजप्रसादवित्तस्यापरेषां तु कथापि का ॥ ७९ ॥ अद्यश्वीनविनेयस्याशिक्षितस्य व्यवस्थितिम् ।। पश्य नश्यन्मदस्नेहं चित्तान्तश्चित्रकारिणीम् ॥ ८० ॥ आगच्छाभिनवक्षुल्ल व्याहृते चेति सूरिभिः । इच्छामीति वदन् शीघ्रमुत्तस्थौ सरजोहृतिः ॥ ८१ ॥ विनयानम्रमौलिश्च मेदिनी प्रतिलेखयन् । पुर आगाहुरोर्जानू भुव्यास्ये न्यस्य पोतिकाम् ॥ ८२ ॥ प्रभोऽनुशास्तिमिच्छामीत्युक्ते तेनावदत्प्रभुः। गङ्गाकुतोमुखी वत्स वहत्याख्याहि निर्णयम् ॥ ८३॥ तदाचावश्यकीपूर्व निर्गच्छन्नाश्रयाबहिः । विन्यस्य कम्बलं स्कन्धे कृत्वा दण्डं करे निरैत् ॥ ८४ ॥ प्रश्नानुचिततां जानन् बालवृद्धयुवस्त्रियाम् । अपृच्छन्मध्यवयसं प्रवीणं पुरुषं ततः॥८५॥ गङ्गाकुतोमुखी पूर्वाभिमुखी प्रापितोत्तरः।। तेनेति त्रिःकृते प्रश्ने सर्वत्रासीत्समोत्तरः ॥ ८६ ॥ तथापि निश्चिकीर्षुः स स्वर्धनीजलसन्निधौ । प्रत्युपेक्ष्य ततो दण्डं करस्थितमवग्रकः॥ ८७॥ जलान्तरमुचत्तं च श्रोतसातिरयात्ततः। प्राग्वाहिते करे दण्डसहिते प्रत्ययं ययौ ॥ ८८॥ युग्मम् । आगत्याश्रयमत्रर्यापथिकीपूर्वकं ततः। आलोचयद्यथावृत्तं प्रवृत्तश्च स्वकर्मणि ॥ ८९ ॥ उक्तंच श्रीजिनभद्रग(घ)णिक्षमाश्रमणभाष्यकारेण निवपुच्छिएण भणिउ गुरुणा गङ्गा कुउमुही वहइ । संपाइय वंसी सो जह तह सव्वच्छ कायव्वम् ॥९०॥ प्राग्वच्चारैर्यथाख्याते सत्य एव निवेदिते । प्रतीतः प्राह भूपालस्त्वदृत्तं हि कथातिगम् ॥ ९१॥ इति प्रभुक्तैस्तै श्चित्रैः सर्वलोकोपकारकैः। नृपो बिभ्रच्चमत्कारं कालं यान्तं न बुध्यते ॥९२॥ अन्यदा मथुरायां स सूरिर्गत्वा महायशाः॥ श्रीसुपार्श्वजिनस्तूपेनमत् श्रीपार्श्वमञ्जसा ॥१३॥ ततोऽसौ लाटदेशांतश्चोङ्काराख्यपुरे प्रभुः। १P-प्रसादचित्त. २ P-नश्यन्मदस्येहं. ३ J & H सरजौहृति. ४ J H-करेतिचेत् ५ P-गंगाकुतोमुखीति प्रापितोत्तरः ६ J H-स्थिततदग्रकः ७ JH-प्रोगवायिते. ८ P-आलोचयथावृत्तं. ९ P-प्राग्वचारै १० JHप्रभुकृतैश्चित्र. ११ J_H-'देशीतश्चांका' Page #61 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। आगतः स्वांगतान्यस्य तत्राधाद्भीमभूपतिः ॥९४ ॥ शरीरस्थस्य बाल्यस्य माहात्म्यं वितरन्निव । स क्रीडत्यन्यदा डिम्भैर्विजने विश्ववत्सलः ॥९५॥ भरण रमते यावत् श्रावकास्तावदाययुः। देशान्तरोत्तदाकुंठोत्कंठास्तद्वंदनोत्सुकाः ॥ ९६ ॥ कालो युगप्रधानस्य पादलिप्तप्रभोः कुतः। उपाश्रयोऽस्ति शिष्याभं पप्रच्छुश्च तमेव ते ॥ ९७॥ तत्रोत्पन्नमतिः सूरिर्दूरभ्रमणहेतुभिः। प्रेकटैस्तदभिज्ञानस्तेषामकथयत्तदा ॥९८॥ स्वयं पटींच प्रावृत्त्य संवृत्याकारमात्मनः। आचार्याः संत्युपाविशदृक्षः स क्षिप्रमुन्नते ॥ ९९ ॥ श्राद्धाश्च तावदाजग्मुः प्रणेमुरतिभक्तितः। क्रीडन् दृष्टः स एवायं तैरुपालक्षि दाक्ष्यतः॥ १००॥ विद्याश्रुतवयोवृद्धसदृशीं धर्मदेशनाम् । विधाय तत्पुरोऽवादीत् तद्विकल्पापलापकृत् ॥ १०१॥ अवकाशः शिशुत्वस्य दातव्यश्चिरसंगतैः। इति सत्यवचोभङ्गया जहृषुस्ते शिशुप्रभोः ॥ १०२॥ गते विहर्तुमन्येद्युः प्रौढसाधुकदम्बके । विजने स ययौ रथ्यां गच्छत्सु शकटेषु च ॥ १०३ ॥ कुर्वन् मर्कटकीक्रीडां दृष्टः पूर्ववदाश्रयम् । परप्रवादिभिर्दूरदेशेनैषामुदाहरत् ॥ १०४॥ चिरेणायान्ति यावत्ते सम्पन्नातिभ्रमश्रमाः। गुरुः सिंहासने तावत्सुष्वापासौ पटीवृतः ॥ १०५ ॥ ताम्रचूडः खरश्चके तैः प्रातःक्षणशंसकः । उत स्वरं ततोऽधासीत् सूरिस्तत्परिपन्थिनाम् ॥१०६॥ तेषां द्वारमपावृत्य तस्थौ सिंहासने प्रभुः। तस्य ते विस्मयस्मेरा ददृशुर्मूर्तिमद्भुताम् ॥ १०७ ॥ तर्कोक्तिभिर्जितास्ते च प्रश्नमेकं च गाथया। तथाहि-एतजिगीषवः सन्तो विदधुर्दुर्घटं तदा ॥ १०८ ॥ "पालित्तयक हेसुफुडं संयलं महिमण्डलं भमंतेण । १P-आगतस्वागत. २ JH-बालस्य...हरनिव. ३ P-क्रीडयत्य. ४ J_H-देशांतरात्तदा कुतोक्कंगस्तद्वदतोत्सुकः ॥ देशांतरात्तदाकूतोत्कण्ठास्तद्वंदनोत्सुकाः इति स्यात्. ५ J कालयुand P-कुलौ कलौ इति स्यात्. ६J H-प्रकटेस्तदभिज्ञायतै स्तेषा. ७J & H-पटी चेत्य. ८ P-आचार्यो सन्युपाविक्षसक्षिप्रमुन्नते. ९ P-हसि० १० P-सयलमहिम. Page #62 -------------------------------------------------------------------------- ________________ प्रभावकचरिते दिद्वो सुउवकच्छवि चंदणरससीयलो अग्गी ॥ १०९॥" सूरिः श्रीपादलिप्तोपि तत्क्षणं प्राह गाथया। उत्तरं द्राग्विलम्बो हि प्रज्ञाबलवतां कुतः ॥ ११० ॥ सा च-अयसाभिउंग अभिदूमि यस्स पुरिसस्स सुद्धहिययस्स । होइवहन्तस्स फुडं चंदणरससीअलो अग्गी ॥ १११ ॥ इत्युत्तरेण ते सूरेनुंदमापुर्जिता अपि । पराजयोऽपि सत्पात्रैः कृतो महिमभूर्भवेत् ॥ ११२ ॥ ततः सङ्घन विज्ञप्ते सद्गुणेषु प्रमोदिना। शत्रुजयगिरौ यात्रां पादलिप्तप्रभुर्व्यधात् ॥ ११३ ॥ मानखेटपुरं प्राप्ताः कृष्णभूपालरक्षितम्। प्रभवः पादलिप्ताख्या राज्ञाभ्यर्यंत भक्तितः ॥ ११४ ॥ तत्र प्रांशुपुरात्प्राप्ताः श्रीरुद्रदेवसूरयः। ते चावबुद्धतत्वार्थाः श्रीयोनिप्राभृते श्रुते ॥ ११५॥ अन्येद्युर्निजशिष्याणां पुरस्तस्माच्च शास्त्रतः। व्याख्याता शफरोत्पत्तिः पापसन्तापसाधिका ॥ ११६ ॥ सा कैवयन कुड्यान्तरितेन प्रकटं श्रुता। अनावृष्टिस्तदा चासीत् विश्वलोकभयङ्करी ॥ ११७ ॥ मीनानुत्पत्तिरत्रासीत्तत्र श्रौतप्रयोगतः। मत्स्यान् कृत्वा बहूनेषोऽजीवयद्वन्धुमण्डलम् ॥ ११८ ॥ कदापि हर्षतस्तत्र प्रभूपकृतिरञ्जितः। आययौ धीवरो भक्त्या नत्वा च प्रोचिवानिति ॥ ११९ ॥ युष्मत्कथितयोगेनादानो मीनान् व्यधामहम् । खादित्वा तांश्च दुर्भिक्षे कुटुम्बं निरवाहयम् ॥ १२० ॥ श्रुत्वेति सूरयः पश्चादतप्यन्त कृतं हि किम् । यतो वधोपदेशेनास्माभिः कल्मषमर्जितम् ॥ १२१ ॥ जीवन् जीववधात्पापभयं बह्वजयिष्यति। तस्मात् किमपि तत्कार्य येनाधत्ते न स स्वयम् ॥ १२२॥ इति ध्यात्वोचिवान् सूरिनिष्पत्तौ रत्नसंततेः। प्रयोगं शृणु दारियं कदापि न भवेद्यथा ॥१२३॥ स च स्फुरति नो मांसाशनजीवविघातयोः । विधीयमानयोस्तत्वममू वर्जयसे यदि ॥ १२४ ॥ कथयामि तदा तत्ते श्रुत्वेत्याहेदमप्यहम् । जाने जीववधात्पापं कुटुम्बं तु न वर्त्तते ॥ १२५॥ १P-अग्री. २ J & H सचाह for साच. ३ P-हाइ वई 'अग्गी. ४ P-पांशुपुरात्प्रायुः ५ P-संपत्ति. ६ P-ततश्रौत. ७ H-योगे नदीनो मी. J योगेन दानो. ८J & H omit हि before किम्. Page #63 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः । . ५५ नाथ प्रसादतश्चित्ते विना पापं धनं भवेत्। सद्गतिः प्रेत्य तन्मे स्यात्प्रमाणं पूज्यवाक्ततः ॥ १२६॥ अतःपरं गृहे गोत्रे न मे पिशितभक्षणम् । इत्युक्ते रत्नयोगस्तैरुक्तः सोभूञ्च धार्मिकः ॥१२७॥ तथा केचिदिति वदन्ति शिक्षितः सिंहयोगं च चके तं तेन भक्षितः । यतोऽल्पदोषतः पुण्यं बहु किं न समय॑ते ॥१२८ ॥ तथा-विलासनगरे पूर्व प्रजापतिरभूत्ततः। ततः श्रमणसिंहाख्याः सूरयश्च समाययुः॥१२९ ॥ तानाहूय नृपः प्राह चित्रं किमपि दर्यताम् । सूरयः प्राहुरर्कस्य कोपि वेत्तीह संक्रमम् ॥१३०॥ भूपतिः सिद्धदेवज्ञानाहूय वदतिस्म सः। रविसंक्रातिसमयमाख्यातास्मत्पुरःसरम् ॥ १३१ ।। नाडिकापलसङ्खयाभिस्तं स्फुटं वीक्ष्य तेऽब्रुवन् । आचार्यः स्माहुरेकोऽस्माससूचिर्नः समर्प्यताम् ॥ १३२॥ सांवत्सरस्य च ततो नृपस्तदकरोदरम् । सूरिस्तं समयं सूक्ष्मं ज्ञात्वा (स्म)(श्म)न्यक्षिपच्च ताम्॥१३३॥ उवाच सूचिकामेनां मौहूतिकविनिष्कषः। संक्रातिसमये यस्मात्सर्व जलमयं भवेत् ॥ १३४॥ गणकोऽपि ततः प्राह ज्ञाने मे नियतिर्दशा। प्राप्तं तत्सूरिविज्ञानं दृष्टा भूपो विसिमिये ॥१३५॥ एकदा सूरयो राक्षा पृष्टा वृष्टिविधौ पुनः। विचिन्त्य कथयिष्यामः प्रोच्येति स्वाश्रये ययुः ॥ १३६॥ तैर्देवेन्द्राभिधः शिष्यः प्रेक्ष्यत क्षितिपाग्रतः। कथ्यं किंचिद्विसंवादि यथासौ स्यादनादरः॥ १३७॥ इति तच्छिक्षितः प्राज्ञो ययौ तत्र जगौ च सः। उत्तरस्या(स्यां) दिशो(शि) वृष्टिरमुतः पञ्चमेऽहनि॥ १३८ ॥ संजज्ञे वर्षणं पूर्वदिशस्त(शित)त्र दिने स्फुटम् । दिग्विसंवादतो राजा किंचिन्मन्दादरोऽभवत् ॥ १३९ ॥ कर्मबन्धनिषेधाय तदुपेत्य कृतं च तैः। अभीक्ष्णं राजकार्याणां कथनं कल्मषावहम् ॥१४॥ १J & H-श्चेति. २ J & H-ससृज्यते. ३ P-आचार्यास्माहरेकोश्मासमूचिर्नः ॥ 'आचार्याः स्माहुरेकोमा ससूचिर्नः' इति स्यातू. ४ H & J -ज्ञात्वारमन्य. ५J & H-सचिका. P-विनिःकष, सर्वे. ६ P-ज्ञानं० मेने यती-शां J& H विस्मिये,७ J & H-देवेंद्रोभिधः...प्रेक्ष० ८ H & P -उत्तरस्या दिशौ and 'उत्तरस्यां दिशो' Page #64 -------------------------------------------------------------------------- ________________ ५६ प्रभावकचरिते मानखेटपुरं प्रापुस्तेऽथ कालेन केनचित् । निमित्तग्रन्थनिष्णाता राज्ञां ज्ञाताः कलावशात् ॥ १४१ ॥ अथार्यखपटाः सन्ति विद्याप्राभृतसंभृताः। तद्यथा-तद्वत्तमिह जैनेन्द्रमतोल्लासि प्रतन्यते ॥ १४२ ॥ विध्योदधिकृता घाटा लाटदेशललाटिका। पुरं श्रीभृगुकच्छाख्यमस्ति रेवापवित्रितम् ॥ १४३ ॥ यानपात्रं भवाम्भोधौ यत्र श्रीमुनिसुव्रतः। पातकातङ्कतः पातिवर्भुवोभूर्भुवं जनम् ॥ १४४ ॥ तत्रास्ति बलमित्राख्यो राजाबलभिदासमः। कालिकाचार्यजामेयः स्थेयः श्रेयधियां निधेः॥ १४५ ॥ भैवाध्वनीनभव्यानां संति विश्रामभूमयः। तत्रार्यखपटा नाम सूरयो विद्यतो(यो)दिताः॥१४६॥ तेषां च भागिनयोऽस्ति विनेयो भवनाभिधाः। कर्णश्रुत्याप्यसौ प्राज्ञो विद्यां जग्राह सर्वतः ॥ १४७॥ बौद्धान्वादे पराजित्य यैस्तीर्थ संघसाक्षिकम् । तद्रहध्वान्ततो भानुप्रतिरूपैरमोच्यत ॥ १४८ ॥ तदा च सौगताचार्य एको बहुकराभिधः। गुडशस्त्रपुरात्प्राप्तो जिगीषु नशासनम् ॥ १४९ ॥ गुडपिण्डैः पुरा तत्र शत्रुसैन्यमभज्यत। गुडशस्त्रमिति ख्यातिरतोऽस्याजनि विश्रुता ॥ १५० ॥ सर्वानित्यप्रवादी स चतुरङ्गसभापुरः। जैनाचार्यस्य शिष्येण जितः स्याद्वादवादिना ॥ १५१ ॥ कांदिशीकस्ततो मन्युपुरपूरितमानसः। कोपादनशनं कृत्वा मृत्वा यक्षो बभूव सः ॥ १५२॥ निजस्थानेऽवतीर्यासौ सकोपः श्वेतभिक्षुषु। अवजानाति तांस्तेषामुपसर्गान् ददाति च ॥ १५३॥ तत्पुरस्थेन सङ्घन तदार्यखपटप्रभुः। तत्र व्रतिद्वयं प्रेष्य ज्ञापितस्तत्पराभवम् ॥ १५४॥ ऐषा कपलिका वत्स नोन्मोच्या कौतुकादपि।। कदापि शिक्षयित्वेति जामेयमचलत्ततः ॥ १५५ ॥ पुरे तत्र गतस्तस्य यक्षस्यायतनेऽवसत् । १J & H-विंध्याधिकृताघाट....लाटिकाः । २J & H-भूर्भुव भवं ॥ 'स्वर्भुवर्भूभवं' ३ J & H-श्रेयःश्रियां निधिः । ४ J H-omit भवाध्व ete ५J & H-तेषां च भागिनेयो भुवनाभिधः ६ P-repeats विनेयोस्ति, ७ विश्रुतम्. ८ P-निजस्थानवितीर्या० and मुपसर्गान्धाति च.९P-omits it Page #65 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। उपानही निधायास्य कर्णयोः शयनं व्यधात् ॥ १५६ ॥ यक्षार्चकः समायातस्तं तथा वीक्ष्य भूपतेः। व्यजिज्ञपदथो तस्मै कुपतिः कुपितस्ततः॥ १५७ ॥ समेत्य शयितं बाढं पेटं प्रावृत्य सर्वतः। निजैरुत्थापयामास तेऽद्राक्षुः परितः सुतौ ॥ १५८ ॥ तैराख्याते पुनः क्रुद्धो नृपस्तं लेष्टुयष्टिभिः । अघातयत्स घातानां प्रवृत्तिमपि वेत्ति नः॥१५९॥ क्षणेन तुमुलो जज्ञे पुरेऽप्यन्तःपुरेऽपि च। पूत्कुर्वन्तः समाजग्मुः सौविदाअवदस्तथा ॥१६० ॥ रक्ष रक्ष प्रभो न्यक्षः शुद्धान्तो लेष्टुयष्टिभिः। अदृष्टविहितैः कैश्चित् प्रहारैर्जर्जरीकृतः ॥ १६१ ॥ तदाकर्ण्य नृपो दध्यौ विद्यासिद्धोऽसको ध्रुवम् । संचारयति शुद्धान्ते प्रहारान् स्वं तु रक्षति ॥ १६२ ॥ तदयं माननीयो मे ध्यात्वेति तमसान्त्वयत् । बटुभिः पटुभिर्भूपसाधिष्ठायकदेववत् ॥ १६३ ॥ अथार्यखपटाचार्यः कृत्वा कपटनाटकम् । उत्थितःप्रणतो भूमिभुजा भून्यस्तमस्तकम् ॥ १६४॥ यक्ष प्रोचे मया सार्द्ध चलेति स ततोऽचलत् । तमनुप्राचलन देवरूपकाण्यपराण्यपि ॥ १६५॥ चाल्यं नरसहस्रेण तत्र द्रोणीद्वयं तथा । चालितं कौतुकेनेत्थं तत्प्रवेशोत्सवोऽभवत् ॥ १६६ ॥ तत्प्रभावाद्भुतं वीक्ष्य जनेशोऽपि जनोपि च । जिनशासनभक्तोऽभून्महिमानं च निर्ममे ॥१६७॥ सूरिनूपेण विज्ञप्तो यक्षं स्थाने न्ययोजयत् । स शान्तो द्रोणियुगलं तत्रैव स्थापितं पुनः॥१६८॥ इतश्च श्रीभृगुक्षेत्रात् यतिद्वितयमागमत् । तेन प्रोचे प्रभो प्रैषीत्संघो नौ भवदन्तिके ॥ १६९ ॥ खस्रीयः सविनेयो वः बलात्कापलिकां ततः। उन्मोच्य पत्रमेकं सोऽवाचयारितप्रियः॥ १७०॥ तेत्राकृष्टिमहाविद्या पाठसिद्धास्य संगता। तत्प्रभावाद्वराहारमानीय खंदतेतराम् ॥ १७१ ॥ १P-कुपितः कुपतिस्ततः. २J_H moit पटं ३ P संवार.४ P-बटुभिभूपःसाधिष्टायक देववत् ५ P-भारवाहकवद्देव.६ P-नियोजयेत्. ७J & Hसविनयोवलात्कपलि. ८ P-वाचयद्वापि च प्रियः ९ J & H-तत्राकुष्टि १० J स्वदतेतरे, H स्वदतेतरं. Page #66 -------------------------------------------------------------------------- ________________ ५८ प्रभावकचरिते स्थविरैः शिक्षितः कोपात् सौगतान्तः स्वयंगतः । अतीव भोजने गृद्धः स्वविद्यागर्वनिर्भरः ॥ १७२ ॥ तत्प्रभावेण पात्राणि गतानि गगनाध्वना । भोज्यपूर्णान्युपायान्ति बौद्धोपासकवेश्मनः ॥ १७३ ॥ पात्राणां पुरतः श्राद्धगृहे याति पतग्रहः । स प्रधानासने न्यस्य भ्रियते सह पात्रकैः ॥ ९७४ ॥ प्रातिहार्यमिदं दृष्ट्रा शास्त्रा अपि तदादृताः । ततोऽपभ्राजनामेतां हरतागत्यवेगतः ॥ १७५ ॥ गुडशस्त्रपुरान्ते च भृगुकच्छं समाययुः । भुवने न च पात्राणि प्रेक्ष्यन्त श्राद्धवेश्मनि ॥ १७६ ॥ पूर्णानि तानि भोज्यानामायान्ति गगनाध्वना । गुरुभिः कृतयादृश्यशिलया व्योम्नि पुस्फुटुः ॥ १७७ ॥ स प्रभूनागतान् ज्ञात्वा चिह्नेन तेन भीतिभृत् । प्राणेशदथ पूज्याश्च बौद्धानामालये ययुः ॥ १७८ ॥ बौद्धैर्बुद्धनतावुक्तैः सूरिभिर्जल्पितं तथा । वत्स शुद्धोदनसुत वन्दस्वाभ्यागतं हि माम् ॥ १७९ ॥ प्रतिमास्थस्ततो बुद्ध आगत्यांहिपुरोऽपतत् । तद्वारे चास्ति बुद्धांडः प्रोक्तस्तैः सम्पदोपनः ( 2 ) ॥ १८० ॥ समेत्य प्रणतः सोऽपि प्रभुपादांबुजद्वये । उत्तिष्ठेति गिरासुरे रेखावनतः स्थितः ॥ १८१ ॥ अद्यापि स तथैवास्ति निर्ग्रन्थनमिताभिधः । बुद्धस्थाने तदादेशादेकपार्श्वेन तु स्थितः ॥ १८२ ॥ अथो महेन्द्रनामास्ति शिष्यस्तेषां प्रभावभूः । सिद्धप्राभृत निष्णातस्तद्वृत्तं प्रस्तुवीमहि ॥ १८३ ॥ नगरी पाटलीपुत्रं वृत्रारिपुरसप्रभम् । दाहो नाम राजास्ति मिध्यादृष्टिर्निकृष्टधीः ॥ १८४ ॥ दर्शनव्यवहाराणां विलोपेन वहन्मुदम् । बौद्धानां नग्नतां शैवव्रजे निर्जटतां च सः ॥ १८५ ॥ वैष्णवानां विष्णुपूजात्याजनं कौलदर्शने । धम्मिल्लं मस्तके नास्तिकानामास्तिकतां तथा ॥ १८६ ॥ ब्राह्मणेभ्यः प्रमाणं च जैनर्षीणां स पापभूः । तेषां च मदिरापानमन्विच्छन् धर्मनिह्नवी ॥ १८७ ॥ आज्ञां ददौ च सर्वेषामाज्ञाभङ्गे स चादिशत् । १ P- बौद्धौपासकवेश्मतः २ J & H - श्राद्धा. ३ P - प्रैष्येत. ४ P - प्राक्तस्तैः सपदोः पतः- ५ J & H - गिरौः सुरेबौद्धा वनस्थितः ६ J & H - अथ. ७ P - राजात्र. ८ J & H - त्यजतां & धम्मिलं. ९ P -सचादशत्. Page #67 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। तेषां प्राणहरं दण्डमत्र प्रतिविधिर्हि कः ॥ १८८ ॥ नगरस्थितसंघाय समादिष्टं च भूभुजा। प्रणम्या ब्राह्मणाः पुण्या भवद्भिर्वोऽन्यथा वधः॥ १८९ ॥ धनप्राणादिलोभेन मेने तद्वचनं परैः। निष्किंचनाः पुनर्जेंनाः पर्यालोचं प्रपेदिरे ॥ १९० ॥ देहत्यागान नो दुःखं शासनस्याप्रभावना। तत्पीडयति को मोहो देहे यायावरे पुनः ॥ १९१ ॥ विमृश्य गुरुभिः प्रोचे श्रीआर्यखपटप्रभोः। शिष्याग्रणीमहेन्द्रोऽस्ति सिद्धप्राभृतसंभृतः ॥ १९२ ॥ भृगुक्षेत्रे ततः संघो गीतार्थ स्थविरद्वयम् । प्रहिणोतु स चामुष्मिन्नर्थे प्रतिविधास्यति ॥ १९३॥ तथाकृतेन संघेन तत्पूज्यैः प्रहितोऽथ सः । अभिमन्त्रितमानैषीत्करवीरलताद्वयम् ॥१९४ ॥ उवाच च नृपादेशः प्रमाणं गणकैः पुनः।। वीक्षणीयो मुहूर्तोऽसौ य आयतिशुभावहः ॥ १९५ ॥ इति स ज्ञापयापास भूपालाय कृतीश्वरः। सचोत्सेकं दधौ शक्तिरपूर्वकरणे मम ॥ १९६॥ दैवज्ञैश्चर्चिते लग्ने स्वीयप्रज्ञानुमानतः। महेन्द्राधिष्ठिता जग्मुः सूरयस्तन्नरैः सदः॥ १९७॥ याशिका दीक्षिता वेदोपाध्याया होमशालिनः । सायंप्रातव्रता आवसथीयाः स्मार्तऋत्विजः ॥ १९८॥ गाङ्गमृच्चन्दनालेपतिलकौघपवित्रिताः। काषायाधौतपोताव्याः सोपवीतपवित्रिकाः॥ १९९॥ सिंहासनेषु चित्रेषु गब्दिकाद्यास्तृतेषु ते । उपविष्टास्तदा दृष्टा महेन्द्रेण मनीषिणा ॥ २०० ॥ विशेषकम् । ऊचे तेन क्षितेर्नाथ यदपूर्वमिदं हि नः । पूर्व पूर्वामुखान् किंवा नमामः पश्चिमामुखान् ॥ २०१॥ जल्पन्ति निकरेणासौ करवीरलतां किल । संमुखानां परावृत्त्य पृष्टे चाभ्रामयत्ततः ॥ २०२॥ युग्मम् । आसन्लुचितशीर्षास्ते निश्चेष्टा मृतसंनिभाः। अभूच्च भूपतेर्वकं विच्छायं शशिवहिने ॥ २०३॥ सम्पन्नाश्च तथा सम्बन्धिनस्तेषां कृपाभुवः । १P-दहत्यागानवो दुक्खं J& H शासनस्य प्रभा. २ P-शिष्याग्रणीमहे. ३ J & H- करणे मना. ४ JH-वेदोपाधायो P-आवसथाया. ५ Pपवित्रितीः ॥ कषाय; साप० ६ P-उपतिष्टामहेंद्रेण स्तदा. ७ पूर्वपूर्व. ८ Pसंमुखीनां पुरा J& H चाभ्रमय. ९P-लुठित. Page #68 -------------------------------------------------------------------------- ________________ प्रभावकचरिते जल्पयन्त्यभिधाग्राहं को हि जल्पत्यचेतनः ॥ २०४॥ क्रन्दन्ति वजनाः सर्वे विकर्म फलितं हि नः । अदृष्टश्रुतपूर्वा हि जैनर्षीणां नतिः परे ॥ २०५॥ भूपरूपेण कालोयं दर्शनानामुपस्थितः । पुस्तकस्थपुराणेषु कथापीडनहि श्रुता ॥ २०६॥ उत्थायाथासनाद्भूपः पश्चात्तापमुपागतः।। महेन्द्रस्य महेन्द्रस्य धीरेषु न्यपतत्यदोः ॥ २०७॥ रक्ष रक्ष महाविद्य प्रसीद त्वं ममोपरि। क्षमस्वैकं व्यलीकं मे सन्तो हि नतवत्सलाः ॥ २०८ ।। संजीवय द्विजानेतान् रुदत्संबन्धियोषितः। कस्ते माहात्म्यसात्म्यस्य पारं प्राप्तः सुधीरपि ॥ २०९ ॥ इत्याकर्ण्य गिरं प्राह महेन्द्रः शमिनां पतिः। अनात्मज्ञ धराधीश कस्ते मिथ्याग्रहोलगत् ॥ २१० ॥ निर्वाणमधितस्थुश्चेजिना आनन्दचिन्मयाः । तदधिष्टायिकाः सन्ति प्रत्ययाढ्यास्तथाप्यहो ॥ २११ ॥ एवं मृष्यति को नाम प्राकृतोपि विडंबनम् ॥ ब्राह्मणानां गृहस्थानां प्रणामो यतस्थितैः ॥ २१२ ॥ दैवतैः शिक्षिता एते त्वदन्यायप्रकोपिभिः। न मे कश्चित्प्रकोपोऽस्ति मादृशां मण्डनं शमः ॥ २१३ ॥ पुनर्बाढं नृपः प्राह त्वमेव शरणं मम । देवो गुरुः पिता माता किमन्यैर्लल्लिभाषितैः ॥ २१४ ॥ अमून् जीवय जीवातो जीवानां करुणां कुरु । अथावोचत्कृती देवान् सान्त्वयिष्ये प्रकोपिनः ॥ २१५ ॥ विद्यादेव्यः षोडशापि चतुर्विंशतिसंख्यया । जैना यक्षास्तथा यक्षिण्यश्च वोऽभिदधाम्यहम् ॥ २१६ ॥ अज्ञानादस्य भूपस्यापराद्धं जिनशासने । द्विजैरमीभिस्तत्क्षम्यं मानवाः स्युः कियद्दशः॥ २१७ ॥ इत्युक्ते तेन दैवी वाक् प्रादुरासीदुरासदा। एषां प्रव्रज्यया मोक्षोऽन्यथा नास्त्यपि जीवितम् ॥ २१८ ॥ अभिषेकेण तेषां गीमुत्कला च व्यधीयतः (त)। पृष्टा अङ्गीकृतं तैश्च को हि प्राणान्न वाञ्छति ॥ २१९॥ उत्तिष्ठतेति तेनोक्ता भ्राम्यताथारालता । सजीबभूवुः प्राग्वत्ते जैना ह्यमितशक्तयः ॥ २२० ॥ संघेन सह रोमांचांकुरकन्दलितात्मना।। १ J& H प्रत्ययाद्याः २ J & H षोडशोपि. ३ J&H राना ४ JH-गीमुक्तालावव्यधीयत्. ५ P-त्रास्यतोथोपरा. ६ J & H-कुरु. Page #69 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। राशा कृतोत्सवेनार्थ खं विवेशाश्रयं मुनिः ॥ २२१ ॥ प्रव्रज्योत्सवमाधास्यन् सङ्घस्तेन द्विजन्मनाम् । न्यषेध्यतार्यखपटप्रभुः कर्तेति जेल्पता ॥ २२२॥ एवं प्रभावभूमेस्ते कीदृगस्ति गुरुः प्रभोः। इत्युक्तः श्रीमहेन्द्रोऽसौ प्राह कोऽहं तदग्रतः॥ २२३॥ मार्जारभ्य इव क्षीरं सौगतेभ्यो व्यमोच्यत । अश्वावबोधतीर्थ श्रीभृगुकच्छपुरे हि यैः ।। २२४ ॥ श्रीआर्यखपटाख्यानां प्रभूणां महिमाद्भुतम् । तेषां स्तोतुमलं कः स्याद्वादिद्विपहरिश्रियाम् ॥२२५॥ युग्मम् । चारित्राश्मनि संप्रपीष्य मदनं पात्रे वरिष्ठात्मके वृद्धस्नेहभरे तपोऽनलमिलज्ज्वाले विपक्कः स्फुटम् । रोदः कुंजरकुण्डके सिँतरुचिज्योत्स्नाम्लके यद्यशोराशिः स्यादवसेकिमोऽभ्रविवरःस्वाद्यः सतां सोऽवतात् २२६ अथासौ ब्राह्मणैः सार्द्ध संघेनानुमतो ययौ। उपपूज्यं दीक्षिताश्च वाडवाः प्रभुभिस्ततः॥२२७॥ इत्यार्यखपटश्चक्रे शासनस्य प्रभावनाम् । उपाध्यायो महेंद्रश्च प्रसिद्धि प्रापुरद्भुताम् ॥ २२८ ॥ अश्वावबोधतीर्थे च प्रभावकपरम्परा । अद्यापि विद्यते यस्य संताने सूरिमण्डली ॥ २२९ ॥ सूरिः श्रीपादलिप्तः प्रागाख्यातगुरुसन्निधौ। प्रतीतप्रातिहार्याणि तानि शास्त्राण्यधीतवान् ॥२३० ॥ पादलिप्ताख्यभाषा च विद्वत्सङ्केतसंस्कृता। कृता तैरपरिशेयोऽन्येषां यत्रार्थ इष्यते ॥ २३१॥ आवर्जितश्च भूपालः कृष्णाख्यः संसदा सह ।। न ददात्यन्यतो गंतुं गुणगृह्यो मुनीशितुः ॥ २३२॥ अथार्यखपटः सूरिः कृतभूरिप्रभावनः । अन्तेऽनशनमाधाय दैवीभुवमशिश्रियत् ॥ २३३॥ श्रीमहेन्द्रस्ततस्तेषां पट्टे सूरिपदेऽभवत् । तीर्थयात्रां प्रचक्राम शनैः संयमयात्रया ॥ २३४॥ पुरा ये पाटलीपुत्रे द्विजाः प्रव्रजिता बलात् । जातिवैरेण तेनात्र ते मत्सरमधारयन् ॥ २३५ ॥ १H & J-पूरवां. २ J & H-जल्पत. ३ H & J-प्रवीक्ष्य. and वरिष्टात्मको...मुके यशो. ४ P-शितभुविचरस्वाद्यसतां ५ P-इत्याचार्य. J & H-प्रभावना. ६ P-सूरिमूडली. ७ P-णिधीत. ८J H-संस्कृतांतैरपि ज्ञेयान्येषां. Page #70 -------------------------------------------------------------------------- ________________ ६२ प्रभावकचरिते संघेन पादलिप्तस्य विशैर्विज्ञापितं नरैः । ततस्तेषां समादिक्षत् स विमृश्य प्रभुस्तदा ॥ २३६ ॥ कार्त्तिक्यामहमेष्यामीत्युक्त्वा तान् स व्यसर्जयत् । ततो राजानमापृच्छ्य भृगुकच्छं समाययौ ॥ २३७ ॥ पूर्वाह्ने व्योममार्गेण रत्नवद्भास्वराकृतिः । अवतीर्णो विशीर्णेनाः श्रीसुव्रतजिनालये ॥ २३८ ॥ तत्रागतं तमुत्प्रेक्ष्य भास्वन्तमिव भूगतम् । लोकः कोक इवानन्दं प्राप दुष्प्रापदर्शनम् ॥ २३९ ॥ चित्रात्तत्रागमद्राजा नमश्चक्रे च तं गुरुम् । महानन्दं ददौ तत्र भक्त्या संघसमन्वितः ॥ २४० ॥ तत् प्रदापितमर्थिभ्यो द्रव्यं गुरुभिरद्भुतम् । द्विजा व्योमाध्वगं तं च दृष्ट्वातिभयतोऽनशन् ॥ २४१ ॥ राजाह सुकृती कृष्णः पूज्यैर्यो न विमुच्यते । दर्शनस्यापि नाहीः स्मो मूले जाता वयं कथम् ॥ २४२ ॥ कियन्त्यपि दिनान्यत्रावतिष्ठध्वं सुखाय नः । प्राहुः पूज्याश्च युक्तैवावस्थितिर्भवदन्तिके ॥ २४३ ॥ संघादेशो ह्यनुल्लङ्घयः स्नेहश्च नृपतेरपि । पुरस्तस्यापराह्ने चागमनं प्रति शुश्रुवे ॥ २४४ ॥ ततः शत्रुञ्जये रैवतके संमेतपर्वते । अष्टापदे च कर्त्तव्या तीर्थयात्रा ममाधुना ॥ २४५ ॥ आपृष्टोऽपि महाराज तैज्जैने भव भक्तिमान् । इत्युक्त्वाकाशमार्गेण यथारुचि ययौ प्रभुः ॥ २४६ ॥ तीर्थयात्रां प्रकुर्वाणः पादचारेण सोऽन्यदा । सुराष्ट्राविषयं प्रापदपारश्रुतपारगः ॥ २४७ ॥ तत्रास्ति विगतातङ्का टंकानाम महापुरी । श्रीपादलिप्तस्तत्रायाद्विहरन् व्रतलीलया ॥ २४८ ॥ तत्र नागार्जुनो नाम रससिद्धिविदांवरः । भाविशिष्यो गुरोस्तस्य तद्वृत्तमपि कथ्यते ॥ २४९ ॥ अस्ति क्षत्रियमूर्धन्यो धन्यः समरकर्मसु । संग्रामनामा विख्यातस्तस्य नार्यस्ति सुव्रता ॥ २५० ॥ सहस्रफणशेषाहिस्वप्नसंसूचितस्थितिः । कृतनागार्जुनाभिख्यस्तयोः पुत्रोऽस्ति पुण्यभूः ॥ २५९ ॥ १J H - प्रापुर्दुःप्रा. २ JH - sथ. ३ P - जैनै ४ P - ध्वन्यः; JH समकर्मसु . ५ P सहस्त० ६ JH - पुण्यतः Page #71 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। स वर्षत्रयदेशीयोऽन्यदा क्रीडन् शिशुव्रजैः । सिंहार्भकं विदार्यागात्तस्मात्किचिच्च भक्षयन् ॥ २५२ ॥ पित्रा निवारितः क्षात्रे कुले भक्ष्यो नखी नहि । तदागतेन चैकेन सिद्धपुंसेति वर्णितम् ॥ ५५३॥ मा विषीदव पुत्रस्य विहितेन नरोत्तम । अशक्यास्वादसूतस्यास्वादं प्राप्स्यत्यसौ सुतः॥२५४॥ विनिद्र उद्यमी भावानाबाल्यादपि तेजसा । प्रवृद्धपुरुषैः संगमङ्गीचके कलाद्भुतैः ॥ २५५॥ गिरयः सरितो यस्य गृहाङ्गणमिवाभवन् । दूरदेशान्तरं गेहान्तरं भूरिकलादरात् ॥ २५६ ॥ नागवंगीकृताभ्यासस्ताररङ्गस्य रङ्गभूः। संग्रही चौषधीनां यो रससिद्धिकृतामिह ॥ २५७ ॥ यःसत्त्वं तालके पिष्टं गंधके द्रावमभ्रके। जारणं मारणं सूते वेत्ता छेत्ता सुदुःस्थितेः ॥२५८ ॥ सहस्रलक्षकोयंशधूमवेधान् रसायनम् । वडिवद्वान् चकाराथ नदीष्णो रससाधने ॥२५९ ॥ स महीमण्डलं भ्रान्त्वान्यदा स्वपुरमासदत् । पादलिप्तं च तत्रस्थं जज्ञे निःसंख्यसिद्धिकम् ॥२६०॥ पर्वताश्रितभूमौ च कृतावासः स्वशिष्यतः। अकार्षीत् पादलेपार्थी ज्ञापनं गणभृत्पतेः ॥ २६१ ॥ तृणरत्नमये पात्रे सिद्धं रसमढौकयत्।। छात्रो नागार्जुनस्य श्रीपादलिप्तप्रभोः पुरः॥ २६२ ॥ स प्राह रससिंद्धोयं ढौकने कृतवान् रसम् । खान्तर्द्धनमहोस्नेहस्तस्येत्येवं स्मितोव्यधात् ॥ २६३ ॥ पात्रं हस्ते गृहीत्वा च भित्तावास्फाल्य खण्डशः ॥ चक्रे च तन्नरो दृष्ट्वा व्यषीदद्वक्रवक्रभृत् ॥ २६४ ॥ मा विषीद तव श्राद्धपार्श्वतो भोजनं वरम् । प्रदापयिष्यते चैवमुक्त्वा संमान्य भोजितः ॥ २६५ ॥ तस्मै चापृच्छयमानाय काचपोत्रं प्रपूर्य सः।। प्रश्रावस्य ददौ तस्मै प्राभृतं रसवादिने ॥ १६६ ॥ नूनमस्महुरुर्मूर्खः योऽनेन स्नेहमिच्छति । विमृशन्निति स स्वामिसमीपं जग्मिवांस्ततः ॥२६७ ॥ १ J_H-कुर्वन्. २JH-दूरे. ३ P-तांभ्यास. ४ JHलक्षधूम...नय. ५ JH-विडबद्वान्. ६ JH. omit पुरः. ७J Hरसविद्ययं. ८JH-सामा. ९ J_H-काचामंत्रं. Page #72 -------------------------------------------------------------------------- ________________ ६४ प्रभावकचरिते पूज्यैः सहाद्भुता मैत्री तस्येतिस्मितपूर्वकम् । सम्यग्रविज्ञप्य वृत्तान्तं तदमत्रं समार्पयत् ॥ २६८ ॥ द्वारमुन्मुद्र्य यावत्स सन्निधत्ते दृशोः पुरः । आजिघ्रति ततः क्षारविस्रगन्धं स बुद्धवान् ॥ २६९ ॥ अहो निर्लोभतामेष मूढतां वा स्पृशेदथ । विमृश्येति विषादेन बभंजाश्मनि सोऽपि तत् ॥ २७० ॥ दैवसंयोगतस्तत्रैकेन वह्निः प्रदीपितः । भक्ष्यपाकनिमित्तं च क्षुत्सिद्धस्यापि दुःसहः ॥ २७१ ॥ पेक्कानृजलवेधेन वह्नियोगे सुवर्णकम् । सुवर्णसिद्धिमुत्प्रेक्ष्य सिद्धशिष्यो विसिष्मिये ॥ २७२ ॥ व्यजिज्ञपहरु सिद्धं सिद्धिस्तस्याद्भुता प्रभोः । ग्रीवा हमीभवेद्यस्य मलमूत्रादिसङ्गमे ॥ २७३ ॥ ततो नागार्जुनः सिद्धो विस्मयस्मेरमानसः । दध्यौ स मम का सिद्धिर्दारिद्र्यं कुर्वतः सदा ॥ २७४ ॥ वास्तेत्र चित्रको रक्तः कृष्णमुण्डी च कुत्र सा । शाकम्भर्याश्च लवणं वज्रकन्दश्च कुत्र वा ॥ २७५ ॥ इत्येवं दूरदेशस्थौषध पिण्डान् प्रपिण्डयन् । भिक्षाभोजनतोम्लानदेहोऽहं सर्वदाभवम् ॥ २७६ ॥ युग्मम् आचार्योऽयं शिशुत्वादप्यारभ्य प्राप्तपूजनः । सुखी विहायोगामिन्या सिद्धया साध्यानि साधयन् ॥ २७७॥ तथा यद्देहमध्यस्था मलमूत्रादयो वसु । साधयन्ती मृदश्मादिद्रव्यैस्तस्यास्तु का कथा ॥ २७८ ॥ रसोपकरणं मुक्त्वा ततोऽसौ प्रभुसन्निधौ । जगाम विनयानम्रमौलिर्मदभरोज्झितः ॥ २७९ ॥ प्रणम्य चावदन्नाथ सिद्धिगर्वः स सर्वतः । समागलत् प्रभौ दृष्टे देहसिद्धे जितस्पृहे ॥ २८० ॥ ततः प्रभुपदाम्भोजं सदाप्यवलगाम्यहम् । मिष्टान्नं लभमानस्य कदन्नं कस्य रोचते ॥ २८१ ॥ इति श्रीपादलिप्तस्य चरणक्षालनादिकम् । देहशुश्रूषणं नित्यं विदधाति प्रशान्तगीः ॥ २८२ ॥ सूरयश्च मुनित्राते गते विचरितुं तदा । प्रागुक्तपञ्चतीर्थान्ते गत्वा व्योम्ना प्रणम्य च ॥ २८३ ॥ १ J H—सहम्. २ J P -पक्ता. ३ P - योगे सुवर्णसिद्धमत्प्रेक्ष्य शिष्योविसिष्मिये. षुच ४ JP - ग्रावो. ५ JH - कास्ते. ६ P -च. ७ JH omit सिद्धे. ८ JH omit मिष्टान्नं. Page #73 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। समायान्ति मुहूर्तस्य मध्ये नियमपूर्वकम् । विद्याचारणलब्धीनां समानास्ते कलौ युगे ॥ २८४ ॥ आयातानामथैतेषां चरणक्षालनं ध्रुवम् । जिज्ञासुरौषधानीह निर्विकारश्चकार सः॥ २८५॥ स जिघ्रन् विमृशन् पश्यन् स्वादयन् संस्पृशन्नपि । प्रज्ञाबलादौषधीनां जज्ञे सप्ताधिकं शतम् ॥ २८६ ॥ विधायौषधसंयोगं ततः कल्कं चकार सः। पादमालेपयत्तेनोच्छलितो गगनं प्रति ॥ २८७॥ स ताम्रचूडसंपातं कृत्वा च न्यपतहुणी। उचैःप्रदेशात्पातेन जानौ गुल्फे च पीडितः॥ २८८ ॥ . रक्ताभ्यक्तवणक्लिन्नजको दृष्टः शमीश्वरैः। उक्तं च किमहो पादलेपः सिद्धो गुरुं विना ॥ २८९ ॥ सोऽब्रवीच सितं कृत्वा नास्ति सिद्धिर्गुरुं विना । निजप्रज्ञाबले किंतु परीक्षां चक्रिवानहम् ॥ २९०॥ प्राह श्रीपादलिप्तोऽपि प्रसन्नस्तस्य सत्यतः। शृणु नाहं न ते तुष्टो रससिंद्धया न तेऽनया ॥ २९१ ॥ शुश्रूषयानया नापि परं प्रज्ञाबलेन ते । तोषोंहिक्षालनात्को हि वस्तुनामानि बुध्यते ॥ २९२॥ ततो दास्यामिते विद्यां परं मे गुरुदक्षिणाम् । कां दापयसि स चोवाच यामादिशसि मे प्रभो ॥ २९३॥ ऊचे च गुरुणा सिद्ध त्वयि स्निग्धं मनो मम । उपदेश्यामि ते पथ्यं तथ्यं गाथां ततः शृणु ॥ २९४॥ सा च-दीहरफणिंदनाले महिहरके सरदिसा बहुदलिल्ले। उपियइकालभमरो जणमयरन्दं तुहइपउमे ॥ २९५॥ ततो विश्वहितं धर्ममाद्रियस्व जिनाश्रयम्। तथेति प्रतिपन्ने च तेन तहुरुरादिशत् ॥ २९६॥ आरनालविनिौततंडुलामलवारिणा । पिष्टौषधानि पादौ च लिप्त्वा व्योमाध्वगोऽभवत् ॥२९७ ॥ तथैव विहितेऽसौ च जगाम गगनाध्वना। पक्षिराजवदुड्डीय यथाभिलषितां भुवम् ॥ २९८ ॥ कृतज्ञेन ततस्तेन विमलानेरुपत्यकाम् । गत्वा समृद्धिभाक् चक्रे पादलिप्ताभिधं पुरम् ॥ २९९ ॥ १P-स्तु. २ J H विद्या. ३J H omit नया ते. ४ J Hदास्यामि and omit प्रभो ५JH मु. Page #74 -------------------------------------------------------------------------- ________________ प्रभावकचरिते अधित्यकायां श्रीवीरप्रतिमाधिष्ठितं पुरा । चैत्यं विधापयामास स सिद्धः साहसीश्वरः ॥ ३०० ॥ गुरुमूर्ति च तत्रैवास्थापयत्तत्र च प्रभुम् । प्रत्यष्टापयदाहूयार्हद्विम्बाण्यपराण्यपि ॥ ३०१॥ श्रीपादलिप्तसूरिश्च श्रीवीरपुरतः स्थितः। स्तवं चक्रे वरं गाहाजुअलेणेति संज्ञितम् ॥ ३०२ ॥ गाथाभिश्चेति सौवर्णव्योमसिद्धिसुगोपिते । प्रभुर्जजल्प नाभाग्याःप्रबुध्यन्तेऽधुनातनाः॥ ३०३॥ तथा रैवतकक्ष्माभृद्धो दुर्गसमीपतः। श्रीनेमिचरितं श्रुत्वा तादृशाप्तप्रभोर्मुखात् ॥ ३०४ ॥ कौतुकात्तादृशं सर्वमावासादि व्यधादसौ। दशाहमण्डपं श्रीमदुग्रसेननृपालयम् ॥ ३०५ ॥ विवाहादिव्यवस्थां च वेदिकायां व्यधात्तदा । अद्यापि धार्मिकैस्तत्र गतैस्तत्प्रेक्ष्यतेऽखिलम् ॥ ३०६ ॥ इतः पृथ्वीप्रतिष्ठाने नगरे सातवाहनः। सार्वभौमोपमः श्रीमानृप आसीहुणावनिः ॥ ३०७ ॥ तथा श्रीकालकाचार्यस्वस्त्रीयः श्रीयशोनिधिः। भृगुकच्छपुरं पाति बलमित्राभिधो नृपः॥ ३०८ ॥ अन्येद्युः पुरमेतञ्च रुरुधे सातवाहनः। द्वादशाष्टानि तत्रास्थाबहिर्न व्याहतं भवत् ॥ ३०९॥ अथाशक्यग्रहे दुर्गे निर्विण्णश्चिरकालतः। श्रीपादलिप्तशिष्यस्तन्मन्त्रीनाथं व्यजिज्ञपत् ॥ ३१०॥ ग्राहयिष्याम्यहो दुर्ग भेदात्तत्प्रेषयस्व माम् । एवमस्त्विति तेनोक्ते निर्ययौ शिबिरात्ततः॥३११ ॥ स भागवतवेषेण प्राविशन्नगरान्तरा। भूपालमन्दिरे गत्वा तं नाथं च व्यलोकयत् ॥ ३१२ ॥ जीर्णदेवगृहोद्धारो महादानादिसत्किया। पुण्याय स्फूर्यते दुर्गरोधाद्यावनिवर्तते ॥ ३१३॥ सोपि संरोधनिर्विण्णस्तदाक्षिप्तो व्यधाददः। धर्मोपदेश आपत्सु कार्यपक्षे हि जायते ॥ ३१४ ॥ धर्मस्थानानि भज्यन्ते बहिर्यत्राः सगोलकैः। समारचयते राजा तस्य धर्मोपदेशतः॥ ३१५ ॥ पौनःपुन्येन भज्यन्ते निष्पाद्यन्ते पुनः पुनः। .एवं च बलमित्रस्य सर्वस्वं निष्ठितं तदा ॥ ३१६ ॥ १ J_H omit बहिर्यत्रा..... पौनःपुन्येन भज्यंते. Page #75 -------------------------------------------------------------------------- ________________ श्रीपादलिप्तप्रबन्धः। श्रीसातवाहनो दुर्ग मंत्रिबुद्ध्या ततोऽग्रहीत् । तन्निगृह्य महीपालं नगरं स्वं ययौं मुदा ॥ ३१७ ॥ अन्यदा तस्य राजेन्दो राज्य विद्धतः सतः। चत्वारः शास्त्रसंक्षेपकवयो द्वारमभ्ययुः ॥ ३१८ ॥ प्रतीहारेण ते राज्ञो विज्ञाप्य भवनान्तरा। मुक्ता एकैकपादं च श्लोकस्याहुनृपाग्रतः॥ ३१९ ॥ तथाहि-जीर्णे भोजनमात्रेयः कपिलः प्राणिनांदया। बृहस्पतिरविश्वासः पाञ्चालस्त्रीषु मार्दवम् ॥ ३२०॥ पूर्व प्रशस्य तेषां स महादानं ददौ प्रभुः। परिवारो न किं स्तौतीत्युक्ते तैराह भूपतिः॥ ३२१ ॥ भोगवत्यभिधां वारवनितां त्वं स्तुतिं कुरु । पादलिप्तं विना नान्यः स्तोतव्यो मम साब्रवीत् ॥३२२॥ आकाशमार्गजंघालो विद्यासिद्धो महाक्रियः। पादलिप्तादृते कोन्य एवंविधगुणावनिः ॥३२३ ॥ संधिविग्रहिको राज्ञः शंकरो नाम मत्सरी। असहिष्णुः स्तुतिं तस्यावादीदादीनवस्थितिः॥ ३२४॥ मृतो जीवति यस्तस्य पाण्डित्यं प्रकटं वयम् । मन्यामहेपि ते कीरा विद्वांसो गगनेचराः॥ ३२५॥ भोगवत्याह तत्रेदमपि संभाव्यते ध्रुवम् । अतुल्यप्राभवा जैना देवा इव महर्षयः ॥ ३२६ ॥ मानखेटपुरात् कृष्णमापृच्छय्य स भूपतिः। श्रीपादलिप्तमाह्वासीदेतस्मादेव कौतुकात्॥३२७॥ आययौ नगराबाह्योद्याने जैनो मुनीश्वरः । विद्वान् बृहस्पतिर्ज्ञात्वा परीक्षामस्य चक्रिवान् ॥ ३२८ ॥ विलीनसर्पिषा पूर्ण रौप्यकच्चोलकं ततः। प्रेषिवानिपुणेनैष स प्रभोस्तददर्शयत् ॥ ३२९ ॥ धारिणीविद्यया सूचिमवस्थाप्योर्धसंस्थिति । प्रैषयत्तेन तेदृष्टं विषण्णोऽथ बृहस्पतिः॥ ३३०॥, अथाभ्यागत्य भूपालः प्रवेशोत्सवमादधे । गुरोरुपाश्रयस्तस्य महार्हश्च प्रदर्शितः॥ ३३१ ॥ कथा तरङ्गलोलाख्या व्याख्याताभिनवा पुरः। भूपस्य तत्र पांचालः कवि शमसूयितः॥३३२॥ १J H मुक्त्वा. २ P श्वासपंचालः स्त्रीषुमाईवः. ३J H omit this ___line. ४ P प्रेषि. ५JH प्रेषयत्तेनदृष्टिं. Page #76 -------------------------------------------------------------------------- ________________ प्रभावकचरिते प्रशंसति कथां नैव दूषयेत्प्रत्युताधिकम् । रासभस्य मुखाकिस्यात् शान्तिपानीयनिर्गमः ॥ ३३३॥ मद्रंथेभ्यो मुषित्वार्थबिन्दु कंथेयमाथि । बालगोपाङ्गनारङ्गसङ्गि ह्येतद्वचः सदा ॥ ३३४॥ विदुषां चित्तरङ्गेनोत्पादयेत्प्राकृतं हि तत् । स्तौति भोगवती ह्येतत्तादृशां तादृगौचिती ॥३३५ ॥ अन्यदा कपटात् स्वस्य मृत्युमैक्षयत प्रभुः। दाहात्पूत्कारपूर्व च जनस्तत्रामिलद् घनः ॥ ३३६ ॥ शिबिकांतस्तनुःसाधु क्षिप्त्वा यावत्समाययौ।। वादित्रैर्घाद्य मानश्च पश्चालभवनाग्रतः ॥ ३३७॥ तावहाद्विनिष्क्रामन् जझेऽसौ शोकपूरितः । आह हाहा महासिद्धिपात्रं सूरिययौ दिवम् ॥ ३३८ ॥ मादृशोऽसूययाक्रान्तः सत्पात्रे सूनृतव्रते ।। अकुर्वत दृशो रक्ता मोक्षो नास्ति तदेनसः ॥ ३३९ ॥ (यतउक्तम् ) आकरः सर्वशास्त्राणां रत्नानामिव सागरः । गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥ ३४० ॥ (तथा) सीसं कहवि न फुटुंजमस्स पालित्तयं हरंतस्य । जस्समुहनिर्झराउ तरंगलोला नई बूढा ॥ ३४१ ॥ पंचालसत्यवचनाजीवितोहमिति ब्रुवन् । उत्तस्थौ जनताहर्षारावेण सह सूरिराट् ॥ ३४२ ॥ जनैराश्यमानश्च ततोऽसौ गुणिमत्सरी। निर्वास्यमानो न्यक्कारपूर्वमुर्वीपतेर्गिरा ॥३४३॥ रक्षितो मानित॑श्चाथ बन्धुवन्धुरसौहृदैः । श्रीपादलिप्तगुरुभिर्गुरुविद्यामदोज्झितैः ॥ ३४४ ॥ श्रावकाणां यतीनां च प्रतिष्ठा दीक्षया सह । उत्थापना प्रतिष्ठाहद्विम्बानां धुसदामपि ॥ ३४५॥ यदुक्तविधितो बुद्धा विधीयतात्र सूरिभिः। निर्वाणकलिकाशास्त्रं प्रभुश्चक्रे कृपावशात् ॥ ३४६॥ प्रश्नप्रकाश इत्याख्यं ज्योतिःशास्त्रं च निर्ममे। . लाभालाभादिपृच्छासु सिद्धादेशः प्रवर्तते ॥ ३४७॥ अन्यदायुः परिज्ञाय सह नागार्जुने मते । विमलाद्रिमुपाजग्मुः श्रीनाभेयं ववंदिरे ॥ ३४८॥ १ P-द्वेषयेत्. २ P हाहापूत्कारपूर्व ३ P भुवना. ४ P गेहात्. ५ P-वचना. ६P रादेण. ७ P-श्चाथबन्धुरसौ. ८ P नामार्जु. Page #77 -------------------------------------------------------------------------- ________________ श्रीविजयसिंहसूरिप्रबन्धः। सिद्धक्षेत्रसि(शि)रःसारशिलां सिद्धिशिलातुलां। शमसंवेगनिधय एकामासेदुरादरात् ॥ ३४९॥ प्रायोपवेशनं सद्य आस्थाय शशिरोचिषा। धर्मध्यानाम्भसा विध्यापितरागादिवह्नयः॥ ३५०॥ मनोवचनकायानां चेष्टाः संहृत्य सर्वतः। शुक्लध्यानसमानान्तःकरणावस्थितिस्थिरा ॥ ३५१ ॥ द्वात्रिंशद्वासरान् सम्यग् लयलीनमनःक्रमाः। देहं जीर्णकुटीतुल्यमुज्झित्वा प्रकटप्रभाः ॥ ३५२॥ द्वितीयकल्पे देवेन्द्रसामानिकतनूभृतः। अभूवन्नर्चिता भूपैःश्रीपादलिप्तसूरयः॥३५३॥ चतुर्भिःकलापकम् । उत्पत्तिसिद्धिपटुरत्र स रुद्रदेव___ सूरिर्गुरुः श्रमणसिंहनिमित्तसिंहः । विद्याभृदार्यखपटप्रभुरेष सिद्धो पाध्याय इत्यतिशयप्रकटो महेन्द्रः॥ ३५४॥ चत्वार इत्यनवधिप्रभसिद्धविद्याः । श्रीपादलिप्तसहिता चिनुता मयैते । यत्किचित्र गदितं न चरित्रशेष मशानतस्तदिह वृत्तविदः क्षमन्ताम् ॥ ३५५॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीपादलिप्ताख्यया श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोगमत्पञ्चमः ॥ ३५६ ॥ पूर्वमुनिवृतवीते मम गौश्चरितातितृप्ततो मत्ता। कूटपथे गच्छन्ती वशिता प्रद्युम्नगोपतिना ॥ ३५७ ॥ ग्रंथाग्रं ३७३ अक्षर २८ उभयं ११०८ अक्षर ॥ ११॥ इति श्रीप्रद्युम्नसूरिविरचिते श्रीपादलिप्ताचार्यप्रबन्धः पंचमः श्रीविजयसिंहसूरिप्रबन्धः ६ श्रीविजयसिंहसूरिर्गुटिकासिद्धः कथं पथि गिरां स्यात् । तुष्टा दर्शनमात्राद्यस्यांबादाशु(१)रीगुटिकाः॥१॥ त सुरी अष्टमहासिद्धिनिधेस्तस्य वदिष्यामि कमपि वृत्तलवम् । वृद्धकृतिवचाश्रवणप्रवणप्रणिधानपरतन्त्रः॥ २॥ १P सिद्धि. २J H-लयासीनमनः. ३ JH गोपिता. ४ J. P. it. ५J H. गुटिकाम् ६JH-omit प्रवण. Page #78 -------------------------------------------------------------------------- ________________ प्रभावकचरिते तीर्थमश्वावबोधं श्रीमेकलकन्यकातटे जयति । तत्र गुरुरसौ समभूत्तद्वृत्तान्तोऽपि वक्तव्यः ॥ ३ ॥ कनकगिरिशिखरसोदरतुङ्गप्राकारवलयपरिकलितम् । श्रीपुरमिति नाम्नासीत्पुरा पुरं सकलपुरमुकुटः ॥ ४ ॥ तस्य च बहिरुद्याने समवासार्थी द्वितीयजिननाथः । श्रीमानजितस्वामी तत्तीर्थं पूर्वमिति विदितम् ॥ ५ ॥ पश्चात्पुष्कलकालेऽतीते चन्द्रप्रभःप्रभुरवात्सीत् । उद्यान एतदीयनाम्ना च सरस्वतीपीठे ॥ ६ ॥ पुनरपि बहुकालेन क्षीणं तद्भृगुरिति प्रथितनामा । उदधे च महर्षिर्भृगुपुरमभवत्ततः प्रभृति ॥ ७ ॥ वंशे मेरुगिरीन्द्रे चन्द्रार्धमणिकिरणरज्जुविस्तारे । यत्कीर्तिवंशनटी नृत्यति विश्वेषु सभ्येषु ॥ ८ ॥ स नृपतिरिह जितशत्रुः शत्रुश्रेणीपतङ्गगणदीपः । कलिकाल कलुषताम सविघटनपटुरात्मविषयोऽभूत् ॥ ९ ॥ युग्मन् छागानां शतषट्कं त्रिन्यूनं सोऽन्यदा महीनाथः । विप्रोपदेशमासाद्य यज्ञविधये जुहाव भृशम् ॥ १० ॥ अन्त्ये दिने द्विजैस्तैरानाय्यन (थ्यत ) हो तुमत्र पट्टाश्वः । रेवादर्शनतोऽस्य च पूर्वभवः स्मृतिपथं प्राप्तः ॥ ११ ॥ अथ मुनिसुव्रतनाथस्तं सप्तिं पूर्वजन्मसुहृदम् । ज्ञात्वा निश्येकस्यामतीत्य गव्यूतिविंशशतम् ॥ १२ ॥ तस्य प्रबोधनार्थं तदा प्रतिष्ठाननामतो नगरात् । सिद्धिपुरे विश्रम्य क्षणमेकमुपाजगामात्र ॥ १३॥ कोटिकाभिधाने परिकरितस्त्रिंशता मुनिसहस्रैः । बाह्योद्याने समवासार्थी चूतद्रुमस्याधः ॥ १४॥ त्रिभिर्विशेषकम् । सर्वज्ञं तं मत्वा सम्प्राप्तस्तेन वाजिना सहितः । राजा गत्वा यज्ञफलं तदनु पप्रच्छ ॥ १५ ॥ अवदच्च जिनाधीशः प्राणिवधात्ते भवन्ति नरकफलाः । अश्वश्च साश्रुनेत्रः प्रभुदर्शनतस्तदा जज्ञे ॥ १६ ॥ जिनपतिरबोधयदमुं नृपतिसमक्षं यथा शृणु तुरङ्गेः । स्वंपूर्वभवं धीमन्नवधानपरश्च बुध्यस्व ॥ १७ ॥ प्रागत्र पुरेऽवासीत्समुद्रदत्ताख्यया वणिग्जैनः | तस्य च सागरपोतो मिथ्यादृष्टिः सुहृत्समभूत् ॥ १८ ॥ जीवाहिंसा मुख्ये समुद्रदत्तेन बोधितो धम्र्मे । स द्वादशव्रतधरः शनैश्च सुकृतेश्वरः समभूत् ॥ १९ ॥ १ JH रानाथतहोमत्र. २ P. ७० Page #79 -------------------------------------------------------------------------- ________________ श्रीविजयसिंहसूरिप्रबन्धः । तस्य प्राक्कर्मवशात्क्षयनामा चान्यदाभवद्रोगः । निजधर्मत्यागादयसस्याभूत्तंनिजाः प्राहुः ॥ २० ॥ तस्यापि भावहानिर्व्याधिग्रस्तस्य संबभूव तदा । स्वकजनवचनैः कोपि प्रलुभ्यते न चटुपटुभिर्वा ॥ २१ ॥ पर्वण्युद्गयनाख्ये क्रियमाणे लिङ्गपूर्णमहे च । आह्रियमाणेषु तदा प्राज्येष्वाज्येषु कुतपेभ्यः ॥ २२ ॥ अध्वन्युज्झिततल्लेशसंगताः किल घृतेलिमा अमिताः । प्रत्यावृत्तः सागरपोतः सदयो निनिन्द तं धर्म्मम् ॥ २३ ॥ निःशूकैस्तैश्चतदा सयष्टिमुष्ट्यादिभिः प्रहतः । किंकरपादाघातैः क्षुण्णः स ददर्श सघृणमनाः ॥ २४ ॥ आर्त्तध्यानान्मृत्त्वा तिर्यग्गतिभवशतेषु विभ्रम्य । अश्वः समभूच्च भवानथ मे शृणु भवमहो पूर्वम् ॥ २५ ॥ अजनि पुरा चन्द्रपुरे श्रीवर्मा नरपतिः प्रथितकीर्तिः । आबोधि वीजलाभादहंभवे सप्तमे श्रीमान् ॥ २६ ॥ उक्तंचागमे-सिवकेउसोहम्मे कुबेरदत्तोसणं कुमारम्मि । सिरिवज्जकुंडलोवं भलोयकप्पं मिसिरिवम्मो ॥ २७ ॥ पाणयकप्पे मुणि सच्चउअतिछाहिवो भवे नवमे । इय संखेवो भणिउ विछसमयं अउबुछम् ॥ २८ ॥ व्यवहारी च भृगुपुरात् समुद्रदत्ताख्य आययौ तत्र । निःसंख्यपण्यपूरितयानं स्थानं समस्तलक्ष्मीणाम् ॥ २९ ॥ नृपतिस्तेन समैक्ष्यत तदर्पितप्राभृतैर्मुदितचित्तः । दानगुणादिस्वागत करणादेषोपि तमनुजग्राह ॥ ३० ॥ राज्ञः प्रसादवृद्धया साधोस्तदुचितविधानतश्चापि । सख्यमभूजिनधर्मे बोधश्चास्मादवनिपस्य ॥ ३१ ॥ सागरपोतेनापि तत्रायातेन तद्वयस्येन । मैत्री राज्ञः समजनि तद्बोधसमानबोधत्वात् ॥ ३२ ॥ अन्ते समाधिमरणात् प्राणतकल्पे नृपोऽभवद्देवः । सोऽहं तस्माच्युत्वा भरतक्षेत्रे नृपो जज्ञे ॥ ३३ ॥ इत्याकर्ण्यतुरङ्गः प्रभुकर्मकथां नृपेण सोऽनुमतः । सप्तदिनान्यनशनभृत् समाहितोऽगात्सहस्रारम् ॥ ३४ ॥ तत्र पुरन्दर सामानिकतां सप्तदशसागरायुरसौ । raamsafart प्राग्भवमस्मार्षीच्च तत्रस्थः ॥ ३५ ॥ ७१ १ J H धर्म आगादयमस्या यशस्योभूत् इति स्यात्. २ P प्रलभ्यते. ३ J H बोधिश्ञ्चास्या. ४ P धर्म्मचा (त्त्वा) तू. Page #80 -------------------------------------------------------------------------- ________________ प्रभावकचरिते सार्धद्वादशकोठ्यस्तेन सुवर्णस्य ववृषिरे तत्र । राजा पुरलोकश्च प्रबोधितो जैनवरधर्मे ॥ ३६ ॥ चामीकररत्नमयं श्रीमुनिसुव्रतविभोस्तदा चैत्यम्। माघस्य पूर्णिमास्यां सुकृती स स्थापयामास ॥ ३७॥ माघस्य सितप्रतिपदि विभुरागादश्वरत्नबोधाय । तस्यैव सिताष्टम्यां तुरङ्गःसुरलोकमायासीत् ॥ ३८॥ इति नर्मदातटेऽभूपृगुकच्छेऽश्वावबोध इति नाम्ना। तीर्थ समस्ततीर्थातिशायि पुण्यप्रवृत्तमदः ॥ ३९ ॥ श्रीसुव्रतनिर्वाणात् द्वादशसु ततः समासहस्रेषु । अधिकेषु द्वादशभिः पद्मश्चक्रीदमुद्दभ्रे ॥४०॥ हरिषेणचक्रवर्ती पुनरुद्धारं चकार दशमोऽस्य । एवं पञ्चवर्षलक्षा एकादश जग्मुरभ्यधिकाः ॥४१॥ षण्णवतिसहस्राब्दे रुद्धारशते च तत्र जातेऽस्य । सुदर्शनोत्पत्तिरथ प्रकीर्त्यते तदुपरि तदुद्धारः ॥४२॥ वैताढ्यपर्वतोपरि रथनूपुरचक्रवालनानिपुरे । राजा विजयरथोऽभूत्तत्कान्ता विजयमालेति ॥४३॥ विजयाथो तदुहिता तीर्थानां प्रणमनाय किल यान्ती। कुकुटसर्प पुरतोऽवतीर्णमालोकयामास ॥४४॥ अपशकुन इति पत्तिजनैरुपेक्षितवती प्रहण्यमानं सा। श्रीशान्तिनाथतीर्थ गत्वा च ननाम सा भावात् ॥४५॥ तत्र च विद्याचारणयतिनीर्यतनैकनिष्टचारित्रा। नत्वा जीववधस्योपेक्षया सानुतापाभूत् ॥ ४६॥ तत्कर्म तनूचके किश्चिदपान्ते स्वजीवितव्य॑स्य । निजगृहधनमोहार्तध्यानान्मृत्वाभवच्छकुनिः ॥४७॥ स व्यालो व्याधोऽभूत्ततोऽन्यदा मासि भाद्रपदसंज्ञे । बहुदिनवर्षोपशमे वटवृक्षस्था च सा क्षुधिता ॥४८॥ सप्तापत्यनिमित्तं स्वार्थ चाहारवीक्षिका शकुनिः । व्याधस्य तस्य गेहे चश्वा जगृहे पललखण्डम् ॥४९॥ युग्मम् उड़ीय चाऽन्तरिक्षे गच्छन्ती प्रणिहितेषुणा तेन । श्रीसुव्रतचैत्यपुरः पतिता कण्ठागतप्राणा ॥५०॥ तत्पुण्यतोऽथ भानुभूषण इति यतियुगं तत्रागात् । कृपया ताभ्यामाश्वासिता च पानीयसंसेकात् ॥५१॥ १P-शायिप्रवृत्तमंदः २P मोश्च. ३ P कुकुट, ४ P अशकुन ५ P पेक्षायां ६P दघांते खजीवितस्य. Page #81 -------------------------------------------------------------------------- ________________ श्रीविजयसिंहसूरिप्रबन्धः। पञ्चपरमेष्ठिमंत्रं साश्राव्यत तत्र यामयुगलाभ्याम् । तत्तीर्थध्यानपरा परलोकं सा ततः समगात् ॥५२॥ अस्ति च सागरतीरे दक्षिणखण्डेऽथ सिंहलद्वीपः। राजात्र चन्द्रशेखरनामा कामाकृतिर्जने ॥ ५३॥ तस्यास्ति चन्द्रकान्ता रूपेण जितरतिप्रीतिः । शकुनिस्तदुहिताभूत्सुदर्शनेत्याख्यया विदिता ॥ ५४॥ अथ च जिनदासनामा भृगुपुरसाथैश्वरः प्रवहणेन । तत्रायासीद्भूपतिरथ तेन प्राभृतैर्ददृशे ॥ ५५॥ आयुर्वेदी च तदा नृपतेः श्लेष्मोपशामकं चूर्णम् । प्रदे तीव्रत्रिकटुकयुक्तं तल्लेश उत्पतितः ॥५६॥ तेन घ्राणगतेन द्रुतमायातं बलाञ्च वणिजोऽस्य । पञ्चपरमेष्ठिमंत्रः प्रोक्तोऽनेन प्रभावनिधिः॥ ५७॥ राजसुता तं श्रुत्वा मूच्छी प्राप्ता पुरातनं जन्म। सस्मार जनकपृष्टा प्राच्यं निजगाद निजवृत्तम् ॥ ५८॥ अत्याग्रहेण पितरं तत्तीर्थोत्कण्ठिता तदापृच्छत् । अप्रेषयति गुरौ सा प्रतिशुश्रावानशनमेव ॥ ५९ ॥ अतिवल्लभापि दुहिता प्रहिता जिनदासार्थवाहेन । आलिभिरष्टादशभिः पदातिभिः षोडशसहस्त्रैः॥ ६०॥ अष्टादशभिर्यानैः मणिकाञ्चनरजतमौक्तिकापूर्णैः। अष्टाभिः क किभिस्तथांगरक्षैश्च तत्संख्यैः ॥ ६१ ॥ सहसा सह साचालीदशेषपरिवारपरिवृताथ ततः। साप्रापराजपुत्री मासनोपोषिता तीर्थम् ॥६२॥त्रिभिर्विशेष कम् श्रीमुनिसुव्रतनाथं प्रणम्य तत्रोत्सवं च विधेऽसौ । तौ भानुभूषणमुनी प्रणनाम च सुकृतिमुकुटमणिः ॥६३॥ धनमानीतं सर्व ताभ्यां ढौकितवती कृतज्ञतया। निस्संगत्वादाभ्यां निषेधिता भवविरक्तत्वात् ॥ ६४ ॥ उद्दभ्रे सा चैत्यं जीर्ण तीर्थस्य कनकरत्नदलैः। श्रीशकुनिकाविहारः प्रसिद्धमिति नाम तस्याभूत् ॥ ६५ ॥ द्वादशवर्षाणि ततस्तत्त्वा दुस्तपतपोभरं प्रान्ते । विहितानशना मृत्वा दर्शनाख्या सुरी समभूत् ॥ ६२॥ देवीलक्षपरिवृता विद्यादेवीसखीत्वमापन्ना । सा पूर्वभवं स्मृत्वा सुरकुसुमैरर्चति स्म जिनम् ॥ ६७॥ अष्टादशवरसख्यस्तस्या दुर्गत्वमापुरत्र पुरे। जम्बूद्वीपसमानावासा भुवनेषु निवसन्त्यः ॥ ६८ ॥ १JH भवति (वि) रक्ताभूत. २ P [त्व 7 Page #82 -------------------------------------------------------------------------- ________________ ७४ प्रभावकचरिते अथ सा विदेहनन्दीश्वरादितीर्थेषु वन्दते प्रतिमाः। तीर्थकृतां श्रीसुव्रतपदकमलध्यानलयलीना ॥ ६९॥ श्रीवीरस्य पुरः साऽन्येधुर्नाद्यमुत्तमं विदधे । तत्र सुधर्माधीशः पप्रच्छ जिनं किमेतदिति ॥ ७० ॥ तत्पूर्वभवं सर्व सर्वशः प्रथयति स्म तत्पुरतः। अस्माश्च तृतीयजन्मन्येषा निर्वाणमेष्यति च ॥ ७१ ॥ एतत्सामर्थ्यवशाम्रगुपुरमेतन्न भंगमाप्नोति । अतिसुरभिपुष्पफलरम्यमेतदिह विजितपरनगरम् ॥ ७२॥ सकलकुसुमावचायं विचिन्वती प्रतिदिनं जिनाचार्यैः । परसुरपूजनविघ्नं विदधे संतापदं लोके ॥७३॥ श्रीसंघप्रार्थनया श्रीमत्कलहंससूरयस्तां च। आर्यसुहस्तिविनेया संस्तभ्य निवारयामासुः ॥ ७४॥ सम्प्रति राजा च पुनर्जीर्णोद्धारं चकार तीर्थस्मिन् । मिथ्यादृष्टिव्यन्तरवृन्दः तत्रोपससृजे च ॥ ७५ ॥ श्रीगुणसुन्दरशिष्यैर्निवारितास्ते च कालिकाचाय्यः । पञ्चाधिकविंशतियोजनान्तरा स्वभावेन ॥ ७६ ॥ श्रीसिद्धसेनसूरेर्दिवाकराद्बोधमाप्य तीर्थेस्मिन् । उद्धारं ननु विदधे राजा श्रीविक्रमादित्यः ॥ ७७ ॥ कालिकसूरिः प्रतिमां सुदर्शनाय व्यधापयद्यां प्राक् ॥ साकाशे गच्छन्ती निषेधिता सिद्धसेनेन ॥ ७८॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते ।। वर्षाणां समजायत श्रीमानाचार्यखपटगुरुः ॥ ७९ ॥ मिथ्यादृष्टिसुरेभ्यो येन तदा सुव्रतप्रभोस्तीर्थम् । मोचितमिह ताथागतमतस्थितेभ्यश्च वादिभ्यः ॥ ८०॥ श्रीवर्धमानसंवत्सरतो वत्सरशताष्टकेतिगते । पञ्चाधिकचत्वारिंशताधिके समजनि वलभ्याः॥ ८१ ॥ भंगस्तुरष्कविहितस्तस्मात्ते भृगुपुरं विनाशयितुम् । आगच्छन्तो देव्या निवारिताः श्रीसुदर्शनया ॥ ८२॥ श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तद्ध्यंतरांश्चापि ॥ ८३॥ श्रीसातवाहनाख्यो भूप इदं तीर्थमुद्दधार पुनः। श्रीपादलिप्तसूरिध्वजप्रतिष्ठां व्यधात्तत्र ॥ ८४ ॥ प्रत्यक्षीभूय तयोः पुरतो नाद्यं सुदर्शना विदधे । विंशतितमतीर्थेश्वरनिरवधिबहुमानशंगारा ॥ ८५॥ श्रीआर्यखपटवंशे सूरिः श्रीविजयसिंह इत्यासीत्। शमदमनियमतपस्याकमलाकमलोपमाकलितः॥८६॥ Page #83 -------------------------------------------------------------------------- ________________ ७५ श्रीविजयसिंहसूरिप्रबन्धः । अन्येद्युः शत्रुञ्जयरैवतकप्रभृतितीर्थमुख्येषु । तीर्थाधिपान् प्रणन्तुं व्यहरत्कृतसंयमोद्धारः ॥ ८७॥ समगस्त सुराष्टायां शनैस्ततः प्राप रैवतकशैले। तं चारुरोह तीर्थस्वामिध्यानैकलीनमनाः ॥ ८८॥ श्रीमन्नेमिनाथतीर्थे शासनरक्षाविचक्षणा देवी। श्रीमत्पद्माभिधया प्रस्तावात्कथ्यते तदाख्यानम् ॥ ८९॥ तच्चेदं-काश्यपरोपितनगरे कासहदाख्ये समस्तभूदेवः। श्रीसर्वदेवनामा वेदचतुष्कस्य पारगतः॥९०॥ तस्यास्ति सत्यदेवीत्याख्या वरवल्लभा सतीरत्नम् । पुत्री च तयोरम्बादेवीनाम्नी सुकृतिमौलिः ॥ ९१ ॥ यौवनसंप्राप्तां तामावृणोदेतिथिश्च कोटिनगरीयः। कुलशीलरूपचारुः स सोमभट्टाख्यया विदितः॥९२॥ उद्वाह्य च वनगरे जगाम राजा जनाभिरामां ताम् । उत्सवतो निजगेहं प्राविक्षत्परिहृतक्लेशः ॥ ९३॥ एवं गच्छति काले पुत्रद्वयमजनि वृजिनमुक्तायाः। पूर्वो विभाकराख्यः शुभंकरो नामतोऽन्यश्च ॥ ९४॥ तत्र श्रीनेमिजिनान्तेवासी सुधर्मसूरीणाम् । मुनियुगलं तद्वेश्मनि भिक्षायै विशदवृत्तमगात् ॥९५॥ अम्बादेव्यपि निर्मलमनसा शुद्धं समस्तमप्यन्नम्। दानविधिविहितहर्षा व्यजीहरद्वासनैकविधिः ॥९६॥ प्रहितौ प्रणम्य साधू तावत् प्रायाच्च सोमभट्टश्च । कृतवैश्वदेवकृत्यं विना कथं रसवती स्पृष्टा ॥९७॥ इत्यपराधोद्भावनपूर्व दुर्वचनसंहतिमवादीत् । ताममुखविकारां च प्रजहार खरं चपेटाभिः ॥९८॥ गृहमानुषैश्च सामोचितानुकम्पावशात्ततो वनिता। अपमानान्निरगच्छन्पुत्रावादाय सा गेहात् ॥ ९९ ॥ आरोहयदथ कट्यां लघु तथा चांगुलिं प्रसह्य गुरुम् । व्यमृशजिनमुनिदाने वरयित्वाहं पराभूता ॥ १००॥ तस्मात्स एव मार्गः शरणं भवतु जैनविधिविशदः । श्रीरैवतगिरिमभि सा मानारूढा ययौ त्वरितम् ॥ १०१ ॥ क्षुधिता तृषिता श्रान्ता पुनरुच्छ्रितमारुरोह गिरिराजम् । ध्यात्वेति सुकृतकामा प्रणनामारिष्टनेमिजिनम् ॥ १०२॥ चैत्यान्निर्गत्य ततो विश्रान्तां चूततरुतले तनुजः। १ श्री नेमि. २ P-मनृणो. ३ J H-न्तेवासिनी. ४J H मसुखविकार च जहार मुखं. Page #84 -------------------------------------------------------------------------- ________________ प्रभावकचरिते परिपक्रिमफलढुंबी क्षुधातुरः प्रार्थयामास ॥ १०३ ॥ तामस्य चार्पयित्वा श्रीनेमिस्मरणमथ विधायैषा । झम्पापातं चके तस्माच्छिखरात्मपुत्रापि ॥ १०४॥ श्रीनेमितीर्थनाथस्मृतिवशतो दैवतर्द्धिमाप तदा । विस्मृतकोपाटोपो विप्रोपि प्रापदनुतापम् ॥ १०५॥ अकथितवार्ता निलये सोप्यस्या आनुपदिकतां प्राप्य । आरूढो रैवतके सहकारं रैवतं चाप ॥ १०६॥ तत्रितयमृति मत्वा हत्यादोषी कथं नु जीवामि। आकूणितगन्धर्श प्रदश्यमानोऽङ्गुलीभिरहम् ॥१०७॥ तस्मान्ममापि मृत्युः श्लाघ्योत्रैवार्हतापवित्रेऽद्रौ। योऽमीषां सा मे स्यादतिरपरैः प्रलपितैः किंतु ॥ १०८ ॥ एवं विचिन्त्य पेते तत्रैवानेन भैरवे भयदे । लेभे तद्वाहनता सिंहतया व्यन्तरीभूय ॥ १०९॥ साम्बादेवी नेमिनाथतीर्थेऽत्र भक्तियुक्तानाम् । साहाय्यं कुर्वाणा तत्र गिरौ विद्यतेऽद्यापि ॥ ११०॥ अथ विजयसिंहसूरिस्तत्राष्टाङ्गप्रणाममाधाय । विहिततीर्थोपवासस्तीर्थेशं तुष्टुवे सुष्टु ॥ १११ ॥ निरुपमचारित्रनिधिं तत्र प्रेक्ष्यामुमंबिका देवी। क्षणदायां प्रत्यक्षीभूत्वा प्रणनाम तत्पादौ ॥ ११२॥ अम्बा त्वं द्विजपत्नी पतिपरिभूता जिनाघिसरसिरुहम् । स्मृत्वा सुरत्वमाप्ता त्वामनु पतिरपि च तादृगभूत् ॥ ११॥ तस्येति वचः श्रुत्वा हृष्टावादीत्समादिशत किंचित् । ते प्राहुरनीहानां कार्य किमपि नास्ति शुभे ॥ ११४ ॥ सा निःस्पृहत्वतुष्टा विशेषतस्तानुवाच बहुमानात् । गुटिकां गृह्णीत विभो चिन्तितकार्यस्य सिद्धिकरीम् ॥११५ ॥ चक्षुरदृश्यो गगनेचरश्च रूपान्तराणि कर्ता च । कवितालब्धिप्रकटो विषहृद्बद्धस्य मोक्षकरः॥ ११६॥ भवति जनो गुरुलघुतां प्रपद्यते खेच्छया तथावश्यम् । अनया मुखे निहितया विकृष्टया तदनु सहजतनुः ॥ ११७॥ सुगुरोरनिच्छतोपि हि हस्ते मुक्त्वा तिरोधे च सुरी। वदने तां न्यस्य प्राक श्रीनेमिस्तवममुं चक्रे ॥ ११८ ॥ 'नेमिः समाहितधियामित्यादिभिरमरवाक्यसंकाशैः। _ काव्यैरस्तौच्छ्रीमन्नेमिस्तुतिरस्ति साऽद्यापि ॥ ११९ ॥ १J F तामुवा०. २JH श्रीनेमिः. ३ JH काव्यैरस्तौच्छ्रीनेमि. Page #85 -------------------------------------------------------------------------- ________________ श्रीविजयसिंहसूरिप्रबन्धः । सूरिरथ तीर्थयात्रां विधाय चायात्तदा भृगुक्षेत्रे । संघप्रवेश मुख्यैर्महोत्सवैस्तं समर्चयत ॥ १२० ॥ अन्येद्युरंकुलेश्वरनगरात् प्रबलेन पवनवेगेन । जाज्वल्यमान उच्चैर्वशः प्रेकटः प्राप तन्नगरे ॥ १२१ ॥ अर्चिर्वलयपरिप्लुतः सदनापणहर्म्यचैत्यकोटीषु । अनलः प्रससार तदा सागर इव मुक्तमर्यादः ॥ १२२ ॥ प्रथमकवले तृणावृतगृहाणि कावेल्लकावृतानि तथा । मध्याहारे किल कुट्टिमानि तृप्त्यर्थमस्यासन् ॥ १२३ ॥ दंदह्यमानमानुषपशुखचराक्रन्दभैरवारावम् । शारदगर्जितरवोऽसौ बधिरितर्वियदनिल उत्पेदे ॥ १२४ ॥ भस्मीकृतं समस्तनगरं तेनेह दहनरूपेण । समवर्तिना सगोपुर दुर्गाररियंत्रपरिकरितम् ॥ १२५ ॥ उपशान्ते नियतिवशादनुपक्रमसाध्य ईदृगुपसर्गे । श्रीमुनिसुव्रतचैत्यं काष्ठमयं भस्मसात्तदभूत् ॥ १२६ ॥ पाषाणपित्तलामयदेवप्रतिमा विशीर्णसर्वाङ्गाः । अभवन् सुव्रतबिंबं तस्थावेकं तु सदवयवम् ॥ १२७ ॥ विश्वप्रकाशरूपा दीहेग्नेरस्य ननु नवा मृत्स्ना । समराङ्गण इव मर्दितवीरे स्थैर्यस्थिते पुंसि ॥ १२८ ॥ अथ विजयसिंहसूरिगुटिकां वदने निधाय सत्पात्रम् । हस्ते कृत्वा तीर्थोद्धाराय स गोचरं व्यचरत् ॥ १२९ ॥ एत्य ब्राह्मणवेश्मसु पूर्वमगाद्धर्मलाभवक्ताऽसौ । श्री मुनिसुव्रतचैत्योद्धारे भिक्षां प्रयाचे च ॥ १३० ॥ पञ्चाशत्कोपि शतं द्विशतीं वा कोपि जातरूपस्य । प्रददौ तस्य महर्षेः पञ्चसहस्रास्तदाभूवन् ॥ १३१ ॥ अष्टमहासिद्धिभृतस्तस्यासाभ्यो धनागमो नैव । चारित्रधनं रक्षन्नादत्तादत्तमिह भगवान् ॥ १३२ ॥ पुनरुददीधरदाशु प्रधानदारुवजेन सूत्रभृता । वर्द्धरितेने तदा चक्रीवाह्नाय जिनसा ॥ १३३ ॥ तत्करवासप्रभवप्रभावतस्तन्न समदहद्वह्निः । अमृतनिधौ तन्मन्त्रे न प्रभवति किन्तु विध्यति ॥ १३४ ॥ ७७ १ J H मुखै. २ JH वैशकटं नाम ३ P ° परिप्लुतसदना ४JH कवे० ५ P गर्जिरिवा० ६ P दनल उत्पेते. ७ P समस्तं नगरं तेनेह नमररूपेण । J H दनुक्रम्यस्पर्ध्य० ९ P •मयदेवा विविशीर्ण • १• JH दाहाग्नेरस्य न तु भविमृत्स्नाः ११JH ०रत्रेन० १२ P विध्यानि । Page #86 -------------------------------------------------------------------------- ________________ ७८ प्रभावकचरिते एकादशसु समानां लक्षेषु विंशजिनसिद्धेः । पञ्चाशीतिसहस्त्रीषट्शत षडशीतिसहितेषु ॥ १३५ ॥ जीर्णमुपजिह्निकाभिर्जर्जरकाष्ठं चिरेण तज्जज्ञे । पुनरुद्द ग्रावभिरंबड इव राणकः श्रीमान् ॥ १३६ ॥ श्रीविजयसिंहसूरिर्जिनसमयद्रोणिकर्णधारकलः । आयुः प्रान्तेऽनशनं पुनर्गृह्य दैवीं भुवं प्राप ॥ १३७ ॥ अद्यापि तस्य वंशे प्रभावकाः सूरयः समुदयन्ते । यत्तेजःप्रसरेण प्रसर्पता शासनं जयति ॥ १३८ ॥ इत्थं प्रभोर्विजयसिंहमुनीश्वरस्य वृत्तं पवित्रमतिदुष्कर मल्पसत्वैः । अश्वावबोधवरतीर्थचरित्ररम्यं वृत्तेन चातिशयचारु सुदर्शनायाः ॥ १३९ ॥ अम्बासुरीवरचरित्रपवित्रमत्र संघस्य पुष्टिकरमद्भुतमुन्नतायाः । अभ्यस्यमानमतुलं प्रकटप्रभावं भूयात्समस्तजिनशासनवैभवाय ॥ १४० ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितः शृङ्गोऽजायत षष्ठ एष गुटिकासिद्धस्य वृत्तं प्रभोः ॥ १४१ ॥ इति श्रीविजयसिंहसूरिप्रबन्धः ॥ ग्रंथानं १७९ ॥ अ० ७ ॥ उभयं १२८७ । अक्षर ॥ १८ ॥ श्रीजीवसूरिप्रबन्धः अर्हद्ब्रह्मस्थगोः प्राणोल्लासेनं चरणोदयम् । विदधे स ददातु श्रीजीवदेवप्रभुः श्रियः ॥ १ ॥ निजप्राणैः परप्राणान् पूर्वेपि खाङ्गदा दधुः । अक्षतो मृतजीवातुर्नापरो जीवदेववत् ॥ २ ॥ अद्य प्राचीनकालीयो मादृक्षस्तस्य वर्णने । परं मां मुखरं कर्तुं तद्भक्तेर्नापरः प्रभुः ॥ ३ ॥ H-श्रीविजयसिंह १ J -श्रीविजयसिंहसूरीश्वरराज्ये चरितं नाम. ॥ सूरिचरितं नाम ॥ २J H - अर्हद्रह्मस्थगोः । प्राणोल्लासेन चरणोल्लासेन चरणो• दयम् । ३ P जीवजीवातु. ४J H - परमं मुखरं. Page #87 -------------------------------------------------------------------------- ________________ श्रीजीवसूरिप्रबन्धः। लवित्रं जाड्यकक्षस्य वहितं पापवारिधेः । धवित्रं दुःखधर्मस्य चरित्रं तस्य कीर्त्यते ॥४॥ जगत्प्राणः पुरा देवो जगत्प्राणप्रदायकः। स्वयं सदानवस्थानः स्थानमिच्छन् जगत्यसौ ॥५॥ वायटौख्यं महास्थानं गूर्जरावनिमण्डनम् ।। ददौ श्रीभूमिदेवेभ्यो ब्रह्मभ्य इव मूर्तिभिः ॥६॥ युग्मम् । शालातालाकसंबन्धनिवेशेन तदा मरुत् । निदधे ब्रह्मशालायां चैत्ये च परमेष्ठिनम् ॥७॥ मलयाद्रौ यथा सर्वे चन्दनन्ति महीरुहः। ब्राह्मणा वणिजश्चात्र तथासन् बाँयटाख्यया ॥ ८॥ अभूजातिः स्फुरजातिपुष्पसौरभनिर्भरा। सरसालिभिराराध्या तन्नाम्ना सर्वमूर्द्धगा ॥९॥ धर्मदेवः श्रियां धर्मश्रेष्ठी तत्रास्ति विश्रुतः। साक्षाद्धमे इव न्यायार्जितद्रव्यप्रदानतः॥१०॥ शीलभूस्तस्य कान्तास्ति नाम्ना शीलवती यया । आनन्दिवचसा नित्यं जीयन्ते चन्द्रचन्दनाः॥११॥ तयोः पुत्रावुभावास्तां श्रेयःकर्मसु कर्मठौ। महीधरमहीपालाभिधाभ्यां विश्रुताविति ॥१२॥ महीपालोप्यभूत्कर्मदोषाहेशान्तरभ्रमी । महीधरश्च सौभ्रात्रस्नेहाद्वैराग्यवानभूत् ॥१३॥ तत्रास्ति जंगम तीर्थ जिनदत्तः प्रभुः पुरा। संसारवारिधेः सेतुः केतुः कामाद्यरिबजे ॥ १४ ॥ संप्राप्य सूत्रधारं यं सत्काष्ठात्कर्षसंघटम्। संपूर्णसिद्धिसौधस्य मध्यसाध्या समाश्रिताः॥१५॥ अन्यदा तं प्रभुं नत्वा भवोद्विग्नो महीधरः। बंधोर्विरहवैराग्यात् प्रार्थयज्जैनसंगमम् ॥१६॥ योग्यं विज्ञाय तं तस्य पितरौ परिपृच्छय च । प्रव्रज्यां प्रददौ सूरिरभाग्यालभ्यसेवनः ॥ १७ ॥ गुरुशिक्षा द्विधादायानेकविद्याब्धिपारगः। अतिप्रशावलः सोऽभूदभूमिः परवादिनाम् ॥ १८ ॥ भववारिधिनिस्तारपोताभं भविनां भुवि । तं शिष्यं स्वपदे न्यस्य गुरुः प्रेत्य श्रियोऽभजत् ॥ १९ ॥ १JH-सदासव० २ J H-जयत्यसौ. ३ JH-बायडा० ४ JHमण्डलम्. ५JH-नाम् । ६ JH-वायडा. ७ JH omit केतुः. ८JH-सत्काष्ठान्०. ९ P मध्यासनाश्रितः. Page #88 -------------------------------------------------------------------------- ________________ प्रभावकचरिते शाखानुगतनाम्नासौ श्रीरासिं (शि) लगुरुस्ततः। विद्याविनोदतः कालं गच्छन्तमपि वेद न ॥२०॥ महीपालस्तथा तस्य बन्धू राजगृहे पुरे। प्रापद्दिगम्बराचार्य श्रुतकीर्तिमिति श्रुतम् ॥ २१ ॥ प्रतिबोध्य व्रतं तस्य ददौ नाम च स प्रभुः। सुवर्णकीर्तिरिति तं निजाश्चाशिक्षयक्रियाम् ॥२२॥ श्रुतकीर्तिगुरुस्तस्यान्यदा निजपदं ददौ। श्रीमदप्रतिचक्राया विद्यां च धरणार्चिताम् ॥ २३ ॥ परकायप्रवेशस्य कलां चासुलभां कलौ । भाग्यसिद्धां प्रभुः प्रादात्तादृग्योगो हि तादृशः॥२४॥ तत्पुरागतवाणिज्यकृद्भ्यो शात्वा जैनन्यथ । जगाम मिलनायास्य भर्तरि त्रिदिवं गते ॥ २५ ॥ मिलितास्तस्य तद्गृौर्मानिता मान्यतानिधिः । जननीदृग्गुरो रत्नखानिवत्कस्य नाहिता ॥ २६ ॥ तीर्थकृद्धर्मतत्त्वानामविवादेपि काञ्चन । समाचारभिदां दृष्ट्वा निज एव सुतद्वये ॥२७॥ अवदत् शंकिता वत्स जैने धर्मेपि वोऽन्तरम् । श्वेताम्बरोतिनिष्ठाभूदृष्टीयं निःपरिग्रहः ॥ २८ ॥ किश्चिद्भवान् सुखी पूजालोलो बहुपरिग्रहः। तन्मे शंस कथं सिद्धिः प्राप्यते व्यापृतैर्जनैः॥२९॥ ततस्त्वं पूर्वजस्थाने समागच्छ मया सह। यथोभौं भ्रातरौ धर्म संविचार्यार्यसम्मतम् ॥ ३०॥ शास्त्रैः प्रमाणसिद्धान्तैर्बुध्येयमितरेतराम् । तदेकमतिको भूत्वा धर्मे स्थापयतं हि माम् ॥ ३१ ॥ स मातुरुपरोधेन विजहे वायटे पुरे। नाशिक्याविव तौ तत्राभिन्नरूपौ च संगतौ ॥ ३२ ॥ आचार्यो किल सोय्र्यो श्वेताम्बरदिगम्बरौ । खवाचारं तथा तत्त्वविचारं प्रोचतुःस्फुटम् ॥३३॥ दिग्वासा निर्मामाभासः सद्रतः श्वेतवाससा। अपि प्रौढवचः शक्तिर्बोधितः शोधितांहसा ॥ ३८॥ तावन्यदा सवित्र्या च भिक्षावृत्त्यै निमन्त्रिती। महाभक्त्या तदाचारदर्शनार्थ च किञ्चन ॥ ३५॥ _-१-P ल०.२ P-ग्योग्या हि. ३ P-जनस्य घ. ४ JH-सुतद्वयोः ५JH omit-दन्. ६P-तौ० ७ P बुध्येथा० ८ JH ०डे. SP नाशक्या०. 'नासत्याविव' इति स्यात्, Page #89 -------------------------------------------------------------------------- ________________ - श्रीजीवसूरिप्रबन्धः। ८१ एकः शुश्रूषितस्थालीवृन्दे भोज्यविधिः कृतः। सामान्यो मध्यमस्थानेष्वपरः प्रेचरः पुनः॥३६॥ दिग्वासाः पूर्वमायातो द्वेधाप्यस्याथ दर्शितः। अमत्रनिकरो रम्यभाण्डस्थस्तेन चाहतः ॥ ३७॥ यावदृष्टः कोऽसौ शीतो दग्धो विसंस्कृतिः । सविकारं मुखं बिभ्रदपश्यन् मातरं तदा ॥ ३८॥ तथा द्वितीयपुत्रस्य साधुयुग्मं समागमत् । प्रदर्य भोज्ययुग्मं च जननी प्राह हर्षतः ॥ ३९॥ अनयो रुचितं यद्वस्तद्गृहीतेति जल्पिते । विमृश्य पाहतुः साधू ग्राह्यं नः शुद्धमेव तत् ॥४०॥ आधाकर्मिकदोषे च संदिग्धे कल्पते न तत् । अपि यमनादायागातां तौ मुनिसत्तमौ ॥४१॥ अथ प्राह सवित्री च सवित्री धर्मकर्मणः । सुतं दिगम्बराचार्य दृष्टं भ्रातृव्रतं त्वया ॥ ४२ ॥ बही रम्ये शुभाभ्यासे रक्तानामल्पकं फलम् । आहार इव धर्मेपि ध्यात्वेति स्वरुचिं कुरु ॥४३॥ प्रतिबुद्धो जनन्या स वाग्भिर्बन्धोश्च सन्मतिः । भास्वान् प्रपद्यतेस्मैष महसे निर्मलाम्बरम् ॥ ४४ ॥ श्रीरासीलप्रभोः पार्श्वे दीक्षाशिक्षाक्रमोदयः। जैनागमरहस्यानि जानन् गीतार्थतां ययौ ॥४५॥ अन्यदा सद्गुरुयोग्यं बन्धुपट्टे न्यवीविशत् । .. श्रीजीवदेव इत्याख्याविख्यातः सहुरुर्बभौ ॥ ४६ ॥. यतिपञ्चशतीरूपपरिवारविराजितः। आन्तरद्वेषिनि:पेषनिस्त्रिंशः सयोपि सन् ॥ ४७ ॥ व्याख्यां कुर्वन्नुदग्रश्रीः श्रीवीरभवनेऽन्यदा । योगिना भोगिना दृष्टिविषेणेवेक्षितो गुरुः ॥ ४८ ॥ युग्मम् । दध्यौ स च महातेजाः सकलो धवलाम्बरः।। सार्वभौम इवाभाति जनेऽस्मिन् विस्मयं दधत् ॥४९॥ प्राकृतोपद्रवे शक्तिर्या सा कामेऽस्य चेदिह । विदधे किमपि क्षुणमक्षूणं तदहं पुमान् ॥ ५० ॥ विमृश्यति सभामध्यमध्यासीनः खलीलया। लीलयावध्यपर्यंकमुपाविशदिलातले ॥ ५१ ॥ १P omits प्रचरः २J H-बोधो० ३ JH-सीतोदग्ध्यो. ४ P. प्रदर्श. ५ JHgead व ददर्श for जननी. ६J H यद्दत्त० ७ Pाह तुः (१) ८P यागतां० ९J H-धर्मो० १० P-राशिल.... Page #90 -------------------------------------------------------------------------- ________________ प्रभावकचरिते वाचकस्य रसज्ञां चास्तम्भयन् मौनवान् स च । अभूत्तदं(दि)गितैतिं गुरुणा योगिकर्म तत् ॥५२॥ खशत्त्या वाचने शक्तं खं विनेयं विधाय च । अमुंचत्समये व्याख्यामव्याकुलमनाः प्रभुः ॥५३ ।। तस्य पर्यस्तिकाभूमावासनं वज्रलेपवत् । तस्थौ यथा तथा तस्य प्रस्तरेणेव निर्मितम् ॥५४॥ ततोऽवददसौ कृत्वा करसंपुटयोजनम् । अलीकप्रणिपातेन महाशक्ते विमुञ्च माम् ॥ ५५ ॥ . अपि श्रद्धालुभिः कैश्चिद्विशप्तः कृपया प्रभुः। मुक्तोऽगात्तेन कः शक्तः कुञ्जरेणेक्षुभक्षणे ॥५६॥ प्रेभुर्त्यषेधयत्तत्र साधुसाध्वीकदम्बकम् । उदीच्यां दिशि गच्छन्तं स्वीकृतायां कुयोगिना॥५७॥ धर्मकर्मनियोगेन साध्वीयुगमगात्ततः। तत्र कासारसेतौ च तिष्ठन् योगी ददर्श तत् ॥ ५८॥ अथ सन्मुखमागत्य लाघवाल्लाघवाश्रयः। एकस्या मूर्ध्नि चूर्णञ्च किश्चिश्चिक्षेप निष्कृपः॥ ५९॥ तस्य सा पृष्ठतो गत्वा पाखें निविविशे त्त(त)तः। वृद्धयोक्ता न चायाति धिक्कष्टं पूज्यलंघनम् ॥ ६०॥ साश्रुरागत्य सूरीणां तद्वत्तं व्यजिज्ञपत् । मा विषादं भलिप्यामः कार्येत्रेति प्रभुर्जगौ ॥६१॥ ततः कुशमयं तत्र पुत्रकं ते समार्पयन् । चतुर्णी श्रावकाणां च शिक्षित्वा तेप्यथो ययुः ॥ ६२॥ निर्गत्य च बहिश्चैत्याच्छित्वा तस्य कनिष्ठिकाम् । तत्पार्श्वगाः करं तस्य ददृशुस्ते निरङ्गुलिम् ॥ ६३॥ पृष्ठे कस्मादिदं जातमकस्मादिति सोऽवदत्। ऊचे तैर्मुच्यतां साध्वी बहुप्रत्यूहकारिणी ॥ ६४॥ अमानयति तां वाचं तत्र ते पुत्रकाङ्गुलिम् । द्वितीयां पश्यतस्तस्याश्छिन्दन् साप्यत्रुद्भुतम् ॥ ६५ ॥ अथाभ्यधुर्दण्डसाध्या नीचास्तत्कृपयाङ्गुली। तव छिन्ना शिरश्चैवं छिनमश्चेत्त्वकं कुतः॥६६॥ मुष्च साध्वी न चेत्पाप छेत्स्यामस्तव मस्तकम् । न जानासि परे स्वे वा शक्त्यंतरमचेतन ॥ ६७ ॥ .१JH अनीकप्रतिपातेन. २JH शमिन. ३ P निषे० ४JE. खाचरागत्य सा तद्वृत्तं व्यजिज्ञपत् । ५ J H श्रावि० ६P पृष्टै. Page #91 -------------------------------------------------------------------------- ________________ श्रीजीवसूरिप्रबन्धः। सम्यक् भीतस्ततः सोपि प्राह नीरेण सिच्यताम् । अस्याः शिरस्ततो यातु निजं स्थानमनाकुला ॥ ६८॥ तथा कृते च तैः साध्वी तत्र साभूत्सचेतना । आगत्य च निजं स्थानं सा बाला लोचनां ललौ॥६९॥ भीतभीतः पलाय्यासौ योगी देशान्तरं ययौ । तादृशां किं वराकाणां गम्या गुरव ईदृशाः ॥ ७०॥ इतः श्रीविक्रमादित्यः शास्त्यवन्तीं नराधिपः। अनृणां पृथिवीं कुर्वन् प्रवर्तयति वत्सरम् ॥ ७१ ॥ वापटे प्रेषितोऽमात्यो लिम्बाख्यस्तेन भूभुजा । जनानृण्याय जीर्ण चापश्यच्छ्रीवीरधाम तत् ॥ ७२ ॥ उद्दधार स्ववंशेन निजेन सह मन्दिरम् । अर्हतस्तत्र सौवर्णकुम्भदण्डध्वजालिभृत् ॥ ७३॥ संवत्सरे प्रवृत्ते स षट्सु वर्षेषु पूर्वतः। गतेषु सप्तमस्यान्तः प्रतिष्ठां ध्वजकुम्भयोः॥ ७४॥ श्रीजीवदेवसूरिभ्यस्तेभ्यस्तत्र व्यधापयन् । अद्याप्यभङ्गं तत्तीर्थममूदृग्भिः प्रतिष्ठितम् ॥ ७५ ॥ इतश्चास्ति महास्थाने प्रधानो नैगमव्रजे। दारियारिजये मल्लःश्रेष्टी लल्लः कलानिधिः॥ ७६॥ महामाहेश्वरः कोटिसंख्यद्रव्येण भास्वरः । महादानं मुदा सोऽदात् सूर्यग्रहणपर्वणि ॥ ७॥ तथा होमं समारब्धवतानेन द्विजोत्तमाः। ऋत्विजो यायजूकाश्चाहूता अध्वरदीक्षिताः ॥ ७८॥ तानभ्यर्च्य महाभक्त्या वेदविद्याविशारदान् । प्रावर्यंत ततो होमः प्रौढमंत्रस्वरोर्जितः ॥ ७९ ॥ तत्र कुण्डोपकण्ठेहिस्तदूर्ध्वस्थाम्लिकाद्रुमात् । धूमाकुलाक्षियुग्मोसौ फटत्फटिति चापतत् ॥ ८०॥ आदातुमेष भोगीन्द्रः स्वयमागत आहुतीः।। वाचालेषु द्विजेष्वेवं कोपि वह्नौ तमक्षिपत् ॥ ८१ ॥ जाज्वल्यमानमुद्वीक्ष्य यजमानः सुधीश्च तान् । कृपया कम्पमानाङ्गः प्राह किं दुष्कृतं कृतम् ॥ ८२॥ जीवन् पश्चेन्द्रियो जीवः स्फुटं दृश्यः सचेतनः। सहसैव ज्वलद्वह्नौ क्षिप्यते धर्म एष कः॥८३॥ १H.-डे. २ P.- तो लिंबालिबाख्य० ३ P.-सवंशे "समन्दिरम्. ४ P-कुम्भं. ५ J_H.-मल: जयेमल्लः ६P.-महादासोदान्सूर्य ७JH- मोहसमा० ८ P H.-न्त. Page #92 -------------------------------------------------------------------------- ________________ प्रभावकचरिते अध्वर्युराह च श्रेष्ठिन् नहि दोषोस्ति कश्चन । सुमंत्रसंस्कृते वह्नौ पतितः पुण्यवानहिः ॥ ८४ ॥ यतोऽत्र ज्वलने मृत्वा हिंस्रजीवा महांहसः। प्रामुयुर्देवभूयं ते समानुष्यमथ ध्रुवम् ॥ ८५ ॥ तत्प्रत्युतोपकारोयं विदधे बटुनामुना। अतोऽल्पमपि नैव त्वं संतापं कर्तुमर्हसि ॥ ८६ ॥ कृपालुरास्तिकश्चेत्त्वं प्रायश्चित्तं ततः कुरु । सौवर्ण द्विगुणं तस्मादहिं देहि द्विजवजे ॥ ८७॥ तादेशादसौ सर्प क्षिप्रं हैममचीकरत्। मंत्रस्तं संस्कृतं दृष्ट्वा छेदकाले तमब्रवीत् ॥ ८८ ॥ पूर्वस्य फणिनो हिंसापापेऽसौ कारितो मया। एतद्वधेऽपरः कार्योऽनवस्थापद्यतात्र तत् ॥ ८९ ॥ ततोऽहं नावगच्छामि धर्ममेनं कथं मृषा। विप्लावयत मां तस्माद्विसृष्टं सकलं मया ॥९॥ वह्निविध्यापितः कुण्डमुवृत्तं प्रेषिता द्विजाः। शान्ते भैरेयमाहात्म्ये न कोऽप्यसदृशं चरेत् ॥९१॥ ततःप्रभृत्यसौ धर्मदर्शनानि समीक्षते। भिक्षायै तगृहे प्राप्तं खेताम्बरमुनिद्वयम् ॥१२॥ अन्नं संस्कृत्य चारित्रपात्राणां यच्छत ध्रुवम् । अमीषां ते ततः प्रोचुर्नास्माकं कल्पते हि तत् ॥९३॥ पृथिव्यापस्तथा वह्निर्वायुः सो वनस्पतिः। त्रसाश्च यत्र हन्यन्ते कार्ये नस्तन्न गृह्यते ॥ ९४॥ अथ चिन्तयति श्रेष्ठी वितृष्णत्वादहो अमी। निर्ममा निरहङ्काराः सदा शीतलचेतसः ॥९५॥ ततोऽवददसौ धर्म निवेदयत मे स्फुटम् । ऊचतुस्तौ प्रभुश्चैत्ये स्थितस्तं कथयिष्यति ॥ ९६॥ इत्युक्त्वा गतयोः स्थानं स्वं तयोरपरेऽहनि । ययौ लल्लः प्रभोः पार्वे चक्रे धर्मानुयोजनम् ॥९७॥ ते च प्राहुर्दया धर्मः सर्वशो देवता जिनः। महाव्रतधरो धीरो गुरुव॑स्तान्तरद्विषन् ॥ ९८॥ रागाद्यंकाश्रयो देवो गुरुश्च सपरिग्रहः। धर्मश्च पशुहिंसाभिरेष मिथ्याभ्रमो महान् ॥ ९९॥ तस्मात्परीक्षया धर्म प्रतिपद्यस्व धार्मिक । परीक्षापूर्वकं टंकाद्यपि युष्माभिरिष्यते ॥ १००॥ १ J_H. तत्रादे० २ JHस्पृष्टं Page #93 -------------------------------------------------------------------------- ________________ श्रीजीवसूरिप्रबन्धः। श्रुत्वेति स प्रपेदेऽथ स सम्यक्तां व्रतावलीम् । धर्म चतुर्विधं ज्ञात्वा समाचरदहर्निशम् ॥ १०१॥ आह चैष प्रभो किंचिदवधारयताधुना। द्रव्यलक्षस्य संकल्पो विहितः सूर्यपर्वणि ॥१०२ ।। तदर्धं व्ययितं धर्माभासे वेदस्मृतीक्षिते । कथमर्द्ध मया शेषं व्यपनीयं तदादिश ॥ १०३॥ मम चेतसि पूज्यानां दत्तं बहुफलं भवेत् । तद्गहीत प्रभो यूयं यथेच्छं दत्त वादरात् ॥ १०४॥ अथाहुर्गुरवो निष्किञ्चनानां नो धनादिके । स्पर्शोपि नोचितो यस्माद्वक्तव्यं किंनु संग्रहे ॥ १०५॥ चिन्तां भवांस्तु माकार्षीत् श्वः संध्यासमये तव । प्रक्षालितैकपादस्य प्राभृतं यत्प्रढोकते ॥१०६॥ समीपे नस्तदा नेयं कथयिष्यामहे तव ।। श्रुत्वेति सदनं सोऽगाद्विमृशन् स्वगुरोर्वचः ॥ १०७॥ परेह्नि चोक्तवेलायां कश्चिद्वर्द्धकिरानयत् । तां शय्यापालिकां नो या भूपस्यापि परिग्रहे ॥ १०८ ॥ स्मरन् गुरुवचः श्रेष्ठी तेन सार्द्धमुपाश्रये । गत्वा व्यजिशपत्पूज्यं पुरतो विस्मयोन्मुखः ॥ १०९ ॥ प्रभवः पुनरागत्य वासान्निक्षिप्य धूर्वहौ । तदाधिवासयामासुरादिशंश्चेति तं स्फुटम् ॥ ११० ॥ धुरंधराविमौ यत्र प्रयान्तौ तिष्ठतः स्वयम् । तत्र जैनालयं रम्यं द्रव्येणानेन कारय ॥ १११ ॥ ओमिति प्रतिपद्याथ धौरेयौ मुंचतिस्म सः । मुत्कलौ जग्मतुर्गामे पिप्पलानकनामनि ॥११२ ॥ तत्रावकरदेशेऽथ स्थितौ न चलतस्ततः।। ग्रामाधिपतिरेतस्य गौरवाद्भूमिमार्पयत् ॥ ११३ ॥ तत्र कर्मान्तरे सूत्रधारे द्राग् विहिते सति । शिखरं मण्डपं प्रासादस्य संपूर्णतामगात् ॥ ११४ । अवधूतः पुमान् कश्चिदपरेधुः समाययौ । दृष्ट्रा प्रसादमाधत्त प्रशंसा घ्राणकूणकः॥११५॥ जनैस्तद्दूषणं पृष्टे जगाद प्रकटं स च।। स्त्रियोऽस्थिशल्यमत्रास्ति विश्वदूषणशेखरः॥ ११६॥ विज्ञापिते च पूज्यानां मानयित्वा च तेऽदिशन् । उत्कील्य शल्यमाधाय चैत्यमारभ्यतां पुनः॥११७॥ १ P.- रानयन्. २ P.- पिष्पला०. ३ JH- कपटं. ४ P- स्तिशेल्य. ५JH. शेखर. Page #94 -------------------------------------------------------------------------- ________________ प्रभावकचरिते द्रव्याभावोद्भवा चिन्ता कार्या लल्ल नहि त्वया। द्रव्यं ते तदधिष्ठाभ्यः पूरयिष्यन्ति पुष्कलम् ॥ ११८ ॥ उत्कीलने समारब्धे निशि शुश्रुविरे स्वराः। नोत्कील्यमित्यविज्ञाते निपतन्त्यत्र लोष्टकाः ॥ ११९॥ पुनराख्यापिते वंद्यपादाध्यानमपूरयत् । देवाहाने कृते तत्र देवी साक्षादथाह तान् ॥ १२० ॥ कन्यकुब्जमहीभर्तुर्महिता दुहिता ह्यहम् । स्वीये सुखादिकादेशे तिष्ठन्ती गूर्जराभिधे ॥ १२१ ॥ म्लेच्छभंगभयादत्र कूपेऽहं न्यपतं तदा । अभूवं भूम्यधिष्ठात्री मृत्वा स्वं चास्ति मे बहु ॥ १२२ ।। ततः स्वांगास्थिशल्यानि नानुमन्ये विकर्षितुम् । ममाननुमतौ कोपि किंचित्कर्तुं नहि प्रभुः॥१२३ ॥ धर्मस्थानेषु पूज्यत्वं वारये प्रभवस्ततः। एनामन्वनयन् शांता ततोऽमीषां वचोऽमृतैः ॥ १२४ ॥ अवोचद्यदि मामत्राधिष्ठात्री कुरुताधुना। तव्यसहिताभूमिधर्मस्थानाय गृह्यताम् ॥ १२५ ॥ गुरुभिः प्रतिपन्ने च चैत्ये निर्वर्तिते वरे। तदेव कुलिकां तस्या योग्यां पृथगचीकरन् ॥१२६ ॥ आख्या भवनदेवीति कृता तस्यास्तदत्र च । अचिंत्यशक्तिरद्यापि पूजामाप्नोति धार्मिकैः ॥ १२७ ॥ अथ ललं द्विजा दृष्ट्रा जिनधम्मैकसादरम् । स्वभावं स्वमजानाना दधु नेषु मत्सरम् ॥ १२८ ॥ ततः संचरतां मार्गे साधूनां गोचरादिके। उद्वेगं ते प्रकुर्वन्ति गिरीणां वारणा इव ॥ १२९ ॥ इत्थमालोचिते तैश्च गुरुः प्राह क्षमावशात् । उपसर्गा विलीयन्ते रहस्यमिदमेव नः॥१३०॥ अन्यदा बटवः पापपटधः कटवो गिरा। आलोच्य सुरभि कांचिदंचन्मृत्युदशास्थिताम् ॥ १३१॥ उत्पोद्योत्पाद्य चरणानिशायां तां भृशं कृशाम् । श्रीमहावीरचैत्यांतस्तदा प्रावेशयन् हठात्॥१३२॥ युग्मम् । गतप्राणां च तां मत्वा बहिः स्थित्वातिहर्षतः। ते प्राहुरत्र विज्ञेयं जनानां वैभवं महत् ॥१३३॥ वीक्ष्यः प्रातर्विनोदोऽयं श्वेतांबरविडंबकः। इत्थं च कौतुकाविष्टास्तस्थुर्देवकुलादिके ॥ १३४ ॥ १P न्. J_H omit पापपा ( ट ) वः. २ P उत्पाद्यचरणानिशा.. Page #95 -------------------------------------------------------------------------- ________________ श्रीजीवसूरिप्रबन्धः । ब्राह्मे मुहूर्त उत्थाय यतयो यावदङ्गणे । पश्यंति तां मृतां चेतस्यकस्माद्विस्मयावहाम् ॥ १३५ ॥ निवेदिते गुरूणां च चित्रेऽस्मिन्नरतिप्रदे | अचिन्त्यशक्तयस्ते च नाक्षुभ्यन् सिंहसन्निभाः ॥ १३६ ॥ मुनीन् मुक्त्वांगरक्षार्थ मठांतः पट्टसन्निधौ । अमानुषप्रचारेऽत्र ध्यानं भेजुः स्वयं शुभम् ॥ १३७ ॥ अन्तर्मुहूर्तमात्रेण सा धेनुः स्वयमुत्थिता । चेतना केतना चित्रहेतुश्चेत्याद्वहिर्ययौ ॥ १३८ ॥ पश्यंतस्तां च गच्छन्तीं प्रवीणब्राह्मणास्तदा । दध्युरध्युषिता रात्रौ मृता चैत्यात्कथं निरैत् ॥ १३९ ॥ नाणु कारणमत्रास्ति व्यसनं दृश्यते महत् । अबद्धा विप्रजातिर्यद् दुर्ग्रहा बटुमंडली ॥ १४० ॥ एवं विमृशतां तेषां गौर्ब्रह्मभवनोन्मुखी । खत्पदोदया पित्र्यस्नेहेनेव हृता ययौ ॥ १४१ ॥ यावत्तत्पूजकः प्रातर्द्वारमुद्घाटयत्यसौ । उत्सुका सुरभिर्ब्रह्मभवने तावदाविशत् ॥ १४२ ॥ खेटयन्तं बहिः शृङ्गयुगेनामुं प्रपात्य च । गर्भागारे प्रविश्यासौ ब्रह्ममूर्तेः पुरोऽपतत् ॥ १४३ ॥ तद्ध्यानं पारयामास जीवदेवप्रभुस्ततः । पूजको झल्लरीनादान्महास्थानममेलयत् ॥ १४४ ॥ विस्मिता ब्राह्मणाः सर्वे मतिमूढास्ततोऽवदन् । तदा दध्युरयं स्वप्नः सर्वेषां च मतिभ्रमः ॥ १४५ ॥ समकालमभूत्तत्कि गौर्मृता चलितापि च । तदप्यस्तु कथं ब्रह्मशालामाजग्मुषी स्वयम् ॥ १४६ ॥ दैवदुर्घटितस्यास्य शक्या नहि विचारणा । ज्योतिर्विदामपि ज्ञानादतीतं कार्यमागतम् ॥ १४७ ॥ अन्ये प्रोचुर्विचारः को बैटूनां दुर्नयांबुधेः । भृशमुल्लंघ्य मर्यादां स्थानमुत्पार्टेयिष्यति ॥ १४८ ॥ अन्यत्र स्थानमाधत्थ स्थानवासिद्विजव्रजाः । वायुनैव गता वायोः कीर्त्तिः स्थानाद्तो ध्रुवम् ॥ १४९ ॥ अपरे प्राहुरेको न उपायो व्यसने गुरौ । मृगेंद्र विक्रमं श्वेतांबरं चैत्यान्तरस्थितम् ॥ १५० ॥ १JH द्रुतं. २ P शृङ्गे. ३ P तद्या. ४ JH बहूनां ५ P पात. J H. अन्यवस्था० ......... । वायुनेव गता वायोः काग्निः स्थानादृतो ध्रुवम् H. Page #96 -------------------------------------------------------------------------- ________________ प्रभावकचारते प्रणिपत्य प्रपद्यतां तं तथ्यं पुरुषं रयात् । अपारोऽयं हि चिंताब्धिस्तेन पोतेन तीर्यते॥१५१॥ युग्मम् ।। अन्ये प्राहुः स्फुरदंभैर्युष्मड्डिभैर्विरोषितः । अहर्निशं प्रसत्तिं स भवतां भजतां कथम् ॥ १५२ ॥ कृतानुपद्रवानित्थं प्राकृतोऽपि न मृष्यति । किममानुषसामों जैनर्षिर्मूर्तिमान् विधिः ॥ १५३ ॥ एकेऽवोचन् तथाप्यस्योपरोधः क्रियतेऽधुना। उत्तमप्रकृतिर्यस्मात्प्रणामाद्वैरमुज्झति ॥ १५४ ॥ एवमेकमतीभूय द्वेधा श्रीवीरमन्दिरे । भूमिदेवा ययुः पूज्यास्थानं धार्मिकमंडितम् ॥ १५५ ॥ योजयित्वाथ ते प्रोचुर्ललाटे करसंपुटम् । अवधारय वाचं नो मनानामार्तिपंजरे ॥ १५६॥ वायुर्नाम सुरः पूर्व स्थानमेतन्यवीविशत् । तत्तुल्यजीवदेवाख्यावशतः सारतस्तव ॥१५७ ॥ ततोऽस्य व्यसने प्राप्ते बटुकूटापराधतः । प्रतिकतुं तवैवास्य बलो नान्यस्य भूतले ॥१५८॥ ततस्तदवतारस्त्वं पालयापालय प्रभो। स्थानं स्वयशसः स्थानं जीवदानं ददख नः ॥ १५९ ॥ खस्य नामान्तरस्थस्य प्रतिभूत्वं यदीच्छसि। तद्रक्ष्य तेऽन्यथाभावि स्थिरमस्थैर्यदुर्यशः ॥ १६० ॥ सूरो श्रुत्वेति तूष्णीके लल्लः फुल्लयशा जगौ। मद्विशप्तिं द्विजा यूयमेकां शृणुत सूनृताम् ॥ १६१ ॥ विरक्तोऽहं भवद्धर्मादृष्ट्वा जीववधं ततः। अस्मिन् धर्मे दयामूले लग्नो ज्ञातात्स्वकीन्ननु ॥ १६२ ॥ जैनेष्वसूयया यूयमुपद्रवपरंपराम् । विधत्त प्रतिमल्लः कस्तत्र वः स्वल्पशत्रवः ॥ १६३ ॥ मर्यादामिह कांचिच्चेत् यूयं दर्शयत स्थिराम्। तदहं पूज्यपादेभ्यः किंचित्प्रतिविधापये ॥ १६४ ॥ अथ प्रोचुः प्रधानास्ते त्वं युक्तं प्रोक्तवानसि । समः कः क्षमयामीषां दुर्वारेऽस्मदुपद्रवे ॥ १६५॥ खरुच्या सांप्रतं जैनधर्मे सततमुत्सवान् । कुर्वतां धार्मिकाणां न कोपि विघ्नान् करिष्यति ॥ १६६॥ अस्तु च प्रथमो बूढः श्रीवीरव्रतिनां तथा । सदान्तरं न कर्त्तव्यं भूमिदेवैरतः परम् ॥ १६७॥ १ विराधितः. २ P प्रसर्ति. ३ JH. सूरे. ४ JH ज्ञातां स्वकानतु. ५JH प्रस्तुव प्रथमौ वंटाः. Page #97 -------------------------------------------------------------------------- ________________ श्रीजीवसूरिप्रबन्धः। प्रतिष्ठितो न वाचार्यः सौवणमुर्पवीतकम् ।। परिधाप्याभिषेक्तव्यो ब्राह्मणैर्ब्रह्ममन्दिरे ॥ १६८॥ इत्यभ्युपगते तैश्च लल्लः सहुरुपादयोः। निर्वेश्य मौलिमाचख्यौ महास्थानं समुद्धर ॥ १६९ ॥ श्रीजीवदेवसूरिश्च प्राहोपशमवमितः । कालत्रयेपि नास्माकं रोषतोषौ जनद्विषौ ॥१७॥ प्रत्यूहव्यूहयातिभ्यः परं शासनदेवताः। इदानीमपि ता एव भलिष्यन्ति मम स्मृतेः॥१७१ ॥ इत्युक्त्वातर्मठं ध्यानासने संस्थाय सूरयः । निगृह्य रेचकं कुंभकेन नासाग्रदृष्टयः ॥ १७२ ॥ तस्थुर्मुहूर्त्तमात्रेण तावद्गौब्रह्मवेश्मतः। उत्थाय चरणप्राणं कुर्वती निर्जगाम सा ॥ १७३ ॥ कौतुकादृश्यमानासौ हर्षोत्तालद्विजवजैः। पुरो बाह्यप्रदेशोळ निरालंबा अपद्रुतम् ॥ १७४ ॥ आस्थानं पुनराजग्मुर्गुरवो गुरवो गुणैः । वेदोदिताभिराशीभिर्विप्रैश्चक्रे जयध्वनिः ॥ १७५॥ ततःप्रभृति सौदर्यसंबंधादिव वायटे। स्थापितस्तैरिह स्नेहो जैनैरद्यापि वर्त्तते ॥ १७६ ॥ विजह्वरन्यतः पूज्या ज्ञात्वा कालं तु ते पुनः। स्वस्थानमागमन् योग्यं शिष्यं पट्टे न्यवीविशन् ॥ १७७॥ स्वयं सर्वपरित्यागं कृत्वा धृत्वार्जवे मैनः। ददुः शिक्षां गणस्याथ नवसूरेश्च सूरयः ॥ १७८॥ गच्छेप्रवर्तकस्याथादेशं राहँस्थिकं ददुः। योगी प्रतिहतोऽस्माभिर्यः पुरा सिद्ध एव सः॥१७९ ॥ अनेकसिद्धिसंयुक्त एकखंडकपालवान् । अस्माकं निधनं ज्ञात्वा स चागन्तात्र निश्चितम् ॥ १८०॥ अप्यस्माकं कपालं चेत् सैष प्राप्स्यत्यधर्मधीः। शासनस्योपसर्गास्तद्विधास्यति तथाविधान् ॥ १८१॥ ततः स्नेहं परित्यज्य निर्जीवेऽस्मत्कलेवरे। कपालं चूर्णयध्वं चेत्तत्र स्यान्निरुपद्रवम् ॥ १८२॥ इहाथै मामकीनाज्ञापालनं ते कुलीनता ।। एतत्कार्य ध्रुवं कार्य जिनशासनरक्षणे ॥ १८३ ॥ इति शिक्षा प्रदायास्मै प्रत्याख्यानविधि व्यधुः। १JH. न्यः. २P. जवे गतः. ३J पर्वतक. ४H P राहस्मिकं. ५JH. विचिंताथ. Page #98 -------------------------------------------------------------------------- ________________ प्रभावकचरिते विधायाराधनां दध्युः परमेष्ठिनमस्कृताः ॥ १८४॥ निरुध्य पवनं मूर्धा मुक्त्वा प्राणान् गुणाब्धयः। वैमानिकसुरावासं तेऽतिश्रियमशिश्रियन् ॥१८५ ॥ लब्धलक्षस्ततो दंडमुदंडं परिगृह्य सः। कपालं चूर्णयामास यथाकारोपि नेष्यते ॥ १८६ ॥ लोकशोकोत्सवोन्मुद्रशब्दाद्वैते भवत्यथ । शिबिकास्थं गुरुवपुर्गीतार्था अवहंत तत् ॥ १८७ ॥ योगी डमरुकध्वानभैरवस्तत्र चाययौ । क एष पुरुषोऽतीत इत्यप्रच्छश्च तं जनम्॥ १८८॥ प्रधानब्राह्मणश्चैकः पुरस्तस्येत्यथावदत्। क्लिन्नश्मश्रूणि सोशूणि विमुंचन गद्गदखरम् ॥ १८९ ॥ वायोरिवापरामूर्तिीवदेवो मुनीश्वरः । महास्थानधरोद्धारवराहो दिवमीयिवान् ॥ १९०॥ श्रुत्वा स कपटात् शोकं बिभ्रद्वक्षो विघातयन् । विधायोर्जितपूत्कारं रोदनं भृशमब्रवीत् ॥ १९१॥ एकदा भो मदीशस्य वकं दर्शयताधुना । अन्यथा स्वशिरोघातं कृत्वा त्यक्षाम्यसून ध्रुवम् ॥ १९२॥ तत्र प्रवर्तकोऽवोचन्मुच्यतां शिविकां भुवि । प्रभोमित्रमसौ योगी दृष्वास्यं जीवताद्धनम् ॥ १९३ ॥ विमुक्ते याप्ययाने च प्रकाशे तन्मुखे कृते । चूर्णितं तच दृष्ट्वासौ हस्तौ घृष्ट्वाब्रवीदिति ॥ १९४॥ एकखंडं कपालं श्रीविक्रमादित्यभूपतेः। ममाचार्यस्य चास्य स्यात्पुण्यपूरुषलक्षणम् ॥ १९५॥ करे मेऽस्य कपालं चेदारोक्ष्यन्मे मनोरथाः। अपूरिष्यंत किं कुर्मो नाभाग्यैः प्राप्यमीदृशम् ॥ १९६ ॥ जीवता च मृतेनापि सख्याहं घृष्ट एव यत् । मर्येषु स पुमानको येनाहं स्वमतेर्जितः ॥ १९७॥ परं तथापि लोकोऽस्य संस्कारे मां दिशत्वसौ । ममाप्यद्य विभागोऽस्तु पुण्यस्यागण्यसौहृदात् ॥ १९८ ॥ एवं कृते च स व्योमात्रानयन्मलयाचलात् । श्रीखंडागुरुकाष्ठानि विदधेऽगं च भस्मसात् ॥ १९९ ॥ अद्यापि तत्प्रभावेण तस्य वंशे कलानिधिः । भवेत्प्रभावकः सूरिरमराभः स्वतेजसा ॥ २० ॥ इत्थं चरित्रमधिगम्य महाप्रभावं श्रीजीवदेवसुगुरोर्दुरितापहारि । Page #99 -------------------------------------------------------------------------- ________________ श्रीवृद्धवादिप्रबन्धः । ९१ नित्यं स्मरंतु विबुधा अवधानधीरा नंद्याच्च सूरिगरिमस्फुरणैकहेतुः ॥ २०१॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा- चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ शंगोऽगमत् सप्तमः प्रद्युम्नप्रभुशोधितः सुचरितं श्रीजीवदेवप्रभोः॥ २०२॥ वाग्दारियप्रमथननंदमनोरतिलतादृढाधारः। सुमनःप्रसरोल्लासश्रीमत्प्रद्युम्नकल्पतरोः ॥ २०३ ॥ इति श्रीजीवसूरिप्रबंधः॥ ग्रं २०७ उभयं १४९३ अ०॥२॥ श्रीवृद्धवादिप्रबन्धः सारसारस्वतश्रोतःपारावारसमश्रिये । वृद्धवादिमुनीन्द्राय नमः शमदमोमये ॥१॥ सिद्धसेनोऽवतु स्वामी विश्वनिस्तारकत्वकृत् । ईशहृद्भेदकं दधे योऽर्हब्रह्ममयं महः ॥२॥ कलिकालाऽचलप्लोषदम्भोलिकलयोस्तयोः। चरित्रं चित्रचारित्रामौत्रं प्रस्तावयाम्यहम् ॥३॥ पारिजातोऽपारिजातो जैनशासननंदने । सर्वश्रुतानुयोगार्हकंदकंदलनाम्बुदः॥४॥ विद्याधरवरानाये चिन्तामणिरिवेष्टदः। आसीच्छ्रीस्कंदिलाचार्यः पादलिप्तप्रभोःकुले ॥५॥ युग्मम् असंख्यशिष्यमाणिक्यरोहणाचलचूलिका । अन्यदा गौडदेशेषु विजढे स मुनीश्वरः ॥६॥ तत्रास्ति कोशलाग्रामसंवासा विप्रपुंगवः। मुकुंदाभिधया साक्षान्मुकुंद इव सत्वतः॥७॥ प्रसंगादमिलत्तेषां बाह्यावनिविहारिणांम् । सर्वस्य सर्वकार्येषु जागर्ति भवितव्यता ॥ ८॥ तेभ्यश्च शुश्रुवे धर्मः शर्मदः प्राणिनां दया। सुकरः संयमारूढेरतिवैराग्यरंगितैः॥९॥ स प्राह कारिताकार्यैरनार्यैर्दुर्जनैरिव । चित्रैरिव भ्रमिभ्राग्निर्विषयैर्मुषितोऽस्म्यहम् ॥१०॥ तेभ्यस्त्रायस्व निःसंगस्वामिन् विध्वस्तशात्रव।। पलायनेपि मां क्लीवं विश्रसावैशसध्रुतम् (१) ॥११॥ १JH स्मरणे को हेतुः. २JH omit this. ३ P त्रामस्तं. ४JH-द्भुताम् (?). Page #100 -------------------------------------------------------------------------- ________________ : प्रभावकचरिते. इत्युचिवांसमेनं तेन्वगृह्णन् जैनदीक्षया । त्वरैव श्रेयसिश्रेष्ठा विलम्बो विघ्नुकद्भवम् ॥१२॥ त्रिभिर्विशषेकम् अपरेधुर्विहारेण लाटमंडलमंडनम् । प्रापुः श्रीभृगुकच्छं ते रेवासेवापवित्रितम् ॥ १३॥ श्रुतपाठमहाघोषैरंबरं प्रतिशब्दयन् । मुकुंदर्षिः समुद्रोमिध्वानसापत्यदुःखदः ॥ १४ ॥ भृशं स्वाध्यायमभ्यस्यन्नयं निद्राप्रमादिनः। विनिद्रयति वृद्धत्वादाग्रहीसन्नहर्निशम् ॥१५॥ युग्मम् यतिरेको युवा तस्मै शिक्षामक्षामधीर्ददौ। मुने विनिद्रता हिंस्रा जीवभूतद्रुहो यतः॥ १६ ॥ तस्माद्ध्यानमयं साधु विधेयाभ्यंतरं तपः। अर्हः संकोचितुं साधो वाग्योगो निर्ध्वनिक्षणे ॥ १७ ॥ इति श्रुत्वापि जीर्णत्वोदितजाड्यचयान्वितः।। नावधारयते शिक्षा तथैवाघोषति स्फुटम् ॥ १८ ॥ त्रिभिविशेषकम् तारुण्योचितया सूक्त्या करणासूयया ततः। अनगारेः खरां वाचमाददे नादरार्दितः ॥ १९ ॥ अजानन्वयसोंतं यदुग्रपाठादार्दितः। फुल्लयिष्यसि तन्मल्लीवल्लीवन् मुशलं कथम् ॥२०॥ इति श्रुत्वा विषेदेऽसौ जरञ्चारित्रकुंजरः। दध्यौ च मे धिगुत्पत्ति ज्ञानावरणदूषिताम् ॥२१॥ तत आराधयिष्यामि भारतीदेवतामहम् ।। अथोग्रतपसा सत्यं यथासूयावचो भवेत् ॥ २२ ॥ इति ध्यात्वा नालिकेरवसत्याख्यजिनालये। सकलां भारती देवीमाराडमुपचक्रमे ॥ २३ ॥ चतुर्धाहारमाधारं शरीरस्य दृढव्रतः।। प्रत्याख्याय स्फुरद्ध्यानवह्निनिद्भुतजाड्यभीः॥२४॥ गलद्विकल्पकालुष्यशुद्धधीः समताश्रयः। निष्प्रपतनुय॑स्तदृष्टिमूर्तिपदाम्बुजे ॥२५॥ मुहूर्तमिव तत्रास्थादिनानामेकविंशतिम् । सत्त्वतुष्टा ततः साक्षाद्भूत्वा देवी तमब्रवीत् ॥२६॥ त्रिभिर्विशेषकम् समुत्तिष्ठ प्रसन्नास्मि पूर्यन्तां ते मनोरथाः। स्खलना न तवेच्छास्तु तद्विधेहि निजेहितम् ॥ २७॥ १P धेह्या०. २ P. वाचमाददर्शार्दतः. ३J H सांतं. ४ P. पाठदरा. ५JH-श्रुत्वा. Page #101 -------------------------------------------------------------------------- ________________ श्रीवृद्धवादिप्रबन्धः। इत्याकर्ण्य समुत्तस्थौ देवताया गिरं गिरः । ददर्श मुशलं प्राप्तः कस्यापि गृहिणो गृहे ॥ २८॥ पूर्वोक्तयतिसोत्प्रासवाक्यश्रुत्यपमानतः। प्राह श्लोकं श्रुतलोकप्रतिज्ञापरिपूर्तये ॥ २९॥ स चायं-अस्मादृशा अपि यदा भारति त्वत्प्रसादतः। भवेयुवादिनः प्राज्ञा मुशलं पुष्यतां ततः॥३०॥ इत्युक्त्वा प्राशुकैर्नीरैः सिषेच मुशलं मुनिः। सद्यः पल्लवितं पुष्पैर्युक्तं तारैर्यथा नभः॥ ३१ ॥ तथा-मुंगोः शृंगं शक्रयष्टिप्रमाणं शीतो वह्निर्मारुतो निष्पकंपः। ... यद्वा यस्मै रोचते तन्न किंचित् । वृद्धो वादी भाषते कः किमाहः॥ ३२॥ इति प्रतिज्ञयैवास्य तदा कालीयवादिनः। . हताः पराहतप्रज्ञाः कांदिशीका इवाभवन् ॥ ३३॥ ततः सूरिपदे चक्रे गुरुभिर्गुरुवत्सलैः। वर्द्धिष्णवो गुणा अर्था इव पात्रे नियोजिताः ॥ ३४॥ प्रवयावादमुद्राभृद्यतः ख्यातो जगत्यपि । सान्वयीं वृद्धवादीति प्रसिद्धि प्राप स प्रभुः॥३५॥ श्रीजैनशासनांभोजवनभासनभास्करः। अस्तं श्रीस्कंदिलाचार्यः प्राप प्रायोपवेशनात् ॥ ३६॥ वृद्धवादिप्रभुर्गच्छाचलोद्धारादिकच्छपः।। विजहार विशालायां शालायां गुणसंततेः ॥ ३७॥ तदा श्रीविक्रमादित्यभूपालः पालितावनिः । दारियांधतमोभारसंभारेऽभवदंशुमान् ॥ ३८ ॥ श्रीकात्यायनगोत्रीयो देवर्षिब्राह्मणांगजः । देवश्रीकुक्षिभूर्विद्वान् सिद्धसेन इति श्रुतः॥३९॥ तत्रायात्सर्वशास्त्रार्थपारंगममतिस्थितिः। अन्येद्युर्मिलितः श्रीमदृद्धवादिप्रभोः स च ॥ ४० ॥ अद्य श्वो वृद्धवादीह विद्यते मुनिनाथवा । इति पृष्टः स एवाह सोहमेवास्मि लक्षय ॥४१॥ विद्वद्गोष्ठीमहं प्रेप्सुरित्यतोत्रैव जल्प्यते । संकल्पो मे चिरस्थायी सखे संपूर्यते यथा ॥ ४२ ॥ न गम्यते कथं विद्वन् पर्षदि स्वांततुष्टये । संप्राप्तौ शातकुंभस्य पित्तलांको जिघृक्षति ॥४३॥ १P श्लोक. Page #102 -------------------------------------------------------------------------- ________________ ९४ प्रभावक इत्युक्तेपि यदात्रैव स नौज्झद्विग्रहाग्रहम् । ओमित्युक्त्वा तदा सूरिगोपान् सभ्यान् व्यधात्तदा ॥ ४४ ॥ सिद्धसेनः प्रागवादीत् सर्वज्ञो नास्ति निश्चयः । यः प्रत्यक्षानुमानाद्यैः प्रमाणैर्नोपलभ्यते ॥ ४५ ॥ नभःकुसुमदृष्टांतादित्युक्त्वा व्यरमच्च सः । उवाच वृद्धवादी च गोपान् सांत्वनपूर्वकम् ॥ ४६ ॥ भवद्भिरेतदुक्तं भो किमप्यधिगतं नवा । ते प्राहुः पारसीकाभमव्यक्तं बुद्ध्यते कथम् ॥ ४७ ॥ वृद्धवाद्याह भो गोपा ज्ञातमेतद्वचो मया । जिनो नास्तीत्यसौ जल्पे तत्सत्यं वदतात्र भोः ॥ ४८ ॥ भवद्रामे वीतरागः सर्वशोस्ति न वा ततः । आडुस्तेऽस्य वचो मिथ्या जैनचैत्ये जिने सति ॥ ४९ ॥ नचानवतेष्वत्रादरो द्विजवचस्तुनः । सूरिराह पुनर्विप्र तथ्यां शृणु गिरं मम ॥ ५० ॥ मनीषातिशयस्तारतम्यं विश्राम्यति क्वचित् । अस्ति चातिशयेयत्तापरिमाणेष्विव स्फुटम् ॥ ५१ ॥ लघौ गुरुतरे वापि परमाणौ वियत्यपि । प्रज्ञाया अवधिर्ज्ञानं केवलं सिद्धमेव तत् ॥ ५२ ॥ ज्ञानं गुणस्तदाधारो द्रव्यं किंचिद्विचित्यताम् । योऽसौ स एव सर्वज्ञ एषाभूत्सिद्धिरस्य च ॥ ५३ ॥ ईदृग्वाचां प्रपंचेन जिग्येऽसौ वृद्धवादिना । ब्राह्मणः पण्डितंमन्यस्तस्य कास्था ह्यमूदृशाम् ॥ ५४ ॥ हर्षाश्रुलुतनेत्रश्च सिद्धसेनोप्यभाषत । प्रभो त्वमेव सर्वज्ञः पूर्वः सत्यो जिंनस्त्वया ॥ ५५ ॥ शिष्यत्वेनानुमन्यस्व मां प्रतिज्ञातपूर्विणम् । समर्थो नोत्तरं दातुं यस्य तस्यास्मि शैक्षकः ॥ ५६ ॥ अदीक्षयत जैनेन विधिना तमुपस्थितम् । नाम्ना कुमुदचन्द्रश्च स चक्रे वृद्धवादिना ॥ ५७ ॥ आशु चाशुगवत्तीक्ष्णप्रवरप्रतिभाभरात् । पारदृश्वा तदा कालसिद्धान्तस्य स चाभवत् ॥ ५८ ॥ तृतीयपरमेष्ठित्वे गुरुभिर्विदधे मुदा । पुरा ख्याताभिधैवास्य तथाच प्रकटीकृता ॥ ५९ ॥ तन्निधाय गणाधारे विज स्वयमन्यतः । शिप्रभावो दूरस्थैर्गुरुभिर्वीक्ष्यते यतः १ P. निश्चितम् . २J H. सर्वः ३ JH. ज्झित ५ P तदा. ६ J-H. निक्षिप्तभारो. ६०॥ ४P - कुसुम चन्द्र०. Page #103 -------------------------------------------------------------------------- ________________ श्रीविवृद्धवादिप्रबन्धः। श्रीसिद्धसेनसूरिश्चान्यदावाह्यभुवि व्रजन् । दृष्टः श्रीविक्रमार्केण राज्ञा राजाध्वगेन सः॥६१॥ अलक्ष्य भूप्रणामं स भूपस्तस्मै च चक्रिवान् । तं धर्मलाभयामास गुरुरुञ्चतरस्वरः ॥१२॥ तस्य दक्षतया तुष्टः प्रीतिदाने ददौ नृपः । कोटिं हाटकटंकानां लेखकं पत्रकेऽलिखत् ॥ ६३॥ तद्यथा-धर्मलाभ इति प्रोक्ते दूरादुद्धृतपाणये । सूरये सिद्धसेनाय ददौ कोटि नराधिपः॥६४॥ नृपेण सिद्धमाकार्य गृहीष्यामि धनं त्वया। उवाच सिद्धो नोऽस्माकं यथारुचि तथा कुरु ॥६५॥ तेन द्रव्येण चक्रेऽसौ साधारणसमुद्रकम् । दुःस्थसाधर्मिकस्तोमचैत्योद्धारादिहेतवे ॥६६॥ अन्यदा चित्रकूटाद्रौ विजहार मुनीश्वरः। गिरेनितंब एकत्र स्तंभमेकं ददर्श च ॥ ६७ ॥ नैव काष्ठमयो ग्रावमयो न नच मृण्मयः । विमृशन्नौषधक्षोदमयं निरचनोच्च तम् ॥६८॥ तंद्रसस्पर्शगंधादिनिरीक्षाभिर्मतर्बलात। औषधानि परिज्ञाय तत्प्रत्यर्थीन्यमीमिलन् ॥ ६९ ॥ पुनः पुनर्निघृष्याथ स स्तंभे छिद्रमातनोत् । पुस्तकानां सहस्राणि तन्मध्ये च समैक्षत ॥ ७०॥ एकं पुस्तकमादाय पत्रमेकं ततः प्रभुः। विवृत्य वाचयामास तदीयामोलिमेककाम् ॥ ७१ ॥ सुवर्णसिद्धियोगं स तत्र प्रेक्षत विस्मितः। सर्षपैः सुभटानां च निष्पत्तिश्लोक एकके ॥ ७२॥ सावधानः पुरो यावद्वाचयत्येष हर्षभूः। तत्पत्रं पुस्तकं चाथ जहे श्रीशासनामरी ॥७३॥ तापूर्वगतग्रन्थवाचने नास्ति योग्यता। सत्वहानिर्यतः कालदौस्थ्यादेतादृशामपि ॥७४॥ स पूर्वदेशपर्य्यन्ते व्यहार्षीञ्च परेद्यवि । कर्मारनगरं प्राप विद्यायुगयुतः सुधीः ॥ ७५ ॥ देवपालनरेन्द्रोऽस्ति तत्र विख्यातविक्रमः। श्रीसिद्धसेनसूरिं स नंतुमभ्याययौ रयात् ॥ ७६ ॥ आक्षेपण्यादिधर्माख्याचतुष्टयवशात्प्रभुः। तं प्रत्यबोधयत्सख्ये चास्थापयदिलापतिम् ॥ ७७॥ १J H omit this stanza. २J H तत्र. ३J H तत्प्रीत्यर्थीत्यमीमिलन्. ४ P विवृत्ति. Page #104 -------------------------------------------------------------------------- ________________ प्रभावकचरिते श्रीकामरूपभूपालः संरुरोध तमन्यदा । नाम्ना विजयवर्मेति धर्मेतरमतिस्थितिः॥ ७८॥ स आटविकनासीरैरसंख्यैर्विद्रुतोऽधिकम्।। देवपालो महीपालः प्रभुं विज्ञपयत्ततः ॥ ७९ ॥ अमुष्य शलभश्रेणिसन्निभैरद्भुतैर्बलैः। विद्रावयिष्यते सैन्यमल्पकोशबलस्य मे॥ ८०॥ अत्र त्वं शरणं स्वामिनिदमाकर्ण्य स प्रभुः। प्रायः प्रतिविधास्यामि माभैषीरत्र संकटे ॥ ८१ ॥ सुवर्णसिद्धियोगेनासंख्यद्रव्यं विधाय सः। तथा सर्षपयोगेन सुभटानकरोद्वहून् ॥ ८२॥ यद्वा पराजितः शत्रुर्देवपालेन भूभृता। प्रभोः प्रसादतः किं हि न स्यात्तागुपासनात् ॥ ८३॥ राजाह शत्रुभीत्यंधतमसोऽहं निपेतिवान् । उद्दभ्रे भास्वता नाथ भवता भवतारक ॥ ८४ ॥ ततो दिवाकर इति ख्याताख्या भवतु प्रभोः। ततःप्रभृति गीतः श्रीसिद्धिसेनदिवाकरः॥ ८५ ॥ तस्य राज्ञो दृढं मान्यः सुखासनगजादिषु । बलादारोपितो भक्त्या गच्छति क्षितिपालयम् ॥ ८६ ॥ इति ज्ञात्वा गुरुर्वृद्धवादी सूरिर्जनश्रुतेः। शिष्यस्य राजसत्कारदर्पभ्रान्तमतिस्थितेः ॥ ८७ ॥ शिक्षणेन क्षणेनैवापासितुं दुर्ग्रहाग्रहम् । समाजगाम कर्मारपुरे रूपापलापतः ॥ ८८ ॥ युग्मम् ततः सुखासनासीनमपश्यत्तं प्रभुस्तदा । राजानमिव राजाध्वान्तरे बहुजनावृतम् ॥ ८९ ॥ प्राह च प्राप्तरूपत्वं संदेहं मे निवर्तय । आयातस्य तव ख्यातिश्रुतेर्दूरदिगन्तरात् ॥ ९ ॥ पृच्छेति सिद्धसेनेन सूरिणोक्ते जगाद सः। तारस्वरं समीपस्थविदुषां विस्मयावहम् ॥९१ ॥ तद्यथा-अणहुल्लीफुल्ल मतोडहु मन आरामा मैमोडहु । मणकुसुमहिं अञ्चि निरञ्जणु हिण्डहकाई वणेण वणु ॥९२॥ अज्ञातेऽत्र विमृश्यापि कदुत्तरमसौ ददौ । अन्यत्प्रच्छेति स प्राह तदेव हि विचारय ॥ ९३ ॥ अनादरादसम्बद्धं यत्किचित्तेन चाकथि।। अमानितेऽत्र तर्हि त्वं कथयति जगाद सः॥९४॥ १JH नाशार. २ P अहुल्ली. ३ P आरामासो. Page #105 -------------------------------------------------------------------------- ________________ श्रीवृद्धवादिप्रबन्धः। वृद्धवादिप्रभुः प्राहाकर्णयावहितो भव । अस्य तत्त्वं यथामार्गभ्रष्टोऽपि लभसे पुनः ॥९५ ॥ तथाहिअणु अल्पमायूरूपं पुष्पं यस्याः साऽणुपुष्पिका मानुषतनुस्तस्याः पुष्पाण्यायुःखण्डानि तानि मा त्रोटयत राजपूजागर्वाचंकुटीभिः । ओरामानात्मसक्तान् यमनियमादीन्सन्तापापहारकान् मा मोटयत भंजयत । मनःकुसुमैः क्षमामार्दवार्जवसन्तोषादिभिरर्चय निरञ्जनम् । अञ्जनान्यहंकारस्थानानि जातिलाभादीनि निर्गतानि यस्य स निरञ्जनः सिद्धिपदप्राप्तस्तं ध्यायन्तु हिंडत भ्रमत कथं वनेन वनं मोहादितरुगहनेनारण्यमिव संसाररूपं गहनमित्येकोऽर्थः॥१॥ अथवा-अणु माल्पधान्यं तस्य पुष्पाण्यल्पविषयत्वान्मानवतनोः साल्पपुष्पी तस्याः पुष्पाणि महाव्रतानि शीलाङ्गानि तानि मा मोटयत मा विनाशयत । मन आरामं मोटयत । चित्तविकल्पजालं संहरत । तथा निरञ्जनं देवं मुक्तिपदप्राप्तं मन इत्यनेन द्वौनिषेधशब्दौ मा च नश्च ततो मा कुसुमैरर्चय निरञ्जनं वीतरागम् । गार्हस्थ्योचितदेवपूजादौ षड्जीवनिकायविराधके मोद्यमं कुरु सावद्यत्वाद् । वनेन शब्देन कीर्त्या हेतुभूतया वनं चेतनाशून्यत्वादरण्यमिव भ्रमहेतुतया मिथ्यात्वशास्त्रजातं कथं भ्रमसि अवगाहसे लक्षणया तस्मान्मिथ्यावादं परिहत्य सत्ये तीर्थकदादिष्टे आदरमाधेहि इति द्वितीयोर्थः ॥ अथवाअणरणेति धातोरणशब्दः स एव पुष्पमभिगम्यत्वाद्यस्याःसाणुपुष्पा कीर्तिस्तस्याः पुष्पाणि स्याद्वादवचांसि तानि मा त्रोटयत मा संहरत।तथा मनस आरा वेधकरूपत्वात् अध्यात्मोपदेशरूपास्तान्मा त्रोटयत । कुव्याख्याभिर्मा विनाशयत । मनो निरञ्जनं रागादिलेपरहितं कुसुमैरिव कुसुमैः सुरभिशीतलैः सहुरूपदेशैरर्चय पूजितं श्लाघ्यं कुरु । तथा वनस्योपचारात्संसारार ग्यस्य तस्येनः खामी परमसुखित्वात्तीर्थकृत् तस्य वनं शब्दसिद्धान्तसूत्रं कथं हिंडत भ्रान्तिमादधत । यतस्तदेव सत्यं । तत्रैव भावना रतिः कार्येति तृतीयोऽर्थः। इत्यादयो ह्यनेकार्था व्याख्याता वृद्धवादिना। मतिप्रतिविधानं तु वयं विद्मस्तु किंजडाः ॥९६॥ १P अडुल्ली. २ P आरामासो. ३J H- भ्रष्टोसि. ४ P सद्बोधवचांसि. ५P सिद्धान्तः. 9 Page #106 -------------------------------------------------------------------------- ________________ ९८ . प्रभावकचरिते इति तजल्पपर्जन्यगर्जिवर्षणडम्बरैः । बोधेनाङ्कुरिता सिद्धसेनमानसमेदिनी ॥९७॥ ईदृक् शक्तिर्हि नान्यस्य मद्धर्माचार्यमन्तरा। स ध्यात्वेति समुत्तीर्य तस्याही प्राणमद्गुरोः ॥ ९८॥ प्राह चान्तरविद्वेषिजितेन मयका भृशम्। आशासिताः प्रभोः पादाः क्षम्यतां तन्महाशयः॥ ९९ ॥ श्रुत्वेति गुरुराह स क्षणं वत्स न ते क्षणम् । प्राणिनां दुःखमाकालः शत्रुः सद्गतिनाशनः ॥१०० ॥ कणेहत्य मया जैनसिद्धान्तात्तर्पितो भवान् । तवापि यन्न जीर्येत मन्दाग्नेः स्निग्धभोज्यवत् ॥ १०१ ॥ अन्येषां जडताघातपीनसाश्लेष्मवद्गृहम् । का कथात्यल्पसत्वाग्निभृतां विद्यान्नजीरणे ॥ १०२॥ संतोषौषधसंवृद्धसद्ध्यानान्तरवह्निना। श्रुतं स्वयं हि जीर्यस्व महत्तमशनायितः॥ १०३॥ स्तम्भाप्तपुस्तकं पत्रं जज्ञे शासनदेवता। सांप्रतं सांप्रतीनाः किं तादृकशक्तिव्रतोचिताः ॥ १०४॥ इत्याकर्ण्य गुरोर्वाचं वाचंयमशिरोमणिः । प्राह चेहुष्कृतं नैव कुर्युः शिष्या भ्रमोदयात् ॥ १०५ ॥ तत्प्रायश्चित्तशास्त्राणि चरितार्थानि नाथ किम् । भवेयुरविनीतं मां प्रायश्चित्तैः प्रशोध्यत ॥१०६॥ वृद्धवादी विमृश्यादादस्य चालोचनातपः। स्वस्थाने न्यस्य च प्रायं स्वयं लात्वा दिवं ययौ ॥ १०७॥ मुनीन्द्रः सिद्धसेनोऽपि शासनस्य प्रभावनाम् । विदधद्वसुधाधीशसुतो व्यहरतावनौ ॥ १०८॥ अन्यदा लोकवाक्येन जातिप्रत्ययतस्तथा। आबाल्यात्संस्कृताभ्यासी कर्मदोषात्प्रबोधितः॥१०९॥ सिद्धान्तं संस्कृतं कर्तुमिच्छन्संघ व्यजिशपत् । प्राकृते केवलज्ञानिभाषितेऽपि निरादरः ॥११० ॥ तत्प्रभावं गरीयस्त्वानभिज्ञस्तत्र मोहितः। संघप्रधानरूचे च चेतःकालुष्यकर्कशैः॥१११॥ युगप्रधानर्सरीणामलंकरणधारिणाम् । अद्य स्वी(श्वी)नयतिवातशिरोरत्नप्रभाभृताम् ॥११२॥ १J मयि भृशं. २ J आसासि; P आशातिताः । ३P वात 'हृदाम्.. न जारणे. ४J H स्ततो विह. ५J H. केवलज्ञान. ६JH. पूराणा. ७J_H. आद्यस्वातयत्तित्त्वात्. Page #107 -------------------------------------------------------------------------- ________________ श्रीवृद्धवादिप्रबन्धः। पूज्यानामपि चेञ्चित्तवृत्तावेज्ञानशात्रवः । अवस्कन्दं ददात्यद्य का कथास्मादृशां ततः॥११३॥ यदि विश्रुतमस्माभिः पूर्वेषां सम्प्रदायतः। चतुर्दशापि पूर्वाणि संस्कृतानि पुराऽभवत् (न्)॥११४॥ प्रशातिशयसाध्यानि तान्युच्छिन्नानि कालतः। अधुनैकादशाग्यस्ति सुधर्मस्वामिभाषिता ॥ ११५॥ बालस्त्रीमूढमूर्खादिजनानुग्रहणाय सः। प्राकृतां तौमिहाकार्षीदनास्थात्र कथं हि वः॥११६॥ पूज्यैर्वचनदोषेण भूरि कल्मषमर्जितम् । श्रुतेन स्थविरा अद्य प्रायश्चित्तं प्रजानते ॥११७॥ तैरूचे द्वादशाब्दानि गच्छत्यागं विधाय यः। निगूढजैनलिङ्गः सन् तप्यते दुस्तपं तपः॥११८॥ इति पारांचिकाभिख्यात्प्रायश्चित्तान्महांहसः। अस्य शुद्धिर्जिनाज्ञाया अन्यथा स्यात्तिरस्कृतिः॥११९॥ जैनप्रभावनां कांचिदद्भुतां विदधाति चेत् । तदुक्तावधिमध्येऽपि लभते स्वं पदं भवान् ॥ १२० ।। ततः श्रीसंघमापृच्छय स सात्विकशिरोमणिः। खवतं बिभ्रव्यक्त सिद्धसेनो गणं व्यहात् ॥ १२१ ॥ इत्थं च भ्राम्यतस्तस्य बभूवुः सप्त वत्सराः। अन्येयुर्विहरनुज्जय(यि)न्यां पुरि समागमत् ॥ १२२ ॥ स भूपमन्दिरद्वारि गत्वा क्षत्तारमभ्यधात् । स्वं विज्ञापय राजानं मद्वाचा विश्वविश्रुतम् ॥ १२३॥ तथाहि दिदृक्षुर्भिक्षुरायातो द्वारि तिष्ठति वारितः। हस्तन्यस्तचतुःश्लोकः किमागच्छतु गच्छतु॥१२४ ॥ तेतो राज्ञा समाहूतो गुणवत्पक्षपाततः। स्वामिनोनुमते पीठे विनिविश्याब्रवीदिति ॥ १२५ ॥ तद्यथा अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः। मार्गणौघः समभ्येति गुणो याति दिगन्तरम् ॥ १२६ ॥ १P. त्ताविज्ञा. २ P. भाषिताः. ३ J H. प्राकृतानामि. ४ JH. च. ५ P adds दीयतां दशलक्षाणां शासनानि चतुःश्लोकं यद्वा गच्छतु before ततो. Page #108 -------------------------------------------------------------------------- ________________ प्रभावकचरिते अमी पानकुरंकाभाः सप्तापि जलराशयः। यद्यशोराजहंसस्य पञ्जरं भुवनत्रयम् ॥ १२७ ॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ १२८ ॥ भयमेकमनेकेभ्यः शत्रुभ्यो विधिवत्सदा। ददासि तच्च ते नास्ति राजन् चित्रमिदं महत् ॥ १२९ ॥ इति श्लोकैर्गुरुश्लोकः स्तुतो राजा तमस्तवीत्। यत्र त्वं सा सभा धन्यावस्थेयं तन्ममान्तिके ॥ १३०॥ इति राज्ञा ससन्मानमुक्तोऽभ्यणे स्थितो यदा। तेन साकं ययौ दक्षः स कुंडंगेश्वरे कृती ॥१३१ ॥ व्यावृत्य द्वारतस्तस्य पश्चादागच्छतः सतः। प्रश्नः कृतोऽन्यदा राज्ञा देवावशां करोषि किम् ॥ १३२॥ नतिं किं न विधत्से च सोऽवादीद्भूपते शृणु। महापुण्यस्य पुंसस्ते पुर एवोच्यते मया ॥ १३३॥ जल्पितात्प्राकृतैः सार्द्ध कः शोषयति थूकृतम् । असहिष्णुः(ष्णू) प्रणामं मेऽसकौ कुर्वे ततः कथम्॥१३४॥ ये मत्प्रणामसोढारस्ते देवा अपरे ननु । किं भावि प्रणम त्वं द्राक् प्राह राजेति कौतुकी ॥ १३५ ॥ देवान्निजप्रणम्यांश्च दर्शय त्वं वदन्निति। भूपतिर्जल्पितस्तनोत्पाते दोषो न मे नृप ॥ १३६ ॥ . राजाह देशांतरिणो भवंत्यद्भुतवादिनः। देवाः किं धातुभृद्देहिप्रणामेऽप्यक्षमा केष ॥ १३७ ॥ श्रुत्वेति पुनरासीनः शिवलिङ्गस्य स प्रभुः। उदाजह्वे स्तुतिश्लोकान् तारस्वरकरस्तदा ॥ १३८ ॥ तथाहि-प्रकाशितं त्वयैकेन यथा सम्यग्जगत्रयम् । समस्तैरपि नो नाथ वरतीर्थाधिपैस्तथा ॥ १३९ ॥ विद्योतयति वा लोकं यथैकोपि निशाकरः। समुद्गतः समग्रोपि तथा किं तारकागणः॥ १४०॥ त्वद्वाक्यतोऽपि केषांचिद्बोध इति मेऽद्भुतम् । भानोर्मरीचयः कस्य नाम नालोकहेतवः ॥ १४१॥ नो वाद्भुतर्मुलूकस्य प्रकृत्या क्लिष्टचेतसः। . स्वच्छा अपि तमस्त्वेन भासन्ते भास्वतः कराः॥ १४२ ॥ १JH करं० २J H. सतापि. ३ JH न सहि. ४ JH भूपतिजल्पनस्तोनात्पादौ षोनमे. ५ ऋषे इति स्यात्. ६JH मुनि. ७ P मल्लकस्य. Page #109 -------------------------------------------------------------------------- ________________ श्रीवृद्धवादिप्रबन्धः । इत्यादि-न्यायावतारसूत्रं च श्रीवीरस्तुतिमप्यथ । द्वात्रिंशच्छुोकमानाश्च त्रिंशदन्याः स्तुतीरपि ॥ १४३ ॥ ततश्चतुश्चत्वारिंशद्वृत्तां स्तुतिमसौ जगौ । कल्याणमन्दिरेत्यादि विख्यातां जिनशासने ॥ १४४ ॥ अस्य चैकादशं वृत्तं पठतोऽस्य समाययौ । धरणेंद्रो दृढा भक्तिर्न साध्यं तादृशां किमु ॥ १४५ ॥ शिवलिंगात्ततो धूमस्तत्प्रभावेण निर्ययौ । यथांधतमसस्तोमैर्मध्याह्नेपि निशाभवत् ॥ १४६ ॥ यथाविह्वलितो लोको नंष्टुमिच्छन् दिशो नहि । अंज्ञासीदाश्मनस्तंभभित्तिष्वास्फालितो भृशम् ॥ १४७ ॥ ततस्तत्कृपयेवास्माद् ज्वालामालौ विनिर्ययौ । मध्येसमुद्रमावर्त्तवृत्तिसंवर्त्तकोपमा ॥ १४८ ॥ ततश्च कौस्तुभस्येव पुरुषोत्तमहत्स्थिते । प्रभोः श्रीपार्श्वनाथस्य प्रतिमा प्रकटाभवत् ॥ १४९ ॥ ततः परमया भक्त्या स्तुत्वा नाथं प्रणस्य च । मुक्तात्मानो मी देवा मत्प्रणामं सहिष्णवः ॥ १५० ॥ प्रतिबोध्येति तं भूपं शासनस्य प्रभावना । व्यधीयत विशालायां प्रवेशद्युत्सवात्पुरि ॥ १५१ ॥ युग्मम् वत्सराणि ततः पंच संघोमुष्य मुमोच च । १०१ चक्रे च प्रकटं श्रीमत्सिद्धसेनदिवाकरम् ॥ १५२ ॥ शिवलिङ्गादुदैचत्र कियत्कालं फणावलिः । लोकोऽप्यर्चश्च तां पश्चान्मिथ्यात्वदृढरङ्गभूः ॥ १५३ ॥ एकदापृच्छय राजानं बलादप्रतिबद्धधीः । विजहार प्रभुस्तस्मात्संघकासारवारिजम् ॥ १५४ ॥ गीतार्थैर्यतिभिः सार्द्धं दक्षिणस्यां स संचरन् । भृगुकच्छपुरोपान्ते प्रादेशभुवमाप सः ॥ १५५ ॥ तत्रासन्नगरग्रामगोव्रजारक्षकास्तदा । सूरेः संमिलितास्तत्र धर्मश्रवणसस्पृहाः ॥ १५६ ॥ कुत्राप्यविस्मितानस्मान् यूयं प्रभर्यंतश्चिरम् । मार्गभ्रमश्रमायस्ताः किं ब्रूमः कल्मषापहम् ॥ १५७ ॥ J Homit अस्य समा. २ P अज्ञार्थाचाश्य न. ३ JH omit माला. ४ J H व्यधायत् विशालायां प्रवेशोत्सवात्पुरि. ५ P ततः श्रीपार्श्वनाथं च संघो मुमोच च insteed. ६ P शवलिंगादुदेवात्र कियत्कालार्चितं वलिः, लोकोऽव्यर्थकृतां. ७ P प्रश्नयनिस्थिरं. Page #110 -------------------------------------------------------------------------- ________________ १०२ प्रभावकचरिते ते प्रोचुराग्रहादत्र तरुच्छायासु विश्रमम् । विधाय धर्मव्याख्यानं दास्यामो गोरसानिव ॥ १५८ ॥ सूरयस्तत्सदभ्यस्तगीतं हुंबडकैस्तदा । भ्रान्त्वा भ्रान्त्वा ददानाश्च तालमानेन तालिकाः ॥ १५९ ॥ प्राकृतोपनिबन्धेन सद्यः सम्पाद्य रासकम् । ऊचुस्तत्प्रतिबोधार्थ तादृशामीदृगौचिती ॥ १६० ॥ तथाहि न विमारिअर न विचोरिअइ पैरदारह संगु निवारिअइ । थोवाहविथोवंदाअर वर्संणिदुगुडुगुजाइयइ ॥ १६१ ॥ तद्वाग्भिः प्रतिबुद्धास्ते तत्र ग्रामं न्यवेशयन् । धनधान्यादिसम्पूर्ण तत्तालारासिकाधिः ॥ १६२ ॥ अस्थापयंश्च तत्र श्रीनाभेयप्रतिमान्वितम् । अभ्रंलिहं जिनाधीशमन्दिरं सुरयस्तदा ॥ १६३ ॥ अचलस्थापनं तच्च तत्राद्यापि प्रणम्यते । भव्यैस्तादृक् प्रतिष्ठा हि शक्रेणापि न चाल्यते ॥ १६४ ॥ एवं प्रभावनां तत्र कृत्वा भृगुपुरं ययुः । तत्र श्रीबलमित्रस्य पुत्रो राजा धनंजयः ॥ १६५ ॥ भक्त्या चाभ्यर्हितास्तेनान्यदासावरिभिर्हतः । अवेष्टयत पुरं चैभिरमर्यादाम्बुधिप्रभैः ॥ १६६ ॥ भीतः स चाल्पसैन्यत्वात्प्रभुं शरणमाश्रयत् । तैलकूपेऽभिमंत्र्यासौ सर्षपप्रस्थमक्षिपत् ॥ १६७॥, ते सर्षपा नरीभूयासंख्याः कूपाद् विनिर्ययुः । तैः शत्रूणां बलं भग्नं हतास्ते परिपन्थिनः ॥ १६८ ॥ सिद्धसेन इति श्रेष्ठा तस्यासीत्सान्वयाभिधा । राजा तु तत्र वैराग्यात्तत्पार्श्वे व्रतमग्रहीत् ॥ १६९ ॥ एवं प्रभावनास्तत्र कुर्वतो दक्षिणापथे । प्रतिष्ठानपुरं प्रापुः प्राप्तरेखाः कविव्रजे ॥ १७० ॥ आयुः क्षयं परिज्ञाय तत्र प्रायोपवेशनात् । योग्यं शिष्यं पदे न्यस्य सिद्धसेनदिवाकरः ॥ १७१ ॥ १ J H० हावच. २ P विधाय धर्मं व्याख्यात दायासो गोरसामिव. JH सूक्ष्म for स्तत्स. ४ P अप्पु for संगु. ५ P थोबा थोबूंदाई अई. ६. P तनुसग्मिटुगुहुगुजाईइ. ७P ०र्ण तत्तालारासकच्छिधः । • P अवेष्टित. Page #111 -------------------------------------------------------------------------- ________________ श्रीमल्लवादिप्रबन्धः । दिवं जगाम संघस्य ददानोऽनाथताव्यथाम् । तादृशां विरहे को न दुःखी यदि सचेतनः ॥ १७२ ॥ वैतालिको विशालायां ययौ कश्चित्ततः पुरात् । सिद्धश्रीत्यभिधानाया मिलितोसौ प्रभोः स्वसुः ॥ १७३॥ तत्राह स निरानन्दं पदद्वयमनुष्टुभः । उत्तरार्धे च सावादीत् स्वमतेरनुमानतः ॥ १७४ ॥ तथाहि - स्फुरन्ति वादिखद्योता साम्प्रतं दक्षिणापथे । नूनमस्तंगतो वादी सिद्धसेनो दिवाकरः ॥ १७५ ॥ साप सापायतां काये विमृश्यानशनं व्यधात् । गीतार्थविहिताराधनयासौ सद्गतिं ययौ ॥ १७६ ॥ प्रभोः श्रीपादलिप्तस्य वृद्धवादिगुरोस्तथा । श्रीविद्याधरवंशत्वनियामकमिहोच्यते ॥ १७७ ॥ संवत्सरशते पञ्चाशता श्रीविक्रमार्कतः । साग्रेजा कुटिनोद्धारे श्राद्धे न विहिते सतिं ॥ १७८ ॥ श्री रैवताद्रिमूर्धन्यश्रीनेमिभवनस्य च । वर्षाश्रस्तमठात्तत्र प्रशस्तेरिदमुद्धृतम् ॥ १७९ ॥ इत्थं पुराणकविनिर्मितशास्त्रमध्यादाकर्ण्य किंचिदुभयोरनयोश्चरित्रम् । श्रीवृद्धवादिकविवासवसिद्धसेन वादीन्द्रयोरुदितमस्तु धिये मुद्दे वा ॥ १८० ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा १०३ चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी प्रद्युम्नसूरीक्षितः शृङ्गोऽभूदमलोऽष्टमः सुचरितं श्रीवृद्धसिद्धाश्रितम्॥१८१ ॥ इति श्रीवृद्धवदिप्रबन्धः । ग्रन्थाः ॥ १९० ॥ उभयम् ॥ १६८९ ॥ श्रीमल्लवादिप्रबन्धः । सँ जयति हरिभद्रसूरिरुद्यन्मतिमदतारकभेदबद्धलक्षः । शरभ व शक्तिधिकृतारिगुरुवजलोदयदंगसंगतश्रीः ॥ १ ॥ १ P गे. २ P द्वा. ३P सत. ४J विधे P मुदेव. ५J Homit it ६J H १६८६ Pomits स. Page #112 -------------------------------------------------------------------------- ________________ १०४ प्रभावकचरिते कुसुमविशिखमोहशत्रुपाथो निधिनिधनाश्रयविश्रुतः प्रकामम् । स्थिरपरिचयगाढरूढमिथ्या_ ग्रहजलबालकशैलवृद्धिविनः॥२॥ जिनभटमुनिराजराज कलशभवो हरिभ्रद्रसूरिसत्वैः। वरचरितमुदीरयेऽस्य बाल्या दविगणयन्मतितानवं खकीयम् ॥ ३॥ युग्मम् इह निखिलकुहूकृतोपकारा दहिमरुचिः शशिना निमश्रितो नु। रुचिरतररुचिप्रकाशिताशः प्रभवति यत्र निशासु रत्नराशिः॥४॥ जगदुपकृतिकारिणोर्बहिष्कृ द्रविशशिनोः शिथिलः समैक्षि मेरुः । शिरसि वसतिदस्तु शिश्रिये यस्त्रिदिविभिरस्ति स चित्रकूटशैलः ॥५॥ बहुतरपुरुषोत्तमेशलीला भवनमलं गुरुसात्विकाश्रयोऽतः। त्रिदिवमपि तृणाय मन्यते य नगरवरं तदिहास्ति चित्रकूटम् ॥ ६॥ हरिरपरवपुर्विधाय यं स्वं क्षितितलरक्षणदक्षमक्षताख्यम् । असुरपरिवृढव्रजं विभिन्ने स नृपतिरत्र बभौ जितारिनामा ॥७॥ चतुरधिकदशप्रकारविद्या स्थितिपठनोन्नतिरग्निहोत्रशाली। अतितरलमतिः पुरोहितोऽभूत् नृपविदितो हरिभद्रनामचिंत्तः ॥ ८॥ परिभवनमतिमहावलेपात् क्षितिसलिलांबरवासिनां बुधानाम् । अवदारणजालकाधिरोह ण्यपि स धौ त्रितयं जयाभिलाषी ॥९॥ स्फुटति जठरमत्र शास्त्रपूरादिति स धावुरे सुवर्णपट्टम् । मम सममतिरस्ति नैव जंबूक्षितिवलये वहते लतां च जंब्वाः ॥१०॥ १J H. राजकल. २J H. कृपदितो हरिभद्रनागचित्तः. अव Page #113 -------------------------------------------------------------------------- ________________ श्रीमल्लवादिप्रबन्धः। १०५ अथ यदुदितमत्र नावगच्छाम्यहमिह तस्य विनेयतामुपैमि । इति कृतकृतिदुस्तरप्रतिशः कलिसकलज्ञतया स मन्यते स्वम्॥११॥ त्रिभिर्विशेषकम् । अथ पथि संचरनरसुखासनस्थो बहुतरपाठकवर्णिकीर्णः। अलिकुलकलितं कपोलपाल्यां मदजलकर्दमदुर्गमीकृतक्ष्माम् ॥१२॥ विपणिगृहसमूहभंगभीत__ भ्रमदतिशोकविहस्तलोकदृश्यम् । कुमरणभयभीतमंझुनश्यद् द्विपदचतुष्पदहीनमार्गहेतुम् ॥१३॥ विधुरविरुतिरुतिसन्निपातपूरै- . रतिपरिखेदितगेहिवासमय॑म् (१). गजपरिवृढमैक्षतोत्तमांग त्वरितविधूननधूतादिवृन्दम् ॥१४॥ त्रिभिर्विशेषकम् प्लवग इव यथा तरूच्चशृंगात् कुसुमगणं प्रविचित्य तिग्मभानुम् । प्रतिविसृजति चंचलस्वभावा जिनगृहमेष तथा द्विजोऽध्यरोहत् ॥१५॥ बलजवलयदर्शनोव॑दृष्टिः .. कथमपि तीर्थपतिं ददर्श सोऽथ। . अषदविदितोत्तमार्थतत्त्वो भुवनगुरावपि सोपहासवाक्यम् ॥१६॥ तथाहि-वपुरेव तवाचष्टे स्पष्टं मिष्टान्नभोजनम् । नहि कोटरसंस्थेऽग्नौ तरुर्भवति शादलः ॥१७॥ गजमिह पररथ्यया प्रबुध्य __व्यवहितमत्र पैटुवजैर्ऋमद्भिः। निजमथ निलयं ययौ पुरोधा स्तृणमिव सर्वमपीह मन्यमानः ॥१८॥ परतरदिवसेऽथ राजसौधा. दवसितमंत्रविधेयकार्यजातः । प्रतिनिजनिलयं प्रयानिशीथे स्वरमशृणोन्मधुरं स्त्रियो जरत्याः ॥१९॥ १P omits विशेषकं अथ पथि 'क्ष्माम् ॥१२॥j संचरन्नसु. २JH. विधुरविरुतिसन्निपातपूरैरतिपरैरेव दितगेहिवासमत्या P. वासमृ]. ३JH वासमत्या. ४ P साति. ५ P बहु. मायतत्त्वा Page #114 -------------------------------------------------------------------------- ________________ १०६ प्रभावकचरिते प्रकटतरमतिः स्थिरप्रतिज्ञो ध्वनिरहितावसरेऽवधारयन्सः । व्यमृशदथ नचाधिगच्छति स्म श्रुतविषमार्थकदर्थितः स गाथाम् ॥ २०॥ सा चेयम्-चक्किदुगं हरिपणगं पणगं चक्की ण केसवो चक्की । केसवचक्की केसवदु चक्कीकेसीयचक्कीय ॥२१॥ अवददिति यदम्ब चाकचिंक्यं बहुतरमत्र विधापितं भवत्या। इह समुचितमुत्तरं ददौ सा शृणु ननु पुत्रक गोमयार्द्रलिप्तम् ॥२२॥ इति विहितसदुत्तरेण सम्यक् स च वदति स्म चमत्कृतिं दधानः । निजपठितविचारणं विधेहि __ त्वमिह सवित्रि न वेद्यहं त्वदर्थम् ॥ २३ ॥ अवददथ च सा यथा गुरोर्नोऽ नुमतिरधीतिविधौ जिनागमानाम् । न विवृतिकरणे विचारमिच्छु यदि हि तदा प्रभुसंनिधौ प्रयाहि ॥ २४ ॥ वचनमिति निशम्य सोऽपि ध्यौ परिहृतदर्पभरः पुरोहितेशः। अपि गुरुपुरुषैर्दुरापमध्ये परिकलना न समस्ति वाङमयेऽस्मिन् ॥ २५ ॥ जिनमतगृहिगेहचन्द्रशाला ___ यदियमुपैति ततो हि जैनसाध्वी । जिनपतिमुनयो गुरुत्वमस्या विदधति तन्मम तेऽपि वन्दनीयाः॥ २६ ॥ सकलरिहतिर्ममागतेयं दुरतिगमा वचनस्य यत् प्रतिष्ठा । व्यमृशदथ स गेहमागतः स्वं तदनु विनिद्रितया निशां च निन्ये ॥ २७ ॥ १JH. यत्सः. २JH. केसवदुच्चक्क केसीयच्चकाय. ३ J H. निज.. ४ JH सकलपरिहति ममागनेयं दुरतिगमा च तस्य यत्प्रतिष्टा. Page #115 -------------------------------------------------------------------------- ________________ श्रीमल्लवादि प्रबन्धः । १०७ अथ दिवसमुखे तदेकचित्तोऽगमदिह वेश्मनि तीर्थनायकस्य । हृदयवसतिवीतरागबिम्बं बहिरपि वीक्ष्य मुदा स्तुतिं प्रतेने ॥ २८॥ तथाहि-वपुरेव तवचष्टे भगवन् वीतरागताम् । न हि कोटरसंस्थिताग्नौ तरुर्भवति शाद्वलः ॥ २९ ॥ दिवसगणमनर्थकं स पूर्व स्वमभिमान कदयमानमूर्तिः । अमनुत सततश्च मण्डपस्थं जिनभटसूरिमुनीश्वरं ददर्श ॥ ३० ॥ हरिमिव विबुधेशवृन्दवंद्यं शमनिधिसाधुविधीयमानसेवम् । तमिह गुरुमुदीक्ष्य तोषपोषात्समजनि जनितकुवासनावसानः ३१ हृतहृदय इव क्षणं स तस्थौ तदनु गुरुर्व्यमृशत्स एव विप्रः । य इह नु विदितः स्वशास्त्रमंत्र प्रकटमतिर्नृपपूजितो यशस्वी ॥ ३२॥ मदकलगजरुद्धराजवर्त्मभ्रमवशतो जिनमन्दिरान्तरस्थम् । जिनपतिमपि वीक्ष्य सोपहासं वचनमुवाच मदावगीतचित्तः ॥३३॥ युग्मम् 1 इह पुनरधुना ययावकस्माज्जिनपतिबिम्बमथादरात्स वीक्ष्य । अतिशयितरचित्तैरंगसंगी स्तवनमुवाच पुराणमन्यथैव ॥ ३४ ॥ भवतु ननु विलोक्यमेतदग्रे तदनु जगाद मुनीश्वरो द्विजेशम् । निरुपमधिषणानिधे शुभं ते कथय किमागमने निमित्तमत्र ॥ ३५ ॥ न्यगददथ पुरोहितो विनीतं किमनुपमप्रतिभोऽहमस्मि पूज्याः । जिनमतजरतीवचो मयैकं श्रुतमपि नो विवरीतुमत्र शक्यम् ॥ ३६ ॥ अपरसमयवित्तशास्त्रराशिं व्यमृशमहं तु न चक्रिकेशवानाम् । क्रमममुमुदितं तया प्रबुध्ये तदिह निवेदयत प्रसद्य मेऽर्थम् ॥ ३७ ॥ अथ गुरुरपि जल्पति स्म साधो जिनसमयस्य विचारणव्यवस्थाम् । शृणु सुकृतमते प्रगृह्य दीक्षां तदनुगता च विधीयते तपस्या ॥ ३८ ॥ विहितविनयकर्मणा च लभ्यो मिलदचलातलमौलिनानुयोगः । इति तदवगमोऽन्यथा तु न स्यात्यदुचितमाचर मा त्वरां विधास्त्वम् अथ स किल समस्तसंगहानिं सकलपरिग्रहसाक्षिकं विधाय । गुरुपुंरत उपाददे चरित्रं परिहृतमन्दिरवेष इष्टलोचः ॥ ४० ॥ गुरुरवददथागमप्रवीणा यमियर्तिनीजनमौलिशेखरश्रीः । मम गुरुभगिनी महत्तरेयं जयति च विश्रुतजाकिनीति नाम्नी ॥ ४१॥ अभणदथ पुरोहितोऽनयाहं भवंभवशास्त्रविशारदोपि मूर्खः । अतिसुकृतवशेन धर्ममात्रा निजकुलदेवतयेव बोधितोऽस्मि ॥ ४२ ॥ १ P omits चष्टे शाद्वलः २ JH. अमनुनमंतश्च. ३ JH अतिशयितचित्त रंगसंगास्तमव्य. ४J H. णावलभ्यो मिलदिलात. ५JP हानि. ६ JH यमियनाजन JH नवनवशास Page #116 -------------------------------------------------------------------------- ________________ १०८ प्रभावकचरिते अयमवगतसाधुधर्मसारः सकलमहाव्रतधूधुरंधरश्रीः। गुरुमगदथ प्रवर्तमानागमगणसारविचारपारदृश्वा ॥४३॥ अधिकरणिकशास्त्रसुप्रसन्नानुगतिविलोल इयहिनानि जज्ञे। त्वदपरिचयमूर्छितो मुनीशःप्रचिकटिषुर्निजमासुतीवलत्वम् ॥४४॥ धृतधृतिरधुना शुभानुभावात् श्रुतभरसागरमध्यलीनचित्तः। अनधिगतविमुक्तपद्मवासाप्रियविरहप्रभृतिव्यथस्त्वभूवम् ॥ ४५ ।। गुरुरिदमवधार्य धर्मशास्त्राध्ययनसुपाठनकर्मलब्धरेखम् । सुरचितसुकृतोपदेशलीलं निजपदमंडनमादधौ सुलग्ने ॥ ४६॥ अनुचरितपुराणपादलिप्तप्रमुखसमो हरिभद्रसूरिरेषः। कलिसमययुगप्रधानरूपो विमलयति क्षितिमंहिसंक्रमेण ॥ ४७ ॥ अपरदिवि निजौ सजामिपुत्रौ पितृकुलकर्कशवाक्यतो विरक्तौ । प्रहरणशतयोधिनी कुमारौ बहिरचनावुदपश्यदात्तचिंतौ ॥४८॥ अथ चरणयुगं गुरोः प्रणम्य प्रबभणतुहतो विरागमेतौ । तदनु गुरुरुवाच वासना चेन्मम स विधिवतभारमुद्वहेथाम् ॥४९॥ तदनु मतिमवाप्य चैष हंसं स परमहंसमदीक्षयत्ततोऽथ । व्यरचयत स तौ प्रमाणशास्त्रोपनिषदि कुश्रुतपाठशुद्धबुद्धी॥५०॥ अथ च सुगततर्कशास्त्रतत्वाधिगममहेच्छतया गुरुक्रमेभ्यः । अवनितलमिलल्ललाटपट्टौ सुललितविज्ञपनां वितेनतुस्तौ ॥५१॥ दुरधिगमतथागतागमानामधिगमनाय सदाहितोद्यमौ तौ ।। प्रदिशत नगरं यथा तदीयं प्रतिनिजबुद्धिपरीक्षणाय यावः ॥५२॥ गुरुरपि हृदये निमित्तशास्त्रादधिगतमुत्तरकालमाकलय्य । अवददिति शुभं न तत्र वीक्ष्येभ्युपगममेनमतो हि माद्रियेथाः ॥५३॥ ननु पठतमिहैव देशमध्ये गुणियतिनायकसन्निधौ तु वत्सौ । मतिरतिशयभासुरापि केषांचिदपि परागेमवेदिनी समस्ति ॥५४॥ गुरुमिह विरहय्य कः कुलीनः पथि निरपायतमेऽपि बंभ्रमीति । कथमवगतदुर्निमित्तभावे तदिह ननोऽनुमतिर्दुरंतैकार्ये ॥ ५५ ॥ अवदथ विहस्य हंसनामा गुरुजनयुक्तमिदं तु वत्सलत्वम् । भवदनुचरणात् प्रभाववंतौ किमु शिशुको परिपालितौ न पूज्यैः ५६ अपशकुनगणः करोतु किंवाऽध्वनि परपुर्यपि चेतनायुतानाम् । अविरतमभिरक्षति क्षतान्नौ चिरजपितो भवदीयनाममन्त्रः ॥ ५७॥ दुरधिगमदविष्ठदेश्यशास्त्राधिगमकृते गमनादथागमाच्च । क इव नु विगुणः कृतज्ञतायाः क्षतिकरणस्तदिदं विधेयमेव ॥ ५८॥ १P omits मलयति''प्रहरणशतयेधिनौ. २ P परागमावदि. ३ JH दुरितं P कार्य. ४J H वरपूर्यपि ''नं. Page #117 -------------------------------------------------------------------------- ________________ १०९ हरिभद्रसूरिप्रबन्धः। अवददथ गुरुर्विनेययुग्मं हितकथने हि न औचिती भविष्यत् । भवति खलु ततो यथेहितं वा विदधतमुत्तममद्य निंदितं वा ॥५९ ॥ अथ सुगतपुरं प्रतस्थतुस्तावगणितगुरुगौरवोपदेशौ। अतिशयपरिगुप्तजैनलिङ्गौ न चलति खलु भवितव्यतानियोगः॥६०॥ कतिपयदिवसैरवापतुस्तां सुगतमतप्रतिबद्धराजधानीम् । परिकलितकलावधूतवेषावतिपठनार्थितया मठं तमाप्तौ ॥ ६१ ॥ पठनविधिकृते विहारमालाविपुलतरास्ति च तत्र दानशाला । सुगतमुनियतिश्च तत्र शिष्याननवरतं किल पाठयेद्यथेच्छम् ॥६२॥ अतिसुखकृतभुक्तितः पठन्तौ सुविषमसौगतशास्त्रजातमत्र । परबुधजनदुर्गमार्थतत्त्वं कुशलतया सुखतोऽधिजग्मतुस्तौ ॥ ६३॥ जिनपतिमतसंस्थिताभिसंधि प्रतिविहितानि च यानि दूषणानि । निहतमतितया यतेर्निरीक्षातिशयवशेन निजागमप्रमाणैः ॥ ६४ ॥ दृढमिह परिहत्य तान् हि हेतून विशदतरान् जिनतर्ककौशलेन । सुगतगतनिषेधदाळयुक्तान् समलिखतामपरेषु पत्रकेषु॥६५॥युग्मम् इति रहसि च यावदाददाते गुरुवमानविलोडितं हि तावत् । अपगतममुतः परैश्च लब्धं गुरुपुरतः समनायि पत्रयुग्मम् ॥६६॥ अवलोकयतोऽस्य हेतुदाय प्रतिनिजतर्कमुद्ग्रदूषणेषु । जिनपतिगतदूषणेषु पक्षेष्वजयमभून्मनसि भ्रमो महीयान् ॥६७ ॥ अभणदथ सविस्मयातिरेकात्पिपठिषुरर्हदुपासकोऽस्ति कश्चित् । अपर इह मदीयदूषितं कः पुनरपि भूषयितुं समर्थबुद्धिः ॥ ६८ ॥ स्फुरति च क उपाय ईदृशस्याधिगमविधाविति चिन्तयन् स तस्थौ । क्वचिदमलधियामपि स्खलन्ति प्रतिपद ईदृशि कुत्रचिद्विधेये॥६९॥ उदमिषदथ बुद्धिरस्य मिथ्याग्रहमकराकरपूर्णचन्द्ररोचिः। अवददथ निजान् जिनेशबिम्बं बलजपुरो निर्धध्वमध्वनीह ॥७॥ तदनु शिरसि तस्य भो निधाय क्रमणयुगं हि समागमो विधेयः । इदमपिन करिष्यति प्रमाणं मम पुरतोऽध्ययनं समाविधत्ताम् ७१ गुरुवचनमिदं तथैव बौद्धैः कृतमखिलैरपशंखलैः खलैस्तैः। अथ मनसि महार्तिसंगतौ तौ विममृशतुः प्रकटं हि संकटं नः॥७२॥ न विर्दधे च यदिह क्रमौसशूको प्रतिकृतिमूर्धनि लक्षितौ तदानीम् नहि पुनरपि जीविते किलाशा विकरुणमानसपाठकादमुष्मात् ७३ १JH अथ. २ P संध्यं. ३JH ददाने गुरुवचसा न०. ४P यि पुत्रः ५JH पतिमवभूषणेषु पक्षेथ. ६J H निददध्वनाह. ७JH खरैस्तैः. ८ P धिचयदिह. 10 Page #118 -------------------------------------------------------------------------- ________________ ११० - प्रभावकचरिते बलिमिह पदयोः क्रियावहे सद्गुरुहरिभद्रमुनीश्वरस्य तस्य । अतिदुरितमनागतं विचार्य व्रजनविधिं प्रतिषेधति स्म यः प्राक् ॥ अविनयफलमावयोस्तदुग्रं समुदितमत्र विनिश्चितं तथैतत् । न चलति नियमे न दैवदृष्टं निजजनने सकलङ्कता मृतिर्वा ॥ ७५॥ नरकफलमिदं न कुर्वहे श्रीजिनपतिमूर्द्धनि पादयोर्निवेशः। परिशटिततरौ वरं विभिन्नौ निजचरणौ नतु जैनदेहलग्नौ ॥ ७६ ॥ निधनमुपगतं यथा तथा वा तदिह च साहसमेव संप्रधार्यम् । इति दृढतर आवयोर्निबन्धः प्रतिकृतमत्र कृते विधेयमेव ॥ ७७ ॥ तदनु च खटिनीकृतोपवीतौ जिनपतिबिम्बहृदि प्रकाशसत्वौ। शिरसि च चरणौ निधाय यातौ प्रयततमैरुपलक्षितौच बौद्धैः॥७८॥ प्रतिघवशकडारकेकरा:रतिकुशलैरवलोकितौ च तैस्तौ । गुरुरवददहो पुनः परीक्षामपरतरां सुगतद्विषोर्विधास्ये ॥ ७९ ॥ स्थिरतरमनसस्तदाध्वमद्य प्रतिविधये हि न चादरो विधेयः। सुरशिरसि च पादपातमुख्यं न हि समधीनिधयोपि सन्निध्युः ८० अथ च कृतमिहोपवीतमेतत् प्रतिकृतमत्र कृते दृढत्वचिह्नम् । दृढमतिरपरोपि कश्चिदीदृग्नहि विदधाति यथाविकर्मभीतः ॥ ८१॥ परनगरसमागताश्च विद्यार्थिन इह नैव मया कदर्थनीयाः। भवति च कुयशोभरस्तत्र प्रतिकरणं कुपरीक्षितं न कार्यम् ॥८२॥ इति वचनममुष्य ते निशम्य स्थितिमभजन गुरुणा जना निरुद्धाः। शयनभुवि गृहोपरि स्थितानां प्रतिदिशि यामिक एक एव चक्रे८३ जिनगुरुशरणं विधाय रात्राविह शयितौ परमेष्ठिनः स्मरन्तौ । समगंतच(मच्च)तयोरनिच्छतोरप्यसुखभरेऽसुलभा तदाप्रमीला८४ प्रतनुतमघटावली तदोर्द्धावनितलतः सविमोचयांबभूव । खडखडखडिति स्वरेण शय्यां विजहुरमी विरसं तदा रटन्तः॥८५॥ निजनिजकुलदेवताभिधास्तेऽभिदधुरिहाद्भुतसम्भ्रमेण तौ च । जगृहतुरथ जैननाम तेषां नरयुगलं मतमित्यभूच शब्दः॥ ८६ ॥ अथ निधनभयेन साहसिक्याद्वरतरमापयिकं तु लब्धवन्तौ। अनवरतमहातपत्रवृन्दात्तत उवध्यत तद्युगं स्वदेहे ॥ ८७ ॥ तनुरुहयुगपत्ततः पृथिव्यां मुमुचतुरंगमथोर्द्धभूमितस्तौ । मृदुशयनतलादिवोत्थितौ चाप्रहततनू कुशलादुदग्रबुद्ध्या ॥ ८८ ॥ १JH बल मिहपटयोः. २ J_H प्रकाशकृतौ. ३ JH ख्यतदि समधीसिद्ध०. ४ JH तु परीक्षतः न कार्य. ५P परमेष्ठिनस्मरन्तौ. ६JH समगमवतयोरनिथतोरथ्य. Page #119 -------------------------------------------------------------------------- ________________ हरिभद्रसूरिप्रबन्धः । लघुतरचरणप्रचारवृत्त्या द्रुतमपचक्रमतुः पुरात्तदीयात् । मतिविभववशादबुद्धयानी वलयति कं न मतिर्हि सुप्रयुक्ता ॥ ८९॥ त्रिभिर्विशेषकम् । हतहत परिभाषिणस्तयोस्ते ऽनुपदमिमे प्रययुर्भदास्तदीयाः । अतिसविधमुपागतेषु हंसोवददिति तत्र कनिष्ठमात्मबन्धुम् ॥ ९०॥ व्रज झगिति गुरोः प्रणामपूर्व प्रकथय मामकदुष्कृतं हि मिथ्या । अभणितकरणान्ममापराधः कुविनयतो विहितः समर्षणीयः ॥९१॥ इह निवसति सुरपालनामा शरणसमागतवत्सलः क्षितीशः । नगरमिदमिहास्य चक्षुरीक्ष्यं निकटतरं व्रज सन्निधौ ततोऽस्य ॥९२॥ इति सपदि विसर्जितोऽपि तस्थौ क्षणमेकं स तु तैः सहस्रयोधी । गततनुममतस्त्वा (स्तु) युद्ध्यते तैः हवहृतधन्वशरावलिंभिर्हसः ९३ अतिविपुलतया शिलीमुखानां तितउरिवाजनि तस्य विग्रहश्च । अपतथसवंद्यरक्त उर्व्यामहितनरैरभवत्ततः परासुः ॥ ९४ ॥ अवरज इहमोहि (दि) तो ह्यमुञ्चन्सविधममुष्यकृपामय वाक्या (नू ?) त्वरिततरपदप्रचारवृत्त्यागमवनीपतिसूरपालपार्श्वम् ॥ ९५ ॥ शरणमिह ययौ च तस्य धीमान् तदनुपदं रिपवः पराः सहस्राः । अवनिपतिमवाप्य चैनमूचुः प्रवितर नः प्रतिपंथिनं समेतम् ॥ ९६ ॥ अवथ स को बलेन नेता ममभुजपञ्जरवर्तिनं किलैनम् । अनयिनमपि नार्पयाम्यमुं तत्किमुत कलाकलितं नयैकनिष्ठम् ॥९७॥ सुगतमतभटास्तथाभ्यधुस्तं परतरदेशनरस्य हेतवे स्वम् । धनकनकसमृद्धराज्यराष्ट्रं गमयसि हास्मदधीशकोपनात्किम् ॥९८॥ अवददिह स चोत्तरं गरीयः पुरुषगणैर्मम यहुतं व्यधायि । मरणमथ च जीवितं हि भूयात् नहि शरणागतरक्षणं त्यजामि ॥९९॥ इतरमिह दधामि चैकमेष प्रकटमतिर्विदितप्रमाणशस्त्रः । तत इममभिभूय वादरीत्योचितमिह धत्त पराजये जये वा ॥ १०० ॥ अथ वचनविचक्षणः स तेषामधिपतिराह वचस्त्विदं प्रियं नः । परमिह वदनं न दृश्यमस्य क्रमयुगलं सुगतस्य मूर्ध्नि योदात् ॥ १०१ ॥ तदनु च यदि शक्तिरस्ति तस्यां त्वरिततरः प्रतिसारयाशु हेतून् । यदि जयति स यातु कौशलान्नियतमसौ विजितस्तु वध्य एव ॥ १०२ ॥ अथ घटमुखवादिनी रहःस्था वदति तथागतशासनाधिदेवी । स्वयमिह हरिभद्रसूरिशिष्यः पुनरनयो न बभूव दृष्टिमेलः ॥१०३॥ १ HP लीभिर्हेसः । २ P विदितः प्रमाणशास्त्रः । १११ Page #120 -------------------------------------------------------------------------- ________________ ११२ . प्रभावकचरिते व्यमृशदथ सवत्सलैकनिष्ठा सुगतमते प्रभवन्ति सूरयोऽपि । अवितथमिह नो घटेत चैतत्रुटति वचो न ममापि यत्पुरस्तात्॥१०४॥ अथ बहुदिनवादतो विषण्णः स परमहंसकृती विषादमाधात् । विभयति गुरुसंकटे विचिंत्यानिजगणशासनदेवता किलाम्बा १०५ स्मृतिवशत इयं तदा सभाया जिनमतरक्षणनित्यलब्धलक्षाः। वदति च शृणु वत्स मुक्तिमस्माहुरितनराद् गुरुसत्वमूलभूमेः १०६ सुगतमतसुरी समस्ति तारा वदति निरन्तरमत्रुटद्वचः सा । मनुज इह सुरैः समं विवादी क इव भवन्तमृते समृद्धसत्वम् १०७ प्रतिवद च तमद्य दंभवादीब्रुवमसमानकृतपतिश्रवत्वम् । अनुवंदनपुरःसरं प्रजलप्यं भवति कथं तदृते हि वादमुद्रा ॥ १०८ ।। बलमिदमधुनैव तद्विनाश्यात् प्रकटतरं वदतो जयस्तवैव । अवददथ समेत्र कोन्य एव जननि विना भवतीं करोति सारां१०९ इति समुचितमुत्तरं विधायापरदिवसे विदधौ सुरी निदेशं ।। प्रतिवदितरि संझिते च मौनं स जवनिकांचलमूर्ध्निमाततान॥११०॥ कलशमथ चकार पादपातैर्विशकलमाश्रितवैपरीत्यमेषः। अवददथ सदम्भवादमुद्राब्रुवमिह कृष्टिजनाधमा भवन्तः॥ १११ ॥ वधकृतमतयोऽस्य ते ह्यमित्राः समभिहिता ननु तेन भूमिपेन । नयविजयमयः परायवृत्तः किमु वधमर्हति साधुलब्धवर्णः॥११२॥ अथ कुनयमपीममातनुध्वं यदि न सहेहमिदं निशम्यतां तत् ।। रणभुविपरिभूय मां गृहीता खलु य इमं स तु लात्त्वपातुकधीः११३ तदनु नयनसंज्ञयाथ विद्वान्ननु समकेति पलायनाय तेन । लघु लघु स पलायनं च चक्रेक इवन नश्यति मृत्युभीविहस्तः११४ द्रुतचरणगतैर्बहिः प्रगच्छन् स च निर्णेजकमेकमालुलोके । तुरगिषु सविधागतेष्ववादीत् तमिहव्रजन्त्वमिहाययौ प्रपातः ११५ स्वमतिविभवतः प्रणाशितेस्मिन् वसनविशोधनमाद्धत्तथासौ । तरलतुरगिणा च जल्पितो यन्मनुजोऽनेन पथा जगाम नैकः॥११६॥ रजक इह स तेन दर्शितोऽस्य त्वरिततरः स च शीघ्रमेव तेन । निजभटनिवहे समार्पिधृत्वा प्रतिबचलेच बलं तदीयवाक्यात्११७ निजमतिबलतस्ततः प्रकाशं विभयमनाश्चलितोभिचित्रकूटम् । अभिसमगमदिनैः कियद्भिर्गुरुचरणाम्बुरुही समागमः क्वः ॥११८॥ १JH सच बलिकनिष्टा. २ JHविभवति. ३ P भरा. ४ JH प्रविवदवत् मद्य दंभवादि ब्रुवमसमकृतप्रतिश्रुतत्त्वम्. ५ JH अथ सुवदन. ६ JH ल्या. तद्वतेहि वाच. ७JH स्याः तद जयत. ८ JH विविध सुरातिवेशम्. P निदेशां ९ कथमिहकृष्टी..... वतं. १० JH व्रमिहायवौ. ११ JH वृत्ताप्रति बलेच वत० १२ Pऊहं.. Page #121 -------------------------------------------------------------------------- ________________ ११३ हरिभद्रसूरिप्रबन्धः। इतर इति निजेशकार्यसिद्ध्या नृपतिममुं किल सांत्वयांबभूवुः । अणुतरविषये दृढं सहायं परिहरते हि क उग्रपौरुषोऽपि ॥ ११९ ॥ अथ निजगुरुसंगमामृतेन प्लुतकरणः शिरसा प्रणम्य पादौ। दृढतरपरिरब्ध एष तैश्च प्रविगलदश्रुजलो जगाद सद्यः ॥ १२० ॥ गुरुजनवचसां स्मरामि तेषां परतरदेशगतौ हि यैर्निषिद्धौ । निशमयत विभो प्रबन्धमेनं कुविनयशिष्यजनास्यतः प्रवृत्तम् १२१ इति चरितमसौ जगाद यावन्निजगुरुबन्धुपरासुतावसानम् । अथ निगदत एव हृद्विभेदं समजनि जीवहरो बली हि मोहः ॥१२२॥ विमृशति हरिभद्रसूरिरीदृक् किमु मम संकटमद्भुतं प्रवृत्तम् । . निरुपमचरितवीतरागभक्तरुदितमिदं निरपत्यतामनस्यम् ॥ १२३॥ विमलतरकुलोद्भवौ विनीतौ यमनियमोद्यमसंगतौ प्रवीणो। परमतविजयप्रकाशपंडापरिमलशोभितविद्वदर्चितांही ॥ १२४ ॥ अपि परतरदेशसंस्थशास्त्राधिगमरसेन गतौ च विप्रकृष्टम् । मदसुकृतवशेन जीवितांतं ययतुरुभावपि कर्म धिक् दुरन्तम् १२५ विनयमथ शमं स्मरामि किंवा गुरुपदसेवनमद्भुतं किमत्र । नहि मम सदृशैस्तु मन्दभाग्यैः परिचरणं ननु तादृशां विलोक्यम् ॥ मुखकृतकवलैर्विवृद्धदेही चटकशिशू इव यावजातपक्षौ । अवसर इह तौ सपक्षताया भृशमतिगम्य दृशोः पथं व्यतीतौ १२७ कलुषकुलनिवास एष देहः सुचरितकक्षवानलार्चिरुपः। इह हि किमधुना प्रधार्यतेऽसौविरहभरेऽपि सुशिक्षयोरवाप्ते १२८ विनिहततमनिर्वृतिप्रकारा कमिव विशेषमवानुमत्रधाऱ्याः । सुललितवचनौ विनेयवर्यावसव इमौ हि विना कर्यधुर्याः॥१२९॥ इति विमृशत एव सौगतानामुपरि महः समुदैनिजान्वयस्थम् । सुविहितपरिकर्मणाऽपि साध्यं न सहजमाभिजनं महत्तमेऽपि १३० अवददथ स सौगताः कृतास्ते परिभवपूर्णहृदो गृहस्थितेन । इति विनयविनेयसिंहसेनाद्भुतहतचित्तनिवृत्तिसापराधाः ॥१३॥ श्रुतविहितनयेऽपि युक्तमुक्तं सकलबलेन निवारणं रिपूणाम् । परभवगतिरस्य निर्मला नो य इह सशल्यमना लभेत मृत्युम्१३२ इति जिनपतिशासनेपि सूक्तं गुरुतरदोषमनुद्धतं हि शल्यम् । सुगतमतभृतो निवर्हणीयाः स्वसृसुतनिर्मथनोत्थरोषपोषात् १३३ १JH नामनस्यन्ति. २ JHविनिहततमनिवृत्तिप्रकारां कमिवं विशेष P omitsमवाप्नु.३ JHअजिहिंसानेनाप्लुत.४JH लालोप-शशल्य...मुक्त्यं ५ JH सत्वभंगः I...परमहंसहति...प्रसिद्धः. Page #122 -------------------------------------------------------------------------- ________________ ११४ प्रभावकचरिते इति मतिमति चेतसि प्रकामं गुरुमभिपृच्छय ययौ विना सहायम् । हृदि विगलितसंयमानुकंपो नगरमवाप च भूमिपस्य तस्य ॥ १३४॥ द्रुततरमभिगम्य पार्श्वमस्य प्रकटतरीकृतजैनलिङ्गरूपः। वदति च हरिभद्रसूरिरेवं जिनसमयप्रवराशिषाभिनंद्य ॥ १३५॥ शरणसमितवज्रपंजर त्वं शृणु मम वाक्यमशक्यसत्वभंग । इह हि मम विनेय उजिजीवे स परमहंस ईति त्वया प्रसिद्ध १३६ किमिव न तव साहसं प्रशस्यं क्षितिपशरण्यकृते हि लक्ष्यसंख्यम् । बलमवगणितं तदेतदभ्युन्नतिकरमूर्जितमस्ति नापरस्य ॥१३७ ॥ निरगममिह सांयुगीनवृत्तिः कृतिजनरीतित उन्नतप्रमाणः। अतिशयनिभनिष्टवानप्रबन्धान सुगतमते स्थितकोविदान् जिगीषुः। अवददथ स सूरपालभूपो समतवचापि विजेयतापदे ते । बलविवदननिष्टिता अजेया शलभगणा इव ते ह्यमी बहुत्वात् १३९ परमिह कमपि प्रपञ्चमठ्यं ननु विदधामि यथा भवद्विपक्षः। स्वयमपि विलयं प्रयाति येन प्रतिकूलं वचनं तु मे न गण्यम् १४० अवहितिपरवाचमेककां मे शृणु तवकाचिदजेयशक्तिरस्ति । अवदथ च कोहि मां विजेतावहति सुरी यदुदन्तमम्बिकाख्या १४१ वचनमिति निशम्य तस्य भूपः सुगतपुरे प्रजिघाय दूतमेषः । अपि स लघु जगाम तत्र दूतो वचनविचक्षण आदृतप्रपञ्चः॥१४२॥ सुगतगुरुमथ प्रणम्य तत्रावददिति भूमिपतिः स सूरपालः। स्फुरिततनुमिवेह भारतीं त्वामिति किलविज्ञपयत्यनल्पभक्तिः१४३ इह मम पुरमाजगाम चैको बुध इह बुद्धमताभियातिरूपः । भवति च भुवनत्रयप्रसिद्ध प्रतपति किंनु स एष वादिशब्दः १४४ इमिह महते त्रपाभराय प्रभवति तत् क्रियते तथा यथा सः।। निधनमविजयः स्वयं स यायात्कुरुतेऽन्योपियथा न कश्चिदित्थम्॥ दशबलमतनायकः समानप्रतिघवशो वदति स्म तं प्रमोदात् । इह जगति समस्तदेशनानाविबुधगणस्तमहं तिरश्चकार ॥ १४६ ॥ जिनसमयविशारदोऽपि कश्चिन्नवपठितो भवितात्र वावदूकः । वचनमदमहं ततो विनेष्ये गहनविकल्पसमूहकल्पनाभिः॥ १४७॥ स्वयमिह निधने कृतप्रतिज्ञः स किमु भविष्यति तद्वद त्वमेव । पटुवच इति जल्पति स्म दूतःप्रभुपुरतो मम गीःप्रवर्त्तते किम् १४८ तव पदकमलप्रसादतो वा किमिव न मे शुभमद्भुतं भविष्यत् । मतिरिति तु मम प्रकाशतोऽसौ परमिह तु प्रभुणा विचार्यकार्यम्॥ १JH सत्वभंगः I...परमहंसहति...प्रसिद्धः I २ JH मम वचापि विजेयतापदेन. ३ P किमिति. ४ P मिहमते. Page #123 -------------------------------------------------------------------------- ________________ हरिभद्रसूरिप्रबन्धः । ११५ लिखत वच इदं पणे जितो यः स विशतु तप्तवरिष्ठतैलकुण्डे । इति भवतु स्ववीप्सया प्रशंसामिह विदधेऽस्य गुरुर्विचारहृष्टः१५० विपुलमतिरथप्रगल्भदूतः पुनरपि वाचमुवाच दा_हेतोः। प्रभुचरणयुगं तथापि धाष्टात्पुनरपि विज्ञपयामि किञ्चिदत्र१५१॥ शृणुत वसुमती हिरण्यगर्भा भवति कदाचन कोऽपितत्र विद्वान् । अतिशयितमतिर्यतो जिनानां ननु भवतामवमानना हि माभूत्र५२ असदिह परिकल्पनं ममैतद्गगनतले कुसुमोद्गमेन तुल्यम् । जयिषु किल भवत्सु यत्सनाथा वयमिह तत्तु दृढं विचारणीयम्१५३ गुरुरवदद्सौ भयं किमेतद्भवति तथा भ्रम एव कस्य फल्गुः। अपि मयि चिरसेवितेपि यद्वःस्फुरति परेण विजेयताभिशङ्का१५४॥ क इव मम पुरःस कोऽपि विद्वाननधिगतस्वरप्रमाणभूमिः। मदगदमवमोचये न चैतदहमहो न निजं वहामि नाम ॥ १५५ ॥ स्वनृपतिपुरतः प्रशाधि वाचं मम विनियंत्रितवादिपौरुषस्य। वयमिह परवादिलाभतुष्टा अनुपदमेव समागमा मते यत् ॥१५६॥ वचनमिति निशम्य तस्य दूतो मुदितमनाः पुरमाययौ निजं सः। इति सुविहितबौद्धविप्रलम्भान्नृपतिमवर्द्धयदत्र सूरपालम् ॥ १५७॥ त्रिचतुरदिवसान्तरेण सोऽपि प्रभुरिह बौद्धमतस्य तत्र चायात् । अतिपरिवृढसेव्यपादपद्मोव्यधित स पूर्वपणेन वादमुद्राम् ॥१५८॥ विबुधपतिरचिन्तयन्नचासौ कथमहमस्य कृते स्मरामि ताराम् । अथ किमनया स्मृतापियासौ जितमदरिव्रजघातिनी न सद्यः१५९॥ इति स च परिचिन्त्य वादसंसोधुपहरिभद्रविशारदं समेत्य। अवददिदमनित्यमेव सर्व सदिति वचः परिसंस्कृतं यदेतत् ॥१६०॥ इह भवति च पक्ष एव हेतुर्जलधरवन्ननु संति चात्र भावाः। निगदित इति मूलपक्षजाते वदति ततःप्रतिवाद्यनूद्य सम्यक्६१॥ यदि सकलमिदं विनश्वरं तत् स्मरणविचारणचारिमा कथं स्यात्। तदिदमिह पुरावलोकितं यत्कथमियमित्यनुसंहतिर्घटेत ॥ १६२ ॥ वदति समतिसन्तति स्म तुल्या भवति सदैव सनातना मते नः। बलमिदमनु संहतश्च तस्या व्यवहरणं च तथैव वर्त्तते नः॥१६३॥ अनुवदति मुदा स्म जैनविद्वानिह मतिसन्ततिरप्रणाशिनी चेत् । सदिति सुविदितैव तत् ध्रुवं त्वानुमतिरिदं तव चात्मवाविरुद्धम् न विबुधकमनीयमेतदुच्चैः स्खसमयमूढमतिर्भवान्यदिच्छुः । ननु सकलविनश्वरत्वसन्द्यां परिहर तच्चिरकालतो विलग्नाम्॥१६५॥ इति वचननिरुत्तरीकृतोऽसौ सुगतमतप्रभुराचचार मौनम् । १P. तथासौ. २ JH. वाद संसक्व । Page #124 -------------------------------------------------------------------------- ________________ ' प्रभावकचरिते जित इति विदिते जिनैनिपेते द्रुततरमेष सुतप्ततैलकुण्डे ॥ १६६ ॥ अथ कलकल उद्बभूव तेषां दशबलविद्वदरीतिमृत्युभावात् । इति भवदपमानभारभुना भयतरला अनशनमी निरीशाः ॥ १६७ ॥ अथ विशदविशारदस्तदीयो वदनमतिः किल तद्वदेक एकः । समगतवत्तथैव पञ्चषास्ते निधनमवापुरनेन निर्जिताश्च ॥ १६८॥ दशबलमतिशासनाधिदेवी खरवचनैरुपलम्भिताथ सातैः। प्रतिघवशविसर्पिदर्पभङ्गै रणकदिनेषु सुरस्मृतिर्हि कालः ॥ १६९ ॥ ननु शृणु कटपूतनेऽत्र यस्त्वा मविरतमर्चयिता मुर्धा नरेन्द्रः। कुमरणविधिना मृतोऽधुना त ननु भवती व गतासि हन्त तारे ॥१७०॥ मलयजघनसारकुङ्कुमादि प्रकृतिविलपनधूपसारभोगैः। सुरभिकुसुमदामभिश्च सम्यक् ननु तव दृषद् इव व्यधायि पूजा ॥ १७१ ॥ दृढतरपरिपूजिता भवाक् विधुरतरावसरेऽपि सन्निधानम्। यदि न वितनुते ततः सदेहे स किमुनहि क्रियते सुवस्तुभोगः॥ १७२ ॥ सविधतरभुवि स्थिताच तारा सुकरुणमानसवासना हमीषु । अनुचितमपि जल्पतो निशम्याप्रतिघमना मृदुवागिदं जगाद ॥ १७३॥ अतिशयशुंचमाप्य यद्वराका असदृशमप्यनुवादिनो भवन्तः। १P. चिद्वदरी० JH. विद्वदारी. २ P समगतचेतथै० ३ P विसर्प ४ P अनु. ५ JH त्रायस्त्वमा. ६ P. ता सुधीन । ७ JH. शमिषुवि० ? Page #125 -------------------------------------------------------------------------- ________________ हरिभद्रसूरिप्रबन्धः। ११७ कुवचनमपि नो मयात्र गण्यं मम वच एकमिदं निशम्यताश्च ॥ १७४ ॥ अतिपरतरदेशतः समेतौ __ परसमयाधिगमाय सङ्गतौ च । जिनशिरसि पदप्रदानपापा भ्युपगमरूपनिभेऽप्यमुक्तसत्वौ ॥ १७५॥ प्रतिकृतमिह तत्कृते दधानौ झटितिरनेन हतौ पलायमानौ । नयपथपथिको महामुनी य त्तप्रकृतिकृतिरस्ति तस्य दुष्कृतस्य ॥ १७६॥ तत इति समुपेक्षितो मया य द्विलयमवाप निजैनसैव तस्मात् । विदधति ननु यस्य पक्षमुच्चै ननु मम तेपि सदा ह्युपेक्षणीयाः॥ १७७॥ इति शुचमपहाय यूयमेते । निजनिजभूमिषु गच्छताद्य धीराः। दुरितभरमहं हि वो हरिष्ये निजसन्तानसमेषु को हि मन्युः ॥ १७८ ॥ इति वचनमुदीर्य सा तिरोधा निजनिजदेशगणं ययुश्च तेऽथ । अपरतरपरेषु बौद्धवृद्धा उपशममापुरिति श्रुतप्रवृत्त्या ॥ १७९ ॥ इह किल कथयंति केचिदित्थं - गुरुतरमंत्रजयप्रभावतोऽत्र । सुगतमतबुधान् विकृष्य तप्ते ननु हरिभद्रविभुर्जुहाव तैले ॥१८०॥ अथ जिनभटसूरिरत्रकोपा द्भुतमिह शिष्यजने निजे निशम्य । उपशमनविधौ प्रवृत्तिमाधा. दिह हरिभद्रमुनीश्वरस्य तस्य ॥१८१ ॥ मृदुवचनविधिं च शिक्षयित्वा यतियुगलं प्रजिघाय तत्करे च । १ Pच तेन. २ P तत्प्रकृतिरस्ति तस्य; JH महान्यतीयत्तत्प्रतिकृतिरस्ति दुष्कृतस्य ३ P. हायुपे०. ४ JH omit this verse. ५ JH मेव तप. ६ P• नोत्र. Page #126 -------------------------------------------------------------------------- ________________ ११८ प्रभावकचरिते क्रुध उपशमनाय तस्य गाथा त्रयमिह समरदिनेशवृत्तबीजम् ॥ १८२ ॥ प्रययतुरथ तेऽपि तस्य राज्ञो नगरमिदं मिलितौ च तस्य सूरेः। वच इह कथयांबभूवतुस्तद् गुरुभिरमुं प्रति यन्निदिष्टमिष्टम् ॥ १८३ ॥ प्रतिघगुरुतरोर्भवान् फलोदा हरणमिमा अवधारयस्व गाथाः। • इति किल वदतोस्तयोः स भक्त्या गुरुलिखिताः समवाचयत्ततस्ताः॥१८४॥ तथाहि-गुणसेणअग्गिसम्मा सीहाणं दाय तहपि आपुत्ता। सिहिजालिणि माइसुआधण धणसिरिमो मोयपइभब्जा ॥ १८५॥ जय विजयाय सहोअरधरणो लच्छीअ तहप्पई भन्जा। सेण विशेणा पित्तिय उत्ताजम्मम्मि सत्तअए॥ १८६ ॥ गुंणचन्दअवाणमन्तरसमरा इव्व गिरिसेण पाणोय । एगस्सत उमुरकोऽणन्तो अन्नस्स संसारो ॥ १८७॥ इति चतुरमतिय॑मृक्षदेवं हृदि हरिभद्रविभूस्तदेतदीदृक् । अपि वनमुनिपारणस्य भङ्गे भवनचकेप्यनु वर्ततेस्म वैरम् ॥ १८८ ॥ पुनरिह मयकानुकोपदावा नलबहलार्चिरुदस्तचेतनेन । दशबलमतसङ्गिनः प्रपञ्चं विरचयिता विनिबर्हिताश्च भूम्ना ॥ १८९ ॥ अतिविरतचिरप्ररूढमिथ्या ग्रहसमयैरिव विप्रलब्धचेताः। अपि जिनमतबोधमाकलय्यासुकृतवशेन तमःप्रवेशमाधाम् ॥ १९० ॥ १JH सूरौ. २ P पियामायसुआ. ३ JH धरणो बला अत हयइ भन्जा सेणा पित्तिय उत्ता० ४ JH गुण चंदबाणमंतरा इच्चागि ञ्च एंगस्सतउ सोरेका. ५ J H °संगे भवनकेप्यमुवर्तते स्म वैरं. Page #127 -------------------------------------------------------------------------- ________________ हरिभद्रसूरिप्रबन्धः । नरकगमनदौ«दं हि जीव स्य तु ममदौहृदमायतौ दुरन्तम् । निजमिह परिबोध्य जीवमित्थेम् प्रकटमुवाच तपोधनाग्रतोऽसौ ॥ १९१॥ इह जनगुरुवत्सलत्वबुद्ध रनृणविधिः किमवाप्यते कथञ्चित् । नरकगतिसमीपगामिनं मां प्रति घटते भृशमुद्दिधीर्षया यः ॥ १९२॥ त्रिविधमथ विरोधमौझ्य सूरि भृशमभिपृच्छ्य च तं नृपं महेच्छः। निरगमदविलम्बितप्रयाणैः समगत शीघ्रमसौ गुरुक्रमाणाम् ॥ १९३॥ शिरसि च विनिधाय तान्नतास्योऽ__ गददथ गद्गदगीभरः स तत्र । गुणविशदविनेयमोहतोऽहम् प्रभुचरणाम्बुजसेवया वियुक्तः ॥१९४॥ श्रुतविहिततपः प्रदाय बाढं मम कलुषं परिशोधयध्वमाशु । अविनयसदने विनेयपाशे प्रगुणतरां मतिमातनुध्वमुश्चैः ॥ १९५॥ गुरुरिह परिरभ्य गाढमेनं कृतविजिनार्हतपः प्रदाय चावा । कलुषसुकृतयोर्विधौ समर्था ननु हरिभद्रसमाः क्व सन्ति शिष्याः ॥ १९६॥ खरतरतपसा विशोषयंतं ___ तनुमतनुः स विनेययोर्वियोगः । परिदहति भृशं मनस्तदीयं जलनिधिमौर्व इव प्रकाशकीलः ॥ १९७ ॥ अतिशयपरिदूनमेवमम्बा । धृतिविधये सुतरामुवाच वाचम् । क इव सविरहस्तवार्दनेऽसौ गृहधननन्दनसङ्गवर्जितस्य ॥ १९८ ॥ १P जीवत्यजननुदोहृद०. २ J_H मित्र. ३JH. र्ष यायां. ४J H विविध. Page #128 -------------------------------------------------------------------------- ________________ १२० प्रभावकचरिते . जिनसमयविचित्रशास्त्रसेवा निपुणविशुद्धमते वकर्मपाकः। फलवितरणकृन्निजः परो वा तदिति विडम्बकमेव कोविदानाम् ॥ १९९ ॥ गुरुपदवरिवस्ययाभिरामः सफलय शुद्धतपस्यया स्वजन्म । शरदि घन इव प्रलीनमेतत् भवति विकर्म यथा तनु त्वदीयम् ॥ २०० ॥ अवगथ हरिभद्रसूरिरम्बे जडमतिमादृशशिष्यकावलम्बे । न किमपि मम चेतसो व्यथा द्विशदविधेयविनेयमृत्युमुख्यम् ॥२०१॥ दृढमिह निरपत्यता हि दुःखम् गुरुकुलमप्यमलं मयि क्षतं किम् । इति गदति जगाद तत्र देवी शुणु वचनं मम सूनृतं त्वमेकम् ॥ २०२॥ नहि तव कुलवृद्धिपुण्यमास्ते ननु तव शास्त्रसमूहसन्ततिस्त्वम् । इति गदितवती तिरोदधे सा श्रमणपतिः स च शोकमुत्ससर्ज ॥२०३॥ मनसि गुरुविरोधवर्द्धिगाथा त्रितयमिदं गुरुभिर्गुरुप्रसादात् । प्रहितमभिसमीक्ष्य सैष पूर्व स च समरार्कचरित्रमाततान ॥ २०४ ॥ पुनरिह च शतोनमुनधीमान् प्रकरणसार्द्धसहस्रमेष चके। जिनसमयवरोपदेशरम्यं ध्रुवमिति सन्ततिमेषताञ्च मेने ॥ २०५॥ अतिशयहृदयाभिरामशिष्य द्वयविरहोर्मिभरेण तप्तदेहः। निजकृतिमिह संव्यधात्समस्तां विरहपदेन युतां सतां स मुख्यः ॥ २०६ ॥ १ JH विदुं च कामचको० २JH चरितस्य यामि० Page #129 -------------------------------------------------------------------------- ________________ हरिभद्रसूरिप्रबन्धः । १२१ प्रकरणनिकरस्य विस्तरार्थ हृदयविबाधकचिन्तयाभिधान्तः। अणुतरजिनवासिनं सकार्पा सिक इति नामकमैक्षताथ भव्यम् ॥ २०७॥ शुभशकुनवशात् स्वकीयशास्त्र प्रसरणकारणमेष तं व्यमृक्षत् । तत इह विरलं च भारतादि श्रवणसतृप्तमुवाच हृद्यविद्यः ॥ २०८ ॥ तथाहि-एयंलोइय कव्वं गद्धहलिंडं च वाहिरे सिद्धं जं अन्तो फोडिजंतं तुसबुसभुसमीसियं सब्बम् ॥ २०९ ॥ अवददथ वणिक् विवेचयस्व प्रकटमिदं स ततो जगाद सूरिः। अनृतभरभृतेष्वहो जनाना मितिहासेषु यथा तथा प्रतीतिः ॥ २१०॥ इति विशकलनाय मूढतायाः। कितवकथानकपञ्चकं तदुक्तम् । विषधर इति मंत्रवत्तुमिथ्या ग्रहविषविस्तरसंहृतिप्रवीणम् ॥ २११॥ श्रवणत इह तस्य जैनधर्मे प्रकटमतिर्बुबुधे ततो जगाद । वितरणमुख एष जैनधर्मों द्रविणमृते स विधीयते कथं नु ॥ २१२ ॥ गुरुरथ समुवाच धर्मकृत्या द्रविणभरो भविता तव प्रभूतः। अवददथ स चेदिदन्तदाहं सपरिजनः प्रभुगीर्विधायकः स्याम् ॥ २१३॥ वदति गुरुरथ त्वमेकचित्तः शृणु बहिरद्य दिनात्तृतीयघने । परविषयवणिज्यकारकोऽथ स्फुटमिह वस्तुनिधानमेष्यतीति ॥ २१४ ॥ तदुप तव गतस्य वस्तुजातं तदथ समोढुतितः समर्घमाप्यं । १JH वान्तः २ P वासनं. ३ JH चिरभवं. ४JH अनृततरस तेप्य०५JH प्रवृत्ति. ६J H विषधरवति. ७J H समावृति. 11 Page #130 -------------------------------------------------------------------------- ________________ १२२ प्रभावकंचरिते गुरुतरममुतो धनञ्च भावि व्यवहरणात्सुकृतोदयेन भूना ॥ २१५ ॥ विहितमिह मया हि शास्त्रवृन्दं ननु भवतां भुवि पुस्तकेषु लेख्यम् । तदनु यतिजनस्य ढौकनीयं प्रेसरति सर्वजने यथा तदुच्चैः ॥ २१६ ॥ सुकृतिजनशिरोमणिस्ततोऽसाविति वचनं विदधे गुरोरलङ्घयम् । तदनु च तदिदं भवार्णवस्य प्रतरणहेतुतरीसमं प्रवृत्तम् ॥ २१७ ॥ अथ च चतुरशीतिमेकपीठे जिनसदनानि महालयानि तत्र । अपरजनमपि प्रबोध्य सूरिः सुमतिरचीकरदुच्चतोरणानि ॥ २९८ ॥ चिरलिखितविशीर्णवर्णभग्न प्रविवरपत्रसमूहपुस्तकस्थम् । कुशलमतिरिहोद्दधारजैनो पनिषदिकं स महानिशीथशास्त्रम् ॥ २१९ ॥ श्रुतिपरिचयतो निजायुरन्तः सुपरिकलय्य गुरुक्रमागतोऽसौ । गणविषयनिराशतोच्छचेतः कदनविरागविशेषसंसृताङ्गः ॥ २२० ॥ अनशनमनघं विधाय निर्या मकवरविस्मृतहार्दभूरिबाधः । त्रिदशवन इव स्थितः समाधौ त्रिदिवमसौ समवापदायुरन्ते ॥ २२९ ॥ इत्थं श्रीहरिभद्रसूरि सुगुरोश्चित्रं चरित्राद्भुतम् । स्मृत्वा विस्मयकारणं पटुतरप्रज्ञालपूज्यं बुधाः ॥ २२२ ॥ मादृक् प्राथमकल्पिकावलिधियां जीवातुपाथेयवत् । शृण्वन्तु प्रकटं पठन्तु जयताच्चाचन्द्रसूर्यस्थिति ॥ २२३ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । १ PH घनं. २ P omits प्रस... ने. ३ P सु. कृत. ४ Pवशीर्ण भग्न प्रविचर. ५ JH प्रायम. ६JH omit this and give ग्रंथ ३५ अक्षर ३ ३ अयं २०४३ ॥ अक्षर ३ ॥ ९० ॥ Page #131 -------------------------------------------------------------------------- ________________ श्रीमल्लवादिप्रबन्धः। - १२३ श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीहारिभद्रीकथा श्रीप्रद्युम्नमुनीन्दुना विशदितःशृङ्गोऽयमष्टाधिकः॥२२४॥ पुरुषोत्तम परमेष्ठिन् गिरीश गणनाथ विबुधवृन्दपते । प्रद्युम्नब्रह्मरते सुमनोमय किमसि नहि तपनः ॥ २२५ ॥ इति हरिभद्रसूरिप्रबन्धः । ग्रन्थ ३५४ अ० ३ उभयं २०४३ अ०३॥ श्रीमलवादिप्रबन्धः। संसारवाद्धिविस्तारान्निस्तारयतु दुस्तरात् । श्रीमल्लवादिसूरिवों यानपात्रप्रभः प्रभुः॥१॥ गौसत्तारघना यस्य पक्षाक्षीणलसद्भुवि (?)। अवका लक्षभेत्री च जीवामुक्ता सुपर्वभृत् ॥२॥ जडानां निबिंडाध्माय प्रवृत्तं वृत्तमद्भुतम् । प्रमाणाभ्यासतः ख्याते दृष्टान्तं किंचिदुच्यते ॥३॥ रेणुप्राकारतुङ्गत्वाद्रथेनागच्छतो रवेः । रथाङ्गमिव संलग्नं शकुनीतीर्थनाभिभृत् ॥ ४ ॥ हारनिकरैर्युक्तं वप्रनेमिविराजितम् । पुरं श्रीभृगुकच्छाख्यमस्ति स्वस्तिनिकेतनम् ॥ ५॥ चारुचारित्रपाथोधिशमकल्लोलकेलितः। सदानन्दो जिनानन्दः सूरिस्तत्राच्युतः श्रिया ॥६॥ अन्यदा धनदानाप्तिमत्तश्चित्ते छलं वहन् । चतुरङ्गसभावशामज्ञातमदविभ्रमः ॥७॥ चैत्ययात्रासमायातं जिनानन्दमुनीश्वरम् । जिग्ये वितंडया बुद्ध्या नन्दाख्यः सौगतो मुनिः॥८॥ युग्मम् ॥ पराभवात्पुरं त्यक्त्वा जगाम वलभी प्रभुः। प्राकृतोऽपि जितोऽन्येन कस्तिष्ठेत्तत्पुरांतरा ॥९॥ तत्र दुर्लभदेवीति गुरोरस्ति सहोदरी। तस्याः पुत्रास्त्रयः सन्ति ज्यष्टो जिनयशोऽभिधः॥१०॥ द्वितीयो यक्षनामाभून्मल्लनामा तृतीयकः। संसारासारता चैषां मातुलैः प्रतिपादिता ॥ ११ ॥ जनन्या सह ते सर्वे बुवा दीक्षामथादधुः। संप्राप्ते हि तरंडे कः पाथोधिं न विलंघयेत् ॥ १२ ॥ लक्षणादिमहाशास्त्राभ्यासात्ते कोविदाधिपाः। अभूवन् भूपरिख्याताः प्रज्ञायाः किं हि दुष्करम् ॥ १३ ॥ १JH गौः सत्वारथ 'गलघुवि । अवक्वाक्षते वीव... J र्वभूत् ॥ २ P निविधा. J निवडा. ३ P प्रवृत्तैर्मृत्त० ४ P न्तः. ५ P जित. Page #132 -------------------------------------------------------------------------- ________________ १२४ प्रभावकचरिते पूर्वर्षिभिस्तथा ज्ञानप्रवादाभिधपञ्चमात् । नयचक्रमहाग्रन्थपूर्वाच्चके तमोहरः ॥ १४ ॥ विश्रामरूपास्तिष्ठन्ति तत्रापि द्वादशारकाः। तेषामारंभपर्यन्ते क्रियते चैत्यपूजनम् ॥ १५॥ किंचित्पूर्वगतत्वाच्च नयचक्रं विनापरम् । पाठिता गुरुभिः सर्व कल्याणीमतयोऽभवत्(न्) ॥१६॥ त्रिभिर्विशेषकम् एष मल्लो महाप्राज्ञस्तेजसा हीरकोपमः। उन्मोच्य पुस्तकं बाल्यात्स स्वयं वाचयिष्यति ॥ १७॥ तत्तस्योपद्रवेऽस्माकमनुतापोऽतिदुस्तरः। प्रत्यक्षं तजनन्यास्तजगदे गुरुणा च सः॥१८॥ वत्सेदं पुस्तकं पूर्व निषिद्ध मा विमोचयः । निषिद्धति विजह्वस्ते तीर्थयात्राचिकीर्षवः॥ १९॥ मातुरप्यसमक्षं स पुस्तकं वारितद्विषन् । उन्माय॑ प्रथमे पत्रे आर्यामेनामवाचयत् ॥ २० ॥ तथाहि-विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकमचोचत् । जैना सछासनमनृतं भवतीति वैधय॑म् ॥ २१॥ अर्थ चिन्तयतोऽस्याश्व पुस्तकं श्रुतदेवता । पत्रं चाच्छेदयामास दुरंता गुरुगीःक्षतिः ॥२२॥ इतिकर्तव्यतामूढो मल्लश्चिल्लत्वमासजत् । अरोदीत् शैशवस्थित्या किं बलं दैवतैः सह ॥ २३ ॥ पृष्टः किमिति मात्राह मवृत्तात्पुस्तकं ययौ । संघो विषादमापेदे ज्ञात्वा तत्तेन निर्मितम् ॥ २४॥ आत्मनः स्खलितं साधु समाचरयते स्वयम् । विचार्येति सुधीर्मल्ल आराध्नोत् श्रुतदेवताम् ॥ २५॥ गिरिषण्डलनामास्ति पर्वतस्तहहान्तरे । रूष्यनिष्पावभोक्ता स षष्ठः पारणकेऽभवत् ॥ २६ ॥ एवमप्यर्दितसंघो वात्सल्याज्जननीयुतः। ईदृक श्रुतस्य पात्रं हि दुःप्रायं भावि शीर्यताम् ॥ २७ ॥ विकृति ग्राहितस्तेन चतुर्मासिकपारणे।। साधवस्तत्र गत्वास्य प्रायच्छन् भोजनं मुनेः ॥ २८ ॥ १JI पूर्व० २ J उन्माथ्य. JH० थमेपत्रेत्यार्थ० ३ JH अत्मना० ४ ध्या. ५JH रूक्षनिष्पाव. षष्ठपारणको० ६ JH मर्यादेनः संघावात्सल्याज्ज. Page #133 -------------------------------------------------------------------------- ________________ श्रीमल्लवादिप्रबन्धः। १२५ श्रुतदेवतया संघसमाराधितया ततः। ऊचे तदा परीक्षार्थ को(के)मिष्टा इति भारतीम् ॥ २९॥ वल्ला इत्युत्तरं प्रादान्मल्लः फुल्लतपोनिधिः। षण्मासान्ते पुनः प्राह वाचं केनेति तत्पुरः ॥ ३०॥ .. उक्ते गुडघृतेनेति धारणातस्तुतोष सा। वरं वृण्विति च प्राह तेनोक्तं यच्छ पुस्तकम् ॥ ३१॥ श्रुताधिष्ठायिनि प्रोचेऽवहितो मद्वचः शृणु। ग्रन्थेऽत्र प्रकटे कुटुंढेषिदेवा उपद्रवम् ॥ ३२॥ श्लोकेनैकेन शास्त्रस्य सर्वमर्थ ग्रहीष्यसि । इत्युक्त्वा सा तिरोधत्त गच्छं मल्लश्च सङ्गतः ॥ ३३ ॥ नयचक्रं नवं तेन श्लोकायुतमितं कृतम् । प्राग्ग्रन्थार्थप्रकाशेन सर्वोपादेयतां ययौ ॥ ३४॥ शास्त्रस्यास्य प्रवेश हे संघश्चके महोत्सवात् । हस्तिस्कन्धाधिरूढस्य प्रौढस्य च महीशितुः॥३५॥ अन्यदा श्रीजिनानन्दप्रभुस्तत्रागमच्चिरात् । सूरित्वे स्थापितो मल्लः श्राद्धैरभ्यर्थ्य सहुरुम् ॥ ३६॥ तथा जिनयशोनामा प्रमाणग्रन्थमादधे । अल्लभूपसुभेवादि(?) श्रीनन्दकगुरोगिरा ॥ ३७॥ शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे । न्यासं चक्रेऽल्पधीवृन्दबोधनाय स्फुटार्थकम् ॥ ३८॥ यक्षेण संहिता चक्रे निमित्ताष्टाङ्गबोधनी। सर्वान् प्रकाशयत्यर्थान् या दीपकलिका यथा ॥ ३९ ॥ मल्लः समुल्लसन्मुल्लीफुल्लवेल्लद्यशोनिधिः । शुश्राव स्थविराख्यानात् न्यकारं वौद्धतो गुरोः ॥४०॥ अप्रमाणैः प्रयाणैः स भृगुकच्छं समागमत् । संघः प्रभावनां चक्रे प्रवेशादिमहोत्सवैः ॥४१॥ बुद्धानन्दस्ततो बौद्धानन्दमद्भुतमाचरत् । श्वेताम्बरो मया वादे जिग्ये दर्प वहन्नमुम् ॥ ४२ ॥ यस्योन्नमत्यपि भूर्नावलेपभरभारिता। जगभ्रष्टं कृपापात्रं मन्यते स धरातलम् ॥४३॥ जैनर्षीनागतान् श्रुत्वा विशेषादुपसर्गकृत् । संघस्याथ महाँकोशो विशां वृन्दैरवीवदत् ॥ ४४ ॥ १ Pऽन्यदा. २ P च. ३ J_H स्यैव. ४ P जित०. ५ J H आसं. ६ P गुरौ. ७ JH मथ०. ८ P काशो. Page #134 -------------------------------------------------------------------------- ________________ १२६ प्रभावकचरिते पूर्वजःश्वेतभिक्षूणां वादमुद्राजपोद्धरः।। स्याद्वादमुद्रया सम्यगजेयः परवादिभिः॥४५॥ परं सोऽपि मयात्मीयसिद्धान्तैः प्रकटीकृतैः।। कलितश्शुलुके कुम्भोद्भवेनेव पयोनिधिः॥४६॥ युग्मम् । किं करिष्यति बालोसावनालोकितकोविदः । गेहे नदीसारमेय इवासारपराक्रमः ॥४७॥ काचित्तस्यापि चेच्छक्तिस्ततो भूपसभापुरः । स्वं दर्शयतु येनैणं वृकवद्रासमानये ॥४८॥ मल्लाचार्य इति श्रुत्वा लीलया सिंहवत् स्थिरः। गम्भीरगीर्भरं प्राह ध्वस्तगर्यो द्विषन्नृणाम् ॥ ४९ ॥ जैनो मुनिः शमीकश्चिदविवादावदातधी। जिनो जित इति स्वेच्छा वादोऽयं किंघटापटुः ॥ ५० ॥ अथवास्तु मुधा चित्तावलेपं शल्यवदृढम् । अलमुद्धर्तुमेतस्य सजोऽस्मि विलसजयः॥ ५१ ॥ संजनो मे सुहृद्वापि ज्ञास्ये स्थास्यसि चेत्पुरः । तिष्ठन् स्वकीयगेहान्तर्जनो भूपेपि कद्वदः ॥५२॥ प्रत्यक्षं प्राश्निकानां तन्मध्येभूपसभं भृशम् । अनूद्यतां यथा प्रज्ञाप्रामाण्यं लभ्यते ध्रुवम् ॥ ५३॥ इत्याकर्ण्य वचः स्मित्वा बुद्धानन्दोप्युवाच च । वावदूकः शिशुः प्रायः कस्तेन सह संगरः॥ ५४॥ अस्तु वासौ निराकृत्य एव मे द्विषदन्वयी। शुणस्तोकमिवासाध्यः कालेनासौ हि दुर्जयः ॥५५॥ ततः क्रूरे मुहूर्ते च तौ वादिप्रतिवादिनौ । संसद्याजग्मतुः सभ्याः पूर्ववादं लघोर्ददुः॥५६॥ मल्लाचार्यः स षण्मासी यावत्प्राज्ञार्यमावदत् । नयचक्रमहाग्रन्थाभिप्रायेणात्रुटद्वचः॥ ५७॥ नीवधारयितुं शक्तः सौगतोऽसौ गतो गृहम् । मल्लेनाप्रतिमल्लेन जितमित्यभवन् गिरः॥ ५८॥ मल्लाचार्ये दधौ पुष्पवृष्टिं श्रीशासनामरी । महोत्सवेन भूपालः स्वाश्रये तं न्यवेशयत् ॥५९ ॥ १JH मूचा. २ P केलि. ३ J_H जैनो ...श्वे...टांपद. ४ JH मेसुहृदापि ज्ञास्येस्थास्ये. ५J H तिष्ठन् गेहांतजेता भूयेधिकद्वयः. ६ P शिशुप्रायः. ७ J H ०दन्वयात्सकु० (१) ८ JH omit ऽसौगतो and नाप्रतिमल्ले. Page #135 -------------------------------------------------------------------------- ________________ श्रीमल्लवादिप्रबन्धः। १२७ बुद्ध न्दपरीवारमपनाजनया ततः। राजा निर्वासयनत्र वारितोऽर्थनपूर्वकम् ॥ ६०॥ बिरूद तत्र वादीति ददौ भूपो मुनिप्रभोः । मल्लवादी ततो जातः सूरिभूरिकलानिधिः ॥ ६१ ॥ बुद्धानन्दो निरानन्दः शुचा निष्प्रतिभो भृशम् । रात्रौ प्रदीपपादाय प्रारेभे लिखितुं ततः॥१२॥ तत्रापि विस्मृति यावे पक्षहेतुकदम्बके । अनुत्तरो भयालज्जावैशसात् स्फटिते हृदि ॥ ६३ ॥ मृत्युं प्राप खटीहस्तो रक्षा प्रतिय॑लोक्यत । मल्लेन च ततोशोचि वाद्यसो हो दिवं गतः ॥ ६४ ॥ कस्य प्राणादसौ प्रज्ञा प्रगल्भां स्वां प्रबुद्धवान् । अवज्ञाता शिशुत्वान्नः स्वयमीक् च कातरः ॥६५॥ वलभ्याः श्रीजिनानन्दः प्रभुरानायितस्तदा । संघमभ्यर्थ्य पूज्यः स्वः सूरिणा मल्लवादिना ॥६६॥ माता दुर्लभदेवीति तुष्टा चारित्रधारिणी। बन्धुना गुरुणाभाणि त्वं स्थिता पुत्रिणीधुरि ॥ ६७ ॥ गुरुणा गच्छभारश्च योग्ये शिष्ये निवेशितः। मल्लवादिप्रभौ को हि स्वौचित्यं प्रविलङ्घयेत् ॥ ६८ ॥ नयचक्रमहाग्रन्थः शिष्याणां पुरतस्तदा। व्याख्यातः परवादीभकुम्भभेदनकेसरी ॥ ६९॥ श्रीपद्मचरितं नाम रामायणमुदाहरत् । चतुर्विंशतिरेतस्य सहस्रा ग्रन्थमानतः॥७०॥ तीर्थ प्रभाव्य वादीन्द्रान् शिष्यान्निष्पाद्य चामलान् । गुरुशिष्यो गुरुप्रेमनिबन्धेनेयतुर्दिवम् ॥ ७१ ॥ बुद्धानन्दस्तदा मृत्वा विपक्षव्यंतरोजनि । जिनशासनविद्वेषि प्रान्तकालमतेरसौ ॥ ७२॥ तेन प्राग्वैरतस्तस्य ग्रन्थद्वयमधिष्ठितम् । विद्यते पुस्तकस्थं तत् वाचितुं स न यच्छति ॥७३॥ श्रीमल्लवादी प्रभवृत्तमेतन्मञ्चेतनावल्लिनवाम्बुदाभम् । व्याख्यांतु शृण्वन्तु कविप्रधानाः प्रसन्नदृष्टया च विलोकयन्तु ७४ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा. चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । १P मुनिः. २ P षटी. ३ J H विलोकिता. ४ JH प्रमाणा. ५ प्रवाल्यं त्वां. ६JH सहस्र. ७ P वितरो J H व्यंतदोरो. Page #136 -------------------------------------------------------------------------- ________________ प्रभावकचरिते श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीमल्लवाद्यद्भुतं - श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो नवाग्रोऽवत् ॥७५॥ इति मल्लवादिप्रबन्धः ॥ ग्रन्थ ७७ उभयम् ॥ २१२० ॥ श्रीबप्पभटिप्रबन्धः । बप्पभट्टिः श्रिये श्रीमान् यद्वृत्तगगनाङ्गणे। खेलति स्म गतायोतः राजा सूरः कविर्बुधः॥१॥ पीत्वा यद्गोरसं तृप्ता अप्यन्तः कवितर्णकाः। बिभ्राणाः शूगितां विज्ञगोपालैरपि दुर्दमाः॥२॥ तस्यैव चरितं किञ्चिकीर्तयिष्ये यथाश्रुतम् । मत्प्रज्ञामुकुरीति साधुशंगारभूषणम् ॥३॥ अस्ति स्वस्तिनिधिः श्रीमान् देशो गुर्जरसंज्ञया । अनुसेकविवेकाढ्यलोकः शोकाचलस्तंरुः ॥४॥ यदेकांशप्रविच्छंदस्वरभ्रमुकुरस्थितम् । गौरीशमुनिबाहुल्यात्तत्पुरं पाटलाभिधम् ॥ ५॥ जितशत्रुर्महीनाथः पाथ पतिगभीरिमा । तत्रास्ति नाशिताशेषबाह्यान्तररिपुव्रजः ॥६॥ चित्रशास्त्ररहस्यालिकन्दकन्दलनाम्बुदः। अश्लिष्टपरमब्रह्मामन्दपीयूषसागरः ॥७॥ मोढाख्याप्रौढगच्छश्रीविवोढामूढमूढतः। श्रीसिद्धसेन इत्यासीन्मुनीन्द्रस्तत्र विश्रुतः ॥ ८॥ युग्मम् । विश्वविद्यावदातश्रीर्मान्यः क्षितिभृतामपि । मौटेरे श्रीमहावीरं प्रणतुं सोऽन्यदाययौ ॥९॥ प्रणम्य विधिवत्तीर्थ पृथगाश्रयसंश्रितः। निशायां योगनिद्राभृद्ददर्शस्वप्नमीदृशम् ॥१०॥ उन्मीलल्लीलया नेत्रे यःकेसरिकिशोरकः। आरूढश्चैत्यगृङ्गाग्रमुत्फालं सत्वशालितः ॥ ११ ॥ इति दृष्ट्वा जजागारानगारपतिरद्भुतम् । प्रीतश्च श्रावयामास प्रातर्मुनिमतल्लिकाः ॥१२॥ कल्याणानामुपादानं हेतुत्वं विनयस्य तैः। ख्यापयद्भिर्नतैः पृष्ट आख्यादर्थ च तत्पुरः ॥ १३ ॥ १J H add नमः सर्वज्ञाय. २ P श्रये J_H. श्रियमान्. ३ JH खलतिस्म गतावैराजा. P भूरः. ४ P . लस्वरः. ५ P मान्यः. ६JH शालिनः. ७ P जजगारपतिरद्भुतं. Page #137 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । शिष्ट्ये (योs) न्यवादिकुभीन्द्र कुम्भनिर्भेदनोद्यमः । भाग्यैः संघस्य कोऽप्यद्य समेष्यति महामतिः ॥ १४ ॥ भाविप्रभाव संसूचि स्वप्नानन्दाभिनन्दितैः । तैः समं सूरिरागच्छज्जैनालयमनालयः ॥ १५ ॥ त्रिः प्रदक्षणयित्वा च यावन्नाथं विवन्दिषुः । तावत्षवार्षिको बाल एकस्तत्पुर आगमत् ॥ १६ ॥ कस्कः कौतस्कुतस्त्वं भो असौ पृष्टस्तदावदत् । पञ्चालदेश्यवप्याख्यपुत्रोऽहं भट्टिदेहभूः ॥ १७ ॥ सुरपालाख्यया शत्रून्निघ्नन् पित्रा निवारितः । अजानतेति वात्सल्यादहेतुर्विक्रमे वयः ॥ १८ ॥ एकोवामप्यनापृच्छ्यानुशयातिशयात्ततः । आगमं प्रभुपादान्ते प्रान्ते स्वस्नेहतः स्थितः ॥ १९ ॥ अस्यामानुष्यकं तेजो ध्यात्वेति गुरुभिस्ततः । किं त्वं नोंतेव तिष्ठासुरित्यजल्प्यत हर्षतः ॥ २० ॥ मद्भाग्यैः फलितं पूज्या इत्युक्त्वा सोप्यवस्थितः । अलिः किंनाम नोतिष्ठेद्विकाशिनि सरोरुहे ॥ २१ ॥ एकशः श्रुतमात्रेण विधारयति निश्चलम् । अनुष्टुभां सहस्रं तु प्रज्ञायां तस्य का कथा ॥ २२ ॥ जडदुस्तर्कसंक्लिष्टा देवी वागधिदैवतम् । दुर्बोधशास्त्रकृद्भेदि सुहृत्त्वं यस्यै वाञ्छति ॥ २३ ॥ प्रेक्षाभियोगसंतुष्टाः प्रभवस्तस्य पैतृके । गर्यो दुवातिधीग्रामे पितरौ प्रार्थयंत ते ॥ २४ ॥ स प्राह याचयामोऽहमेतदं बैकपुत्रकः । आशाधारोयमावाभ्यां कथं मोक्तुं हि शक्यते ॥ २५ ॥ निर्बन्धो यदि पूज्यानां तदा नावभिधां यदि । विश्रुतां बप्पभट्टीति कुरुध्वे तत्सुतोस्तु वः ॥ २६ ॥ ओमित्युक्ते जगत्पूज्यैः श्रद्धालुनिवहस्तयोः । आजन्मकसिपुः प्रादान्महदास्थाननिः फला ॥ २७ ॥ शताष्टके च वर्षाणां गते विक्रमकालतः । सप्ताधिके राधशुक्ल तृतीयादिवसे गुरौ ॥ २८ ॥ मोढेरे ते विहृत्यामुंदीक्षित्वा नाम चादधुः । १२९ १ P शिष्योत्यवादि निर्भद. २P निश्चला. ३ P शास्त्रदुद्धे "चाछति । ४P डुवा ०.५ P भिधाः विश्रुता ६ P तत्सुते ० ७P सिपुन्प्रादा० ८ P विहत्या. Page #138 -------------------------------------------------------------------------- ________________ १३० प्रभावकचरिते स्वाख्यात्रिकैकादशकाद्भद्रकीर्तिरिति(?) श्रुतम् ॥ २९ ॥ तत्पित्रोः प्रतिपन्नेन पूर्वाख्या तु प्रसिद्धिंभूः। शिष्यमौलिमणेरस्य कलासंकेतवेश्मनः ॥ ३०॥ संघश्च तहुणग्रामरामणीयकरंजितः। विदधेऽभ्यर्थनां तेषामत्रावस्थानहेतवे ॥ ३१॥ योग्यतातिशयं चास्य ज्ञात्वा सहरवस्ततः। सारस्वतं महामन्त्रं तत्रस्थास्तस्य ते ददुः॥३२॥ परावर्त्तयतस्तस्य निशीथे तं सरस्वती। स्वर्गङ्गास्रोतसि नात्यनावृतासीद्रहोभुवि ॥३३॥ तन्मन्त्रजापमाहात्म्यात्तद्रूपा सा समाययौ । ईषदृष्ट्वा च तां वकं परावर्त्तयति स्म सः॥३४॥ स्वं रूपं विस्मरन्ती च प्राह वत्स कथं मुखम् । विवर्त्तसे भवन्मंत्रजापात्तुष्टाहमागता ॥ ३५॥ वरं वृण्विति तत्प्रोक्तो बप्पभट्टिरुवाच च । मातर्विसदृशं रूपं कथं वीक्षे तवेदशम् ॥ ३६॥ स्वां तनुं पश्य निर्वस्त्रामित्युक्ते स्वं ददर्श सा। अहो निबिडमेतस्य ब्रह्मव्रतमिति स्फुटम् ॥ ३७॥ उच्चैश्च मंत्रमाहात्म्यं येनाहं गतचेतना। ध्यायन्ती दृढतोषेण त्वत्पुरः समुपस्थिता ॥ ३८ ॥ वरेपि निस्पृहे त्वत्र दृढं चित्रातिरेकतः। गत्यागत्योर्ममा(?) स्वेच्छा त्वदीया निर्वृतो भव ॥ ३९ ॥ अन्यदा तत्र संस्थानां भद्रकीर्तिर्बहिर्गतः। वृष्टौ देवकुलं श्रुत्वा तस्थौ स स्थैर्यसुस्थितः॥४०॥ तत्रस्थस्य पुमानेको नाकिपाकविडंबकः । समगस्त प्रशस्तश्रीवृष्टिव्याकुलितस्तदा ॥४१॥ श्यामाश्मोकीर्णवर्णोथासहारहँदिवांगना(?) स्वस्तिप्रशस्तिरत्रास्ति विहस्तितजडस्थितिः॥४२॥ काव्यानि वाचयामास महार्थानि सुधीरसौ। सख्याद्वयाख्यापयामास प्रत्याद्वप्पभट्टितः॥४३॥ तदाख्यारंजितस्वान्तः शान्ते वर्षेतिहर्षतः । ययौ सहैव वसतौ वसतौ तत्र च स्थितः॥४४॥ १P स्वाख्यनिकैकैकादशकाद्रुद०. २J H प्रसिद्धम्. ३ JH तद् ! ४ P परावा० ५P हेत्यन्न दृढं चिनाति० ६JH दृष्टौ. ७ P कार्ण वण्णौथा 'दूदिवांगना. ८ P प्रत्यग्र० Page #139 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । ततो गुरुभिराशीर्भिरानंद्य समपृच्छयत । आमुष्यायणतां स्वस्याचख्यो व्रीडावशाननः ॥ ४५ ॥ वर्यमौर्यमहागोत्रसंभूतस्य महाद्युतेः। श्रीचन्द्रगुप्तभूपालवंशमुक्तामणिश्रियः ॥ ४६॥ कान्यकुब्जयशोवर्मभूपतेः सुयशोंगभूः। पित्रा शिक्षावशात् किंचिदुक्तः कोपादिहागमम् ॥४७॥ अलेखीदामनामस्वं क्षितौ खटिकया ततः। स्वनामाग्रहणेनास्य विवेकात्ते चमत्कृताः॥४८॥ व्यमृशन् सूरयस्तत्र नखछोटनपूर्वकम् ।। पूर्व श्रीरामसैन्येऽसौ दृष्टः पाण्मासिकः किल ॥४९॥ पीलवृक्षमहाजाल्यों वस्त्रांदोलकसंस्थितः । अचलच्छाययास्माभिर्विज्ञातः पुण्यपूरुषः ॥५०॥ ततस्तजननी वन्यफलवर्ग विचिन्वती। अस्माभिर्गदिता वत्से का त्वं किंवा भवत्कुलम् ॥५१॥ कथमीदगवस्था च सर्वमाख्याहि नः पुरः। विश्वस्ता यद्वयं त्यक्तसंगा मुक्तपरिग्रहाः ॥५२॥ सावादीत्तातपादानां किमकथ्यं ततः प्रभोः। श्रीकन्यकुब्जभूपालयशोवर्मकुटुंबिनी ॥ ५३॥ अहं सुतेत्र गर्भस्थे सपत्न्या मत्सरोदयात् । पुरा लभ्यवरं प्रार्थ्य नृपानिर्वासितास्म्यहम् ॥ ५४॥ ततोऽनुशयतो हित्वा पितृश्वशुरमन्दिरे। स्थाने व आगमं वन्यवृत्या वर्ते प्रभोधुना ॥ ५५ ॥ श्रुत्वेति सांत्वितास्माभिश्चैत्यशुश्रूषया स्थिरा। . तिष्ट बालं प्रवर्द्धख जनकस्येव वेश्मनि ॥५६॥ तत्सपत्नी च केनापि कालेन व्यनशत्स्वयम् । सा च राज्ञा चरैः शोधयित्वा पश्चादर्नायिता ॥ ५७॥ प्राच्यासंख्यगुणेनाथ मानेन बहुमानिता। वयं चात्र ततो देशाद्भूमावस्यां विजहिम ॥ ५८॥ इति श्रुतः स्ववृत्तान्तस्तद्देश्यपुरुषव्रजात् । अनेन सांप्रतं भाव्यं तत्पुत्रेणैव धीमता ॥ ५९॥ यदाकृतिः शरीरस्य लक्षणानीदृशानि च । नर्ते नृपसुतं पूज्या इति ध्यात्वाभ्यधुस्ततः ॥६०॥ १P ममूननपूर्वकम्. २ P जाल्यावस्त्रा०. ३ P कुला. ४ P दनीयत. ५ श्व' 'देश. जात्. Page #140 -------------------------------------------------------------------------- ________________ १३२ प्रभावकचरिते तत्राव वत्स निश्चिन्तो निजेन सुहृदा समम् । शीघ्रं गृहाण शास्त्राणि संगृहाणामलाः कलाः ॥ ६१ ॥ ताश्चेमाः-पठितं १ लिखितं २ स(म्यग्भ)णितं ३गीत ४ नर्त्तने ५ । वाद्यं ६व्याकरणं ७ छन्दो८ ज्योतिष ९शिक्षया १० सह॥२॥ निरुक्तं च ११ तथा कात्यायनं १२ च सनिघंटकम् १३-। पत्रच्छेद्यं १४ नखच्छेद्यं १५ सह रत्नपरीक्षया १६- ॥ ६३ ॥ आयुधाभ्यासयोगश्च १७ गजारोहणमेव च १८। तुरगारोहणं १९ शिक्षा २० तयोः २१ प्रत्येकमद्धता ॥ ६४॥ मन्त्रवादो २२ रसवादः २३ खन्यवादस्तथैव च २४-। रसायनं च २५ विज्ञानवादो २६ मतिविबोधकः॥६५॥ तर्कवाद २७श्च सिद्धान्तो २९ विषनिग्रह २८ गारुडे ३०। शाकुने वैद्यकं ३१ चैवाचार्यविद्या ३२ तथागमः ३३॥६६॥ प्रासादलक्षणं चैव ३५ सामुद्रिक ३६मथ स्मृतिः ३७-। पुराण ३८ मितिहासश्च ३९ तथा वेदविधिर्वरः ४०- ॥ ६७ ॥ विद्यानुवाद ४१ दर्शनसंस्कारो ४२ खेचरी कला ४३ । अमरीकरणं चें.४४ द्रजालं४५पातालसिद्धिभृत् ४६ ॥६८॥ धूर्तानां शंबलं ४७ गंधयुक्ति ४८ वृक्षश्चिकित्सया ४९ । कृत्रिममणिकर्माणि ५० सर्ववस्तुकृतिस्तथा ५१ ॥ ६९ ॥ वंशकर्म ५२ पुष्पकर्म ५३ विन्न(चित्र?)कर्म ५४ कलाद्भुतं । काष्ठ ५५पाषाणयोः कर्म५६ लेपकर्म ५७तथापि च ५८ ॥७॥ चर्मकर्म ५९ यंत्रकर्म ६० तथा रसवतीविधिः ६१ । काव्यादरलंकार६३हसित ६४ संस्कृतप्राकृतौ तथा ६५॥७॥ पैशाचिक ६६ मपभ्रंशः ६७ कपटं ६८ देशभाषया ६९ । धातुकर्म ७० प्रयोगाणामुपायाः७१ केवलीविधिः ७२॥७२॥ एवंविधकलानां च द्वासप्ततिमधीतवान् । अनन्यसदृशः कोविदानां पर्षदि सोभवत् ॥ ७३ ॥ तथा चाभ्यस्यतस्तस्य प्रशादर्पणबिंबितः। ययौ लक्षणतर्कादिशास्त्रव्रातं स्ववश्यताम् ॥ ७४ ॥ सब्रह्मचारितासख्याद्राजपुत्रः प्रपन्नवान् । बप्पभट्टे प्रदास्यामि प्राप्तं राज्यं तव ध्रुवम् ॥ ७५॥ कालेन केनचित्तस्याभकिना जनकेन च । प्रधानाः प्रेषिताः पट्टाभिषेककृतिहेतवः ॥ ७६ ॥ १P सस्यम्भणितं. २ J_H. omit ५२ पुष्प..... कर्मा. ३ JH चति. ४P ताः. Page #141 -------------------------------------------------------------------------- ________________ १३३ श्रीबप्पभट्टिप्रबन्धः। कृच्छ्रादापृच्छय तं प्राप्तपुरं राज्येभिषिच्यताम् । पित्रा स स्वर्गतेरस्य कृतवानौर्ध्वदेहिकम् ॥ ७७॥ लक्षद्वितयमश्वानां चतुर्दशशतानि च । रथानां हस्तिनां पत्तिकोटीराद्यमशाधयत् ॥ ७८॥ स्वकीयसुहृदः प्रैषीदाबानाय नरानथ । आमनामा नृपः श्रीमानतिमानवविक्रमः ॥ ७९ ॥ तेषां चात्यादात्संघानुमत्या गुरवस्ततः। प्राहिण्वन् बप्पभार्टि तं गीतार्थैः परिवारितम् ॥ ८०॥ तीर्थप्रभावनोन्नत्यै शनैः संयमयात्रया। जगामाध्यामभिपुरमामहीशितुः (?) ॥ ८१ ॥ तदागमलसद्वर्णाकर्णनादर्णवो यथा। . द्विजराजसमुद्योतादुद्वेलः स तदाभवत् ॥ ८२ ॥ भूपः समग्रसामय्या संमुखीनस्ततोगमत् । कुंजरारोहणे विद्वान् कुंजरस्यार्थनां व्यधात् ॥ ८३॥ बप्पभट्टिरुवाचाथ भूपं शमवतां पतिः। सर्वसंगमुचा नोत्र प्रतिज्ञा हीयतेतमाम् ॥ ८४॥ राजोचे वः पुरा पूर्व यन्मया प्रतिशुश्रुवे । राज्यमाप्तं प्रदास्यामि तल्लक्ष्मवरवारणः॥ ८५॥ काममेवामुमाधत्त चेद्यूयं तन्मम प्रभोः। उक्तवेशोऽतिदानेनासुखं कर्तुं न साम्प्रतम् ॥ ८६॥ इत्यारोप्य बलात्पदृकुअरे धरणीधरः। जितक्रोधाद्यभिज्ञानधृतच्छत्रचतुष्टयम् ॥ ८७॥ विश्वस्य दर्शयंतं सञ्चामरैर्वीजितुं प्रभुम् । प्रावेशयत् शमिश्रेणीश्वरमत्युत्सवात्पुरम् ॥ ८८ ॥ युग्मम् । राज्यचिह्नमिदं धुर्यमिति सिंहासनासनम् । धौतांतरमनुच्चाहं (?) भूपं मुनिरथावदत् ॥ ८९ ॥ जाते सूरिपदेस्माकं कल्यं सिंहासनासनम् । इति तस्य वचः श्रुत्वाखिन्नोन्यासन्य (?) वीविशत् ॥ ९०॥ दिनानि कतिचित्तत्रावस्थाप्य गुरुसन्निधौ। प्राजीहयत्प्रधानाद्यैः समं मुनिपतिं नृपः॥९१॥ मोटेरकस्थितिं श्रीमत्सिद्धसेनमुनीश्वरम् । प्रणम्य प्रह्ववाणीभिरथव्यज्ञपयन्नमी ॥९२॥ १P •त प्राप्तपुरं रन्यैभिषिच्यत. २ P हितय. ३ P .ध्यामधामथिपुरमाममहीशितुः ॥ ४ P द्योत् दु. ५P लक्षावरवारणः। ६P सद्वामरैवी०. ७ P खिनौन्य सन्य०. ८P प्रगेम्य. 12 Page #142 -------------------------------------------------------------------------- ________________ प्रभावकचरिते चकोरवदचन्द्रेभ्रे मराल इव पल्वले । वने मृगवदेकाकी स्तोकाम्भसि च मीनवत् ॥ ९३ ॥ मयूर इव धर्मात्तॊ वर्षासु जलधिर्यथा । संग्रामे कातरो यद्वद्विद्वान् वैधेयमण्डले ॥९४॥ चन्द्रवत्कृष्णपक्षान्ते क्षीयते विरहातुरः। स्वामिनः प्रत्यहं पूज्या अनेन सुहृदा विना ॥९५॥ त्रिभिर्विशेषकम् आचार्यत्वे प्रतिष्ठाप्य निष्ठाधिष्ठानदैवतम् । अमुं प्रेषयतास्माभिः सह नः स्वामिनो मुदे ॥९६ ॥ अस्योपदेशतो जैनमन्दिरप्रतिमादिभिः । निर्मितैः सुकृतै राजा भवाब्धि लंघयेद्यथा ॥ ९७ ॥ श्रुत्वेति तत्पुरोवोचद्वाचंयमपतिस्तदा। चारित्राचारधौरेयः सुधामधुरया गिरा ॥९८॥ रत्नदीपो यथागारे बाह्यान्तरतमोपहः।। तेजस्वी निश्चलस्थेमा तथा बालर्षिरेष नः ॥ ९९॥ भानुनाम्भोरुहं यद्वत् शशिनेव विभावरी । शिखंडीव पयोदेन मन्त्री मुद्रां विना यथा ॥ १००॥ स्तम्भेनेवोज्झितं गेहं देहं च प्राणधारिणा। म्लायत्येव मनोवृत्तिस्तथास्माकममुं विना ॥ १०१॥ युग्मम् । इत्याकर्ण्य प्रभोर्वाचं प्राहुः कृतधियोथ ते। सन्तः परोपकारार्थे नात्माति गणयन्ति यत् ॥ १०२॥ तरवस्तरणेस्तापं सचाभ्रोल्लंघनक्लमम् । पाथोधिनॊश्रमं सोढा वोढा कूर्मः क्षितेधुरः॥ १०३ ॥ वारिदो वर्षपक्लेशं क्षितिर्विश्वभरक्लमम् । उपकारादृतेमीषां न फलं किंचिदीक्ष्यते ॥ १०४॥ युग्मम् । ततः प्रसादप्रावीण्यात् प्रेषयध्वं कृतीश्वरम् । एवं कृत्वा प्रभुत्वेस्मान्स्वामिबाधागिरेः पतिम् ॥ १०५॥ तेषां निर्बन्धसंबन्धादित्यभ्युपगते गुरुः। श्रीमंतं संघमाहूय तत्प्रतिष्ठार्थमादिशत् ॥ १०६॥ अथोत्सवेच्छुभिःस्वस्थैः श्रावकैर्गच्छ वत्सलैः। सद्यः समग्रसामग्र्यां विहितायां जिनालये ॥ १०७ ॥ लग्नेऽथ सौम्यषडर्गाधिष्ठिते परमाक्षरा। . JHन्तेः. २JH निश्चलास्तेमा. ३ P तरवमूरणेस्तापसवानो०. ४ P पानोधि. J H पथोधि० ५J H .पेक्षेत्रां. ६ P प्रावीथोत्प्रे० ७ Pस्मत् "पविं. Page #143 -------------------------------------------------------------------------- ________________ १३५ श्रीबप्पभट्टिप्रबन्धः। सप्तग्रहबलोपेते श्रुतोक्तविधिपूर्वकम् ॥ १०८ ॥ शिष्यस्य विश्वशिष्यस्य कर्णे चंदनचर्चिते । गर्जत्सु तूर्यसंघातेष्वहत्तत्वं न्यवीविशत् ॥ १०९ ॥ . त्रिभिर्विशेषकम् । बप्पभट्टिस्ततः श्रीमानाचार्यः कोविदार्यमा । दुर्वादिसिंहशरभोऽभवद्विश्वस्य विश्रुतः ॥ ११० ॥ अथानुशिष्टो विधिवहुरुभिर्ब्रह्मरक्षणे । तारुण्यं राजपूजा च वत्सानर्थद्वयं ह्यदः॥१११॥ . आत्मरक्षा तथा कार्या यथा न च्छल्यते भवान् । वामकामपिशाचेन यत्यं तत्र पुनःपुनः॥११२॥ भक्तं भक्तस्य लोकस्य विकृतीश्चाखिला अपि । . आजन्मनैव भोक्ष्येहममुं नियममग्रहीत् ॥ ११३॥ . तंगतूर्यध्वनिः श्रद्धां गतां सङ्गीतमङ्गलः । गौरवाभ्यर्थिनः संघेनार्थप्रायादुपाश्रये ॥ ११४॥ एकादशाधिके तत्र जाते वर्षशताष्टके । विक्रमात्सोऽभवत्सूरिः कृष्णचैत्राष्टमीदिने ॥ ११५॥ श्रीमदाममहाभूपश्रेष्ठामात्योपरोधतः। अनिच्छतोपि संघस्य प्रेषीत्तैः सह तं गुरुः॥ ११६॥ प्रयाणैः प्रवणैः प्राप कन्यकुब्जपुरन्ततः। प्रोसुके बहिरुद्देशेऽवतस्थे सवनाश्रिते ॥ ११७॥ उद्यानपालविज्ञप्ते परिज्ञाय समागतम् । मुनीशमवनीशोभूद्वद्धरोमांचकंचुकः ॥ ११८॥ ततः प्रत्यापणं हदृशोभाशोभितरथ्यकम् । प्रतिगेहं प्रतिद्वारं बद्धवन्दनमालिकम् ॥ ११९ ॥ उद्यद्धपघटीधूमस्तोमैः कृष्णाभ्रविभ्रमम् । कुर्वाणमहितोल्लोचैरेकच्छायं महीतलम् ॥ १२० ॥ काश्मीरजद्रवैः सिक्तधरं काश्मीरभूमिवत् । नगरं नगभिद्रंगतुल्यं भूपतिरातनोत् ॥१२१॥ त्रिभिर्विशेषकम्। {रूढप्रौढसौहार्दवसुधाधीशसंस्तुतः। पुरं पौरपुरंध्रीभिराकुलाहालकं ततः॥१२२॥ प्रविवेश विशामीश इव सच्छत्रचामरः। अभ्रंलिहद्विपारूढो विवोढोपशमश्रियः ॥ १२३ ॥ युग्मम् । १P omits लोकस्य. २ P भोक्ते. मग्रहात्. ३ P तग० श्राद्वांगना. ४ P नाग्वप्राया० ५ P प्राशु J. प्रासुक्षे. ६ P गमाहितोल्लोवैरेकथ्ययमहीतल. ७ JH प्ररौढ. ८JH omit विवोब्ये. Page #144 -------------------------------------------------------------------------- ________________ .१३६ प्रभावकार सौधे राजा ततः सिंहासने गष्टिकयास्तृते । उपावेशयदानंदात् सुहृदं मुनिनायकम् ॥ १२४ ॥ प्रांशुप्रभाव नोद्भूतरंगः संघः प्रभोरथ । परिचर्या परां चक्रे वक्रेतरमनाः सदा ॥ १२५ ॥ शश्वद्राजसभावाप्तावपिनिर्धूतकल्मषः । बप्पभट्टिप्रभुः श्रीमान् भूपाये सुकृतं जगौ ॥ १२६ ॥ कल्याणपादपारामजलवाहजलप्लवः । धर्म एव निराधाराधारं परपदप्रदः ॥ १२७ ॥ तस्यादौ प्रथितं दानं तच्च क्षेत्रेषु सप्तसु । तेषु च प्रथमं विद्धि सिद्धिकृजिनमंदिरम् ॥ १२८ ॥ अपरं बिंबनिर्माणमथ सिद्धान्तलेखनम् । चतुर्वर्णस्य संघस्याभ्यचैतानि किल क्रमात् ॥ १२९ ॥ तदन्तरा च सर्वेषामाधारोजैनमन्दिरम् । जिनाः श्रुतधरा यत्र स्थिताः संघप्रबोधकाः ॥ १३० ॥ श्रीमतां सति सामर्थ्ये विधेयं विधिवच्च तत् । बहवो यत्प्रभावेन भव्याः सद्गतिमाप्नुयुः ॥ १३१ ॥ इति तद्वाक्यमाकर्ण्य प्रकर्णानां शिरोमणिः । अवोचदामभूपालः प्रालेयांशुस्फुरद्यशाः ॥ १३२ ॥ पृथ्वीदेशः पुरं हर्म्य तिथिर्मासऋतुः समाः । धन्यान्येतानि भाष्यन्ते यानि त्वद्देशनांशुभिः ॥ १३३ ॥ इत्युक्त्वादात्तदादेशं भूमिलक्षणवेदिनाम् । कोशकर्म नराध्यक्षपुंसां च श्रीजिनौकसे ॥ १३४ ॥ युग्मम् । विश्वकर्मविदस्तत्र विश्वकर्मसुकर्मठाः । प्रारेभिरे महाभूत्या प्रासादं सुकृतोत्सवैः ॥ १३५ ॥ दिनैः कतिपयैः सैकशतहस्तोन्नतस्थितिः । प्रासादः परिनिष्पेदे सर्वलोकमुदा समम् ॥ १३६॥ पूर्णवर्णसुवर्णाष्टादशभारप्रमाणभूः । श्रीमतो वर्द्धमानस्य प्रभोरप्रतिमानभूः ॥ १३७ ॥ निरमाप्यत संप्राप्यागण्य पुण्य भरैर्जनैः । धार्मिकाणां संचरन्ती प्रतिमा प्रतिमानसम् ॥ १३८ ॥ युग्मम् । श्री भट्टिरेतस्या निर्ममे निर्ममेश्वरः । प्रतिष्ठां सुप्रतिष्ठासुः परमं पद्मात्मनः ॥ १३९॥ १ P धर्म्मपवनिराध्वाराधारं (?) २ P तेषु व प्रथमंविहि सिद्धि क्षु० ३ JH गा. ४ P पुमांवश्री जिनौकसो. Page #145 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः। १३७ तथा गोपगिरौ लेप्यमयबिम्बयुतं नृपः । श्रीवीरमन्दिरं तत्र त्रयोविंशतिहस्तकम् ॥ १४० ॥ सपादलक्षसौवर्णटङ्कनिष्पन्नमण्डपम् । व्यधापयन्निजं राज्यमिव सन्मत्तवारणम् ॥ १४१ ॥ युग्मम् । एवमभ्यर्हितो राज्ञा गच्छन् सच्छत्रचामरः । राजकुञ्जरमारूढो मुख्यसिंहासनासनः ॥ १४२॥ मिथ्यात्वध्यामलाभोगान् लोकान्मत्सरपूरितान् । बप्पभट्टिप्रभुश्चके वक्रेतरनरस्तुतः ॥१४३॥ युग्मम् । राजाप्रद्विजजातीनां संसर्गादनुवत्तंकः। अन्यदान्यमहीपालासनमाधत्त सूरये ॥१४४॥ ततस्तदाशयं ज्ञात्वा विगताकारवैकृतः। जगाद प्रतिबोधाय तस्यागाधैकसत्वभृत् ॥ १४५॥ कृतप्राकृतसत्वानां मदादीनां जनद्विषाम् । दम्भस्तम्भादियुक्तानां कथं लक्ष्या भवादृशाः ॥१४६॥ ततः यदुक्तंमर्दय मानमतंगजदर्प विनयशरीरविनाशनसर्पम् । क्षीणो दादशवदनोऽपि यस्य न तुल्योभुवने कोऽपि॥१४७॥ इत्याकर्ण्य गिरं धीरां बुद्धा सूरि व्यजिशपत्। प्रभो त्वद्वाक्यमन्त्रैर्मेऽवलेपगरलं द्रुतम् ॥१४८॥ प्रभवः प्रभवः क्षेत्रे मम धान्यं हि सौहृदम् । स्वादतामत्र संपन्नभक्तपाकादिसंस्कृतम् ॥ १४९॥ अन्तःपुरेऽन्यदा म्लानवक्रभां वल्लभां तदा। राजा दृष्टाह गाथार्ध स्वेच्छयेति प्रभोः पुरः ॥१५०॥ तद्यथाअद्यवि सा परितप्पइ कमलमुहि अत्तणोपमाएण । सारसारस्वतोद्गारांसद्धयाथ गुरुगिरा॥१५१॥ गाथोत्तरार्धमाचख्यौ सख्यौ स्नेहं वहमृतम् । सुतविउद्वेणतरा जीसे पच्छाइयं अंगम् ॥१५२॥ हृ दिवचसा तुष्टः प्रशंसन् कविकर्म तत् । तस्थौ किञ्चिदिव भ्रान्तः पुनरभ्रान्तलोचनः ॥ १५३॥ नृपो निरुपमप्रेमनिधिः शमभृता सह । अन्यदा ददृशे देवीं संचरतीं पदे पदे ॥ १५४ ॥ व्यथ्यमानामिव क्वापि मुखभंगविकारिणीम् । कृपापरिष्कृतस्वांत इव गाथार्धमब्रवीत् ॥ १५५ ॥ १JHस्य गाथैक. Page #146 -------------------------------------------------------------------------- ________________ १३८ - प्रभावकचरिते ताथाबाला चंकमती पए कीस कुणइं मुहभंगम्। ततः सत्यवचोवीचिवंधुरं प्रावदत्प्रभुः॥१५६ ॥ असूनृतं न जल्पेत कल्पांतेपि हि सिद्धवाक। नूनं रमणपरासे मेहलयाबिवइनहपंति ॥ १५७ ॥ श्रुत्वेति भूपतिः किंचित्सभ्रान्तो विकृतं मुखम् । चक्रे हिमोर्मिसंक्लिष्टसरोरुहमिवाद्युति ॥ १५८ ॥ इत्यालोक्य समुत्थाय प्रतिश्रयगतो मुनीन् । विहारहेतुं संवाह्य स्नेहमोहापराजितः ॥ १५९ ॥ काव्यमेतद्विलिख्याथ बहिारकपाटयोः। श्रीसंघमप्यनापृच्छय निरगानगराद्वहिः ॥ १६० ॥ युग्मं । तद्यथायामः स्वस्ति तवास्तु रोहणगिरमत्तः स्थितिः प्रच्युता वर्तिष्यन्त इमे कथं कथमिति स्वप्नेपि मैवं कृथाः। श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा ते शृंगारपरायणाः क्षितिभुजो मौलौ करिष्यंति नः॥१६॥ दिनैः कतिपयैर्गोंडदेशान्तर्विहरन्गुरुः । श्रीलक्षणावतीपुर्याः प्रापारामावनीतलम् ॥ १६२॥ तत्र वाक्पतिराजोस्ति श्रीधर्मश्मापपर्षदि । विदुषां मौलिमाणिक्यं प्रबंधकविरुत्तरः॥१६३ ॥ प्रभोरागमनं ज्ञात्वा जलदस्येव चंद्रिका । तदागमनगीर्भिः स भूपालं पर्यतोषयत् ॥१६४ ॥ वशे वाग्देवता यस्य कविर्मे प्राच्यसंस्तुतः। स इहागात्प्रभोः पुण्यैर्बप्पभट्टिमुनीश्वरः ॥ १६५॥ ध्रुवं यत्र समभ्येति कृतपुण्यः सवासरः। ज्योत्स्नाप्रिय इवैणांकोदयादेष विशांपतिः॥ १६६ ॥ अजल्पदुद्रुषद्रोमा विद्वन्मंडलमंडनम् । विश्वकोविदकोटीरमेष जैनमुनीश्वरः॥ ध्रुवं यत्र समभ्येति कृतपुण्यः स वासरः॥ १६७॥ युग्मम् । परं मेऽस्त्यामराजेन दुर्घहो विग्रहाग्रहः। तदाह्वानाद्यदा पश्चाद्याति तन्मे तिरस्कृतिः॥ १६८ ॥ प्रष्टव्यस्तन्मुनिस्वामी सवेदागत्य मां नृपः। १ P बालाचंक्रमतीपएपएकीसकुणइमुहु० २ P. रमणएसेमे० ३ P विदुषो. ४ P. प्रद्योना. Page #147 -------------------------------------------------------------------------- ________________ श्री भट्टप्रबन्धः । १३९ साक्षादापृच्छ्य ते प्रस्थातव्यं तन्नान्यथा त्वया ॥ १६९ ॥ सुधीभिः कथितेऽर्धेऽस्मिन् सूरिणांगीकृते सति । तज्ज्ञात्वा धर्मभूपालः परमानंदमाप्तवान् ॥ १७० ॥ आमराजप्रवेशाच्च सहस्रगुणितं ततः । प्रवेशोत्सवमाधत्त पुर्यामाचार्यभूपतेः ॥ १७१ ॥ धर्मभूपे तदा साक्षादिव धर्मे पुरः स्थिते । चक्रवर्ती सुधीवृंदे प्रोचे वृत्तमिदं तदा ॥ १७२ ॥ रुचिरचरणारक्ताः सक्ताः सदैव हि सद्गतौ परमकवयः काम्याः सौम्या वयं धवलच्छदः । गुणपरिचयेोद्धर्षाः सम्यग्गुणातिशयस्पृशः क्षितिप भवतोऽभ्यर्ण तूर्ण सुमानससंमिताः ॥ १७३ ॥ तत्रापि काव्यवक्तृत्वलीलानंदितपर्षदः । अवतस्थे सुखं सूरिर्दोगुंदग ? इवामरः ॥ १७४ ॥ ततश्चामनृपः प्रातरनायाते प्रभौ तदा । नगरांतर्बहिर्ग्रामाकरादिष्वगवेषयत् ॥ १७५ ॥ अप्राप्तौ बालमित्रस्य पारवश्यं गतः शुचः । वैलक्ष्यमक्षतं भेजे च्यवनोन्मुखनाकिवत् ॥ १७६ ॥ अन्येद्युर्बहिरारामे गच्छन्नेकं ददर्श सः । बभ्रु बभ्रुभुजंगेन हतं चित्रीतिस्ततः ॥ १७७॥ अस्य मौलौ मणि तत्रालुलोके सम्यगीक्षया । संस्तभ्य तुंडमाधत्त फणीन्द्रमपभीर्नृपः ॥ १७८ ॥ तमाच्छाद्याथ संवृत्या संगृह्य निलये नृपः । आगत्य श्लोकशकलं जजल्प विदुषां पुरः ॥ १७९ ॥ शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति । तैः पूरिता समस्येयमभिप्रायैर्निजैर्निजैः ॥ १८० ॥ बिभेद हृदयं नैव तेषामेकोऽपि भूपतिः । सस्मार भारतीपुत्रं बप्पभट्टि तदार्हतम् ॥ १८९ ॥ मालतीकुसुमामोदमसौ रोलंबबालवत् । खद्योता इव चन्द्रस्य वालेया इव दंतिनः ॥ मम मित्रस्य विद्वांसः कलां नार्हति षोडशीम् ॥ १८२ ॥ टंकलक्षं ददे हेम्नस्तस्य यः किल पूरयेत् । समस्यां मदभिप्रायात्प्रादात्पटहमीदृशम् ॥ १८३ ॥ अथो दुरोदराजीव एकः सर्वस्वनाशतः । श्रुत्वेति स धनोपायममुं श्लोकार्थमाददे ॥ १८४ ॥ १ P वैलक्षमचत । मतोव्यवन्मो० ? २ P दृढम् . Page #148 -------------------------------------------------------------------------- ________________ प्रभावकचरिते ज्ञात्वा कुतोपि गौडेषु पुर्यंत आगमञ्च सः । बप्पट्टि प्रभुं नत्वा कथयामास तत्पुरः ॥ १८५॥ अपरार्द्ध स चाहस्म क्लेशलेशं विना यतः । सरस्वतीप्रसादो हि विश्वक्लेशाब्धिकुंभभूः ॥ १८६॥ तच्च सुगृहीतं हि कर्तव्यं कृष्णसर्पमुखं यथा ॥ १८७ ॥ नागावलोक इत्याख्यां राज्ञे तत्र प्रभुर्ददौ ॥ ततः प्रभृत्यनेनापि नाम्ना विख्यातिमाप सः ॥१८८॥ . स द्यूतकृत्तदादायागमदामनृपाग्रतः। मुदा निवेदयामास तच्चमत्कारकारणम् ॥ १८९ ॥ केनापूरीति राज्ञा च पृष्टः प्रोवाच स प्रभो । श्रीबप्पभट्टिनेत्युक्ते ददौ तस्योचितं नृपः ॥ १९० ॥ विरहस्य विनोदायान्येधुर्भूपो बहिर्ययौ ॥ मृतं न्यग्रोधवृक्षस्य तले पांथं ददर्श सः॥ १९१॥ शाखायां लंबमानां च तथा करकपत्रिकाम् ।। श्चोत्तेती विपुषां व्यूह गाथाध लिखितं तथा ॥ १९२॥ तच्च तइया महनिग्गमणे पियाइ थोरं सुएहिजं रुन्नम् । प्राग्वत्तदपि नापूरि भूपालस्य मनोहरम् । केनापि विदुषा कोऽर्क विना विश्वप्रकाशकः ॥ १९३॥ अस्यामलक्ष्यलक्ष्यायां समस्यायां स देवनी। पुनर्ययौ च श्रीबप्पभट्टिपार्श्वेऽवद्च्च ताम् ॥ १९४॥ स चानायासतो विद्वन्मौलिप्रभुरपूरयत् । गृहीत्वा स पुनः प्रायादुत्तरार्ध नृपाग्रतः ॥ १९५॥ तच्चकरवत्तिबिंदुनिवदुणं गिहेणं तं अज्ज संभरिअं॥ १९६॥ अन्येन विदुषा केनचिदध्वन्येन तत्र तत । सर्व दृष्ट्वा दोधकार्धमभाष्यत यथामति ॥ १९७ ॥ तथाहिकरवत्तय जल विंदुआ पंथिय हियइ निरुद्ध पथिकोक्तिः। सारो अंतिसभरीनपरिजमुंकीमुद्दा ॥ १९८ ॥ .. श्रीबप्पभट्टेरुक्तिः ॥ इति पाठांतरम् । १P omits गिहेण. Page #149 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । १४१ राजा श्रुत्वेति दध्यौ च रसपुष्टिममूदृशीम् । मम मित्रं मुनिस्वामी कविघ्रश्नाति नापरः ॥ १९९ ॥ प्रधानान् भूपतिः प्रैषीदाह्वानाय मुनीशितुः। तदुपालंभगर्भाणि दोधकं वृत्तमार्यया ॥ २०० ॥ तैश्चोपान्तं प्रभोराप्याप्राप्यं विगतचेतनैः। : वाचिकं कथयामासुः कुशलप्रश्नपूर्वकम् ॥ २०१॥ तद्यथाछायह कारणिसिरधरिअ यञ्चिविभूमि पडंति । पत्तहं इहुपत्तभणं वरतरुकाइं करिति ॥ २०२॥ न गंगां गां नेयं सुयुवतिकपोलस्थलगतं न वा शुक्ति मुक्तामणिरुरसिजास्वादरसिकः। न कोटीरारूढं स्मरति च सवित्री च सुभुवं ततो मन्ये विश्व स्वसुखनिरतं स्नेहविरतम् ॥ २०३॥ पांसुमलिनांघ्रिजंघः कार्पटिको म्लानमौलिमुखशोभः । यद्यपि गुणरत्ननिधिस्तथापि पथिकः पथि वराकः॥२०४॥ इत्याकर्ण्य गुरुस्तेषां पुरः प्राह वचः स्थिरम् । सौहृदे दौर्हदे वापि संसृजेन्मनसा मनः ॥ २०५॥ आमनाममहीभर्तुर्भवद्भिर्वाचिकं हि नः।। निवेदनीयमार्यस्य दृढं गाथाकदंबकम् ॥ २०६॥ तथाहि गमयमाणसुचंदणु भमरुरयणायऊ सेरि खंडु । जडउच्छयु बप्पभट्टि किउ सत्रुपगाहासंडु॥२०७॥ विक्रेणविणा विगया नरिंदभुवणेसु हुंति गारविया । कोन होइ अगउएहिं बहुएहिविगएहिं ॥ २०८॥ माणसरहिएहिं सुहीइं जह नलब्भतिरायहंसिहिं । तह तस्स चितेहि विणातीतीरुच्छंगातसोहंति ॥ २०९ ॥ परिसेसियहंसउलंपिमाणसंम्माणसंनसंदेहो। अन्नच्छविजच्छगयाहंसाबिच्छया न भवंति ॥ २१० ॥ हंसा जहि गय तहि जिगयम हि मंडणाहवंति । अनच्छविजुछगया हंसावि वया न भवति । वह उताह महासरहजिहंसि हि मुञ्चति ॥ २११ ॥ १ JP H तैश्चैषोनः प्रभोराथाप्राध्यं विगतवैभवैः । २ P सिरिधिरि अयाधिवि०. Page #150 -------------------------------------------------------------------------- ________________ १४२ प्रभावकचरिते मलउसंचंदणोच्छियनइमुहहीरंत चंदणदुमो हो। पाठ्ठपिहुमलयाउ चन्दणं जायं इ महग्घम् ॥ २१२॥ अग्घायन्ति महुयरा विमुक्ककमलाय राविमयरंदम् । कमलायरोपि दिट्टो सुउचर्किमहुअरविहीणो ॥ २१३॥ एकेण कोछुहेणं विनावि रयणवरुचियसमुद्दो । कोछुहरयणंपि उरेजस द्विउसो विहुमहग्यो । २१४ ॥ खंडविणाविअखंडमंडलोचेव पुण्णिमाचंदो। हरसिरिगयपि सोहइ ननेइ विमलं ससिरकंडम् ॥ २१५ ॥ तथायइमुक्का हविवरतरुफिट्टइपत्तत्तणंम पत्ताहं । तह पुणच्छायाजइहोतारिसातेहि पत्तेहिं ॥ २१६॥ जडसव्वच्छअहच्चियउवरिंसुमणाणि सव्वरुरकाणं । दावेविवउंतिगुणा यहु पत्तिया पावएकोडिम् ॥ २१७ ॥ ये के विपद्गमहिमंगलमिते उच्छुदण्डसारिच्छा। सरसाजडाण मजे विरसा यत्तेसु दीसन्ति ॥ २१८॥ इय उज्युयसीलालं कियाण यायपडियवयण सोहाणा । गुणवंतह्याणपहुणो पहृणो गुणवंतया दुलहा ॥ २१९ ॥ ततःअस्माभिर्यदि कार्य वस्तदा धर्मस्य भूपतेः। सभायां च्छन्नमागत्य स्वयमापृच्छयतां द्रुतम् ॥ २२० ॥ जाते प्रतिज्ञानिर्वाहे यथा यामस्तवान्तिकम् । प्रधानाः प्रहिताः पूज्यैरिति शिक्षापुरस्सरम् ॥ २२१ ॥ कन्यकुब्जमहीनाथमुपाजग्मुश्च तेऽप्यथ । सम्यग्व्यज्ञपयन् सूरर्वचो माहात्म्यधाम तत् ॥ २२२ ॥ अकुंठोत्कठमामस्तैः करभैर्विगतारिभीः।। गच्छन् गोदावरीतीरे ग्रामं कंचिदवाप सः ॥ २२३ ॥ तस्य पर्यंतभूपीठे खंडदेवकुले तदा। चक्रे वासं कृतावासस्तद्देव्याश्चेतसि स्थिरम् ॥ २२४ ॥ निशीथे सा समागत्य रूपाक्षिप्ता नरेश्वरम् । बुभुजे प्रार्थनापूर्व भाग्यं जागर्ति सर्वतः ॥ २२५ ॥ प्रातरुत्थाय सन्मित्रायल्लंकेन तरंगितः। ययौ करभमारुह्यानापृच्छयैव तदाथ ताम् ॥ २२६ ॥ स प्राप प्रभुपादानां प्रान्तं विरहरुक्शुचा। काव्यं जजल्प निर्वेदवह्निज्वालोपमं नृपः॥ २२७ ॥ १ मज्म्ये. २ अकुंठोक्कमद्वतामास्ते करभे० ३ त्रायउल्ल. Page #151 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । १४३ निद्राजागरणादिकृत्यनिवहे नित्यानुवृत्तिस्पृशां स्वप्नेप्वप्यथ योगिनां नयनवञ्चेष्टासु सूक्ष्मास्वपि । तत्तद्वत्सुहृदामिवेह सुहृदां निष्ठेदृशी स्याद्यदा मित्राशापरिहारमाचर ततश्चेतः प्रसीद प्रभो ॥ २२८ ॥ नृपो यथोतथवचःप्रतीतोऽप्यथ कौतुकात् । गाथापरार्द्धमाचख्यौ पूर्वार्ध च गुरुस्ततः॥ २२९ ॥ तद्यथा-अजवि तं सुमरिजइ को नेहो रागराईए । गोलानइए खंडे देउलमज्झे पहिअजं नवसिडसि ॥ २३०॥ इत्युक्त्वा सूरिभिर्भूपो बाढं स परिषस्वजे । अविश्वास्यं मनस्तस्यांतः प्रविश्येव वीक्षितुम् ॥ २३१ ॥ प्रकाममामभूपालस्तुष्टिं बिभ्रत्सवीक्षणे। इदं काव्यमुवाचाथ नाथः कविकुलेषु यः ॥ २३२॥ तद्यथा-अंगैरुत्पुलकैः प्रसादसलिलप्रस्यंदिभिर्लोचनै राकाद्भुतसंकथास्तव सुधीभर्तुः प्रसन्नात्मनः। सौजन्यामृतनिझरे सुमहति स्नातुं विपद्वारिधेः पारं गंतुमपारपौरुष वयं त्वां द्रष्टुमभ्यागताः ॥ २३३॥ श्लोकं विचित्रबंधन लिलेन स खटीदलात् । कौतुकादामभूपालः शालिसौहार्दरंगितः ॥२३४ ॥ तथाहि-अति अति अन्मअलंप्रीधरद्यजद्य मेलामेलामेलमेलंफसफसफस ॥ २३५॥ . तं च गोमूत्रिका बंधं ज्ञात्वा गुरुरपि स्वयम् । वाचयामास दोषज्ञैरपि ज्ञातं परैर्नहि ॥ २३६ ॥ तथाहि-अद्य मे सफला प्रीतिरद्य मे सफला रतिः । अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥ २३७ ॥ विद्वद्गोष्टया विनिद्रं तं विश्रमय्य क्षपाक्षणे । प्रगेऽशंको नृपास्थानं सूरिः प्राप यथास्थिति ॥ २३८ ॥ आमराजोप्यथ श्रीमानभ्रच्छन्नइवांशुमान् । विशिष्टैः स्वार्थनिष्ठोऽगात्स स्थगीधरकैतवात् ॥ २३९ ॥ आमविज्ञप्तिकां धर्मराजस्य दर्शयहरुः । आगमिष्यद्वियोगाग्निज्वालामिव सुदुःसहाम् ॥ २४०॥ १ स्वप्नेप्यथ वियो० स्वप्नध्वथ वियो० २ P.अति अति अन्य अलं प्रीधरद्यजद्यपद्य । मेलामेलं मेलं फसफसफसफस. Page #152 -------------------------------------------------------------------------- ________________ १४४ प्रभावकचरिते वाचयित्वा च तां पृष्टो दूतस्ते कीदृशो नृपः । स प्राहास्य स्थगीभर्तुस्तुल्यो देव प्रबुध्यताम् ॥ २४१ ॥ मातुलिंग करे बिभ्रन्सैष पृष्टश्च सूरिणा। करे ते किं स चावादीद्विजराज इति स्फुटम् ॥ २४२ ॥ दूतेन चाढकीपत्रे दर्शिते गुरुराह सः। स्थगीधरं पुरस्कृत्य नूअरिपत्तमित्ययम् ॥ २४३ ॥ प्राकृतेनोत्तरं प्रादाच्छेषेण ज्ञापनोपमम् । अवबोधे यदृच्छा तु धर्मस्यर्जुचेतसः ॥ २४४ ॥ अथोवाच प्रधानश्च सूरिरेष श्लथादरः। अस्मास्विति प्रतिक्षाय दुःपूरां विदधे ध्रुवम् ॥ २४५॥ विहितेऽत्रापि चेत्पूज्य आपाति प्राज्यपुण्यता। अस्माभिः सह तद्देवाः प्रतुष्टा नो विचार्यताम् ॥ २४६ ॥ युग्मम् । यतः-तच्छीसी अलामेलावा केहा णण उत्तावली प्रियमंदसिणेहाविरहिहिं । माणसुजंमरइतसु कवण निहोरा कलिप वित्तडी जुणु जाणइदोरा ॥ २४७॥ राज्ञोचे वस्तुकस्यास्य कीगर्थप्रभस्ततः। बप्पभट्टिनुपस्याग्रे व्याख्यादाख्यातधीनिधिः ॥ २४८॥ तथाहि एका लोहपिंडी वह्निना तप्ता । अर्थात् ज्ञेया एका शीतला अनयोर्मेलकः संसर्गः कीदृशः ॥ उभयोरपि तप्तयोरेव संबंधो भवति । इत्यनेन किमुक्तं यद्वयं रणरणकतप्ताः अयं च औदासीन्याजितेंद्रियत्वान्निर्लोभत्वाच्च शीतस्तदस्माकमनेन सह कथं मेलक इति । तथा घनादेशीशब्देन पत्नी सा उत्सुका प्रियश्च मंदस्नेहः । ततः कथं मेलको भवति विरहेण यन्मानुषं म्रियते मृततुल्यं प्राणशेषं भवति तस्य को निहोरक उपरोधस्त प्रकृतेपि न जीवति । मिलित एव प्रणयिनी जीवति तथा कर्णे पवित्रिकेयं जनो जानाति दारकं द्वित्रिगुणावलिततंतुरूपं स्थगीधरस्येति वा सूत्रार्थः॥१॥ तथा तप्तं तपस्तदिच्छतीत्येवं शीलस्तपश्चरणेच्छुः स तप्तैषी ॥ १ P. पुरस्कृत्य त्तमियत्य । २ P. तत्रीसी अलीमेलावाकेहा धण. ३ P. सूत्रकृतेपि. Page #153 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । तथा अलिभूषाप्रिय एको लक्षणया स कामः । “नाकामी मंडनप्रियः” इति वचनात् अनयोर्मीलकविषये का ईहा चेष्टा किंतु न कापि । तथा उप्तं धनं यैस्ते धनोप्ताः ॥ आहितान्यादित्वात् क्तांतपरनिपातस्तेषामावली श्रेणीर्दानेश्वरसमूहस्तस्य प्रियो वल्लभः । दानेश्वराणां हि सत्पात्रेच्छा विशेषतो भवति स चार्थादाचार्यः । स मन्दस्नेहो निर्मोह इत्यर्थः ॥ तथा विरहे विशिष्टैकान्ते तद्धतोम्रियते लक्षणया तदर्थ संतप्यत इत्यर्थः॥ तस्य का न होरा मुहूर्तरूपाः । स सर्वदा तस्य विरहे संतप्त एवास्ते । स वा इति प्रश्नाध्याहारे कान्यकुब्जे पवितडितसमानविद्युत्समः तेजस्वी जनो विद्वजनो मल्लक्षणः स जानाति दोरा द्वौराजानौ । वा एवार्थे द्वौरा द्वावेव राजानौ धर्म आमश्च विद्वप्रियाविति मञ्चित्ते गूढार्थस्तु हे राजन् त्वया ज्ञेयं यहुरुप्रतिज्ञानिर्वाहाय आमोऽत्रायातोऽस्तीति द्वितीयोऽर्थः ॥२॥ तथा तप्तीतारा शीतला योत्रश्लथआदर इत्यर्थः । स ततिशी• तलः । स्वराणां स्वराः प्रायोऽपभ्रंशे इतीकारः ॥ तत्र मीलकः कीदृशः। यतः ध्वनदुक्तावली चमत्कारिकाव्यश्रेणी वल्लभा यस्य अर्थादाचार्यः सोस्मासु मंदस्नेहः स उपरोधेन न गृह्यत इत्यर्थः । तथा विरहे अर्थाद्विषवियोगसर्वसंगपरित्यागे सति यो मरति मानुषपुरुषः। देववत्सुखीभवति तस्य कास्नेहः। संबंधादिषु निहोरः क उपरोधः । स उपरोधेन न गृह्यत इत्यर्थः। करणप्रवृत्तिदानेश्वरत्वात्कर्णरीतिः दोरोदोषा राजते महाबाहुः स आम एवंविधमपि सूरिर्जनमिव प्राकृतमिव जानाति न किंचिदित्यर्थः॥३॥ तथा तत्त्वानि ईष्टे तत्त्वेशी अत एव आली संगनिषेधी तस्य मेलः संसर्गः तस्य अवोऽवाप्तिः ॥ स्वराणां स्वरा इत्याकारस्तथा के ब्रह्मणि ईहा चेष्टा यस्य स केहः परमब्रह्मेच्छः । दीर्घः प्राग्वत् । धनयुक्तानामावली श्रेणी । प्रिया अमंदस्नेहा अत्यर्थप्रीतिर्भवति ॥ विगतरागेषु हि सर्वः प्रीतिमान् धनवन्तोपि तत्रैव रतिं निदधति तथा विः पक्षी गरुडः स रथो यस्य स विरथो विष्णुस्तस्मिन्नर्थात् चित्तस्थे यो म्रियते तस्य को निभः सदृशः। सच रा राजेव एवं भवति गुरौ चित्तस्थे मृत्युरपि श्लाघ्यः । तथा जङ्खजानद्याः गंगायाः सकाशात् का अन्या पवित्रायमेव भगवान्पूज्यः तथा दोरा द्वौ राजानौ संगतौ यस्य द्विराट् सर्वसामर्थ्ययुक्तो भवानेव यदुचितं तद्विधेहीति चतुर्थोऽर्थः॥४॥ तत्तीसीयलाटीकायां ग्रंथानं ३२ अ०८ व० ॥५॥ १J H. omit तथा-इत्यर्थः. 13 Page #154 -------------------------------------------------------------------------- ________________ १४६ प्रभावकचरिते श्रीबप्पभट्टिना चैवमर्थानां साष्टकं शतम् । व्याख्यातं मतिमांद्येन न जानीमो वयं पुनः ॥ २४९ ॥ तत उत्थाय रात्रौ च वारवेश्यागृहेवसत् । अमूल्यं कंकणं दत्वास्याः प्रातर्निरगागृहात् ॥ २५० ॥ द्वितीयं राजसौधस्य द्वारि त्यक्त्वा स्वरांशुरुक् । इन्द्रकीले ययौ तस्माद्वहिरस्थाद्रहोवने ॥ २५१ ॥ ततः प्रातर्मुनिस्वामी संगत्य नृपतेः सभाम् । आपपृच्छे नृपः कन्यकुब्जप्रस्थानहेतवे ॥ २५२॥ तेन पूर्णप्रतिज्ञायामज्ञातायां कथं त्विति । राज्ञा पृष्टे समाचख्यावामभूप इहागमत् ॥ २५३॥ विद्वत्कथनतस्तेन कथितं यद्यदीदृशः। शायतां सैष एवेति दोराशब्दात्तथा पुनः ॥ २५४ ॥ द्वौ राजानौ इति स्पष्टं मातुलिंगस्य दर्शनात् । इदं किमिति पृष्टे च बीज ऊरात उत्तरात् ॥ २५५ ॥ तथा रूंअरिपत्तंति तच्चारिपात्रमित्यथ । संस्कृताद्भवतीत्येतत्तवाग्रे जगदे स्फुटम् ॥ २५६॥ ततो विप्रतिसारोऽस्य प्रससार प्रकर्षतः। धिगस्ति मम मूर्खत्वं न ज्ञातं कथितेपि यत् ॥२५७ ॥ . ततोऽवसर एतस्मिन् वारवामा प्रभोः पुरः। कंकणं मुमुचे रत्नरोचिरस्ततमस्ततिः ॥ २५८ ॥ क्षत्ता परं समाथ भूपालाय व्यजिशपत् । द्वारेन्द्रकीलकेनापि मुक्तं नाथ न वेद्यहम् ॥ २५९ ॥ यावत्पश्यति राजा तदामनामाथ दृष्टवान् । श्रीबप्पभट्टेरापृच्छय हेतुप्रत्यायकः प्रभुः ॥ २६० ॥ गृहागतो नृपः शत्रु र्चितो नच साधितः । द्विधापि चिरवैरस्य निर्वृत्तिन प्रवर्तिता ॥ २६१ ॥ तथाच विरहः पूज्यैरुपतस्थेऽतिदुःखदः । यो वल्लभ्यं तु लभ्येत किं ब्रूमः सांप्रतं प्रभोः॥ २६२ ॥ गुरुराह महाराज मा खेदोऽत्र विधीयताम् । हंसा इव वयं येनाप्रतिबद्धविहारिणः ॥ २६३ ॥ १J H. जायतामेष० २ P. तप्तात् अरिपत्वंतिवारिपा० H भू अरि. Page #155 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः। आपृष्टोसि महाबाहो यामः स्वं नाम सार्थकम् । कुर्याद्यथा परे लोका निर्मलाः स्युः सुहृत्तम ॥ २६४ ॥ इत्युक्त्वातो निरीयागात् संगत्यामनृपेण च । करभीभिरमीपुंभिः सुरभिर्यशसा गुरुः ॥२६५॥ मार्गे तदासनारूढः प्रभुणा सह संचरन् । पुलिंदमेकं कासारे क्षिप्तास्यं वारिमध्यतः ॥ २६६॥ पिवंतं च छगलवदृष्ट्वा गुरुपुरस्तदा। आह प्राकृतकाव्यार्द्धमपूर्वेक्षासकौतुकः ॥ २६७ ॥ तथाहि-पसुजेमपुलिंदउ पय पीअइ जुपंथिउ कमणिहि कारणिण । इत्याकर्ण्य प्रभुः प्राहोत्तरार्द्ध तत्क्षणादपि। विलंबन्ते न काव्येषु सिद्धसारस्वताः क्वचित् ॥ २६८ ॥ तच्च-करबेवि करंबिय कजलिणमुद्वहिअंसुनिवारणिण ॥ २६९ ॥ प्रत्ययार्थ पुलिंदस्य समाकार्य स भूभुजा । पृष्टो लजानतास्योयं यथावृत्तमथावदत् ॥ २७० ॥ नाथ प्रवसने युष्मद्वधू सांत्वयतः सतः। सांजनाश्रुप्रमृष्टौ मा भूतां कजलितौ करौ ॥ २७१ ॥ हर्षप्रकर्षमासाद्य वृत्तांतेनामुना नृपः। सुरेंद्र इव सौधर्म्य द्राक् कन्याकुब्जमासदत् ॥ २७२ ॥ प्रविवेशोत्सवेनैष प्राच्याशातिशयेन सः। कोटिकोटिगुणाम मकार्षीच्च गुरोस्तथा ॥ २७३ ॥ इतश्च श्रीसिद्धसेनसूरयो जरसा भृशम् । आक्रांताः कृतकृत्यत्वात् सेच्छाः प्रायोपवेशने ॥ २७४ ॥ बप्पभट्टेर्विधेयस्य विनेयस्य मुखाम्बुजम् । दिदृक्षवो मुनिं प्रैषुवृतं चाह्वानहेतवे ॥ २७५ ॥ तञ्चेदम्-सारीरं सयलं बलं विगलिअं दिट्ठी विकठेण मे दट्टब्वे सुपयट्टइ परिगणप्यायं तहा आनुयम् । पाणा पाहुणयछगन्तु महुणा वंदत्ति वच्छा तुमम् मंदटुं जइ अच्छितालहुलहु इच्छाहि निस्संसयम् ॥ २७६ ॥ १ D मुनींद्रश्च. २ D विधेयस्य गुरुणास्य. Page #156 -------------------------------------------------------------------------- ________________ १४८ प्रभावकचरिते तं दृष्ट्वा बहुमानार्दो गुरौ द्रागाजगाम च । राजपुंभिः समं मोढेरके प्रभुपदान्तिके ॥ २७७ ॥ प्रभोः स न्यासविन्यासं रुधन् प्रथमदर्शने । अतृप्तस्तस्य वात्सल्ये तेनासौ जल्पितः शमी ॥ २७८ ॥ . तथाहि-वपुः कुब्जीभूतं तनुरपि शनैर्यष्टिशरणा विशीर्णा दंताली श्रवणविकलं कर्णयुगलम् । निरालोकं चक्षुः तिमिरपटलध्यामलमहो मनो मे निर्लजं तदपि विषयेभ्यः स्पृहयति ॥ २७९ ॥ ततो वत्समतिस्वच्छगच्छवात्सल्यतत्परः। भव त्वं गुरुसाहाय्यं प्रेत्यमे(चै)वानृणो भव ॥ २८० ॥ तत आराधनां कृत्वा परलोकं समाधिना। तं ययुर्गुणशास्तिश्च चक्रेऽसौ राजपूजितः ॥ २८१ ॥ श्रीमद्गोविन्दसूरेः श्रीनन्नसूरेश्च स प्रभुः।। बप्पभट्टि समाथ गच्छं संघ च सोद्यमम् ॥ २८२ ॥ अनुज्ञाप्य क्षितिस्वामि प्रधानैराहतैर्वृतः। पुनरप्याययावामधाम निर्ग्रथनायकः॥ २८३ ॥ युग्मम् । तं दृष्ट्वा भूपतिस्तत्र जातरागविकल्पतः। चित्ताभिसन्धिसंबद्धां गाथामेनामचिन्तयत् ॥ सभासीनोऽन्यदा राज्ञः सूरिप्रेक्षणकक्षणे । प्रवीणपुस्तिकाहस्तः पुंरूपेव सरस्वती ॥ २८४ ॥ द्विधाक्षरे पदे स्थास्तुदृष्टिस्तत्क्लेशनाशिनी । तदा कदाचिदाध्यासीन्नीलचण्डातके दृशम् ॥२८५॥ युग्मम् । तथाहि-सिद्धांततपारं गयाणजो इणजो गजुत्ताणम् । जइ ताणं पिमयच्छी मणिम्मिता तच्चियपमाणम् ॥ २८६ ॥ अमूदृक्कार्यनिर्वाहज्ञानहेतुं ततस्तदा । स्नेहादेव निशि प्रेषीत्तां पुंवेषां तदाश्रये, ॥ २८७॥ सा निलीना क्वचिद्भव्यगणे स्वस्थानगे ततः। रहः शुश्रूषितं सूरि प्रारेभे धैर्यभित्तये ॥ २८८ ॥ स्त्रीकरस्पर्शतो ज्ञात्वा चोपसर्गमुपस्थितम् ।। विममर्श नृपाशानतमसश्चेष्टितं ध्रुवम् ॥ २८९ ॥ १ P. मः २ P केश. ३ P. सिद्धंतत...जोईणगजनाणां जयमितातिधि. Page #157 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः। . ससजः सजयः सज्जमनोभूविजये ततः। अष्टाङ्गयोगसद्धर्मसंवमिततनुर्मुदा ॥ २९०॥ शुभध्यानाश्वमारूढः संतोषयक्षराक्षसम् । दृढसंयमकोदण्डविष्टब्धतप आशुगः ॥२९१ ॥ सद्बोधपुष्टिरिष्टगी शक्तिशक्तिस्फुरत्करः। अनास्थया समुत्तस्थावन्तरङ्गद्विषजये ॥२९२॥ त्रिभिर्विशेषकम् । अब्रवीद् ब्रूहि कात्र त्वं किमर्थ समुपस्थिता । ब्रह्मचर्मवतामेषा स्यान्न भूमिर्भवादृशाम् ॥ २९३ ॥ अध्वन्येषु यथा व्याली हारहूरं द्विजालये । पलं दर्शनशालासु हलं राजकुले यथा ॥ २९४ ॥ धर्मे प्राणवधो यद्वद्वेदोच्चारे यथांत्यजः। नालिकेरं पपौ यद्वद्विके दधिफलं यथा ॥ २९५॥ चन्दने मक्षिका यद्वद्रोमठं कुङ्कमे यथा। कर्पूरे लशुनो यद्वत्तथात्र त्वं न चित्तहृत् ॥२९६॥ विशेषकम् । विश्वश्रोतःश्रवद्विस्रजंबालकलुषाकृतौ । लजनीयेऽवलादेहे रजन्त्येके कृमीन्विना ॥ २९७ ॥ श्रुत्वेति तानुवाचासौ नाहं पूजाभिलाषिणी। आययौ भवतो मार्गभ्रष्टान् बोधयितुं स्फुटम् ॥ २९८॥ संपत्संपत्तये दानधर्म लोकानुरुध्यते। ऐश्वर्याय तपस्तप्यं तच राज्यं विना नहि ॥२९९ ॥ स्वर्भुवोपि च तत्रापि सारं सारङ्गलोचना। यया विना नृदेवानामवकेशीव पुंजनः ॥ ३०० ॥ उक्तञ्च-राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ३०१॥ जंगत्यपि न वर्तन्ते विपरीताग्रहग्रहम् ।। अवाप्तवांच्छयावाप्तं त्यज्यतो जनहास्यदाः॥ ३०२॥ दुर्बुद्धिवृद्धितो दैवदण्डिता इव ते प्रभो। अवधारय पाखण्डखेदितो मा स्म भूर्जडः॥ ३०३ ॥ युग्मम् । महाभक्त्यामराजेन प्रैष्यहं प्राणवल्लभा । विज्ञा मनोहरप्रज्ञा गुणरक्तधराधिपा ॥ ३०४ ॥ १ D संतोषप्रक्षराक्षतं. २ D पयौ यद्वद्वीके ३ टूंडे चकु० ४ PH चिहहृत् ५ D जगत्पतीन । Page #158 -------------------------------------------------------------------------- ________________ १५० . प्रभावकचरिते प्रभोर्यदूचे बीभत्सरसन्यासवशा तनुः। अशुश्रूषाकर्याङ्गभृतामेव कुयोषिताम् ॥ ३०५॥ वयं निरन्तरायाप्तकर्पूरादिमया इव । वेधसा विहिता अज्ञा दौर्गन्ध्यादिकथास्वपि ॥ ३०६॥ ततो नाथेय नाथ त्वां सफलीकुरु मामकम् । भोगाभोगं हि भोगेन भोगिन्या भोगिराडिव ॥ ३०७॥ ततः प्राक सिष्मिये सूरिस्तद्वाग्भिर्न विसिष्मिये । उवाच च गिरं धीरां धैर्याधारधुरन्धरः ॥ ३०८ ॥ हेनी पांचालिका रिक्तांतराला शुचिपूरिता । बहिश्चन्दनचर्चादिभूषासुरभि वस्तु किम् ॥ ३०९ ॥ मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् ।। रतिं करोति को नाम सुधीर्व!गृहेष्विव ॥ ३१० ॥ चक्षुः संवृणु वक्रवीक्षणपरं वक्षः समाच्छादय __ रुद्धि स्फूर्जदनेकभङ्गिकुटिलं रम्योपचारं वचः । अन्ये ते नवनीतपिण्डसदृशा वश्या भवन्ति स्त्रियाम् मुग्धे किं परिखेदितेन वपुषा पाषाणकल्पा वयम् ॥३११॥ इत्याकाप्यकर्येव न बुद्धा प्रत्युत प्रभो। स्वभावकठिनौ हस्तौ स्वगात्रेऽपत्रपाव्यधात् ॥ ३१२ ॥ . ताभ्यां च सर्गपत्राभ्यामिव सास्पर्शयत्ततः । स्मरकुअरकुम्भाभौ मृदुस्पर्शावुरोरुहौ ॥ ३१३ ॥ नभः शङ्गारशिखरिखादिरांगारभारवत् । निर्दम्भशोकदन्तेन पूच्चकार मुनीश्वरः ॥ ३१४ ॥ किं किमित्यूचिषी वक्षोजाग्रात्पाणि विकृष्य सः। अबाष्पगद्गदाव्यक्तवाचोवाच कथञ्चन ॥ ३१५॥ अमूल्यातुल्यवात्सल्यवर्द्धितास्मादृशाङ्गिनाम् । गुरूणां स्मारिता अद्य निजाङ्गस्पर्शतत्स्त्वया ॥३१६॥ तया कथमिति प्रश्ने कृते प्राह पुनः प्रभुः। रात्रौ खाध्यायकृत्वानंतरं विश्रामणां प्रभोः॥३१७ ॥ अहं व्यरचयं सर्वकालं सर्वाङ्गसंगिनीम्।। कटिं विश्राम्यं तत्प्रोथयुगलं च समस्पृशम् ॥३१८॥ युग्मम् । १ H. हनौ "चिः २ H पुरुषा ३ H. गुरुणी ४ P. विश्रम्येतप्रोथयुगलं व समास्पृशं । Page #159 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । तदद्यस्मृतिमानीतं वृत्तमार्दवसाम्यतः। यादृक् तव कुचद्वंद्वं तादृक् तदपि चाभवत् ॥ ३१९ ॥ श्रुत्वेति सा परावृत्तरसा भग्नाशतानिधिः । दध्यौ विधूतकामांध्या किं मे कर्मोदयं ययौ ॥ ३२० ॥ ग्रावा लोहं कथं वजं दुर्भिदोऽयं सिताम्बरः । वह्निटंकादिभिर्भेद्यो ग्रावा लोहञ्च वह्निना ॥ ३२१ ॥ कुचलीकोमलफलक्षोदाद्यैर्वज्रमप्यथ । भिद्येतानन्यसामान्यकाठिन्यं किञ्चिदस्य नु ॥ ३२२ ॥ घृतपिण्डसमा ह्यन्ये वह्निकुण्डसमासु ये । महिलासु विलीयन्ते सृष्टिरेवापरस्य च ॥ ३२३ ॥ वेधायमश्वकावस्य पुरः कर्मोमिकिङ्करौ । कम्मोप्यस्यबिभेतीव तीव्रब्रह्मव्रतस्पृशः॥ ३२४॥ रसे विरसमाधत्त मत्काममपि भग्नवान् । तिरश्चकार मां यस्तु तेन दैवं हि जीयते ॥ ३२५ ॥ ध्यायन्तीति निदद्रौ सा मुनिद्रोहे गताग्रहा । निद्रा हि विश्वदुःखाप्तौ विश्रामादुपकारिणी ॥ ३२६ ॥ प्रगे जागरिताचार्य पर्यङ्कासनसंस्थितम् । प्रणम्य प्राह नाहमरहंतद्विकृतौ? कृतीन् ॥ ३२७ ॥ वीतरागः पुरा स्मेरमरमुख्यारिजित्वरः। आसीत्त्ववृत्ततः सत्यमिदं ख्यातिं ययौ किल ॥ ३२८ ॥ तदापृच्छे प्रसाद्याशु पृष्ठे हस्तं प्रदेहि मे। तव शापेन शक्रोऽपि नश्यत्यन्यस्य का कथा ॥ ३२९ ॥ अथाह गुरुरज्ञानवागेषा ते वयं पुनः। रोषतोषभराभीता अज्ञाः शापादिगीर्वपि ॥ ३३० ॥ इति श्रुत्वा ययौ भूपसमीपं वरवर्णिनी । उवाच तहुणवातक्षणविहृतवैकृता ॥ ३३१ ॥ नाथ पाथ पतिं बाहुदण्डाभ्यां स तरत्यलम् । भिनत्ति च महाशैलं शिरसा तरसा रसात् ॥ ३३२ ॥ यथेच्छवह्निमास्कन्देत् सुप्तं सिहश्च बोधयेत् । श्वेतभिक्षु तव गुरुं य एनं हि विकारयेत् ॥ ३३३ ॥ १ म. पृष्टि. २ P भ्रश्यत्य०. Page #160 -------------------------------------------------------------------------- ________________ .१५२ प्रभावकचरिते इत्याकावनीपालः प्राप्तरोमाञ्चकञ्चकः। स्वगुरोर्गुरुसत्वेन प्राह नृत्यन्मनोनटः ॥ ३३४॥ न्युच्छने यामि वाक्याय दृग्भ्यां याम्यवतारणे । बलिर्विधीये सौहार्दहृद्याय हृदयाय च ॥ ३३५ ॥ असौ महीधराधारादेशः पुरमिदं मम ।। भाग्यसौभाग्यभृद्यत्र बप्पभट्टिप्रभुस्थितिः॥ ३३६ ॥ त्रिभिर्विशेषकम् । स्वक्षेत्रभ्रंशिनं कामं कामादिति विमर्शतः। । परक्षेत्रगतास्तत्र लालसत्वं हि तत्यजुः ॥ ३३७ ॥ पशवोपि गजास्तस्मादहासीत्सर्वथा नु तान् । योस्मै गजवरेत्याख्या ततः ख्यातास्तु महुरोः ॥ ३३८ ॥ . ततो गजवरो ब्रह्मचारी च बिरुदद्वयम् । तस्याभूभृतसद्भावभाविवेत्तुः श्रुतागमात् ॥ ३३९ ॥ तथा किं विदधे तत्र त्वया पृष्टेति सावदत् । कटाक्षक्षेपवक्षोजतत्करस्पर्शनादिभिः ॥ ३४० ॥ अजातबोधका चैकं तदा दोधकमब्रुवम् । तत्र प्रज्ञानुमानेन कवित्वं हि प्रसर्पति ॥ ३४१ ॥ तथाहि-गयवरकेरइ सच्छरइ पायपसारि उसत्त। निव्वोरा गुजराजजिस्थिनाहनकेणइ भुत्त ॥ ३४२॥ एवं नृपादिभिः सत्यगुणकीर्तनतस्ततः॥ ब्रह्मप्रभावप्रागल्भ्याद्बप्पभट्टिः प्रभुर्जयी ॥ ३४३॥ प्राकारबाह्यमन्येाराजा राजाध्वनाचरन् । पश्चादोकसि गेहस्येक्षांचके हालिकप्रियाम् ॥ ३४४ ॥ पञ्चांगुलबृहत्पत्रसंवृतस्तनविस्तराम् ॥ वृणुन्नवृतिरन्ध्रेणार्पयित्वा प्रियहस्तयोः ॥ ३४५ ॥ लवित्रं विस्मृतं पश्चात्प्रयांती गृहमन्तरा। उरोजबिम्बाकाराणि बहिःपत्राणि वीक्ष्य च ॥ ३४६ ॥ गाथार्द्ध प्रोचिवान् कौतूहलाकृष्टमनःक्रमः। दृष्टिमेरंड उद्दण्डस्कन्धे न्यस्यन् चलाचलाम् ॥ ३४७॥ त्रिभिर्विशेषकम् ॥ तञ्च–वइविचर निगायदलोपरंडोसाहइ तरुणाणं । तत्प्रातः स्वगुरोरग्रेऽवदत्संसदि संस्थितः ॥ ३४८॥ १ PH नदः २ D धरं धारादेशं । Page #161 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । उत्तरार्द्धमवादीञ्च तस्यानुपदमेव सः। इच्छघरे हलियवहु सद्दहमित्तच्छणी वसई ॥ ३४९ ॥ इति श्रुत्वा यथादृष्टपूरकं प्रभुमस्तवीत् ।। सिद्धसारस्वतः कोपि कलौ नामगुरुं विना ॥ ३५०॥ . सायमैक्षत सोऽन्येयुरेका प्रोषितभर्तृकाम् । यांतीं वासालये वक्रग्रीवां दीपकरां तदा ॥ ३५१ ॥ उत्तरार्द्ध विधायात्र गाथायाः सुहृदः पुरः। प्रातराह ततोऽसौ च प्राग्दलं प्राह सत्त्वरम् ॥ ३५२॥ तथाहि-पियसंभरणपलुद्वंतं अंसुधारानिवायभीया। दिजइ वंकग्रीवा इदीउपहि नायाए ॥ ३५३॥ इत्यनेकप्रबन्धाढ्यकाव्यगोष्टीगरीयसा। कालं सुखेन याति स्म गुरो राज्ञः कियानपि ॥ ३५४ ॥ श्रीधर्मभूधनोन्येार्दूतंप्रेषितवानथ । श्रीमदामस्य वामस्य दुष्कृतानां सुधीनिधिः ॥ ३५५ ॥ ततः स भूपमानम्य सभायामुचितासनः। सम्यक् व्यजिज्ञपत् सभ्यैर्विस्मितैर्वीक्षिताननः ॥ ३५६ ॥ मम नाथ प्रभो तावकीनच्छेकत्वभङ्गिभिः। संतुष्टः स्पष्टमाहस्म सविस्मयमनाक्रमः॥ ३५७ ॥ भवत्कोविदकोटीररत्नश्रीबप्पभट्टिना। सत्यानृतकवित्वस्य व्याख्यानाच्छलिता वयम् ॥ ३५८ ॥ यदायातोऽपि गेहान्न आतिथ्या)पि नार्हितः । आमो रामो धियानूपोनुतापातिशयः स नः ॥ ३५९ ॥ हल्लेखाधायि वैदग्ध्यं साहसं वाक्पथातिगम् । वयं चमत्कृतेर्हृष्टास्तद्वदाम किमप्यहो ॥ ३६० ॥ राज्ये नः सौगतो विद्वान् नाम्ना वर्द्धनकुंअरः। महावादी दृढप्रज्ञो जिनवादिशतोन्नतः॥३६१ ॥ देशसन्धौ समागत्य वादमुद्रां करिष्यति । सभ्यैः सह वयं तत्र समेष्यामः कुतूहलात् ॥ ३६२॥ युग्मम् । यः कोपि भवतां वादकोविदः सोपि तत्र वा । आयातु सह विद्वद्भिर्घनाघन इवोन्नतः ॥ ३६३ ॥ १P दुःतत्तानासु. Page #162 -------------------------------------------------------------------------- ________________ १५४ . प्रभावकचरिते तद्वासंग्राम एवास्तु यस्य वादी विजीयते । जित एवापरेणासौ किं हतैबहुशस्त्रिभिः ॥ ३६४ ॥ संजो वाचिवशौर्येते? वादिनोऽथ पराजिताः। • यद्यसौ सौगताचार्यो महावादीविजीयते ॥ ३६५ ॥ तस्मिन् जिते जिता एवायासवाह्यं त्वया वयम् । घृतपिण्ड इव स्त्यानमुदके हिमनिश्चयः ॥ ३६६ ॥ इति श्रुत्वामभूपाल ऊचे संदेशहारकम्। श्रीधर्मोनुचितं ब्रूयात्कि कदापि नराधिपः ॥ ३६७॥ परं किञ्चिदुपालभ्यमस्ति नार्हसतां हि यत् । अस्मिन्नवसरे वाच्यं प्रस्तावो दुर्लभो ध्रुवम् ॥ ३६८ ॥ विदुषः सुहृदस्तस्याकारणव्याजतो ध्रुवम् । आयामो मिलितुं तत्र स्फुटं वास्माभिरौच्यत ॥ ३६९ ॥ तत्र बीज उरादोरावाक्याभ्यां बंधुरीतितः । द्वितीयो राडि चद्वौच राजानावितिसंस्कृतान् ॥ ३७० ॥ दर्शिते वाटकीपत्रे व्याख्यातं बप्पभट्टिना । इदं भूअरिपत्तन्ते अरिपत्राख्यसंस्कृते ॥ ३७१ ॥ त्रिराख्यातेपि न ज्ञातं तेया वा न स्फुटीकृतम् । न विघ्नस्तु तृतीयेपि वचसि प्रकटेन यत् ॥ ३७२॥ एतत्प्रकाशितं यस्मादज्ञानात्पुंनपुंसकम् । शापितस्त्वत्प्रभुस्ते च विशिष्टा विदिता किल ॥ ३७३ ॥ तथापि चेजिगीषास्ति मयि नु त्वद्धीशितुः। श्रद्धां ते पूरयिष्यामि भवत्वेतद्भवद्वचः॥ ३७४ ॥ परं विजयिनो राज्ञः पराभूतक्षमाभुजा। सप्ताङ्गमपि राज्यं स्वमर्पणीयमदर्पिता ॥ ३७५ ॥ ईदृशं भवतः स्वामी यदोरीकुरुते तदा । पवनास्त्वत्पथा किं नः प्रयासेन फलं विना ॥ ३७६ ॥ इत्याकावदद्भूत आमेत्याख्या त्वया निजा। सत्या कृता विशांनाथ मतेरपरिपाकतः ॥ ३७७॥ १ P. भुजोवापिचशौर्यते. २ H. तस्मिन्न. ३ P बंधुरीरितः. ४ D omits संस्कृतान् to अरिपत्राख्य. ५ P भियाचा. ६H पञ्चतस्तत्पंथ. ७ H. विशाम्यतवमतेरपरिपाकवत. Page #163 -------------------------------------------------------------------------- ________________ १५५ श्रीबप्पभट्टिप्रबन्धः । जडोपि को न वेत्तीति कथिते किं पुनःपुनः। अपरोऽपि गृहायातं नृपं शत्रुमपि ध्रुवम् ॥ ३७८ ॥ योजयेदातिथेये न भवांस्तु प्रकटीकृतः। सत्कारायापि नाम स्वं सत्यापयति चेद्भिया ॥ ३७९॥ पलायमानो बाह्यानां हस्तारूढो विनश्यति । दृढमस्मत्प्रभो म वैतथ्यं जायते स्फुटम् ॥ ३८०॥ विग्रहेऽपि स एवास्यादोषो राज्ञस्ततो नृप । विमृश्यकारिता तत्र सैवास्यैकाऽपराध्यति ॥ ३८१ ॥ क्षमाक्लीबस्य तस्य त्वं जितेऽस्मद्वादिना ततः। पुमानथापमानस्य पात्रं सर्वस्वनाशतः ॥ ३८२॥ ब्राह्मीकृतप्रसादस्य नास्त्येवास्य पराजयः। वादिनो वि(व्य)मृशंस्तत्रभुव्यमर्शो(ों)हि नाशकृत् ॥३८३॥ श्रुत्वेति बप्पभट्टास्ये सहास्ये नृपवीक्षिते । मुनीशेन सदानन्दनिर्भरं जगदे वचः॥३८४॥ को हि धर्मस्य नोत्कंठी पूर्व परिचितस्य वा । यदि रागिग्रहो न स्यादस्य श्रेयोबहिष्कृतः ॥ ३८५॥ अनित्यैकग्रहे रक्ते भिक्षी कृतजयाग्रहः। क्षणं तदेव चेद्रागे जयोमोक्षस्ततः कुतः ॥ ३८६॥ वैराग्य एव मुक्तिः स्यात्सर्वदर्शनसम्मतः। कार्या नात्राधृतिभिक्षुर्जेयो मे तत्कृतोन्नतिः॥ ३८७॥ धर्मराजस्य सम्यक्तुविचारादिदमादृतः। मदाश्रितो यतो वादस्तस्यैवोपकरिष्यति ॥ ३८८ ॥ कुत्राप्यवसरे तस्मादस्तुवाक्पुरतो रणः । संमान्य प्रेषय प्रेष्ठपुमांसं धर्मभूपते ॥ ३८९ ॥ आमराजेन कृत्त्वैतत्प्रहितः सययौ भुवम् । व्यवस्थाप्य जगामासौ प्रोचे तत्स्वामिनः पुरः॥ ३९०॥ वाग्विग्रहाय वादींद्रराजवर्द्धनकुञ्जरम् । धर्म संवाहयामास गीष्पतिं वासवो यथा ॥ ३९१॥ चतुर्दिगन्तविश्रांतकीर्तयस्सुहृदस्ततः । आहूयाभ्यर्च्यसभ्यत्वे वादेऽस्मिन् विहिता मुदा ॥ ३९२॥ परमारमहावंशसम्भूतः क्षत्रियाग्रणीः। तस्य वाक्पपतिराजोऽस्ति विद्वान्निरुपमप्रभः ॥ ३९३ ॥ १ D. मदास्ये. Page #164 -------------------------------------------------------------------------- ________________ १५६ प्रभावकचरिते पूर्व परिचितश्चासौ बप्पभट्टिप्रभोस्ततः । तस्य वाग्मर्मविज्ञानहेतौ संवाहितो मुदा ॥ ३९४ ॥ व्यवस्थितदिने प्राप प्रदेशं देशसन्धिगम् । समाधीशमहासभ्यैः समं वर्द्धनकुंजरः ॥ ३९५॥ कन्यकुब्जादपि श्रीमानामः कामसुधीनिधिः । श्रीबष्पभट्टिना विद्वद्वन्दसन्निधिना सभाम् ॥ ३९६ ॥ भुवं तामेव संप्रापातपत्राच्छादिताम्बरः। आवासान् स्वःपुरा पट्टे दत्वावस्थितवानथ ॥ ३९७ ॥ युग्मम् । आजन्म सर्वदादृष्टशस्त्राशक्तिश्लथादरः। अदृष्टपूर्ववाग्युद्धप्रेक्षायै सकुतूहलः॥ ३९८ ॥ अहंपूर्विकया सिद्धविद्याधरसुरव्रजः । समेतश्चाप्सरोवगैः स्वर्गवद्गगनांगणे । कौतुकाकृष्टचेतोभी राजसभ्यैर्बहुश्रुतैः। ईयतुः सङ्गतौ तत्र तौ वादिप्रतिवादिनौ ॥ ३९९ ॥ उपविष्टेषु सभ्येषु श्रुत्यधीनमनस्सु च । तिमितात्र सभा साभूदालेख्यालिखिता किल ॥ ४००॥ निजं निजं नराधीशमाशिषाभिननंदतुः। स्वस्वागमाविरोधेन सभ्यानुमतिपूर्वकम् ॥ ४०१ ॥ ततः श्रीसौगताचार्यः पूर्व वर्द्धनकुञ्जरः। आशीर्वादमुदाजह्वे व्यथकं द्वेषिपर्षदाम् ॥ ४०२ ॥ तथाहि-शर्मणे सौगतो धर्मः पश्य वाचंयमेन यः। आदृतः साधयन्विश्वं क्षणक्षणविनश्वरम् ॥ ४०३ ॥ अथ श्वेतांबराचार्यो बप्पभट्टिः सुधीपतिः। अभ्यधत्ताशिर्ष स्वीयां भूपालाय यथा तथा ॥४०४॥ अर्हन् शम्र्मोन्नतिं देयान्नित्यानन्दपदस्थितः। यद्वाचा विजिता मिथ्यावादा एकान्तमानिनः॥४०५॥ उभयोराशिषः श्लोको निरूचुः पार्षदास्तदा। असौ धम्मों गतः सम्यग्यमिता गीश्च वादिभिः॥४०६॥ क्षणभङ्गि जगञ्चोक्तं भङ्गस्यैवानया गिरा। सौगतस्यानुमीयेत वाग्देवी सत्यवादिनी ॥ ४०७ ॥ नित्यानन्दपदं श्रीदो देव एकान्तविग्रही। मिथ्यावादविजेत्री गीः श्वेतभिक्षोस्ततो जयः॥४०८ ॥ १H. सर्व on the margin. २ H मीगी. Page #165 -------------------------------------------------------------------------- ________________ श्रीबप्पभडिप्रबन्धः। १५७ इति निश्चित्य ते तस्थुर्यावन्मौने सभासदः । तावत्कस्तूरिका हस्ते कृत्वा बौद्धोऽब्रवीदिदम् ॥ ४०९ ॥ कस्तूरीउपगरह प्रोक्ते प्राकृत ऊचिवान् । आचार्य उपकीयं रजकस्येति विद्यताम् ॥ ४१०॥ इति तत्प्रश्नसङ्केतादुत्तरेणाधरीकृते । तावद्रक्ताम्बरः सर्वानुमतः पक्षमब्रवीत् ॥ ४११ ॥ सर्वानुवादेनानूद्यततस्तत्पक्षदूषकान् । उदाजहार व्याहारान्प्रमाणिकपतिर्मुनिः ॥ ४१२ ॥ उत्तरादुत्तरं चैवमुक्तिप्रत्युक्तिरीतितः। षट् व्यतीयुस्तदा मासास्तयोर्विवदमानयोः ॥ ४१३॥ श्रीमानामनृपोऽन्येधुरूचे सूर्ति कदा प्रभो । व्यापातो राजकार्याणां वादः संपूरयिष्यते ॥ ४१४॥ तत आह तदाचार्यो वाग्विनोदसुखाय वः। इयत्कालं हि नश्चेतस्यासीदितिकृते प्रभो ॥ ४१५॥ बाधा व्यधायि योषा भवतस्तद्विलोकय । प्रभाते निगृहीष्यामि विद्वन्मन्यं हि भिक्षुकम् ॥ ४१६॥ प्राग्दत्तं गुरुभिर्मत्रं परावर्त्तयतस्ततः। मध्यरात्रे गिरा देवी वर्गगावेणिमध्यतः॥४१७॥ स्नाती तादृशरूपा च प्रादुरासीद्रहस्तदा । अहो मन्त्रस्य माहात्म्यं यहेव्यपि विचेतना ॥ ४१८॥ युग्मम् । अनावृतशरीरांच सकृदीषद्ददर्श ताम् । सूरिः सूर्यादिवास्यं च परावर्तयतिम सः॥४१९ ॥ खंरूपं विस्मरन्ती च प्राह वत्स कथं मुखम् । विवर्त्तसे भवन्मन्त्रजापात्तुष्टाहमागता ॥४२०॥ वरं वृण्विति तत्रोक्तो बप्पभट्टिरुवाच च । मातर्विसदृशं रूपं कथं वीक्षे तवेदृशम् ॥ ४२१ ॥ खां तनुं पश्य निर्वस्त्रामित्युक्ते खं ददर्श सा। अहो निबिडमेतस्य ब्रह्मव्रतमिति स्फुटम् ॥ ४२२ ॥ वीक्ष्य मामीदृशीं यन्न चेतोऽस्य विकृतिं ययौ । ध्यायन्तीति दृढं तोषात्तत्पुरः समुपस्थिता ॥४२३॥ युग्मम् । वरेऽपि निस्पृहे त्वत्र दृढं चित्रादुवाच च । गत्यागत्योर्ममत्वेच्छा त्वदीया निर्वृतो भव ॥ ४२४ ॥ ततः सूरिनिरां देवीं तुष्टुवे सुष्टुवाग्भरैः। वृत्तैरधनितेद्याद्यैश्चतुर्दशभिरद्भुतैः॥ ४२५ ॥ 14 Page #166 -------------------------------------------------------------------------- ________________ १५८ प्रभावकचरिते इमां स्तुति सुवर्णाद्यां कर्णकुण्डलरूपिणीम् । मानयंत्यतिसन्तोषाद्भारती वाचमूचुषी ॥ ४२६ ॥ वत्स किं पृच्छसीत्युक्ते सूरिरूचे विवाद्यसौ। सत्यं प्रज्ञाबलाद्यल्पेद्विशानमथ ? किञ्चन ॥ ४२७ ॥ देवी प्राहामुना सप्तवारानाराधितास्म्यहम् । प्रदत्ता गुटिकाक्षय्यवचनास्य मया ततः॥४२८॥ तत्प्रभावाद्वचो नास्य हीयते यतिनायक। सोपालम्भमिवाहासौ सूरिः श्रीश्रुतिदेवताम् ॥४२९॥ पुणासि प्रत्यनीकं किं शासनस्य जिनेशितुः। सम्यक् दृष्टिं पुरानायात् शुश्रुवे भवती न तु ॥ ४३०॥ सरस्वती पुनः प्राह माहं जैनविरोधिनी। उपायं तेऽर्पयिष्यामि यथासौ जीयते बुधः ॥ ४३१ ॥ सर्वेऽपि मुखशौचं ते विधाय श्रीपार्षदादयः । ततोऽस्य कार्यमाणस्य गण्डूषं मुञ्चतो मुखात् ॥ ४३२॥ भ्रष्टा चेहुटिकाऽवश्यं युष्माभिर्जितमेव तत् । चतुर्दशं पुनर्वृत्तं न प्रकाश्यं कदापि हि ॥ ४३३॥ यतस्तत्र श्रुतेः साक्षाद्भवितव्यं मया ध्रुवम् । कियतां हि प्रसीदामि निष्पुण्यानां मुनीश्वर ॥ ४३४॥ इत्युक्त्वान्तर्दधे देवी सूरिश्छन्नं जगौ पुरः। विशवाक्पतिराजस्य यदादिष्टं गिरा तदा ॥ ४३५॥ इत्यङ्गीकृत्य तेनाथ करकं नीरपूरितम् । समानाय्य सभा सर्वा वक्रशुद्धि व्यधीयत॥४३६॥ तत्कुर्वतोथ तस्यापि गुटिका पतिता मुखात् । भिक्षोरास्यजलैर्नुन्ना श्रीरिवापुण्यकर्मणः ॥ ४३७ ॥ अविश्रान्तमिथोवादाध्वन्याऽध्वन्यतया ततः। श्रांता विश्राममिच्छन्ती मूकस्येवास्य गीः स्थिता ॥ ४३८॥ सदस्याश्च वचःप्रोचुर्गुटिकैव वचःक्षमा। अनेडमूक एवायं भिक्षुरन्वर्थनामभूः॥४३९॥ जिग्ये श्रीबप्पभट्टिस्तं वादिकुञ्जरकेसरी। बिरुदं जुघुषे राज्ञा जशे जयजयारवः ॥ ४४०॥ धर्मराज्यं गृहीतुं च स्वबलात्सार्द्धवैभवम् । तदाम उपचक्राम स्खं पणं कस्त्यजेजयी॥४४१ ॥ उवाचाथ गुरुस्तस्य यदुक्तं वःपुरः पुरा। यद्राज्येन पणं चक्रे धर्मभूपोधिकृत्य नः॥४४२॥ १२. सप्तभवानाराधिता. Page #167 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । १५९ तत्तस्यैवाधिकाराय भविष्यति कदाचन । तदस्य वचसः कालो नृपनाथ समाययौ ॥४४३॥ इयं प्रमाणशास्त्राणां मुद्रा यल्लिखिते ततः। संबंधे निग्रहो नैव यत्पराजय एव सः॥४४४॥ अस्य राज्यं तदस्यैव संतिष्ठतु यथास्थितम् । अनित्यभवहेतोः कः शास्त्रमुद्रां विलुपति ॥४४५॥ गुरुभक्त्याभिरामोयमामोऽनिछुर्बलादपि । धर्मे धर्मस्थितो राज्यमनुमेने प्रसादतः॥४४६॥ तत आश्लिष्य बौद्धं तं सूरिर्वर्द्धनकुञ्जरम् । तदासन्ने गोपगिरी श्रीवीरभवनेन यत् ॥ ४४७॥ श्रीमहावीरबिंबं स विलोक्य हृदि हर्षितः। शांतो वेष इति स्तोत्रं चके प्रमुदितस्तदा ॥ ४४८॥ एवं स्तुत्वा जिनं खात्मनिंदके सौगतप्रभो । सूरि नरहस्यानि तस्य प्रादर्शयत् पुरः॥४४९ ॥ मिथ्यात्वगरलं हृत्वा पीयूषामलगीभरैः। परीक्षापूर्वमस्थापि तश्चित्ते धर्म आर्हतः॥४५०॥ निद्रानिद्राणचैतन्ये निशायामन्यदा गुरौ । प्रतिप्रहरमाह म ताथागतयतीश्वरः ॥ ४५१ ॥ चतुरक्षरनिष्पन्न समस्यानां चतुष्टयम् ।। स चोत्स्वप्नायितेनेवापूरयत्सूरिपुंगवः ॥ ४५२ ॥ मन्दाक्रान्तापदैर्मदाक्रांतिक्षुण्णात्यतीर्थिकः। अपरमपरैः सर्वप्रयत्नेनापि वाग्मिभिः॥४५३॥ युग्मम् । (एको गोत्रे सर्वस्य द्वे स्त्रीपुंवच्च वृद्धो यूना समस्याः) एको गोत्रे स भवति पुमान् यः कुटुंबं बिभर्ति सर्वस्य द्वे सुगतिकुगती पूर्वजन्मानुबद्धे । स्त्री पुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम् वृद्धो यूना सह परिचयात्त्यज्यते कामिनीभिः॥ ४५४॥ सम्यक्त्वं ग्राहितः सोथ द्वादशव्रतशोभितम् । आश्लेषपूर्वमापृच्छय खं स्थानं प्रययौ ततः॥ ४५५ ॥ पूर्ववैरपरीहारात्संगतौ सोदराविव । अन्योन्यप्राभृतैस्तुष्टौ पुरं खं खं गतौ नृपौ ॥ ४५६ ॥ अन्यदा रहसि प्राह धर्मरूपं स सौगतः। विजिग्ये बप्पभट्टिी न तत्क्षुण्णं मनस्यपि ॥ ४५७॥ १J. स्थिती. Page #168 -------------------------------------------------------------------------- ________________ १६० प्रभावकचरिते यतो वाग्देवता तस्य यथोदितविधायिनी। खयं वदति तदेहे स्वप्ने जाग्रति वा स्थिता ॥ ४५८ ॥ परं वाक्पतिराजेन त्वद्राज्यपरिभोगिणा। अस्मास्वपकृतं भूरि मुखशौचविधापनात् ॥ ४५९ ॥ इति श्रुत्वापि बौद्ध स छलवादात् श्लथादरः। रहं वाक्पतिराजेन गुणग्राह्ये मुमोच न ॥ ४६०॥ यशोवर्मनृपो धर्ममन्यदा चाभ्यषेणयत् । तस्माद्विगुणितं दस्तं भूपं युद्धेऽवधीद्वली ॥ ४६१ ॥ तदा वाक्पतिराजश्च वंदे तेन निवेशितः । काव्यं गौडवधं कृत्वा तस्माच्च स्खममोचयत् ॥ ४६२ ॥ कन्यकुले समागत्य संगतो बप्पभट्टिना।। स राजसंसदं नीतस्तुष्टुवे चेति भूपतिम् ॥ ४६३॥ तथाहिकर्मः पादौ च यष्टिर्भुजगतनुलताभाजनं भूतधात्री तैलोत्पूरः समुद्रः कनकगिरिरयं वृत्तवर्तिप्ररोहः। अर्चिश्चंडांशुरोचिर्गगनमलिनिमा कजलं दह्यमाना शत्रुश्रेणीपतंगोज्वलतु नरपते त्वत्प्रतापप्रदीपः॥ ४६४ ॥ चटच्चटिति चर्मणि छमिति चोच्छल्लिते शोणिते धगद्धगिति मेदसि स्फुटरवास्थिष्वाकृतिः। पुनातु भवतो हरेरमरवैरिनाथोरसि __ क्वणत्करजपअरक्रकचकाषजन्मानलः॥४६५॥ पृथुरसि गुणैः कीर्त्या रामो नलो भरतो भवान् __महति समरे शत्रुघ्नस्त्वं सदैव युधिष्ठिरः। इति सुचरितैः ख्यातिं बिभ्रश्चिरंतनभूभृतां कथमसि न मांधाता देवस्त्रिलोकविजय्यपि ॥ ४६६ ॥ सन्मानातिशयो राज्ञा विदधे तस्य भूभृतः। गंगां गेहागतां कोहि पूजयेदलसोपि न ॥ ४६७ ॥ मन्यते कृतकृत्यं खं स्वर्गनाथोपि वाक्पतिम् । प्राप्य वाक्पतिराजं तु नाधिकोद्य किमस्त्यतः ॥ ४६८ ॥ त्यागाद्धर्मस्य माकार्षीर्मनस्यनुशयं सखे। यद्गुहागतमत्पूजानाधानात्सोवत? स्थितिः॥४६९॥ तवाधीनमिदं राज्यं विचित्य सुखमाख तत् । श्रीबप्पभट्टेमम च तृतीयस्त्वं महामते ॥ ४७०॥ १H बला P. नस्तं. २ P रामौ. ३ म प्राय. ४ P नाधिकोच्च किमस्म्य तं. Page #169 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । १६१ इत्यामराजव्याहारामृतसारपरिलतः। गंगोदक इव स्त्रातः प्रीतिपावित्र्यमाप सः॥४७१॥ सहैवोत्थाय तत्रासौ नृपमित्रेण सूरिणा। उपाश्रयमनुप्राप्यातिष्ठत्परमया मुदा ॥ ४७२॥ गौडबंधो मद्रमहीविजयश्चेति तेन च । कृता वाक्पतिराजेन द्विशास्त्रीकवितानिधिः॥४७३॥ बौद्धकारिततद्वेषापोषके धर्मभूपतौ। सर्वत्र गुणिनः पूज्या गुरुरित्याह तत्पुरः॥४७४॥ वृत्तौ कृतं हेमटंकलक्षं तद्विगुणीकृतम् । नृपेणासौ महासौख्यात् कालं गमयतिस्म सः॥४७५॥ युग्मम् । सभायामन्यदा राजा सुखासीनं गुरुं प्रति । प्राह न त्वत्समो विद्वान् स्वर्गेपि किमु भूतले ॥४७६॥ गुरुराह पुराभूवन् पूर्व ते जैनशासने । श्रुतज्ञानमहांभोधेर्यत् प्रज्ञा पारदृश्वरी ॥ ४७७॥ शतं सहस्रलक्षं वा पदानामेकतः पदात् । अवगच्छंति विद्वांसोऽभूवन केथाधिका अपि ॥४७८ ॥ ऐदंयुगीनकालेपि संति प्रज्ञाबलाद्भुताः। येषामहं नवाप्नोमि पादरेणुतुलामपि ॥ ४७९ ॥ अस्मदीयगुरोः शिष्यौ खेटकाधारमंडले। विद्यते तन्नसूरिः श्रीगोविंदसूरिरित्यपि ॥ ४८०॥ यत्पुरो बठरत्वेन ? तत्र स्थितिमनिच्छतः। शृंगाराय भवत्सख्यं विदेशावस्थितेर्मम ॥४८१॥ इति वाचा चमत्कारं धारयन्नब्रवीन्नुपः। भवद्वचं प्रतीतोपि प्रेक्षिष्ये कौतुकं हि तत् ॥ ४८२ ॥ ततो वेषपरावर्त्तप्राप्तो गुर्जरमंडले। पुरे हस्तिजये जैनमंदिरस्य समीपतः॥४८३ ॥ उपाश्रयस्थितं भव्यकदंबकनिषेवितम्। राजानमिव सच्छत्रं चामरप्रक्रियान्वितम् ॥ ४८४॥ सिंहासनस्थितं श्रीमन्नन्नसूरिं समैक्षत । उत्तानहस्तविस्तारसंज्ञयाह किमप्यथ ॥ ४८५॥ एतद्विलोक्याचार्योपि मध्यमातर्जनीद्वयम् । पुरस्तस्य वितस्तार भंगाकारेण तत्र च ॥ ४८६ ॥ इत्युत्थाय गते तत्र जनैः पृष्टमिदं किमु । ततः प्रापंचयत्सूरिः कोपि विद्वानसौ पुमान् ॥ ४८७ ॥ Page #170 -------------------------------------------------------------------------- ________________ १६२ प्रभावकचरिते पृच्छतिस्म यतीनां किं राज्यलीला येतो? मया । इत्युत्तरं ददौ शृंगे भवतो भूपतेः किमु ॥ ४८८॥ निविष्टमन्यदा चैत्ये शास्त्रं वात्स्यायनाभिधम् । व्याख्यातं प्रेक्ष्य तं भूपो नमस्कृत्य जिनं ययौ ॥ ४८९ ॥ ननाम न गुरुं कामशास्त्रव्याख्यानतः स च । विद्वानेष न चारित्री गुरुरित्थं विकल्पितः॥४९०॥ परिज्ञातेथ तत्तत्त्वे खेदं दधे स कोविदः। धिग्वैदग्ध्यं हि नो निर्यदेपकीर्तिकलंकितम् ॥ ४९१॥ श्रीगोविंदाः शशासैनं खिद्यसे किं वचः शृणु। आमभूपतिरेवायं गुप्तो नापर ईदृशः ॥४९२॥ ततः किंचिद्धर्मशास्त्रं विधायातिरसोज्वलम् । पार्थान्नटस्य कस्यापि बप्पभट्टिप्रभोः पुरः॥४९३॥ प्रेषयैतद्यथा तत्राभिनामयति तत्पुरः। तत्रापरिरसावेशं सोनुभूय प्रभोक्षते ॥ ४९४॥ तथेति प्रतिपद्याथ कृत्वा तच्च नटोत्तमान् । प्रेषयच्छिक्षितान्सम्यक प्रापदामपुरं च सः॥ ४९५॥ अमिलद्बप्पभद्देश्च तेन राज्ञोऽथ दर्शितः। आदितीर्थकृतो वृत्तमभिनिन्ये सकू(ना)तनम् ॥ ४९६ ॥ विहितं संधिबंधेन रसाय नन्नसूरिणा। तत्कथां प्रथयन् नृत्यन्नाह प्राकृतरूपकम् ॥ ४९७॥ युग्मम् । कञ्चणटु सुविपट्ट सुगिरिवे जट्टविट्टावई श्रीबप्पभट्टिराहेदमोनं रूपकद्वयम् । नर्मवर्मेण तच्चापि नटो व्यावृत्य तत्पुरे ॥ ४९८ ॥ आगत्य तथ्यमाचख्यौ नन्नाचार्यकवेः पुरः। नैतद्राम्यमिदं कार्यमिति संचिंत्य हर्षतः॥४९९ ॥ ततो रूपं परावृत्य स सिद्धगुटिकादिभिः । प्रतस्थे कन्यकुब्जेथ सह गोविंदसूरिणा ॥ ५००॥ प्राप्तोऽथ मिलितो बप्पभट्टेः पट्टेश्वरस्य च । राजपर्षदि नृत्यंश्च रसं वीरं वितेनिवान् ॥५०१॥ तद्ध्यानैकमनाभूय चकर्ष क्षुरिकां निजाम् । मारिमारीति शब्देन नदन सिंह इव क्रुधा ॥ ५०२॥ १H P ततो. २D विश्व दुष्यं हिनो निर्यपद०. ३ P H तत्पुरोः, D व्यावृत्सचित्पुरे. Page #171 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । १६३ अंगरक्षैस्ततो नाट्यमिदमित्थं निवारितः। चैतन्यै संगतः पश्चात्प्रतिबद्धो गुरूक्तिभिः ॥ ५०३॥ आह गोविंदसूरिस्तप युक्तं कथं कृतम् । केनापि न परं शास्त्ररसः सर्वोनुभूयते ॥ ५०४॥ ततो वात्स्यायने व्याख्यायमाने नन्नसूरिणा। सविकल्पो मनीषी त्वमन्यः को न विकल्पयेत् ॥ ५०५॥ लक्षितेन ततो राज्ञा क्षमितौ कोविदाधिपौ। सत्यं तद्वचनं बाढं यदूचे सुहृदा मम ॥ ५०६॥ संयमेन तु शीलेन वृत्त्या विद्वत्तया तथा। तहरुभ्रातरौ पूज्यौ भ्रान्ति, क्षम्यतामिति ॥ ५०७ ॥ इत्याकर्ण्य ततःप्रोचे श्रीमद्गोविंदसूरिणा। तपो न नः कलंक्येत त्वयि वृत्तानि पश्यति ॥ ५०८॥ पतः-भवन्तु ते दोषविदः शिवाय विशेषतस्तेह शिवैकनिष्ठाः । येषांप्रभावादपवादभीता गुणार्जनोत्साहपरा नराः स्युः५०९ तथा-जे चारित्तिहि निम्मला ते पंचायणसीह विसयकसाइहि गंजियानाहं फुसिजइलीह ताहं फुसिजइलीह इच्छेतनुसल्लिषालह ॥ ५१०॥ ते पुणविसयपिसाय बलियगय करिणिहि बालहते पंचायण सीह सत्ति उज्वलनियकित्तिहिं ते नियकुलनहथलमयंकनिम्मलचारित्तिहिजेचारित्तिहि५११ श्रुत्वेति नृपतिस्तेषामुवाच सुहृदं गुरुम् । धन्योहमेव यस्याभूहुरोः कुलममूदृशम् ॥ ५१२॥ राज्ञाथ स्थापितौ तत्र दिनान्यथ कियंत्यपि । व्यापृच्छय बप्पभट्टि तावागतौ स्वभुवं ततः॥५१३ ।। धर्मख्यंख्या(ख्यिान)सदाख्यानाख्यानप्रश्नोत्तरादिभिः?। कियानपि ययौ कालः समुदोः सुहृदोस्तयोः॥५१४॥ आययावन्यदा वृंदं गायनांतावसायिनाम् । श्रवः स्वादिमहानादरसनिर्जिततुंबरुः ॥ ५१५॥ तत्रैका किन्नरी साक्षान्मातंगी गीतभंगिभिः।। राजानं रंजयामास रूपादपि रसादिभिः॥ ५१६॥ प्रवाह्य प्रतिपक्षस्य राज्ञो रागद्विपन जयी?। चित्तवृत्तिमहापुर्यामवस्कंदं ददौ तदा ॥ ५१७॥ वास्तव्यानीन्द्रियाण्यस्य बहिर्मीत्येव निर्ययुः। तैरेव प्रेरितो राजा वासं बहिरचीकरत् ॥ ५१८ ॥ १H स्वनुर्व. Page #172 -------------------------------------------------------------------------- ________________ १६४ उवाच च - प्रभावकचरिते वक्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः ॥ वाणी कामदुघा कटाक्षलहरी तत्कालकूटं विषम् तत्किं चंद्रमुखि त्वदर्थममरैरामंथि दुग्धोदधिः ॥ ५१९ ॥ अन्तश्चरेभ्यो विज्ञातवृत्तान्तः सूरिरप्यथ । दध्यौ स सादिनो दोषो यदश्वो विपथं व्रजेत् ॥ ५२० ॥ आमभूपे विमार्गस्थे विश्वप्रकृतिषु ध्रुवम् । अपकीर्तिः कलंकोयं ममैवासंजति स्फुटः ॥ ५२१ ॥ तदुपायाद्विनेयोसाविति ध्यात्वा बहिर्गृहे । ययौ विलोकनव्याजात्कामार्त्तरौषधं स्मरन् ॥ ५२२ ॥ नव्येषु पट्टशालायाः पट्टेषु खटिनीदलैः । काव्यानि व्यलिखद्बोधबंधुराणि ततो गुरुः ॥ ५२३॥ युग्मम् । तथाहि शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजन्ति शुचयः संगेन यस्यापरे । किं वातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनाम् त्वं चेन्नीचपदेन गच्छसि पयः कस्त्वां निषेद्धुं क्षमः ॥ ५२४ ॥ सद्वृत्तसगुणमहार्घ्यमहार्हकांत कांताघ नस्तनतटोचि तचारुमूर्त्तिः । आः पामंरीकठिनकंठविलग्नभग्नहाहारहारित महो भवता गुणित्वम् उप्पहजायाए असोहरीह फलकुसुमपत्तरहियाए । वोरीदं च इदितो भोभो पामरनलज्जिहसि ॥ ५२६ ॥ मायंगी सत्तमणस्स मेइणि तहपभुजमाणस्स । अब्मिss भुष्मनाया भोकानद्धम्मस्स ॥ ५२७ ॥ लघि जइ जेण जणे मइलिघ इनियकुलकमो जेण । कंठद्विपहिजीवे मासुंदरतं कुणिद्यामु ॥ ५२८ ॥ जीयं जलबिंदुसमं संपत्ती उत्तरंगलोला । उसिविणयसं वम्मिंजं जाणहतं करिद्यासु ॥ ५२९ ॥ लिखित्वा स्वाश्रयं प्राप बप्पभट्टिप्रभुर्मुदा । द्वितीयेहनि भूपोपि तत्सम प्रेषितुं ययौ ॥ ५३० ॥ अवाचयच्च वाक्यानि हृल्लेखीनि यथा यथा । तथा तथा भ्रमोऽनेशदुग्धाद्धत्तूरमोहवत् ॥ ५३१ ॥ अथान्वतप्यत श्रीमानामः श्याममुखाम्बुजः । व्यमृशश्च विना मित्रं कोन्य एवं हि बोधयेत् ॥ ५३२ ॥ १ H पामर. Page #173 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । इदानीमहमप्रेक्ष्यं खमास्यं दर्शये कथम् ।। तस्य व्यथाकरं विश्वप्राणिनां दोषकारणम् ॥ ५३३॥ सांप्रतं मे बृहद्भानुरेव शुद्धिं विधास्यति । कलंकपंकिलं त्याज्यमेवास्माकं हि जीवितम् ॥ ५३४ ॥ इति ध्यात्वा स तत्रैवादिशत्प्रेष्यांश्चिताकृते । अनिच्छंतोपि भूपालादेशं तत्र व्यधुर्बलात् ॥ ५३५॥ राजलोक इदं ज्ञात्वा पूञ्चके करुणवरम् । राजमित्रगुरोरने तेनासौ तत्र जग्मिवान् ॥ ५३६ ॥ उवाचाथ गुरुर्भूपप्रारब्धं स्त्रीजनोचितम् । किमिदं विदुषां निंद्यं ततो राजाह तत्पुरः॥५३७॥ मम प्रच्छन्नपापस्य मालिन्ये मनसा कृते । खदेहत्याग एवास्तु दंडो दुःकृतनाशनः ॥५३८॥ यथा दुःकृतिलोकस्य वयं दंडमकृष्महि । तथा स्वस्यापि किं नैव कुर्मः कर्मछिदा कृते ॥ ५३९॥ गुरुराह स्मितेनाथ विमृश त्वं हि चेतसा। निबद्धं कर्म चित्तेन चित्तेनैव विमोच्यते ॥ ५४०॥ स्मार्त्तानात (ति)भिदे पृच्छ प्रायश्चित्तानि पाप्मनाम् । यतः स्मृतिषु सर्वेषां मोक्ष ऊचे मनीषिभिः॥ ५४१॥ वेदान्तोपनिषत्तत्वश्रुतिस्मृतिविशारदाः। तत्राहूयंत भूपेन सूपेन न्यायनाकिनः॥५४२॥ यथावृत्तं मनःशल्यं जगदे तत्पुरस्तदा । ततस्ते स्मृतिवाचालास्तथ्यं शास्त्रानुगं जगुः ॥ ५४३॥ आयसीं पुत्रिकां वह्निध्मातां तद्वर्णरूपिणीम् । आश्लिष्यन्मुच्यते पापाच्चांडालीसंगसंभवात् ॥ ५४४ ॥ श्रुत्वेति भूपतिः कारयित्वा तां कथितक्रमात् । आनाय्य तत्र सजोभूत्तदालिंगनहेतवे ॥ ५४५॥ वेगादागत्य पांचालीमाश्लिष्यंस्तां स्वसिद्धये । पुरोधोबप्पभट्टिभ्यां भूपतिर्भुजयोधृतः ॥ ५४६॥ आह श्रीबप्पभट्टिश्च स्थिराधार स्थिरो भव। मा कोर्टिभरमात्मानं नाशयेथा मुधा सखे ॥ ५४७॥ उक्तञ्चैकाग्रचित्तेन साहसानन्यवेश्मना। भवता कर्मवित्तेन बद्धमुन्मोचितं त्वया ॥ ५४८॥ अस्य पापस्य मुक्तोसि कृष्णाभ्रादिव भास्करः। घोतिष्यसे सतामंतर्मुच तत्कर्म दुष्करम् ॥ ५४९ ॥ Page #174 -------------------------------------------------------------------------- ________________ प्रभावकचरिते. आनंदितः प्रभोर्वाग्भिरिति तत्याज कुग्रहम् । इति शाते च हर्षोत्र पुनर्जात इवाभवत् ॥ ५५० ॥ अमात्यैर्नगरे तत्र सर्वालंकृते कृते । गजगंधर्वसंदोहरथ्यापादातिसंवृतः॥ ५५१ ॥ पट्टहस्तिशिरस्थानानासनस्थे मुनीश्वरे । रोमगुच्छातपत्रादिप्रक्रियाप्रकटप्रभे ॥ ५५२॥ प्रविवेश विशामीशः स्वयं श्रीशयश:श्रिया। सुराणामप्यपूर्वेण पुरमत्युत्सवेन सः॥ ५५३॥ त्रिभिर्विशेषकम् । इतो वाक्पतिराजश्च तं दृष्टा राजवैकृतम् ।। निबन्धानृपमापृच्छय वैराग्यान्मथुरां ययौ ॥ ५५४ ॥ धर्माख्यावसरेऽन्येद्युः प्रभुभूपालमूचिवान् ।। धर्मतत्वानि पार्षद्यमानितानि विवृत्य सः॥ ५५५॥ नवनीतसमं विश्वधर्माणां करुणानिधिम्। संत्याज्यमार्हतं धर्म परीक्षापूर्वकं श्रय? ॥ ५५६॥ राजा प्राहाहतो धर्मो निर्वहत्येव मादृशाम् । परीक्षायाः परं शैवधर्म चेतो लगेदृढम् ॥ ५५७ ॥ त्वदुक्तो नीरमानेष्ये कुंभेनामेन रंगतः। परं मा माममुं धर्म त्याजयिष्यसि सौहृदात् ॥ ५५८ ॥ न मुंचे पैतृकाचारं वच्मि किंचिञ्च वः पुरः । चेद्रोषं नहि धत्तात्र गुरुरोषाद्विभीश्रिये? ॥ ५५९॥ ब्रूतेथ गुरुणा प्रोक्ते नृपः प्राह स्मितं दधत् । बोधयेयुभवन्तोपि बाला गोपांगनादिकम् ॥ ५६० ॥ कोविदं नैव शास्त्रार्थपरिकर्मितधीसखम् । रंभाफलं यथा भक्ष्यं तथा निंबफलं न तु ॥ ५६१ ॥ शक्तिश्चेद्भवतामद्य मध्येमथुरमागतम् । पुराणपुरुषं नित्यं चित्ते ध्यायंतमद्भुतम् ॥ ५६२॥ यज्ञोपवीतवीतांगं नासाग्रन्यस्तदृष्टिकम् । तुलसीमालया लीढवक्षःस्थलमिलास्थितम् ॥ ५६३ ॥ श्रीकृष्णगानसत्कृष्णवैष्णवब्राह्मणावृतम् । पुत्रजीवकमालामिदंडितोरःस्थलं किल ॥ ५६४ ॥ वराहस्वामिदेवस्य प्रासादांतरवस्थितम् । . वैराग्यातिशयात्तत्र कृतप्रायोपवेशनम् ॥ ५६५ ॥ १D धिः २P प्रभुणा. ३ P वाल. Page #175 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । प्रतिबोध्य तदा जैनमते स्थापयत द्रुतम् । वाक्पतिराज सामंतं पर्यकासनसुस्थितम् ॥ ५६६ ॥ तैश्चाभ्युपगतेशीतिं चतुर्भिरधिकां तदा । सामंतानां बुधानां च सहस्रं प्रेषयन्नृपः ॥ ५६७ ॥ आचार्यैः सह ते प्रापुस्त्वरितं शीघ्रवाहनैः । मथुरां तत्र चाजग्मुर्वराहस्वामिमंदिरे ॥ ५६८ ॥ पूर्वाख्यानोदितावस्थं परमात्मस्थचेतनम् । ददृशुः सूरयो भूभृत्पुमांसश्च तमादरात् ॥ ५६९ ॥ तत्र श्रीबप्पभट्टिश्च त्रयीस्तवनतत्परम् । काव्यवृंदमुदाहे तस्य चेतः परीक्षितुम् ॥ ५७० ॥ तथाहि पंचभिः कुलकम् । १६७ रामो नाम बभूव हुं तद्बला सीतेति हुं तां पितु र्वाचा पंचवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थं जननी कथामिति हरेहुँ कारिणः शृण्वतः पूर्वस्मर्त्तुरेवंतुकोपकुटिलभ्रूभंगुरा दृष्टयः ॥ ५७१ ॥ दर्पणार्पितमालोक्य माया स्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः ॥ ५७२ ॥ उत्तिष्ठन्त्या रतांते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहत्याः । सद्यस्तत्कायकांतिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिंग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ५७३॥ संध्या यत्प्रणिपत्य लोकपुरतो बद्धांजलिर्याचते धत्से यत्त्वपरां विलज शिरसा तच्चापि सोढं मया । श्रीजीतामृतमंथने यदि हरेः कस्माद्विषं भक्षितम् मां स्त्रीलंपट मा स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ ५७४ ॥ यदमेद्यमपामंतरुतं बीजमज त्वया । अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ ५७५ ॥ कुलं पवित्रं जननी कृतार्था वसुंधरा पुण्यवती त्वयैव । अबाह्यसंवित्सुखसिंधुमग्नं लग्नं परे ब्रह्मणि यस्य चिंत्तम् ॥५७६ ॥ स कर्णकटुकं तच्च श्रुत्वा शीर्ष व्यधूनयत् । आकूण्य नासिकां वाचं प्राहाथो दुर्मनायितः ॥ ५७७ ॥ •" भुंगुरी. २ D चेतः १ H रदंतु Page #176 -------------------------------------------------------------------------- ________________ १६८ प्रभावकचरिते अमीषां रसकाव्यानां प्रशंसायाश्च किं सखे । अ(इ)यं वेला कथं नाम सौहार्द तव चेदृशम् ॥ ५७८ ॥ इदं च श्रीबप्पभट्टिसदृशं भवतीह किम् ।। पारमार्थिकवाणीभिर्बोधवेला ममाधुना ॥ ५७९ ॥ ततः प्राह गुरुः साधु साधु ते चेतना स्तुमः। प्रष्टव्यमस्ति किंचित्तु भवत्पाघे सुहृत्तम ॥ ५८० ॥ देवानां यन्मयाख्यायि स्वरूपं भवद्ग्रतः। तत्तथ्यं वितथं नास्ति तथ्यं चेदुर्मनाः कथम् ॥५८१॥ वितथं च कथं तत्स्यात्प्रत्यक्षे संदिहानकः। अत्र कार्ये प्रवृत्तिस्ते राज्यादीच्छावशादिह ॥ ५८२॥ परमार्थोपलंभे वा विकल्पः प्रथमो यदि । संमतं नस्तदा राधा देवा भूपतयोपि च ॥ ५८३॥ इष्टं प्रणयिनां दधुः सामर्थ्यात्संशयोपि न । परमार्थे तु चेदिच्छा तत्त्वं तत्त्वं विचारय ॥ ५८४॥ संसारोपाधिमग्नैश्चेत्सुरैर्मुक्तिः प्रदीयते । तन्नात्र मत्सरोस्माकं स्वयं निखिलवेद्यसि ॥ पंचभिः कुलकम् । श्रुत्वेति सहुरोर्वाचं पंकापनयवारिभां। अवलेपो ययौ तस्य हिक्काकस्माद्भयादिव ॥ ५८५॥ अहो पुण्यपरीपाको मम यत्सूनृतः सुहृत् । संगतोवसरेमुत्र तत्र चोपकृतिं कुरु ॥ ५८६ ॥ इत्युक्त्वा विरते दत्तावधाने वाक्पतौ प्रभुः। धर्मदेवगुरूणां च तत्वान्याख्यात्तदग्रतः॥ ५८७ ॥ युग्मम् । त्रैकाल्यं द्रव्यषटुं नवपदसहितं जीवषट्कायलेश्याः पंचान्ये चास्तिकायावतसमितिगतिज्ञानिचारित्रभेदाः। इत्येतन्मोक्षमूलं त्रिभुवनसहितैः प्रोक्तमर्हद्भिरीशैः प्रत्येति श्रद्धधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ५८८ अथ देवतत्वम्अर्हन् सर्वार्थवेदी यदुकुलतिलकः केशवः शंकरो वा बिभ्रद्गौरी शरीरे धदनवरतं पद्मजन्माक्षसूत्रम् । बुद्धो वालं कृपालुः प्रकटितभवनो भास्करः पावको वा रागाद्यैर्यो नदोषैः कलुषितहृदयस्तं नमस्यामि देवम् ॥५८९॥ १P प्रशंसाया. २ P पलं ते वा विकल्पः प्रथमोपमो. ३ H omits गतिज्ञानि... मति. Page #177 -------------------------------------------------------------------------- ________________ श्रीबप्पभडिप्रबन्धः । १६९ यत्र तत्र समये यथा तथा योसि सोस्यभिधया तया। वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोस्तु ते ॥५९०॥ मदेन मानेन मनोभवेन क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ५९१ प्राइं मुणिहि विभ्रंतडीतिं मणिअडागणंति । अखयनिरंजणि परमपइ अजवि तनुनलहंति ॥ ५९२॥ अथ. गुरुतत्त्वम्पंचमहञ्च यज्ञातु पंचपरं परमेठिहिं भजउ । पंचेंदिय निग्गहणु पंचविसयजु विरत्तउ ॥ ५९३॥ पंच समिध्वनि बहुणुपगुणुगुणु आगमसच्छिण । कुविहिकुगह परिहरइ भविय बोहइ परमच्छिण ॥ ५९४॥ बालीसदोससुद्धासणि णछबिह जीवह । अभयकरु निम्मच्छरु केसरिकहइ फुडुत्तिगुत्ति ॥ ५९५॥ गुत्रुसोमब्भगुरु कुरकी संबलचन्नधणनिच्चवलंवि । अहच्छापहाकहविगवेसि गुरु ते तारणहसम्मच्छा ॥५९६॥ दोविगिहच्छा धडहडब्भच्चई कोकिर कस्सय। त्रुभणिद्यइ सारंभोसारंभं पुजइ कद्दमुकद्दयेण किममुष्महि ॥ इत्यादि सगुरोर्वाक्यैः प्राणितो हृदयंगमैः । ध्यानं प्रपार्य पप्रच्छ किंचित्संदेग्धि मे मनः ॥ ५९८ ॥ अनंताःप्राणिनो मुक्ति यदि प्राप्ता नृलोकतः। रिक्तो भवेत्स पूर्णत्वान्मुक्तौ स्थानं च नास्ति तत् ॥ ५९९ ॥ गुरुराह महासत्व ज्ञातजैननिरामयम् । आलापं शृणु दृष्टांतमत्र श्राव्यं विपश्चिताम् ॥ ६०० ॥ तथाहि आसंसारं सरियासएहि हीरं तरेणु निवहि हिम्। . प्रहवीननिद्दियच्चिय उदही विपलीन संजाउ ॥ ६०१ ॥ उल्लसत्पुलकांकुरोदूरीकेतकुवासनः। प्राह वाक्पतिराजोथ राजा यो ब्रह्मवेदिनाम् ॥ ६०२॥ इयन्तं समयं यावद्भान्ताः स्मो मोहलीलया। परमार्थपरामर्शिधर्मतत्त्वबहिष्कृताः॥६०३ ॥ चिरं परिचयः पूज्यैस्तादृशैरपि मेऽफलः । एतावन्ति दिनान्यासीद् धर्माख्यानविनाकृतः ॥६०४॥ १D यज्जुत्तं. २P पंचपरं मिद्विदिभत्तनु. ३ D समिहनिबहणुयगुणु आगमप्रसिणा. ४H ज्ञाते जैनगिरा. ५ म दूरीकृत कुचीरान्. -- 15 Page #178 -------------------------------------------------------------------------- ________________ १७० प्रभावकचरिते उक्तंच तेन मेयनाहि कलुसिएणं इमिणा किंकरफलं निडालेण। इच्छामि अहं जिणवर एणामकिणकलुसियं काउं ॥ ६०५॥ मुमुक्षोर्मम यत्प्राय औचित्यं न विलंघयेत्। तदादिश यथादिष्टं विदधे कर्मनाशकम् ॥ ६०६ ॥ श्रीबप्पभट्टिराहाथ शंका चेत्कर्मणां तव । मनःशुद्धिस्ततः कार्या व्यवहारोऽपि तादृशः ॥ ६०७॥ ततः संन्यस्त एव त्वं जैनमार्ग समाश्रय । श्रुत्वेति तैः सहैवाप्त उदस्थाद्भवनात्ततः॥ ६०८ ॥ आजगामाथ पार्श्वेऽस्य स्तूपे श्रीपार्श्वमन्दिरे। मिथ्यादर्शनवेषं च व्यमुंचत् स्वीकृतं पुरा॥६०९॥ जैनर्षिवेषमास्थाय संयमावारशिष्यकः।। संसारचरमप्रत्याख्यानी ध्यानैकतानभृत्॥६१०॥ अष्टादश तदा पापस्थानान्युत्सृज्य सर्वतः। चतुःशरणमादध्यौ निभृतांतरकल्मषः ॥ ६११ ॥ प्रशंसागर्हणे प्रोच्य सुकृतासुकृते व्यधात् । परमेष्ठिपदाधीनमानसो मानशोषभूः ॥ ६१२॥ दिनान्यष्टादश प्रायमुपायं दुष्कृतार्दने । एकावतारांतरितो महानंदपदस्तदा ॥ ६१३ ॥ सम्यगाराधनोपात्तपांडित्यमृतिरीतितः। देहमुग्द्यां गतः साम्यं प्राप प्राचीनबर्हिषा॥ ६१४ ॥ युग्मम् ॥ ततः किंचित्सखिस्नेहंगद्दः शमिनायकः। उवाच विश्वसामंतविद्वद्वंदस्य शृण्वतः ॥ ६१५॥ तथाहि यइ सग्गगए सामंतराय अवरत्ते उन फिटिहइ । पढमं वियवरिय पुरंदराय सग्गस्य लच्छीए ॥ ६१६ ॥ तत्र गोकुलवासेऽस्ति पुरा नंदनिवेशिते ।। श्रीशांतिः शांतिदेवीह हेतुर्विश्वस्य शांतिके ॥६१७॥ तत्र श्रीबप्पट्टि श्रीतीर्थेश्वरनमस्कृतौ। गत्वा च तुष्टुवे शांतिदेवतासहितं जिनम् ॥ ६१८ । जयति जगद्रक्षाकर इत्याचं शांतिदेवतास्तवनम् । अद्यापि वर्त्तते तच्छांतिकरं सर्वभयहरणम् ॥ ६१९ ॥ १H omits किंकरफलंनिडालेण. २ H. सिक्षक. ३ P. देहमुक्द्यांगतः. ४ P. स्नेहगणदः.५ म. सामंतः. ६ P. पयइसग्म. Page #179 -------------------------------------------------------------------------- ________________ श्रीबप्पभडिप्रबन्धः। १७१ ततः सामाजिकस्तोमस्तुतो व्यावृत्य संययौ। कन्यकुलपुरं बप्पभट्टिः कतिपयैर्दिनैः ॥ ६२०॥ पुरापि ज्ञानवृत्तान्तो नृपतिर्मूढपूरुषैः।। संमुखीनः पुरोपांतं गत्वा प्रावेशयद्रुतम् ॥ ६२१ ॥ गुरुं सभोपविष्टं च प्राह भूपश्चमत्कृतः। अहोचोवाच सामर्थ्य सोपि यत् प्रतिबोधितः॥ ६२२॥ प्रभुःप्राह च का शक्तिर्मम यत् त्वं न बुध्यसे । राजाह सम्यग् बुद्धोस्मि त्वद्धर्मोस्तीति निश्चितम् ॥ ६२३॥ माहेश्वरं पुनर्द्धर्म मुंचतो मे महाव्यथा । तत्प्राच्यभवसंबद्ध इवायं किं करोम्यतः॥६२४॥ श्रुतज्ञाननिमित्तेन ज्ञात्वा प्रभुरुवाच च । तत्र प्राकृतकष्टस्य राज्यमल्पतरं फलम् ॥ ६२५॥ सविस्मयैस्तदा पर्षत्प्रधानैरोच्यत प्रभुः। प्रसह्य कथ्यतां राज्ञः प्राग्भवोस्मत्प्रबुद्धये ॥ ६२६॥ प्रभुराह ततः सम्यग विमृशेति यथातथम् । प्रश्रचूडामणे शास्त्रादस्ताघज्ञानशेवधिः ॥ ६२७॥ शृणु भूमिपते कालिंजराख्यस्य गिरेरधः। शालिशालगुमोर्द्धस्थेशाखाबद्धपदद्वयः॥ ६२८ ॥ अधोमुखो जटाकोटिसंस्पृष्टपृथिवीतलः। द्यन्हे द्यन्हे मिताहारात् हारी क्रोधादिविद्विषाम् ॥६२९ ॥ इति वर्षशतं साग्रं तपस्तस्वातिदुष्करम् । आयुःप्रान्ते तनु त्यक्त्वाऽभवस्त्वं भूपनायकः॥ ६३०॥ यदि न प्रत्ययो राजन् प्रेषय प्रवरान् नरान् । जटा अद्यापि तत्रस्था आनायय तरोस्तलात् ॥ ६३१॥ इत्याचार्यकथास्मेरो नृपतिः प्रेष्य मानुषान् । जटा अनाययत्तत्र गत्वा नीताश्च तास्ततः॥ ६३२॥ मुनीन्द्रोयं महाज्ञानी कलावपि कलानिधिः । भूपालः कृतपुण्योऽसौ यस्येदृग्गुरुरद्भुतः ॥ ६३३॥ पार्षद्या धूतमूनिस्तद्वत्तोल्लाससंशिनः। पर्युपास्ति दधुः सूरिपादांतभ्रांतमौलयः॥ ६३४ ॥ अन्यदा सौधमूर्द्धस्थो नृपः कुत्रापि वेश्मनि । कलहांतरितां रामां भिक्षायै गृहमागताम् ॥ ६३५॥ १ P. शास्त्रदनाद्यज्ञानसेवधः. D. शास्त्रादस्त्यर्थज्ञा. २ D. द्रुमाह्वस्थ. Page #180 -------------------------------------------------------------------------- ________________ १७२ प्रभावकचरिते जैनभिक्षु परब्रह्मध्यानैकाग्रहसंग्रहम् । वृषस्यन्तीमवज्ञातां तेन निर्गच्छता गृहात् ॥ ६३६॥ बाढं कपाटमाश्लिष्य प्रहारेऽहेः समुद्यते। नूपुरं यतिपादाब्जप्रतिष्ठं कौतुकादिव ॥६३७॥ पश्यन्तीमथ सोत्प्रासां निर्लज्जा कामदामनीम् । गणयत्येष नेत्येवं वदंतीं च तदैक्षत ॥६३८॥ चतुर्भिः कलापकम् । प्राकृतस्याद्य वृत्तस्य पादमेकमुवाच सः। गुरोरने ततोऽवादीत्स प्रागेव पदत्रयम् ॥ ६३९ ॥ तच्चकवाडमा सजवरंगणाए अब्भछिउजुव्वणमत्तियाए। अमन्निए मुक्कपयप्पहारे सनेउरोपव्वइ यस्स पाउ॥६४०॥ युवा भिक्षाचरोन्येद्युःप्रेषितःप्रेयसीगृहे । दृष्टः प्रविष्टो भिक्षायै राज्ञा सौधाग्रचारिणा ॥ ६४१ ॥ आनीयान्नभृतां दींमूर्द्धास्थात्सा तदास्यदृक् । सोपि तन्नाभिसौदर्यासक्तनेत्रस्तथा स्थितः॥६४२॥ एकचित्ततया दानग्रहणास्मरणात्तदा । नृपस्तयोरेकैदृशोर्ध्याने दृष्टेथ वायसैः॥ ६४३॥ विकीर्णे सकलेप्यन्ने विस्मयस्मेरलोचनः। गाथार्द्धमृचिवांस्तत्र यथादृष्टार्थवाचकम् ॥ ६४४॥ ध्यानं पश्यन् जगौस्मितः ? - तद्यथा भिर क(क्षयरो पिच्छइ नाहिमंडलं सावितस्स मुहकमलम् श्रीबप्पभट्टिाकर्ण्य नृपाग्रे वाक्यमब्रवीत् ॥ ६४५॥ किंगण्यानीदृशान्यस्य पयोधेरिव बुद्बुदाः॥ ६४६॥ दुह्र पिकवालं चट्ठयं, कालाविलुपति । श्रुत्वेति भूपतिस्तुष्टः प्राह कल्याणधीनिधिम् ॥ ६४७ ॥ विना मन्मित्रमेते कः पूरयेन्मवमेक्षितम् । इत्येवं सत्यसौहार्दमार्दवाईनभीतिभूः॥ ६४८ ॥ गुरुवक्रांबुजे नित्यं भृशं भंगीतुलां व्यधात् । एकदा समगादेकच्छेको विश्वकलाश्रयः ॥ ६४९ ॥ चित्रकृच्चित्रकृञ्चित्रकर्मकर्मणि कर्मठः। पूर्वमालिखितं सम्यक्तः कर्पटवारितम् ॥ ६५०॥ - १Pवृषम्पतीमवज्ञातं मेने. २P.दितः. ३ P. दव्वीमूर्द्धास्थात्सातदास्यदक्. ४ P. D. रेकदृशोद्धानपश्यन् जगौ स्मितः. ५ D. मय्यथेक्षितम्. Page #181 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । रेखिनं रंगिवर्णैघपूर्णक्षणमथ स्फुटम् । अलक्ष्यमपि मां चित्रभंगे जीववधाहुवः ॥ ६५१ ॥ इति सत्यापयन् वाचं स जीवकलया स्वया । स त्रयोदशभिर्भागैर्भूपरूपं विधाय तत् ॥ ६५२ ॥ चित्रचूडामणिं राज्ञो दर्शयन् विकटे पटे ॥ राजा सुहृद्गुणग्रामरामणीयकलंपटः ॥ ६५३ ॥ अनास्थया समीक्ष्यास्य ददौ नोत्तरमप्यसौ । एवं त्रिर्विहिते रूपे यदा नोत्तरमाप सः ॥ ६५४ ॥ अवोचत्प्रेक्षकानन्यान्निर्वेदादविदीनगीः । छिनद्मखौ करौ किं वा ललाटं स्फोटये निजम् ॥ ६५५ ॥ कलया नु क्षयं भाग्यहीनस्य मम किं ब्रुवे । बप्पभट्टिः समीक्षस्वेत्युक्तः कैश्विद्दयालुभिः ॥ ६५६ ॥ ततोऽसौ गुरवे जैनं बिंबं कृत्वा करे ददौ । प्राशंसि च ततोऽसौ तैरेष चित्रकलानिधिः ॥ ६५७ ॥ भूपालाग्रेऽथ सोप्यस्य टंकलक्षं ददौ मुदा । श्रीवर्द्धमानबिंबेन भास्वत्पटचतुष्टम् ॥ ६५८ ॥ व्यधापयद्दधाच्चैकं कन्यकुब्जपुरांतरा । मथुरायां तथैकं चाणहिल्लपुर एककम् ॥ ६५९ ॥ सतारकपुरेचैकं प्रतिष्ठाप्य न्यधापयत् । श्रीपत्तनांतरामोढचैत्यांतम्लेच्छभंगतः ॥ ६६० ॥ पूर्वमासीत्तमैक्षंत तदानीं तत्र धार्मिकाः । द्विपंचाशत्प्रबंधाश्च कृतास्तारागणादयः ॥ ६६१ ॥ श्रीबप्पभट्टिना शैक्षकविसारस्वतोपमाः । अथ राजगिरिं दुर्गमन्यदा रुरुधे नृपः ॥ ६६२ ॥ समुद्रसेनभूपालाधिष्ठितं निष्ठितद्विषन् ? | गजाश्वरथपादातपादपातादिसादितैः ॥ ६६३ ॥ शब्दाद्वैतमिव व्योम्नि प्रति (त्य) तिष्ठत्समुन्नतम् । समग्रप्राज्यसामग्रीजाग्रद्व्यग्रपरिग्रहम् ॥ ६६४ ॥ अपि प्रपंचलक्षाभिर्दुर्ब्रहंविग्रहिद्विषाम् । भैरवादिमहामंत्रयष्टिमुक्ताश्मगोलकैः ॥ ६६५ ॥ बाह्यकुट्टिमकुट्टीकैः कुटिताघटातटम् । अभ्रंलिहं द्विषद्भित्तिशिरस्थकपिशीर्षकैः ॥ ६६६ ॥ सैटिंचैः ? क्लेशसंचारं रवेस्तारापतेरपि । १ H. स्वराः. २ P. सभारकपु. ३ H. कूटाकै. ५P.H टिंबै. १७३ ४ Hज्य. Page #182 -------------------------------------------------------------------------- ________________ १७४ प्रभावकचरिते सुरंगाशूकरीमुख्यप्रपंचैरपि विद्विषाम् । पतदत्युष्णतैलौघप्लुष्टैर्विफलविक्रमम् ॥६६७॥ षड्भिः कुलकम् । पप्रच्छ बप्पट्टि च निर्वेदादामभूपतिः। कथं कदा वा ग्राह्योयं प्राकारः माघरोपमः॥६६८॥ प्रश्रचूडामणिः शास्त्रात्सुविचार्याब्रवीदिति । पौत्रस्ते भोजनामामुं ग्रहीष्यति न संशयः ॥ ६६९ ॥ अभिमानादसोढेदं राजा तत्रैव तस्थिवान् । वादशभिर्दुदुकस्य सूनोः सुतोऽजनि ॥ ६७० ॥ सच पर्यकिकान्यस्तःप्रधानैर्जातमात्रकः। आनिन्ये तस्य दभोलिरिवशैलच्छिदा विधौ॥६७१ ॥ तदृष्टिर्दुर्गशृंगाग्रे सुखं बालस्य तन्मुखम् । विधायायोन्यतापित्ततैलज्वालाविलासि ? रुक् ॥ ६७२ ॥ सकोट्टः कुट्टिताधस्थरणमंडपमंडलः। स्फुटदट्टालकस्तोमप्रभ्रश्यद्गोपुरादपि ॥ ६७३॥ मृद्यमानमनुष्यस्त्रीगजाश्वमहिषीगवाम् । आत्तोक्रन्दरवैः शब्दाद्वैतं सर्वत्र पोषयत् ॥ ६७४॥ निर्घातक्षुण्णसामान्यपर्वतो महतामपि। गिरीणां प्रददद्भीति न्यपतन्नाकिलोकिनः॥६७५॥ त्रिभिर्विशेषकम् ॥ समुद्रसेनभूपोपि धर्मद्वारा ययौ बहिः । आमनामाथ भूपालः श्रीराजगिरिमाविशत् ॥६७६॥ अधिष्ठाता तु दुर्गस्य यक्षोंगीकृतवैरतः। आमाधिष्ठायिकैः कृष्टप्रतोलीस्थायिनं जनम् ॥ ६७७॥ इति लोकात् परिज्ञाय राजा तत्रागमत्तदा । तमाह प्राकृतं लोकं मुक्त्वा मामेव घातय ॥ ६७८ ॥ इति साहसवाचा स तुष्टो हिंसाग्रहात्ततः। न्यवर्तत प्रशांतात्मा सत्संग उपकारकः ॥ ६७९ ॥ मैत्रं च प्रतिपेदे स यथादिष्टकरः प्रभोः। कियन्मे जीवितं मित्र ज्ञानादृष्टा निवेदय ॥ ६८०॥ षण्मास्यामवशेषायां कथयिष्यामि तत्र च। इति जल्पन् तिरोधत्तावसरे च तदब्रवीत् ॥ ६८१॥ गंगान्तर्मागधे तीर्थ नावा वै तरतः सतः। मकाराद्यक्षरग्रामोपकंठे मृत्युरस्ति ते ॥ ६८२ ॥ १D. पात्स. P. व्यापात्यतापित्त. २ म. प्रभस्या. ३ H. निर्वात. ४ P. मैत्री. Page #183 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । निर्यभ्रमं जलादृष्ट्वाभिज्ञानं भवता दृढम् । विशेयमुचितं यत्ते तत्प्रेत्यार्थ समाचर ॥ ६८३॥ तीर्थयात्रामसौ मित्रोपदेशादुपचक्रमे । अलसः को हिते स्वस्य नेच्छेत्सद्गतिमात्मनः ॥ ६८४ ॥ प्रयाणैः प्रवणैः पुंडरीकाद्रिं प्राप भूपतिः। युगादिनाथमभ्यर्च्य कृतार्थ स्वममन्यत ।। ६८५॥ ययौ रैवतकाद्रिं च श्रीनेमि हृदि धारयन् । उपत्यकाभुवं प्राप प्राप्तरेखः सुधीषु यः॥ ६८६॥ तीर्थ प्रणन्तुमानेकानैकादश नरेश्वरान् । अपश्यन्नश्यदातको हयायुतपरिच्छदान् ॥ ६८७ ॥ तथैकादशभिः फल्गुवाग्डंबरदिगंबरैः। राक्षसैरिव शाखोटान् कलिनिष्ठरधिष्ठितान् ॥ ६८८ ॥ स्वीकुर्वाणान्महातीर्थ शैलारोहनिषेविनः। असंख्यसैन्यः संख्याय तानाहायदिलापतिः॥ ६८९ ॥ तान् दृष्ट्वा बप्पभट्टिः श्रीसुहृद्भूपालमब्रवीत् । धर्मकर्मोद्यमे युद्धात् प्राणिनः को जिघांसति ॥ ६९०॥ वागाहवेन जेष्यामि विद्वत्पाशानिमान् नृप। नखच्छेद्येऽलिनीखंडे कुठारं का प्रयोजयेत् ॥६९१ ॥ ते जिता वादमुद्रायाममुद्रायासमंतरा। दीपस्य शलभप्लोषे स्तुतिः संस्तूयते हि का॥ ६९२।। ततोपि तानभ्यमित्रानवादीद्विशदांवरः। निर्जयादपि चेयूयं शमिनो न वैतादपि ॥ ६९३ ॥ ..... असंख्यव्यंतराधीशचुंबितांह्रिनखावलिः। अंबा श्रीनेमिपादाजकादंबा शासनामरी ॥ ६९४॥ आत्मनोरुभयोः कन्यायुग्मं व्यत्ययतः स्थितम् ।। देवी तदंतरा येषामेतां संजल्पयिष्यति ॥ ६९५॥ तीर्थ तदीयमेवास्तु यस्यां वाः क्रमतोऽमुतः। समर्पयति तत्कितु वादैरादीनचास्पदैः ॥ ६९६॥ विशेषकम् । उभयाभिमतो जशे व्यवहारोऽयमेतयोः। पक्षयोरक्षयोदग्रप्रभावां चालये ततः॥ ६९७ ॥ ततः कुमारिकां तेषां बप्पभट्टिरिहार्पयत् । द्वादश प्रहरान् यावत्तैमत्रैः साधिवासिता ॥ ६९८॥ एडमुकेच नाहस्म कथंचिदथ तेऽवदन् । शक्तिश्चेद्यूयमप्यत्र कन्यां जल्पायताद्य नः॥६९९॥ १ H. परिप्रहात् । २ P. नव्वतादपि । ३ D. घोक्तमुवोमुष. Page #184 -------------------------------------------------------------------------- ________________ १७६ ' प्रभावकचरिते तन्मूर्तीि बप्पभट्टिश्च कर कमलकोमलम् । ददावंबा च तद्वक्रे स्थिता स्पष्टमुवाच च ॥ ७००॥ उर्जितसलसिहरे दिख्खनाणं निसीहियाजस्य । तं धम्मचक्कट्टि अरिटुनेमि नमसामि ॥७०१॥ ततो जयजयध्वानमिश्रो दुंदुभिरध्वनत् । रोदः कुक्षिभरिः श्वेतांबरपक्षोन्नतिप्रदः॥७०२ ॥ ततः प्रभृति गाथेयं चैत्यवंदनमध्यतः। सिद्धस्तवनकृद्राथात्रितयादूर्द्धमादृता ॥ ७०३॥ शक्रस्तववदाबालांगनापाग्रान्मानिता?। अष्टापदस्तुतिश्चापि श्रुतवृद्धैः पुरातनैः ॥७०४॥ तनो रैवतकारोहात्समुद्रविजयांगजम्। आनासौ महाभक्तो मानयन् जन्मनः फलम् ॥ ७०५॥ दामोदरहरि तत्राभ्यागात् पिंडतारके। तथा माधवदेवे च शंखोद्धारेच तं स्थितम् ॥ ७०६ ॥ द्वारकायां ततः श्रीमान् कृष्णमूर्ति प्रणम्यच । तत्र दानादि दत्त्वा श्रीसोमेश्वरपुरं ययौ ॥७०७॥ ततः श्रीसोमनाथस्य हेमपूजापुरस्सरम् । तल्लोकं प्रीणयामास वासवो जीवनैरिव ।। ७०८॥ पुरः स्वं नगरं प्राप श्रीमानाम महीपतिः। यादृच्छिकं ददौ दानं धर्मस्थानानि च व्यधात् ॥७०९ ॥ प्राप्ते काले सुतं राज्ये दुंदुकं संन्येवशयत् । प्रकृतीः प्रक्षमयामास पूर्वमानंदिता अपि ॥ ७१०॥ प्रयाणं दत्तवान् गंगासरित्तीरस्थमागधम् ।। तीर्थ जिगमिषुर्नावमारूढश्च तदंतरा॥ ७११ ॥ सूरिणा सह तन्मध्ये दृष्टवान् धूमनिर्गमम् । उपगंगं जनाजशे मगटोडानिवेशनम् ॥ ७१२ ॥ प्रतीते व्यंतराख्याते सूरिराहामभूपतिम् । जैनधर्म प्रपद्यस्व प्रांतेऽपि प्रत्ययोस्ति चेत् ॥ ७१३ ॥ राजाह प्रतिपन्नोस्मि सर्वज्ञः शरणं मम । देवो गुरुर्ब्रह्मचारी धर्मश्चेत्कृपयोदितः ॥ ७१४॥ देवो गुरुश्च धर्मश्च यश्चके व्यावहारिकः । इयहिनानि सोत्यार्जि मम त्रिविधशुद्धितः ॥ ७१५॥ .१ P. शक्रसूववदाबालांमनापाव्यात्रमानिता D. स्तववदावाला गतायामात्र मानिना. २ D. मगटोडानिवेशन. ३ H. गुऊ. ४ D. H. त्याजि. Page #185 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । १७७ मम सौदाईतः पूज्यपादानामपि सांप्रतम् । विधिवद्विग्रहत्याग इह वो नोचिता स्थितिः॥ ७१६॥ परत्रापि यथा लोके समस्यापूरणादिभिः। कालोऽतिवाह्यते सौख्यान्मिलितैरेव निश्चितम् ॥ ७१७॥ श्रुत्वेत्याह प्रभुर्मुग्धवागिय स्वस्वकर्मभिः । कस्कः कां कां गतिं गंता बुद्ध्यते को जिनं विना ॥ ७१८॥ युक्तमेतद्रतस्थानां नात्मप्राणापरोपणम् । तथातः पंचवर्षाणि ममाद्याप्यायुरस्ति च ॥ ७१९॥ विक्रमतो वर्षाणां शताष्टके सनवतौ च भाद्रपदे । शुक्रे सितपंचम्यां चन्द्रे चित्राख्यऋक्षस्थे ॥ ७२०॥ तुलाराशौ तथा चंद्रस्थितेऽर्के प्रहरेंऽतिमे। श्राव्यमाणो भृशं पंचपरमेष्ठिनमस्क्रियाम् ॥ ७२१॥ दृढं जिनेशसन्मित्रगुरुपादस्मृतिस्थितः। श्रीमान्नागावलोकाख्यो राजा प्राप दिवं तदा ॥ ७२२ ॥ विशेषकम् । अथ किंचित्सुहृन्मोहात्तत्र स्थित्वौ देहिकम् ।। कारयामास पार्श्वस्थः प्रधानस्तत्सनाभिभिः ॥ ७२३॥ किंचिच्छोकोर्मिसंतप्त उवाच करुणं तथा। सोद्वेगं च तदीयानां गुणानां संस्मरन् भृशम् ॥ ७२४॥ माभूत्संवत्सरोऽसौ वसुशतनवतेर्मा च ऋक्षेषु चित्रा धिग्मासं तं नभस्यं क्षयमपि स खलः शुक्लपक्षोपि यातु । संक्रांतिर्या च सिंहे विशतु हुतभुजं पंचमी या तु शुक्र गंगातोयाग्निमध्ये त्रिदिवमुपगतो यत्र नागावलोकः ॥ ७२५ ॥ अथ श्रीबप्पभट्टिश्च कन्यकुब्जं मुनीश्वरः। प्राप दुंदुकभूपालाधिष्ठितं तन्निरुद्यमः ॥ ७२६॥ सक्तः कंद्याख्यवेश्यायां भूपो भोजं निजं सुतम् । भाग्योदयकलाकेलिविलासमपि पापभूः ॥ ७२७ ॥ अतिद्रुह्यति मूढस्तद्वाभिर्विगतचेतनः। अविवेकधराधुर्य धिर वेश्याजनसंगमम् ॥ ७२८॥ युग्मम् ॥ तन्माता निजबंधूनां ज्ञापयामास दुःखिता। संकटे हि कुलस्त्रीणां शरणं शरणं पितुः ॥७२९ ॥ समागत्याह्वयन् ते च पुत्रजन्मोत्सवच्छलात् । आपृच्छायै पुनर्भोजः संचचार नृपालये ॥ ७३०॥ शापितो गुरुभिः सौधद्वारे विज्ञाय शत्रिणः। निवृत्तो मातुलैः साकं प्रययौ पाटलीपुरम् ॥ ७३१॥ Page #186 -------------------------------------------------------------------------- ________________ प्रभावकचरिते आचार्यमन्यदा राजा दुंदुकः प्राह मत्सरी । मयि प्रसादमाधाय नीयतां नंदनोत्तमः ॥ ७३२ ॥ ततः स ध्यानयोगादिप्रारंभैरुत्तरोत्तरैः । वाहयामास वर्षाणि पंच पंचत्ववासरम् ॥ ७३३ ॥ ततोथ समये प्राप्ते राजा दृढतरं गुरुः । उपरोध्य सुताह्वानहेतवे प्रैष्यतादरात् ॥ ७३४ ॥ aat नगराभ्यासे विममर्श च चेतसि । चेद्भोजो नीयते यस्मात्तनृपेण स हन्यते ॥ ७३५ ॥ नोचेत्कंटिकया बाढं मूर्खोसाविति संहितः । शिष्याणां चिद्रवैः कर्त्ता शासनस्याप्रभावनाम् ॥ ७३६ ॥ सांप्रतं सांप्रतं मृत्युस्तस्मात्प्रायोपवेशने । तच्च कृत्वातिगीतार्थकारिताराधनादृतः ॥ ७३७ ॥ स्वयमध्यात्मयोगेन दिनानामेकविंशतिः । अतिवाह्य क्षुधातृष्णानिद्रादिद्वेषिविग्रही ॥ ७३८ ॥ आत्मानं दशमद्वारान्निरवासयदुद्यतः । १७८ ईशाने नाकितां प्राप बप्पभट्टिर्मुनीश्वरः ॥ ७३९ ॥ विशेषकम् ॥ विक्रमतः शून्यद्वयवसुवर्षे ( ८०० ) भाद्रपदतृतीयायाम् । रविवारे हस्तक्षै जन्माभूद्वप्पभट्टिगुरोः ॥ ७४० ॥ षड्वर्षस्य व्रतं चैकादशे वर्षे च सूरिणा । पंचाधिकनवत्या च प्रभोरायुः समर्थितम् ॥ ७४१ ॥ शरनंदसिद्धिवर्षे ८९५ नभः शुद्धाष्टमीदिने । स्वातिभेजनि पंचत्वमामराजगुरोरिह || ७४२ ॥ इत्याकर्ण्यमराजस्य पौत्रोऽतिस्फारशोकभूः । भोजः संकुचितां भोजवदनं विललाप च ॥ ७४३ ॥ विवेकौघेऽविवेकेन जितः सारस्वतं हितम् । अनुत्सेकस्तिरोधत्त ज्ञाने दत्तो जलांजलिः ॥ ७४४ ॥ इति क्षणं विमृश्यासावादिदेश चिताकृते । प्रेष्यानदूष्यचारित्रो गुरुभक्तिपवित्रितः ॥ ७४५ ॥ पितामहवियोगेपि वर्द्धितस्तस्य मित्रतः । अनाथ इव लोकेऽत्र तत्रापि त्रिदिवं गते ॥ ७४६ ॥ ततः क्षणमपि स्थातुं न शक्तः पृथिवीतले । पितृवत्तु सुहृत्सूरेरनुव्रज्याधुनोचिता ॥ ७४७ ॥ मातृपक्ष प्रधानानां बोधं चावगणय्य सः । गुरुमृत्युभुवं प्राप गंता लीलावने यथा ॥ ७४८ ॥ भुजदंडे जनन्या च धृत्वाथाजल्पि तत्क्षणम् । निर्वारत्वे निषेधाय राज्यस्य कृपयापि च ॥ ७४९ ॥ Page #187 -------------------------------------------------------------------------- ________________ श्रीबप्पभट्टिप्रबन्धः । स्वसुरद्वयसंहारे जाते ते विद्विषत्पिता । जितंमन्यो महापापी त्वत्प्रजाः पीडयिष्यति ॥ ७५०॥ हृदयालुः कृपालुश्च तत्त्वं प्रार्थनया मम । कर्मतो विरमामुष्मात् हृदानंदन नन्दन ॥ ७५१॥ इति मातुरलंध्यत्वात् श्रीभोजः साश्रुलोचनः । उत्तरीयं निचिक्षेप चितायां गुरुपृष्ठतः ॥ ७५२॥ अस्तोकशोकसंभारधारणक्लांतदेहरुक् । ऊवं देहिकमाधत्त कृत्यं पैतामहं प्रभोः ॥ ७५३ ॥ अन्यदा मातुलैः साकमाकस्मिकदवोपमः। तातं शमयितुं प्रायात्कन्यकुब्जमचिन्तितः॥ ७५४॥ प्रतिष्ठो गोपुरेणाथ द्राग्राजद्वारसंनिधौ । मालाकारं ददर्शाथ बीजपूरत्रयान्वितम् ॥ ७५५॥ तेन ढोकनकं स्वामिपुत्रस्यास्य कृतं तदा । तं गृहीत्वा ययावंतः सौधं रोधं दिशत्विषम् ॥७५६॥ सह कंटिकया तत्रोपविष्टं प्रवरासने । जघान हृदये घातैस्त्रिभिस्तै/जपूरकैः ॥ ७५७॥ महाप्राणकृताघातादुभौ प्राणैर्वि(व्य)युज्यताम् । प्रागृध्यातपुत्रहत्यांहोभीतैरिव विनिर्गतैः ॥ ७५८ ॥ अपद्वाराबहिः कृष्ट्रा क्रोष्टारमिव वेश्मनः। दुंदुकं कंदुकस्थित्या क्रीडया प्रेषितं नरैः॥ ७५९ ॥ निस्वानस्वानपूर्व सोऽविशत्कंठीरवासने । प्राणतः सर्वसामंतैः सपोरैर्मत्रिभिस्तथा ॥ ७६०॥ श्रीमदामविहाराख्यतीर्थ नंतुं ययौ नृपः। तत्र शिष्यद्वयं दृष्टं बप्पभट्टेमहामुनेः ॥ ७६१ ॥ विद्याव्याक्षेपतस्ताभ्यां न चक्रे भूमिपोचितम् । अभ्युत्थानादिसन्मानं श्रीभोजोऽथ व्यचिंतयत् ।। ७६२ ॥ अज्ञातव्यवहारौ हि शिष्यावेतौ प्रभोः पदे। न युज्यते यतो विश्वव्यवहारो महत्वभूः॥७६३॥ श्रीनन्नसूरिराचार्यः श्रीमान् गोविंद इत्यपि । आहूय पूजितौ राज्ञा पट्टे च स्थापितौ प्रभोः ॥ ७६४ ॥ मोढेरे प्रहितो ननसूरिः सूरिगणोन्नतः। पार्श्वे गोविंदसूरिश्वावस्थाप्यत नृपेण तु ॥ ७६५ ॥ भोजराजस्ततोऽनेकराज्यभ्रष्टग्रहग्रहः। आमादभ्यधिको जज्ञे जैनप्रवचनोन्नतौ ॥ ७६६॥ १ P. दिशन्विशां. २ H. भ्रष्ट. ३ H. प्रवचनोन्नतः. Page #188 -------------------------------------------------------------------------- ________________ १८० प्रभावकचरिते बप्पभट्टिभद्रकीर्तिर्वादिकुंजरकेसरी। ब्रह्मचारी गजवरो राजपूजित इत्यपि ॥ ७६७ ॥ विख्यातो बिरुदै नशासनक्षीरसागरे । कौस्तुभः कृतसंस्थानः पुरुषोत्तमवक्षसि ॥ ७६८ ॥ जयताजगतीपीठे धर्मकल्पद्रुमांकुरः। इदानीमपि यन्नाममंत्रो जाड्यविषापहः ॥ ७६९ ॥ त्रिभिर्विशेषकम् । इत्थं श्रीबप्पभट्टिप्रभुचरितमिदं विश्रुतं विश्वलोके प्रारविद्वत्ख्यातशास्त्रादधिगतमिह यत् किंचिदुक्तं तदल्पम् । पूज्यैः क्षंतव्यमत्रानुचितमभिहितं यत्तथा तत्प्रसादात् एतत्सर्वाभिगम्यं भवतु जिनमतस्थैर्यपात्रं ध्रुवं च ॥ ७७० ॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीबप्पभट्टे कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृंगः किलैकादशः ॥७७१॥ दुष्कर्मजैत्रः पुरुषोत्तमांगा जन्माविशुद्धाक्षरहेतुमूर्तिः। गिरीशतुंगाध्वपुरस्थितश्रीः प्रद्युम्नदेहः शिवतातिरस्तु ॥ ७७२ ॥ ग्रंथा । ८४० ॥ उभयं । २९६० ॥ श्रीमानतुंगप्रबन्धः। श्रीकन्यकुब्जक्षितिपप्रबोध___ कर्तुंस्तथा पूर्वगतश्रुतेन । विश्वे समस्या नवपाठबंधैः श्रीभद्रकीर्तेर्नरिनर्ति कीर्तिः ॥१॥ प्रभोः श्रीमानतुंगस्य देशतायां रदत्विषः । जयति ज्ञानपाथोधिशारदंदुसहोदराः॥२॥ नित्यं योजनलक्षेण वर्णनीयः सुवर्णरुक् । मानतुंगः प्रभुः पातु मेरुः सौमनसाश्रितः॥३॥ अस्यैवावाहमैतिहमप्रणाय्यं जगत्यपि। निकाय्यं तीर्थशृंगारप्रकर्षस्य प्रकीर्तये ॥४॥ १ ग्रंथा० ८२० उभयं २९४०. Page #189 -------------------------------------------------------------------------- ________________ श्रीमानतुंगप्रबन्धः । सदासुरसरिद्वीचीनिचयाचांतकश्मला । पुरी वाराणसीत्यस्ति साक्षादिवदिवःपुरी ॥५॥ आसीत् कोविदकोटीरमर्थिदारियपारभूः। तत्र श्रीहर्षदेवाख्यो राजा नतु कलंकभृत् ॥ ६ ॥ ब्रह्मक्षत्रियजातीयो धनदेवाभिधः सुधीः । श्रेष्ठी तत्राभवद्विश्वप्रजाभूपार्थसाधकः ॥ ७ ॥ तत्सुतो मानतुंगाख्यो विख्यातः सत्वसत्यभूः। अवशातपरद्रव्यवनितावितथाग्रहः ॥८॥ संतीह मुनयो जैना नग्ना भग्नस्मराधयः । तञ्चैत्ये जग्मिवानन्यदिवसे विवशेतरः॥९॥ वीतरागप्रभुं नत्वा गत्वा गुरुपदांतिकम् । प्राणमद्धर्मवृद्ध्याशीर्वादेन गुरुणार्हितः ॥१०॥ महाव्रतानि पंचास्योपादिशन्नग्नतां तथा । ऊर्णकर्पासकौशेयशौचावृत्तिनिषेधतः ॥११॥ इत्याद्यनेकधा धर्ममार्गाकर्णनतस्तदा । वैराग्यरंगिणो मानतुंगस्य व्रतकांक्षिणः ॥ १२॥ तन्मातापितरौ पृष्ट्वा चार्यस्तस्य व्रतं ददौ । चारुकीर्तिमहाकीर्तिरित्यस्याख्यां ददौ च सः॥१३॥ स्त्रीणां न निर्वृतिर्मान्या मुक्तिः केवलिनोपिहि । द्वात्रिंशदन्तरायाणि बुबुधे च बुधेश्वरः ॥ १४ ॥ कृतलोचस्ततो हस्तस्थिततोयकमण्डलुः। स त्यक्तसर्वाभरण इर्यासमितिसंयुतः॥ १५॥ गृहस्थावसथोईस्थावस्थानकृतभोजनः । मायूरपिच्छिकाहस्तो मौनकालेषु मौनवान् ॥ १६॥ सदा निःप्रतिकसिौप्रतिक्रमणयोर्द्वयोः। दक्षो गुरुकनीयश्चेदुःकरं कुरुते व्रतम् ॥ १७॥ विशेषकम् ॥ अस्य स्वनृपतिर्लक्ष्मीधरो लक्ष्मीवरस्थितिः। आस्तिकानां शिरोरत्नमत्रासीद्विस्फुरद्यशाः ॥१८ ॥ दृढभक्त्या स चार्यार्थमन्यदाप्यनिमंत्रितः। महर्षिस्तेन कालेन मध्येतगृहमागमत् ॥ १९॥ अशोधनप्रमादेनानुसंधानाजलस्य च । नैके संमूर्छितास्तत्र पूतरास्तत्कमंडलौ ॥ २०॥ गंडूषार्थमृषिर्यावञ्चलके जलमाददे । ददर्श तान् स्वसा प्राह लीना श्वेतांबरखते ॥२१॥ १H. रतः. २ H. शाम्बा. 16 Page #190 -------------------------------------------------------------------------- ________________ १८२ प्रभावकचरिते व्रते कृपारसः सारस्तदमी द्वींद्रियास्त्रसाः। विपद्यते प्रमादाद्वस्तजैनसदृशं नहि ॥ २२ ॥ लज्जावरणमात्रेऽत्र वस्त्रखण्डे परिग्रहः। ताम्रपात्रे कथं न स्याद्यादृच्छिकमिदं किमु ॥२३॥ धन्या श्वेतांबरा जैनाःप्राणिरक्षार्थमुद्यताः। न सन्निद्धते नीरमपि रात्रौ क्रियोद्यताः ॥ २४ ॥ अचेलाश्च सचेलाश्च नावधारणदुर्नयम् । आद्रियन्तस्म निःसङ्गाः परमार्थकृतादराः॥२५॥ पञ्चाश्रवेद्रियार्थानां? परिहारपरायणाः । गुप्तिभिस्तिसृभिर्गुप्ता स्थितिः समितिपंचके ॥ २६ ॥ त्रिभिर्विशेषकम् ॥ इत्याकर्ण्य मुनिः प्राह प्रांजलं शृणु मद्वचः। गृहवासपरित्यागो मया पुण्यार्थिना कृतः॥२७॥ आस्तामन्यः समाचारो यत्र जीवदयापि न । तेन धर्मेण किं कुर्वे श्रीसर्वशविरोधिना ॥ २८ ॥ अत्र देशे समायांति दुःप्राया श्वेतभिक्षवः। सा प्राह मध्यदेशात्ते समायास्यंति सांप्रतम् ॥ २९॥ सांगत्यं कारयिष्यामि तव तैः सह निश्चितम् । तपसा निर्मलेनाशु भवं पावयसे यथा ॥३०॥ इदानीं वापि कूपादौ रहो जलमिदं त्यज । शासनस्य यथा म्लानिन भवेल्लघुताकरी ॥३१॥ विराधना पुनर्जीवगणस्यात्र भवेद्भवम् । अपरापरनीरोत्थजीवा अन्योन्यविद्विषः ॥ ३२॥ श्रुत्वेति तद्वचोऽकार्षीभृशं विप्रतिसारतः। भोजितः परया भक्त्या बोधितश्चाश्रयं ययौ ॥ ३३ ॥ अन्यदा जिनसिंहाख्याः सूरयः पुरमाययुः । पुरा श्रीपार्श्वतीर्थेशकल्याणकपवित्रितम् ॥ ३४॥ गंगातीरस्थमुद्यानमुद्दामं शिखरिबजैः। शिश्रियुनिसंयुक्तास्त्रिदशा इव नन्दनम् ॥ ३५॥ तया च शापिते श्राद्धकांतया सोदरो मुनिः। श्रुत्वा समाययौ तत्र गुरूणां संगतस्तदा ॥ ३६॥ पर्वर्षिभिः समाचीर्णा सामाचारी न्यवेद्यत । तैस्तद्द्व पीयूषवत् साऽथा(दसावा)दृतोऽशृणोत् ॥ ३७॥ १ भरः. २ म. प्रायः ३ HP. करा. ४ P. जित. ५ P. वज्ञापिते श्राद्धकातया ६ P. चार्णा समाचारीत्यवेद्यतः ७ P. वत्तांसो Page #191 -------------------------------------------------------------------------- ________________ श्रीमानतुंगप्रबन्धः । १८३. गुरुभिर्दीक्षितश्चासौ नदीष्णोग्रेपि च क्वचित् । । तपस्याविधिपूर्व चागममध्याप्यतादरात् ॥ ३८॥ ततः प्रतीतिभृत्सम्यक्तपःश्रुतसमर्जनात् । योग्यः सन् गुरुभिः सूरिपदे गच्छादृतः कृतः॥ ३९ ॥ क्लिष्टकाव्यभ्रमिश्रांता देवी वाचामधीश्वरी। यद्वचोऽमृतसंसिक्ता परमानंदभूरभूत् ॥४०॥ स तदातनकालीयलीनज्ञानक्रियोन्नतिः। अभूदभूमिरुन्निद्रोपद्रवांतरविद्विषाम् ॥४१॥ इतश्च पुरि तत्रासीद्वेदवेदांगपारगः। विरंचिरिव मूर्तिस्थो भूदेवः पार्थिवार्चितः॥४२॥ कोविदानां शिरोरत्नं मयूर इति विश्रुतः। प्रत्यार्थिसर्पदाणां मयूर इव दर्पहृत् ॥४३॥ युग्मम् ।। दुहिता सुहिता रूपशीलविद्यागुणोदयैः । तस्य सत्या उमागंगालक्ष्मीदेव्यो यदीक्षणात् ॥४४॥ पंके पंकजमुज्झितं कुवलयं चापारनीरे हदे । बिंबी चापि वृतैर्बहिः प्रकटिता क्षिप्तः शशी चांबरे । यस्याः पाणिविलोचनाधरमुखान्वीक्ष्य स्वसृष्टिविधेरुच्छिष्टेव पुरातनी समभवद्देवाद्विधायेह ताम् ॥ ४५ ॥ अद्भुतं कुलरूपायैस्तस्याः समुचितं वरम् । सर्वत्रालोचयन् सम्यगप्राप्तावार्तिमासदत् ॥४६॥ तर्कलक्षणसाहित्यरसास्वादवशैकधीः। अनूचानो महाविप्रो बाणाख्यः प्राग्गुणान्वितः॥४७॥ प्रख्यानवक्तकः कामाभिरामाकारधारकः । दृष्टे तत्र मयूरोभूदारिद्राडंबरे यथा ॥४८॥ संमान्योद्वाहयामास तां सुतां नैव वैभवात् । अनुरूपवरप्राप्तिः सुता पित्रापि दुस्त्यजा॥४९॥ यत्र श्रीहर्षदेवस्य दर्शितो दुःहितुः पतिः। आशिषोदितया तस्योदितया तोषमाप च ॥५०॥ तस्या वासः पृथक् चक्रे धनधान्यादिसंभृतः। एवं राजार्दि (हि) तौ तौ द्वौ संगत्य प्रापतुः सदा ॥ ५१ ॥ बाणोन्यदा समं पत्त्या स्नेहतः कलहायितः । सिता हि मरिचक्षोदादृते भवति दुर्जरा॥५२॥ पितुर्ग्रहमगाद्रुष्टा बाणपत्नी मदोद्धरा। सायं तद्गहमागत्य भर्ती प्राहानुनीतये ॥५३॥ १ P. वीक्षि. Page #192 -------------------------------------------------------------------------- ________________ १८४ प्रभावकचरिते तद्यथा-मानं मुंच स्वामिनि शत्रु जगतो विनाशितस्वार्थम् । सेवककामुकपरभवसुखच्छवो नावलेपभृतः॥ ५४॥ वासागाराद्वहिः प्रेष्य पंडितं तां सखी जगौ। वाग्भंगीभिस्ततो मानामुचितस्यामहोवदन् ? ॥ ५५ ॥ उक्तं च-लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः। परित्यक्तं सर्व हसितपठितं पारशुकै स्तवावस्था चेयं विसृज कठिने मानमधुना ॥५६॥ विलक्षीभूय साथाह बहिरागत्य कोविदम् । भवने प्रविशामोऽस्या मुक्त्वा वयमुपानहौ ॥ ५७॥ एतस्यां मौनमालंब्यावस्थितायां पुनस्ततः। विद्वान्(न)विद्वन्मन्योसौ बहुप्रातर्जगाद च ॥ ५८॥ तद्यथा-गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपोयं निद्रावशमुपगतो घूर्णत इव । प्रणामान्तो मानस्तदपि न जहासि क्रुधमहो कुचप्रत्यासत्या हृदयमपि ते सुभ्र कठिनम् ॥ ५९॥ तद्भित्तिपरतः सुप्तोवकाशे तत्पिता तदा । जजागारातिसंभ्रांतः काव्यं श्रुत्वेत्युवाच च ॥ ६ ॥ स्थाने त्वं सुभ्रुशब्दस्य चंडीत्याख्यामुदाहर। यतोऽस्या दृढकोपायाः शब्दोयमुचितः खलु॥६१॥ इत्याकर्ण्य पितुर्वाचं लजाभरनतानना। विममर्श निशावृत्तं विश्वं मे जनकोऽशृणोत् ॥ ६२॥ . धिग्मां मूर्खामविशातकारिणीमित्यकुत्सयत् । आत्मानं सा ततो वपूर्य(पूर्वम)मर्षेच व्यधाद् धनम् ॥ ६३ ॥ मदं मुक्त्वा च सा प्रेम भर्तरि स्थिरमादधौ । गंगा हिमवतो गर्जे यथा शीतांशुशेखरे ॥ ६४ ॥ अहो शैशवतो भ्रांता यद्यसौ विद्वदग्रणीः। जनकोनुचिताधायी विमंदाक्षः कथं किल ॥६५॥ इदं किमुचितं वक्तुं कुलीनानां हि तादृशैः। . मातृवसूदुहितॄणामवाच्यं नहि वाच्यभूः ॥ ६६॥ शशाप कोपाटोपेन पितरं प्रकटाक्षरम् । कुष्ठी भव क्रियाभ्रष्टावज्ञातो रसनात्रकः॥ ६७ ॥ तस्याः शीलप्रभावेण सद्यः श्वेतांगचंद्रकैः।। कलाप्यग्रे मयूरोग्रे तदा जज्ञे स चंद्रकी ॥ ६८॥ १ HP. मदो D सुचिक. २ D. गर्ज. ३ D. शा. ४ PH. तौ. Page #193 -------------------------------------------------------------------------- ________________ श्रीमानतुंगप्रबन्धः। १८५ सागानिजगृहं बाणे बिभ्रती संक्तिमादरात् । पितुर्दुर्वचनं तस्याः सान्त्वनाय तदाभवत् ॥ ६९ ॥ सद्यः कुष्ठं तदालोक्य पश्चात्तापातिविह्वलः। अवाड्मुखो गृहे खेऽस्थान ययौ राजपर्षदि ॥ ७०॥ पंचषान् वासरान्नासौ जगाम क्षमापमंदिरे । बाणोपि कुपितस्तस्य बहून्दोषानभाषत ॥ ७१॥ भोगिभोगविनाशैकप्रतिज्ञो मलिनांगभृत् । सुहृत्समागमे लज्जास्थानं प्रकटयन् सदा ॥ ७२ ॥ असौ मेघसुहृन्मेघसुहृञ्चंद्रकितस्तनौ। चित्रंचिंत्रात्सभायोग्यो भूपानां नैनसां निधिः ॥ ७३ ॥ राजा श्रुत्वेति किं सत्यं मयूरः कुष्ठदूषितः। इति चित्रात्समाहूतवांस्तं निजनरैः प्रभुः॥ ७४॥ कृतावगुंठनः पद्यः ससंवीतांगमंडनः। उपभूपतिमागच्छदनिच्छन्स्थानमत्र च ॥ ७५॥ बाणेनोचे स्फुटं दृष्ट्वा मयूरं प्राकृतादथ । शीतरक्षांगसंव्यानं वरकोटीति संसदि॥७६॥ पुनर्निजं गृहं गत्वा व्यमृशञ्चेतसि स्थिरम् । कलंकपंकिलानां हि नोचिता सुहृदां सभा ॥ ७७॥ सहक्रीडितसंघेऽस्मिन् ये तिष्ठंत्यंकशंकिताः। भूखगछिन्नमेते किं खं मूर्धानं न जानते ॥ ७८ ॥ वैराग्यात्त्यज्यते देहः सतां तदपि नोचितम् । दुःखानामसहिष्णुत्वात्स्त्रीवत्कातरता हि सा॥ ७९ ॥ सुरः सनातनः प्रीतिहार्यः कश्चित्कलानिधिः। आराध्यते प्रसादेन यस्य देहो नवो भवेत् ॥ ८०॥ सहस्रकिरणः कर्मसाक्षी ध्येयो मयास्य यत् । दृश्येते सफले साक्षादाराधनविराधने ॥ ८१॥ षट्पारं रज्जुयंत्रं सोऽवलंब्यात्रोपविष्टवान् । गर्त च खदिरांगारैरधोऽर्चिभिरपूरयत् ॥ ८२॥ शार्दूलवृत्तमेकैकमुक्त्वा शस्त्रिकयाच्छिनत् । पामेवं च काव्येषु पंचसूक्तेन कृष्टिना ॥ ८३॥ छिंदतः शेषपादं च मार्तडो व्यक्ततेजसा । आगत्यास्य द्दौ देहं मंच विध्यापितोऽनलः ॥ ८४॥ काव्यानां शततः सूर्यस्तुतिं संविदधे ततः। देवान् साक्षात्करोतिस्म येषामेकमपि स्मृतम् ॥ ८५॥ १ म. भक्ति. २ PH. त्रचि. Page #194 -------------------------------------------------------------------------- ________________ १८६ प्रभावकचरिते श्री भानु स्तोषतस्तस्य नीरुजं देहमातनोत् । सार्द्धषोडशवर्णि (वार्षि) क्यं दीप्यत्कनकभास्वरम् ॥ ८६ ॥ प्रातः प्रकटदेहोऽसावाययौ राजपर्षदि । श्रीहर्षराजः पप्रच्छासीत्ते किं रुग्नवा वद ॥ ८७ ॥ आसीदेव परं ध्यातः सहस्रकिरणो मया । तुष्टो देहं ददावद्य भक्तेः किं नाम दुष्करम् ॥ ८८ ॥ तदा च बाणपक्षीयैः सासूयैरिव पंडितैः । जगदे किंचिदत्युग्रं वाग्वृत्तश्रुतितः स्फुटम् ॥ ८९ ॥ तथाहि यद्यपि हर्षोत्कर्षे विदधति मधुरा गिरो मयूरस्य । बाणविजृंभणसमये तदपि न परभागभागिन्यः ॥ ९० ॥ राजाह सत्यमेवेदं गुणी गुणिषु मत्सरी । यूयमत्रापि सासूया ब्रूमहे वयं किमु ॥ ९१ ॥ वैद्यौषधं विना येन प्रांजलेनैव चेतसा । सूर्य आराधितो भक्त्या कवित्वैर्देहमातनोत् ॥ ९२॥ परितोषं परं प्राप सविता यद्वचःक्रमैः । के वयं मानुषास्तत्राहारादिकलुषाकुलाः ॥ ९३ ॥ बाणः प्राह प्रभो प्रायः कृतपक्षं किमुच्यते । अस्य कः किल शृंगारो देवस्यातिशये स्फुटे ॥ ९४ ॥ एवंजातीयमाश्चर्यातिशयं कोपि दर्शयेत् । अपरो यदि चेच्छक्तिः कः प्रत्यर्थी शुभायतौ ॥ ९५ ॥ इति राज्ञो वचः श्रुत्वा बाणः प्राहातिसाहसात् । हस्तौ पादौ च संच्छिद्य चंडिकावासपृष्ठतः ॥ ९६ ॥ मां परानयतु स्वामी तत्र मुक्तोत्थितः स्थिरम् । यथा युष्मादतिप्रौढि प्रातिहार्य प्रतिश्रये ॥ ९७ ॥ अवादी मयूरोपि तथाप्यस्यानुकंपया । - प्र भूपालमकार्षीरेनमीदृशम् ॥ ९८ ॥ यतो मद्दुहितुः कष्टं यंगशुश्रूषणा भवेत् । आजन्म तन्ममाभीलं विलगेत प्रभो दृढम् ॥ ९९ ॥ श्रुत्वा च भूपतिर्भक्तिं मयूरे बिभ्रदद्भुताम् । बाणे कोपं वहन् प्राह तथा कौतूहलं महत् ॥ १०० ॥ कर्त्तव्यमेव बाणस्य गीः प्राणस्य कवेर्वचः । पाणिपादं नवं चेत्स्यादस्य स्फारं तदा यशः ॥ १०१ ॥ अन्यथा चेत्तदास्फारवचसा भज्यते मणिः । यदृच्छावचसां नावकाशो राशां हि पर्षदि ॥ १०२ ॥ युग्मम् ॥ Page #195 -------------------------------------------------------------------------- ________________ श्रीमानतुंगप्रबन्धः । १८७ अथवा सूर्यमाराध्य त्वमेनमपि पंडितम् । विमदं निर्विषं नागमिव प्रगुणमाचरे ॥ १०३॥ उक्त्वा चैवं कृते राज्ञा चंडी स्तोतुं प्रचक्रमे । बाणकाव्यैरतिश्रव्यैरुद्दामाक्षरडंबरैः ॥ १०४॥ ततश्च प्रथमे वृत्ते निवृत्ते सप्तमेऽक्षरे । समाधौ तन्मुखी भूत्वा देवी प्राह वरं वृणु ॥ १०५॥ विदेहि पाणिपादं मे इत्युक्तिसमनंतरम् । संपूर्णावयवे शोभा प्रत्यग्र इव निर्जरः ॥ १०६॥ महोत्सवेन भूपालमंदिरं स समीयिवान् । . ... राज्ञा पुरस्कृतौ प्रातिहायेऽस्थातामुभावपि ॥१०७॥ ततो विवदमानौ च निवर्त्तते पुरा क्रुधा। भूप एवं ततः प्राह निर्णयो नानयोरिह ॥ १०८ ॥ वाग्देवी मूलमूर्तिस्था यत्रास्ते तत्र गम्यताम् । उभाभ्यामपि काश्मीरनिवृत्तिप्रवरे पुरे ॥ १०९॥ जयः पराजयो वास्तु स्वामिन्यैव कृतोऽनयोः। प्रत्यवायं सचैतन्यः को हि वस्यानुषंजयेत् ॥ ११०॥ यः पराभूतिमाप्नोति तद्रंथाः प्रांगणे मम। प्रज्वाल्य पुस्तकस्तोमं विनाश्या अस्त्वसौ पणः ॥ १११ ॥ ताभ्यामभ्युपयाते च व्यवहारेऽथ पंडितः। उभौ तत्र प्रतिस्थाते राजमत्यैः सहार्दि(हि)तौ ॥ ११२ ॥ तावल्पेनापि कालेन प्रयाणैरविखंडितः । आसेदाते पुरं ब्राह्मी ब्रह्माद्भुतपवित्रितम् ॥ ११३॥ आराधयांबभूवाते तपसा दुष्करेण तौ। तुष्टा देवी परीक्षार्थ तौ पृथकृत्य दूरतः ॥ ११४॥ समस्यापदमप्राक्षीत्तूर्णमापूरितेन च । अपरेणापि संपूर्णा तथैवाक्षरपंक्तिका ॥ ११५॥ विलंबितद्रुते भेदतया काष्ठार्द्धमानतः। जितं बाणेन शीघ्रत्वाद्विलंबावर्जितः परः ॥११६ ॥ तथाहि-दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूरमल्लेन शतचंद्रनभस्तलम् ॥११७॥ इति गीर्निर्णयं लब्ध्वा प्रधानैः सहितौ कवी। निजं नगरमायातौ तस्थतुर्भूमिपाग्रतः॥११८॥ मयूरश्च निजग्रंथपुस्तकानि नृपांगणे । आनीयाज्वालयत् खेदात्तानि जातानि भस्मसात् ॥ ११९ ॥ Page #196 -------------------------------------------------------------------------- ________________ १८८ प्रभावकचरिते भस्मापि यावदुड्डीनं श्रीसूर्यशतपुस्तकम् । तावत्प्रत्यग्रसूर्याशुप्रकटाक्षरमस्ति च ॥ १२० ॥ ततो राज्ञा प्रभावोस्य गौरवेण प्रकाशितः। उभयोर्विदुषो मानं साम्ये स समभावयत् ॥ १२१॥ तौ भूपालःस्तुवन्नित्यममात्यं चान्यदा जगौ। प्रत्यक्षोतिशयो भूमिदेवानामेव दृश्यते ॥ १२२॥ कुत्रापि दर्शनेन्यस्मिन् कथमस्ति प्रजल्पतः । प्राह मंत्री यदि स्वामी शृणोति प्रोच्यते ततः॥१२३ ॥ जैनः श्वेतांबराचार्यो मानतुंगाभिधः सुधी। महाप्रभावसंपन्नो विद्यते तावके पुरे ॥१२४॥ . चेत्कुतूहलमत्रास्ति तदाहूयत तं गुरुम्। चित्ते वो यादृशं कार्य तादृशं पूर्यते तथा ॥१२५ ॥ इत्याकर्ण्य नृपः प्राह तं सत्पात्रं समानय । सन्मानपूर्वमेतेषां निस्पृहाणां नृपः कियान् ॥ १२६॥ तत्र गत्वा पुरो मन्त्री गुरूनानम्य चावदत् । आह्वाययति वात्सल्याभूपः पादोऽवधार्यताम् ॥ १२७॥ गुरुराह महामात्य राज्ञा नः किं प्रयोजनम् । निरीहाणामियं भूमिर्नहि प्रेत्य भवार्थिनाम् ॥ १२८ ॥ मंत्रिणोचे प्रभो श्रेष्ठा भावनातः प्रभावना। प्रभाव्यं शासनं पूज्यैस्तद्राशो रंगतो भवेत् ॥ १२९॥ इति निर्बधतस्तस्य श्रीमानतुंगसूरयः। राजसौधं समाजग्मुरभ्युत्तस्थौ च भूपतिः॥१३०॥ धर्मलाभाशिषं दत्वा निविष्टा उचितासने । नृपः प्राह द्विजन्मानः कीदृक् सातिशयाः क्षितौ ॥ १३१ ॥ एकेन सूर्यमाराध्य खांगादोगो वियोजितः। अपरश्चंडिकासेवावशाल्लेभे करक्रमौ ॥ १३२ ॥ भवतामपि शक्तिश्चेत्काप्यस्ति यतिनायकाः। तदा कंचिञ्चमत्कारं पूज्या दर्शयताधुना ॥ १३३ ॥ इत्याकाथ ते प्राहुर्न गृहस्था वयं नृप । धनधान्यगृहक्षेत्रकलबापत्यहेतवे ॥१३४॥ राजरंजनविद्याप्तिर्लोकाक्षेपादिका क्रिया। यद्विदध्मः परं कार्यः शासनोत्कर्ष एव नः ॥ १३५ ॥ इत्युक्ते प्राह भूपालो निगडैरेष यंत्र्यताम् । आपादमस्तकं ध्वांते निवेश्य प्रवदन्निति ॥ १३६ ॥ १ D. भूपपादौ. Page #197 -------------------------------------------------------------------------- ________________ श्रीमानतुंगप्रबन्धः । ततोऽपवरके राजपुरुषैः परुषैस्सदा । निगडैश्च चतुश्चत्वारिंशत्संख्यैरयोमयैः ॥ १३७ ॥ नियंत्रितः समुत्पाद्य लोहयंत्रसमो गुरुः । न्यवेश्यताथ तद्वाराररी च पिहितौ ततः ॥ १३८ ॥ अतिजीर्ण सनाराचं तालकं प्रददुस्ततः । सूचिमेघ (भेद्य) तमस्कांडः स पातालनिभो बभौ ॥१३९॥ वृत्तं भक्तामर इति प्रख्यं प्राहैकमानसः । १८९ त्रट्कृत्य निगडं तत्र त्रुटित्वापपे ( पै) ति तत्क्षणात् ॥ १४० ॥ प्राकूसंख्यया च वृत्तेषु भणितेषु द्रुतं ततः । श्रीमानतुंगसूरिश्व मुत्कलो मुत्कलोभवत् ॥ १४१ ॥ स्वयमुद्धटिते द्वारयंत्रे संयमसंयतः । सदानुच्छृंखलः श्रीमानुच्छृंखलवपुर्बभौ ॥ १४२ ॥ अंतःसंसदमागत्य धर्मलाभं नृपं ददौ । प्रातः पूर्वाचलान्निर्यन्भास्वानिव महाद्युतिः ॥ १४३ ॥ नृपः प्राह शमस्तादृक् भक्तिश्चाप्यतिमानुषी । देव देवीकृताधारं विना कस्येदृशं महः ॥ १४४ ॥ देशः पुरमहं धन्यः कृतपुण्यश्च वासरः । यत्र ते वदनं प्रैक्षि प्रभो प्रातिभसंनिभम् ॥ १४५ ॥ आदेशसुकृतावेशं प्रयच्छ स्वच्छतानिधे । आजन्मरक्षादक्षः स्याद्यथा मे त्वदनुग्रहः ॥ १४६ ॥ श्रुत्वेति भूपतेर्वाचं प्राहुस्ते यदकिंचनाः । लक्ष्मीनामुपयोगं च कुत्राप्यर्थे विदध्महे ॥ १४७ ॥ परं श्रीमन्गुणांभोधे प्रशाधि वसुधामिमाम् । जैनधर्मं हताक्षेमं परीक्ष्य परिपालय ॥ १४८ ॥ अथोवोचन्महीपालः पांथो जैनादृते पथि । अदर्शनादियत्कालं पूज्यानां वंचिंता वयम् ॥ १४९ ॥ अहो ममावलेपोऽभूद्ब्राह्मणा एव सत्कलाः । देवान्संतोष्य यैः स्वीयोदर्शितः प्रत्ययो मम ॥ १५० ॥ विवदानावहंकारान्नैतावुपरतौ क्वचित् । दर्पायैव न बोधाय या विद्या सा मतिभ्रमः ॥ १५१ ॥ येषां प्रभावः सर्वातिशायी प्रशम ईदृशः । संतोषश्च तदाख्यातो धर्म्मः शुद्धः परीक्षया ॥ १५२ ॥ १ P . तत्कल्पो मुत्कलो. २ P. नांचविना. Page #198 -------------------------------------------------------------------------- ________________ प्रभावकचरिते तन्मया भवतामेवोपदेशः संविधीयते । अतःपरं कटुद्रव्यं त्यक्त्वा स्वाद्यं हि गृह्यते ॥ १५३ ॥ तत आदेशपीयूषपोषात्तृप्तं कुरुग्व माम् । राशो वाचमिति श्रुत्वा सूरिः प्रण्यगदद्गिरम् ॥ १५४॥ दीनपात्रौचितीभेदात्रिधा दानरुचिर्भव। जीर्णान्युद्धर चैत्यानि बिंबानि च विधापय ॥१५५॥ आह मंत्री प्रभोर्विप्र प्रातिभं कजलोज्ज्वलम् । जैनवाचं यमादेशक्षीरेणैव विलुप्यते ॥ १५६ ॥ इत्थं धर्मोपदेशं च प्रदेशमिव सद्भतेः । तेऽथ प्रदाय भूपाय संययुः स्वाश्रयं तदा ॥ १५७॥ सर्वोपद्रवनिर्नाशी भक्तामरमहास्तवः। तदा तैर्विहितः ख्यातो वर्त्ततेद्यापि भूतले ॥१५८ ॥ कदापि कर्मवैचित्र्यात्तेषां चित्तरुजाभवत् । कर्मणा पीडिता यस्मात् शलाकापुरुषा अपि ॥ १५९ ।। धरणेन्द्रस्मृते रायस्पृष्टोऽनशन हेतवे । अवादीदायुरद्यापि स तत्संहियते कथम् ॥ १६०॥ यतो भवादृशामायुर्बहुलोकोपकारकम् । अष्टादशाक्षरं मंत्रं ततस्तेषां समार्पयत् ॥ १६१ ॥ ह्रियते स्मृतितोयेन रोगादि नवधा वयम् । अंतर्ययौ ततः श्रीमान् धरणो धरणीतलम् ॥१६२॥ ततस्तदनुसारेण स्तवनं विदधे प्रभुः। ख्यातं भयहरं नाम तदद्यापि प्रवर्तते ॥ १६३॥ हेमंतशतपत्रश्रीदेहे स्तोघमहोनिधिः । सूररजनि तस्याहो सुलभं तादृशां ह्यदः॥१६४ ॥ सायं प्रातः पठेदेतत्स्तवनं यः शुभाशयः। उपसर्गा व्रजंत्यस्य विविधा अपि दूरतः ॥ १६५॥ मानतुंगप्रभुः श्रीमानुद्योतं जिनशासने । अनेकधा विधायैवं शिष्यान्निष्पाद्य सन्मतीन् ॥ १६६ ॥ द्वेधा गुणाकरं शिष्यं पदे स्वीये निवेश्य च। द्रगिनीमथ संप्राप्यानशनी दिवमभ्यगात् ॥ १६७ ॥ इत्थं श्रीमानतुंगप्रभुचरितमतिस्थैर्यकृजैनधर्म प्रासादस्तंभरूपाः सुकृतभरमहापट्टविष्टंभहेतुः । श्रुत्वा कुत्रापि किंचिद्गदितमिह मया संप्रदायं च लब्ध्वा शोध्य मेधाप्रधानैः सुनिपुणमतिभिस्तञ्चनोत्प्रासनीयम्॥ Page #199 -------------------------------------------------------------------------- ________________ श्रीमानदेवप्रबन्धः । १९१ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीमानतुंगाद्भुतं श्रीप्रद्युम्नमुनींदुना विशदितः शृंगोभवद्वादशः ॥ १६९ ॥ ॥ ग्रंथाग्रं १७४ अ ३ उभयं ३११४॥ श्रीमानदेवप्रबन्धः सूरेः श्रीमानदेवस्य प्रभावांभोनिधिर्नवः । सदा यत्क्रमसेविन्यो ते जयाविजये श्रियौ॥१॥ निर्वृतिं यत्क्रमांभोजगुणानुचरणादधुः। गति मनोहरां हंसा मानदेवः स वः श्रिये ॥२॥ तवृत्तसिंधुतः किंचिदेकदेश विभाव्य च । आख्यानपण्यविस्तारात्तरिष्यामि स्वमूढ़ताम् ॥३॥ अस्ति सप्तशतीदेशो निवेशो धर्मकर्मणाम् । यहानेशभिया भेजुस्ते राजशरणं गजाः ॥ ४ ॥ तत्र कोरंटकं नाम पुरमस्त्युन्नताश्रयम् ।। द्विजिह्वविमुखा यत्र विनतानंदना जनाः॥५॥ तत्रास्ति श्रीमहावीरचैत्यं चैत्यं दद्धदृढम् । कैलासशैलवद्भाति सर्वाश्रयतयानया ॥ ६॥ उपाध्यायोस्ति तत्र श्रीदेवचंद्र इति श्रुतः। विद्वद्वन्दशिरोरत्न तमस्ततिहरो जने ॥ ७॥ आरण्यकतपस्यायां नमस्यायां जगत्यपि। सक्तं शक्तांतरंगारिविजये भवतीरभूः॥८॥ सर्वदेवप्रभुः सर्वदेवसद्ध्यानसिद्धिभृत् । सिद्धक्षेत्रे यियासुःश्री वाराणस्याः समागमत् ॥९॥ वहुश्रुतपरीवारो विश्रांतस्तत्र वासरान् । कांश्चित्प्रबोध्य तं चैत्यव्यवहारममोचयत् ॥ १०॥ स पारमार्थिकं तीव्र धत्ते द्वादशधा तपः। उपाध्यायस्ततः सूरिपदे पूज्यैः प्रतिष्ठितः॥११॥ श्रीदेवसूरिरित्याख्या तस्य ख्यातिं ययौ किल। श्रूयंतेऽद्यापि वृद्धेभ्यो वृद्धास्ते देवसूरयः ॥१२॥ श्रीसर्वदेवसूरीशः श्रीमच्छ@जये गिरी॥ आत्मार्थ साधयामास श्रीनाभेयैकवासनः॥१३॥ १ D. चित्तानंदजनाजना २ P. जनै. ३ D. वेशनः. H. वासवः. Page #200 -------------------------------------------------------------------------- ________________ प्रभावकचरि १५ ॥ चारित्रं निरतीचारं ते श्रीमद्देवसूरयः । प्रतिपाल्य निवेश्याथ सूरिं प्रद्योतनं पंदे ॥ १४ अंतेऽनशनमाधाय ते सदा राद्धसंयमाः । सम्यगाराधनापूर्व दैवीं श्रियमशिश्रियन् ॥ अथो विजहुर्नर्मुले (?) श्री प्रद्योतनसूरयः ॥ तेषां परोपकारायावतारो हि भवेत्क्षितौ ॥ १६ ॥ तत्र श्रीजिनदत्तोऽस्ति ख्यातः श्रेष्ठी धनेश्वरः । सर्वसाधारणं यस्य मानसं मानदानयोः ॥ १७ ॥ धारिणीति प्रिया तस्य धर्मे निबिडवासना । वर्त्तते व्यवहारेण द्वयोऽस्तु पुरुषार्थयोः ॥ १८ ॥ तत्पुत्रो मानदेवोऽस्ति मानवानप्यमानरुक् । वैराग्यरंगितस्वांतः प्रांतभूरांतरद्विषाम् ॥ १९ ॥ श्रीप्रद्योतनसूरीणामन्यदोपाश्रयेऽगमत् । ते धर्मं तस्य चाचख्युस्तरंडं भवसागरे ॥ २० ॥ संसारासारतां बुद्ध्वा गुरुपादान् व्यजिज्ञपत् । मानदेवः परिव्रज्यां ददध्वं मे प्रसीदत ॥ २१ ॥ निर्बंधात्पितरौ चानुज्ञाप्य शुद्धे दिने ततः । चारित्रमग्रही दुग्रमाचचार व्रतं च सः ॥ २२ ॥ अंगैकादशकेऽधीती छे (वे) दमूलेषु निष्ठितः । उपांगेषु च निष्णातस्ततो जज्ञे बहुश्रुतः ॥ २३ ॥ विज्ञाय सोऽन्यदा विज्ञो योग्यः सद्गुरुभिस्तदा । पदप्रतिष्ठितश्चक्रे चन्द्रगच्छांबुधेः शशी ॥ २४ ॥ प्रभावाद् ब्रह्मणस्तस्य मानदेवप्रभोस्तदा । श्रीजयाविजयादेव्यौ नित्यं प्रणमतः क्रमौ ॥ २५ ॥ एवं प्रभावभूयिष्ठे शासनस्य प्रभावकः । संपद्येोमांगणोद्योतभास्वानिव स च व्यभात् ॥ २६ ॥ अथ तक्षशिलापुर्थी चैत्यपंचशतीभृति । धर्मक्षेत्रे तदा जज्ञे गरिष्टमशिवं जने ॥ २७ ॥ अकालमृत्युं संयाति रोगैर्लोक उपद्रुतः । जज्ञे यत्रौषधं वैद्यो न प्रभुर्गुणहेतवे ॥ २८ ॥ प्रतिजागरणे ग्लानं देहस्येह प्रयाति यः । गृहागतः स रोगेण पात्यते तल्पके द्रुतम् ॥ २९ ॥ स्वजनः कोपि कस्यापि नास्तीह समये तथा । आक्रंदभैरवारावरौद्ररूपाभवत्पुरी ॥ ३० ॥ १ P. तने. २ D. ननृते . P . नले. १९२ Page #201 -------------------------------------------------------------------------- ________________ श्रीमानदेवप्रबन्धः। १९३ चैत्यानां च सहस्राणि दृश्यतेऽत्र बहिः क्षितौ । शवानामर्द्धदग्धानां श्रेणयश्च भयंकराः॥३१॥ सुभिक्षमभवद्गृध्रक्रव्यादानां तदोदितम्। शून्या भवितुमारेभे पुरी लंकोपमा तदा ॥ ३२॥ पूजा च विश्वदेवानां विश्रांता पूजकान् विना । गृहाणि शवसंघातदुर्गधानि तदाभवन् ॥ ३३॥ कियानप्युट्टतः संघश्चैत्ये कृत्वा समागमम् । मंत्रयामास कल्पांतः किमद्यैवागतो ध्रुवम् ॥ ३४॥ न कपर्दी न वांबा च ब्रह्मशांतिर्न यक्षराट् । अद्याभाग्येन संघस्य नो विद्यादेवता अपि ॥ ३५ ॥ भाग्यकाले यतः सर्वो देवदेवीगणः स्फुटः। स प्रत्यय इदानीं तु ययौ कुत्रापि निश्चितम् ॥ ३६॥ इति तेषु निराशेषु समेता शासनामरी। उपादिशत्तदा संघमेवं संतप्यते कथम् ॥ ३७॥ म्लेच्छानां व्यंतरैरुग्णैः सर्वः सुरसुरीगणः। विहृतस्तद्विधीयेत किमत्रास्माभिरुच्यताम् ॥ ३८॥ अतः परं तृतीयेऽत्र वर्षे भंगो भविष्यति । तुरुकैर्विहितः सम्यग्ज्ञात्वा कृत्यं यथोचितम् ॥ ३९ ॥ परमेकमुपायं वः कथयिष्यामि वस्तुतः। शृणुतावहिताः संतः संघरक्षा यथा भवेत् ॥४०॥ ततस्तेनाशिवे क्षीणे मुक्त्वा पुरमिदं ततः। अन्यान्यनगरेवव गंतव्यं वचसा मम ॥४१॥ श्रुत्वा च किंचिदाश्वासपंतस्ते पुनरप्यधुः। समादिश महादेवि कोन्योऽन्यः परिरक्षिता ॥४२॥ देवी प्राहाथ नहँले मानदेवाख्यया गुरुः । श्रीमानस्ति तमानाय्य तत्पादक्षालनोदकैः॥४३॥ आवासीनभिषिंचध्वं यथा शाम्यति डामरम् । एवमुक्त्वा तिरोधत्त श्रीमच्छासनदेवता ॥४४॥ श्रावकं वीरदत्तं ते प्रैषुर्नट्टलपत्तने । विज्ञप्तिकां गृहीत्वा च स तत्र क्षिप्रमागमत् ॥४५॥ भूप्रणामाश्रयं दृष्ट्वा व्यधानषेधिकी तदा । मध्याह्ने सूरिपादाश्च मध्येऽपवरकं स्थिताः॥४६॥ उपाविशन् शुभे स्थाने स्थाने सब्रह्मसंविदाम् । पर्यकासनमासीना नासाग्रन्यस्तदृष्टयः॥४७॥ १ D. स्या. 17 Page #202 -------------------------------------------------------------------------- ________________ प्रभावकचरिते समानाः कृच्छ्रकल्याणे तृणे स्त्रैणे मणौ मृदि । तेषां प्राप्त प्रणामाय देव्यौ श्रीविजयाजये ॥४८॥ कोणान्तरुपविष्टे च ते दृष्ट्वा सरलः स च । निमग्नात्मा तमस्तोमे दध्यौ चिन्ताविपन्नधीः ॥ ४९ ॥ ध्रुवं प्रसारिकास्माकं सापि शासनदेवताम् ।। ययौ तावंतमध्वानं प्रेष्याहं क्लेशितो ध्रुवम् ॥ ५० ॥ आचार्योयं हि राजर्षिर्मध्ये दिव्यांगनं स्थितः । अहो चारित्रमस्यास्ति शाम्येदस्मादुपद्रवः ॥ ५१ ॥ मामायांतं च विज्ञाय ध्यानव्याजमिदं दधौ । क एवं नहि जानीते तस्मादारोक्षणं बहिः॥५२॥ ध्याने च पारिते मुष्टिं बड्वासावृजुधार्मिकः। प्राविशद्वारमध्ये च सावझं गुरुमानमत् ॥ ५३ ॥ विज्ञाय चेंगितैर्दिव्यौ तस्याविप्रतिपन्नताम् । अदृष्टैबंधसंबन्धैस्तं निपात्य बबंधतुः ॥ ५४॥ आरटंतं च तं तारस्वरं दृष्टानुकंपया। प्रभुर्विमोचयामास तदज्ञानप्रकाशवान् ॥ ५५ ॥ जयोहार महापाप शापयोग्य क्रियाधम ।। प्रभोः श्रीमानदेवस्य चारित्रस्य शरीरिणः ॥ ५६ ॥ एवं विकल्पमाधत्से श्रावकव्यंसको भवान् । पुंशायनाकिचिह्नानामनभिज्ञोशशेखरः॥ ५७॥ ईक्षवानिमिषे दृष्टी चरणावक्षितिस्पृशौ। पुष्पमाला न च म्लाना देव्यावावां न लक्षसे ॥५८ ॥ प्रागेव मुष्टिघातेन प्रैषयिष्यं यमालये। जैनश्रद्धालुदंभेनाहमपि च्छलिता त्वया ॥ ५९॥ प्रभोरादेश एव त्वजीवने हेतुरग्रिमः। परं पातकभूः कस्मादीदृशस्त्वं समागतः॥ ६०॥ मुष्टिर्बद्धो लभेतात्र लक्षमित्यभिसंधितः। बद्धमुष्टिर्भवानागात्तादृगेव प्रयातु तत् ॥ ६१॥ स प्राह श्रूयतां देव्यौ श्रीसंघः प्रजिघाय माम् । पुर्यास्तक्षशिलाख्यायाः शासनेशोपदेशतः॥ ६२॥ अशिवोपशमार्थ श्रीमानदेवस्य सुप्रभोः। आह्वानायाथ मूर्खत्वान्ममैवाशिवमाययौ ॥ ६३ ॥ उवाच विजया तत्राशिवं किमिव नो भवेत् । तत्र युप्मादृशः श्राद्धादर्शनच्छिद्रवीक्षकाः॥ ६४ ॥ १ D. ता. २ P. जयादरे. Page #203 -------------------------------------------------------------------------- ________________ श्रीमानतुंगप्रबन्धः । वराक न विजानासि प्रभावं त्वममुष्य भोः। मेघा वर्षति सस्यानां निष्पत्तिं चास्य सत्वतः ॥६५॥ श्रीशांतिनाथतीर्थेशा सेविनी शांतिदेवता। सा मूर्तिद्वितयं कृत्वास्मयाजाद्वंदते ह्यमुम्॥६६॥ विजयाह त्वयैकेन श्रावकेण समं मुदा।। प्रहिणोमि कथं पूज्या न कर्णहृदया किमु ॥६७॥ बहवस्त्वादृशाः सन्ति यत्रेहग्धार्मिकोत्तमाः। कथं भवेत् पुनदृश्यः प्रहितस्तत्र नो गुरुः ॥ ६८॥ सूरयः प्राहुरादेशः संघस्याधेय एव नः । अशिवोपशमः कार्य तदत्रस्थैर्विधाप्यते ॥ ६९ ॥ वयं तु नागमिष्यामोऽत्रत्यसंघाननुज्ञया । संघमुख्य इमे देव्यौ तयोरनुमतिर्नच ॥ ७०॥ अमूभ्यामुपदिष्टो यः पुरा कमठजल्पितः।। अस्ति मंत्राधिराजाख्यः श्रीपार्श्वस्य प्रभोः क्रमः॥ ७१ ॥ श्रीशांतिनाथपार्श्वस्थप्रभुस्मृतिपवित्रितम् । गर्भितं तेन मंत्रेण सर्वाशिवनिषेधिना ॥ ७२ ॥ श्रीशांतिस्तवनाभिख्यं गृहीत्वा स्तवनं वरम् । वस्थो गच्छ निजं स्थानमशिवं प्रशमिष्यति ॥ ७३॥ इत्यादेशं च संप्राप्य तथैव कृतवान्मुदा। प्राप्तस्तक्षशिलायां स स्तवं संघस्य चार्पयत् ॥ ७४॥ तस्य चाबालगोऽपाल पठतः स्तवनं मुदा । दिनैः कतिपयैरेव प्रशांतोयमुपद्रवः ॥ ७५॥ कोपि कुत्रापि चायातः प्रगम्य जनमध्यतः । गते वर्षत्रये भग्ना तुरुष्कैः सा महापुरी ॥ ७६॥ अद्यापि तत्र बिंबानि पित्तलाश्ममयानि च । तद्भगृहेषु संतीति ख्याता वृद्धजनश्रुतिः ॥ ७७॥ ततः प्रभृति संघस्य क्षुद्रोपद्रवनाशकः। स्तवः प्रवर्त्ततेऽद्यापि शांति शांत्यादिरद्भुतः ॥ ७८॥ मंत्राधिराजनामाभूत्तस्य मंत्रः प्रसिद्धिभूः। चिंतामणिरिवेष्टार्थप्रद आराधनावशात् ॥ ७९॥ सूरिः श्रीमानदेवाख्यः शासनस्य प्रभावना । विधायानेकशो योग्यं शिष्यं पट्टे निवेश्य च ॥ ८०॥ जिनकल्पाभसंलेखनया संलिख्य विग्रहम् । आयुःप्रांते परं ध्यानं बिभ्रत्रिदिवमापसः॥ ८१ ॥ १ P. H. विधास्यते. Page #204 -------------------------------------------------------------------------- ________________ १९६ प्रभावकचरिते इत्थं श्रीमन्मानदेवप्रभूणां __ वृत्तं चित्तस्थैर्यकृन्मादृशानाम् । विद्याभ्यासैकाग्रहध्यानमन्यद् व्यासंगानां यच्छतादुच्छिदं च ॥ ८२॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितः शृंगोऽसावगमत्रयोदश इह श्रीमानदेवाश्रयः ॥ ८३ ॥ सर्वज्ञचिंतनवशादिव तन्मयत्व मासादयन् जयति जैनमुनिः स एषः। प्रद्युम्नसूरिरपि भूरिमतिः कवीनामर्थेषु काव्यविषयेषु विचक्षणो यः ॥ ८४॥ ग्रं० ८८ अ १६३ उभ ३२०२॥ इति श्रीमानदेवसूरिप्रबन्धः श्रीसिद्धर्षिसूरिप्रबन्धः श्रीसिद्धर्षिः श्रियो देयाद्धियामध्यानथामभूः । मिर्ग्रथग्रंथतामापुर्यथाः सांप्रतं भुवि ॥१॥ श्रीसिद्धर्षिप्रभोः पातु वाचः परिपचेलिमाः। अनाद्यविद्यासंस्कारा यदुपास्ते भिदेलिमाः॥२॥ सुप्रभुः पूर्वजो यस्य सुप्रभः प्रतिभावनाम् । बधुर्बधुराग्यश्रीर्यस्य माघः कवीश्वरः॥३॥ चरितं कीर्तयिष्यामि तस्य त्रस्यजडाशयम् । भूभृञ्चक्रचमत्कारि वारिताखिलकल्मषम् ॥४॥ अजर्जरश्रियां धाम वेषालक्ष्यजरजरः। अस्ति गुर्जरदेशोऽन्यसजराजन्यदुर्जरः॥५॥ तत्र श्रीमालमित्यस्ति पुरं मुखमिव क्षितेः। चैत्योपरिस्थंकुभालियंत्र चूडामणीयते ॥६॥ प्रासादा यत्र दृश्यंते मैत्तवारणराजिताः। राजमार्गाश्च शोभंते मत्तवारणराजिताः॥७॥ जैनालयाश्च संत्यत्र नबंधूपगम श्रिताः। महर्षयश्च निःसंगानबंधूपगमं श्रिताः॥८॥ १H. भाग्यस्य. २ D मन्दवारण. Page #205 -------------------------------------------------------------------------- ________________ श्रीसिद्धर्षिसूरिप्रबन्धः । १९७ तत्रास्ति हास्तिका स्वीयापहस्तितरिपुवजः। नृपः श्रीवर्मलाताख्यः शत्रुमर्मभिदाक्षमः ॥९॥ तस्य सुप्रभदेवोस्ति मंत्री मित्रं जगत्यपि । सर्वव्यापारमुद्राभृन्मुद्राकृहुर्जनानने ॥ १०॥ देवार्योशनसौर्यस्य नीतिरीतिमुदीक्ष्य तौ। अवलंब्य स्थितौ विष्णुपदं कर्तुं तपःकिल ॥ ११॥ तस्य पुत्रावुभावंसाविव विश्वभरक्षमौ । आद्यो दत्तः स्फुरवृत्तो द्वितीयश्च शुभंकरः ॥१२॥ दत्तवित्तोनुजीविभ्यो दत्तचिंत्तसुधर्मधी। अप्रवृत्तः कुकृत्येषु तत्र सुत्रामवत् श्रिया ॥१३॥ हर्म्यकोटिस्फुरत्कोटिध्वजजालान्तरखिताः। जलजन्मतयेव श्रीर्यस्मादासीदनिर्गमा ॥१४॥ तस्य श्रीभोजभूपालबालमित्रं कृतीश्वरः। श्रीमाधो नंदनो ब्राह्मीस्पंदनः शीलचंदनः ॥१५॥ ऐदंयुगीनलोकस्य सारसारस्वतायितम् । शिशुपालवधः काव्यं प्रशस्तिर्यस्य शाश्वती ॥१६॥ श्रीमाधोस्ताघधीः ध्यः प्रशस्यः कस्य नाभवत् । चित्तजाड्यहरा (स्य काव्यगंगोर्मिविपुषः ॥१७॥ तथा शुभंकरश्रेष्ठी विश्वविश्वप्रियंकरः। यस्य दानाद्भुतैर्गीतैर्हर्यश्वो हर्षभूरभूत् ॥ १८॥ तस्याभवहिनी लक्ष्मीलक्ष्मीलक्ष्मीपतेरिव । यया सत्यापिताः सत्यः सीताद्या विश्वविश्रुताः॥१९॥ नंदनो नंदनोत्तंसः कल्पद्रुम इवामरः। यथेच्छादानतोऽर्थिभ्यः प्रथितः सिद्धनामतः॥ २०॥ अनुरूपकुलां कन्यां धन्यां पित्रा विवाहितः। भुंक्ते वैषयिकं सौख्यं दोगुंदग इवामरः ॥ २१ ॥ दुरोदरभरोदारो दाराचारपरामुखः । अन्यदासोऽभवत्कर्म दुर्जयं विदुषामपि ॥२२॥ पितृमातृगुरुस्निग्धबंधुमित्रैर्निवारितः। . अपि नैव न्यवर्तिष्ट दुर्वारं व्यसनं यतः॥ २३ ॥ १D च. २ H मंत्रीमिततपः किल. ३ D सोर्यस्य. ४ P omits मित्रं जगत्यपि 'पदं कत्तुं. ५ DH. आद्यादत्तः । ६ D P. दत्तचित्तश्च धर्म० ७. D. मित्रंकृती स्वद्योस्तागधीश्लाध्यः प्रशंस्यकंस्यभातवत् । ८ P चित्रं. D चित्र. Page #206 -------------------------------------------------------------------------- ________________ १९८ प्रभावकचरिते अगूढातिप्ररूढेऽस्मिन्नहर्निशमसौऽवशः। तदेकचित्तधूर्तानां सदाचारादभूदहिः ॥ २४ ॥ सफ्पिासोशनायाति शीतोष्माच्च विमर्शतः । योगीव लीनचित्तोऽत्र व्यत्रस्यत्साधुवाक्यतः ॥ २५ ॥ निशीथातिक्रमे रात्रावपि स्वकगृहागमी। वध्वा प्रतीक्ष्य एकस्यास्तया नित्यं प्रतीक्ष्यते ॥२६॥ अन्यदा रात्रिजागर्यानिर्यातवपुरुद्यमाम्। गृहव्यापारकृत्येषु विलीनांगस्थितिं ततः ॥ २७ ॥ ईदृक् ज्ञातेयसंबंधवशकर्कशवाग्भरम् । खभूरश्रूणि मुंचंती वधूं प्राह सगद्गदम् ॥ २८ ॥ मयि सत्यां पराभूतिं कस्ते कुर्यात्ततः स्वयम् । विद्यते कुविकल्पैस्त्वं गृहकर्मभरालसा ॥ २९ ॥ श्वशुरोपि च ते व्यग्रो यदा राजकुलादिह । आगंता च ततो देवावसरादावसजिते ॥ ३०॥ मामेवाकोश्यति त्वं तत्तथ्यं मम निवेदय । यथा द्राग्भवदीयातिप्रतीकारं करोम्यहम् ॥ ३१ ॥ सा न किंचिदिति प्रोच्य खUनिर्बधतोऽवदत् । युष्मत्पुत्रोऽर्द्धरात्रातिक्रमेऽभ्येति करोमि किम् ॥ ३२॥ श्रुत्वेत्याह तदा श्वश्रूः किं नाग्रेऽजल्पि मे पुरः। सुतं खं बोधयिष्यामि वचनैः कर्कश ॥३३॥ अद्य स्वपिहि वत्से त्वं निश्चिताहं तु जागरम् । कुर्वे सर्व भलिष्यामि नात्र कार्याधृतिस्त्वया ॥ ३४ ॥ ओमित्यथ स्नुषाप्रोक्ते रात्रौ तद्वारि तस्थुषी। विनिद्रा पश्चिमे यामे रात्रेः पुत्रः समागमत् ॥ ३५॥ द्वारं द्वारमिति प्रौढस्वरोऽसौ यावदूचिवान् । इयद्रात्रौ क आगंता मातावादीदिति स्फुटम् ॥ ३६ ॥ सिद्ध(:)सिद्ध इति प्रोक्ते तेन सा कृतकक्रुधा। प्राह सिद्धं न जानेऽहमप्रस्तावविहारिणम् ॥ ३७॥ अधुनाहं व यामीति सिद्धेनोके जनन्यपि । अन्यदा शीघ्रमायाति यथास्मात्कर्कशं जगौ ॥ ३८ ॥ एतावत्यां निशि द्वारं विवृत्तं यत्र पश्यसि । तत्र यायाः समुद्धाटद्वारा सर्वापि किं निशा ॥ ३९॥ भवत्वेवमिति प्रोक्ते सिद्धस्तस्मानिरीय च । पश्यन्ननावृतद्वारो द्वारेगादनगारिणाम् ॥४०॥ १ H. प्ररूढोऽस्मि. सौधसः । तदाकवित्तधू० Page #207 -------------------------------------------------------------------------- ________________ श्रीसिद्धर्षिसूरिप्रबन्धः । सदाप्यनावृतद्वारं शालायां पश्यति स्म सः । मुनीन् विविधचर्यासु स्थितान्निष्पुण्यदुर्लभान् ॥ ४१ ॥ कांश्चिद्वैरात्रिकं कालं विनिद्रस्य गुरोः पुरः । प्रवेदयत उत्साहान्कांश्चित्स्वाध्यायरंगिणः ॥ ४२ ॥ उत्कटिकासनान् कांश्चित् कांश्चिद्गोदोहिकासनान् । वीरासनस्थितान् कांश्चित्सोऽपश्यन्मुनिपुंगवान् ॥ ४३ ॥ अचिंतयच्छमसुधानिर्झर निर्जरा इव । सुस्नातशीतला एते तृष्णाभीता मुमुक्षवः ॥ ४४ ॥ मादृशा व्यसनासक्ता अभक्ताः स्वगुरुष्वपि । मनोरथद्वहस्तेषां विपरीतविहारिणः ॥ ४५ ॥ धिग्जन्मेदमिहामुत्र दुर्यशो दुर्गतिप्रदम् । तस्मात्सुकृतिनी वेला यत्रैते दृष्टिगोचराः ॥ ४६ ॥ अमीषां दर्शनात्कोपिन्याप्युपकृतं मयि । जनन्या क्षीरमुत्तप्तमपि पित्तं प्रणाशयेत् ॥ ४७ ॥ ध्यायन्नित्यग्रतस्तस्थौ नमस्तेभ्यश्चकार सः । प्रदत्तधर्मलाभाशीर्निर्ग्रथः प्रभुराह च ॥ ४८ ॥ को भवानिति तैः प्रोक्ते प्रकटं प्राह साहसी । शुभंकरात्मजः सिद्धो द्यूतान्मात्रा निषेधितः ॥ ४९ ॥ उद्घाटद्वारि यायास्त्वमोकसीयन्महानिशि । इयंती वाचना दत्ता प्रावृतद्वारि संगतः ॥ ५० ॥ अतःप्रभृति पूज्यानां चरणौ शरणौ मम । प्राप्ते प्रवहणे को हि निस्तितीर्षति नांबुधिम् ॥ ५१ ॥ उपयोगं श्रुते दत्त्वा योग्यताहृष्टमानसाः । प्रभावकं भविष्यंतं परिज्ञायाथ तेऽवदन् ॥ ५२ ॥ अस्मद्वेषं विना नैवास्मत्पार्श्वे स्थीयतेतराम् । सदा स्वेच्छाविहाराणां दुर्ग्रहः स भवादृशाम् ॥ ५३ ॥ धार्य ब्रह्मवतं घोरं दुष्करं कातरैर्नरैः । कापोतिका तथा वृत्तिः समुदानापराभिधा ॥ ५४ ॥ दारुणः केशलोचोऽथ सर्वांगीणव्यथाकरः । सिकतापिंडवञ्च्चायं निरास्वादश्च संयमः ॥ ५५ ॥ उच्चावचानि वाक्यानिं नीचानां ग्रामकंटकाः । सोढव्या दशनैश्चर्वणीया लोहमया यवाः ॥ ५६ ॥ उग्रं षष्ठाष्टमाद्यं तत्तपः कार्य सुदुष्करम् । स्वाद्यास्वाद्येषु लब्धेषु रागद्वेषौ न पारणे ॥ ५७ ॥ १ H. अभव्याः सुगु० २ Do सूपकृ० ३ D वासानां. १९९ Page #208 -------------------------------------------------------------------------- ________________ प्रभावकचरिते ६४ ॥ इत्याकर्ण्यवदत्सिद्धो मत्सहव्यसनस्थिताः । छिन्नकर्णोष्ठनासादिबाहुपादयुगा नराः ॥ ५८ ॥ क्षुधाकरालिताभिक्षा चौर्यादेर्वृत्तिधारिणः । अप्राप्तशयनस्थानाः पराभूता निजैरपि ॥ ५९ ॥ नाथ किं तदवस्थाया अपि किं दुष्करो भवेत् । संयमो विश्ववंद्यस्तन्मूर्ध्नि देहि करं मम ॥ ६० ॥ यददत्तं न गृह्णीमो वयं तस्मात्स्थिरो भव । दिनमेकं यथा विज्ञापयामः पैतृकं तव ॥ ६१ ॥ ततः प्रमाणमादेश इत्युक्त्वा तत्र सुस्थिते । परं हर्षे दधौ सूरिः सुविनेयस्य लाभतः ॥ ६२ ॥ इतः शुभंकरश्रेष्ठी प्रातः पुत्रं समाह्वयत् । शब्दादाने च संभ्रांतः पश्यन् पत्नीं नताननाम् ॥ ६३ ॥ अद्य रात्रे कथं नागात्सिद्ध इत्युदिता सती । लज्जानम्रावदद् द्यूती शिक्षितोऽथ सुतो ययौ ॥ श्रेष्ठी दध्यौ महेलाः स्युरुत्तानधिषणा ध्रुवम् । न कर्कशवचोयोग्ये व्यसनी शिक्ष्यते शनैः ॥ ६५ ॥ ईषत्करं ततः प्राह प्रिये भव्यं त्वया कृतम् । वयं किं प्रवदामोऽत्र वणिजां नोचितं ह्यदः ॥ ६६ ॥ गृहाद्बहिश्च निर्याय प्रयासांगीकृतः स्थितः । व्यलोकयत्पुरं सर्वमहो मोहः पितुः सुते ॥ ६७ ॥ इतश्चरित्रिशालायामसावुपशमोर्मिभिः । आलुतोऽपूर्वसंस्थानं ततोऽवादि च तेन सः ॥ ६८ ॥ यद्येवं शमिसामीप्यस्थितिं पश्यामि ते सुतः । अमृतेनेव सिच्येत नंदनानन्दनस्थिते ॥ ६९ ॥ द्यूतव्यसनिनां साध्वाचारातीतकुवेषिणाम् । संगतो मम हृद्दुःखहेतुः केतुरिव ग्रहः ॥ ७० आगच्छ वत्स सोत्कंठा तव माता प्रतीक्षते । किंचिन्मद्वचनैर्दूना संतप्ता निर्गमात्तव ॥ ७१ ॥ स प्राह तात पर्याप्तं गेहागमनकर्मणि । मम लीनं गुरोः पादारविंदे हृदयं ध्रुवम् ॥ ७२ ॥ जैनदीक्षाधरो मार्ग मार्ग निष्प्रतिकर्मतः । आचरिष्यामि तन्मोहो भवद्भिर्मा विधीयताम् ॥ ७३ ॥ याया अपावृतद्वारे वेश्मनीत्यंबिकावचः । शमिसंनिध्यवस्थानं मतं नस्तदभूद्वचः ॥ ७४ ॥ १ H. स्थितिः, २०० Page #209 -------------------------------------------------------------------------- ________________ श्रीसिद्धर्षिसूरिप्रबन्धः । यावज्जीवं हि विदधे यद्यहं तत्कुलीनता । अक्षता स्यादिदं चित्ते सम्यक्तात विचिंतय ॥ ७५ ॥ अथाह संभ्रमाच्छ्रेष्ठी किमिदं वस्तु चिन्तितम् । असंख्यध्वजविज्ञेयं धनं कः सार्थयिष्यति ॥ ७६ ॥ विलस त्वं यथा सौख्यं विदेहि निजयेच्छया । अविमुंचन्सदाचारं सतां श्लाघ्यो भविष्यसि ॥ ७७ ॥ एकपुत्रा तवांबा च निरपत्या वधूस्तथा । गतिस्तयोस्त्वमेवासीजीर्ण माजीगणस्तु माम् ॥ ७८ ॥ पित्रेत्थमुदिते प्राह सिद्धः सिद्धशमस्थितिः । संपूर्ण लोभिवाणीभिस्तत्र मे श्रुतिरश्रुतिः ॥ ७९ ॥ ब्रह्मणीव मनो लीनं ममातो गुरुपादयोः । निपत्य ब्रूहि दीक्षां (हि) पुत्रस्य मम यच्छत ॥ ८० ॥ इति निबंधतस्तस्य तथा चक्रे शुभंकरः । गुरुः प्रादात्परिव्रज्यां तस्य पुण्ये स्वरोदये ॥ ८१ ॥ दिनैः कतिपयैर्मासमाने तपसि निर्मिते । शुभे लग्ने पंचमहाव्रतारोपणपर्वणि ॥ ८२ ॥ दिग्बंधं श्रावयामास पूर्वतो गच्छ संततिम् । सत्प्रभुः शृणु वत्स त्वं श्रीमान् वज्रप्रभुः पुरा ॥ ८३ ॥ तच्छिष्यवज्रसेनस्याभूद्विनेयचतुष्टयी । नागेंद्रो निर्वृतिश्चंद्रः ख्यातो विद्याधरस्तथा ॥ ८४ ॥ आसीन्निर्वृत्तिगच्छे च सुराचार्यो धियां निधिः । तद्विनेयश्च गर्गर्षिरहं दीक्षागुरुस्तव ॥ ८५ ॥ शीलांगानां सहस्राणि त्वयाष्टादश निर्भरम् । वोढव्यानि विविश्राममाभिजात्यफलं ह्यदः ॥ ८६ ॥ ओमिति प्रतिपद्याथ तप उग्रं चरन्नसौ । अध्येता वर्त्तमानानां सिद्धान्तानामजायत ॥ ८७ ॥ स चोपदेशमालाया वृत्तिं बालावबोधिनीम् । विदधेऽवहितप्रज्ञः सर्वज्ञ इव गीर्भरैः ॥ ८८ ॥ सूरिर्दाक्षिण्यचंद्राख्यो गुरुभ्रातास्ति तस्य सः । कथां कुवलयमालां चक्रे शृंगारनिर्भराम् ॥ ८९ ॥ किंचित्सिद्धकृतग्रंथसोत्प्रासः सोवदत्तदा । लिखितैः किं नवोग्रंथस्तदवस्थागमाक्षरैः ॥ ९० ॥ शास्त्रं श्रीसमरादित्यचरितं कीर्त्यते भुवि । यद्रसोर्मिलता जीवाः क्षुत्तृडाद्यं न जानते ॥ ९१ ॥ १ H. अति • D omits पुत्रस्य स्तस्य. २०१ Page #210 -------------------------------------------------------------------------- ________________ २०२ प्रभावकचरिते f अथोत्पत्तिरसाधिक्यसारा किंचित्कथापि मे । अहो ते लेखकस्येव ग्रंथः पुस्तकपूरणः ॥ ९२ ॥ अथ सिद्धकविः प्राह मनो दूनोपि (षि) नो खरम् । वयोतिक्रांतपाठानामीदृशी कविता भवेत् ॥ ९३॥ का स्पर्द्धा समरादित्य कवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण माहरमंदमतेरिह || इत्थमुद्वे जितस्वांतस्तेनासौ निर्ममे बुधः अन्यदुर्बोधसंबद्धां प्रस्तावाष्टकसंभृताम् । ९५॥ रम्यामुपमितभवप्रपंचाख्यां महाकथाम सुबोधकथितां विद्वदुत्तमांगविधूननीम् ९६ ॥ ग्रंथाव्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतः प्रभृति संघोऽत्र व्याख्यातृबिरुदं ददौ ॥ ९७ ॥ दर्शिताथास्य तेनाथ हसितुः स ततोऽवदत् । ईदृक् कवित्वमाधेयं त्वगुणाय मयोदितम् ॥ ९८॥ ततो व्यचिंतयत्सिद्धो ज्ञायते यदपीह न । तेनाप्यज्ञानता तस्मादध्येतव्यं ध्रुवं मया ॥ ९९॥ तर्कग्रंथा मयाधीताः स्वपरेपीह ये स्थिताः । बौद्धप्रमाणशास्त्राणि न स्युस्तद्देशमन्तरा ॥ १०० ॥ आपप्रच्छे गुरुं सम्यगविनीतवचनैस्ततः । प्रान्तरस्थितदेशेषु गमनायोन्मनातिः ॥ १०१ ॥ निमित्तमवलोक्याथ श्रौतेन विधिना ततः । सवात्सल्यमुवाचाथ नाथप्राथमकल्पिकम् ॥ १०२ ॥ असंतोषः शुभोऽध्याये वत्स किंचिद्वदामि तु । स त्वमत्र न सत्वानां समये प्रमये धिंया ॥ १०३ ॥ भ्रांतं चेतः कदापि स्याद्धेत्वाभासैस्तदीयकैः । अर्थी तदागमश्रेणेः स्वसिद्धांतपराङ्मुखः ॥ १०४ ॥ उपार्जितस्य पुण्यस्य नाशं त्वं प्राप्स्यसि ध्रुवम् । निमित्तत इदं मन्ये तस्मान्मात्रोद्यमी भव ॥ १०५ ॥ अथ चेदवलेपस्ते गमने न निवर्त्तते । तथापि मम पार्श्व त्वमागा वाचा ममैकदा ॥ १०६ ॥ रजोहरणमस्माकं व्रतांगं नः समर्पये । इत्युक्त्वा मौनमातिष्ठद्गुरुं चित्तव्यथाधरः ॥ १०७ ॥ प्राह सिद्धः श्रुती च्छादयित्वा शांतं हि कल्मषम् । अमंगलं प्रतिहतमकृतज्ञः क ईदृशः ॥ १०८ ॥ १ H. P. ग्रथव्या. २ धियां. 11 Page #211 -------------------------------------------------------------------------- ________________ श्रीसिद्धर्षिसूरिप्रबन्धः। २०३ चक्षुरुद्घाटितं येन मम ज्ञानमयं मुदा । पुनस्तव्यामयेत्कोहि धूमायितपरोक्तिभिः ॥ १०९ ॥ अंत्यं वचः कथं नाथ मयि पूज्यैरुदाहृतम् । कः कुलीनो निजगुरुक्रमयुग्मं परित्यजेत् ॥ ११० ॥ मनः कदापि गुप्येत चेद्धत्तूरभ्रमादिव । तथापि प्रभुपादानामादेशं विदधे ध्रुवम् ॥ १११ ॥ इत्युदित्वा प्रणम्याथ स जगाम यथेप्सितम् । महाबोधाभिधं बौद्धपुरमव्यक्तवेषभृत् ॥११२॥ कुशाग्रीयमतेस्तस्याक्लेशेनापि प्रबोधतः। विद्वदुर्भेदशास्त्राणि तेषामासीश्चमत्कृतिः॥ ११३॥ तस्यांगीकरणे मंत्रस्तेषामासीदुरासदः । तमस्युद्योतको रत्नमाप्य माध्यस्थ्यमाश्रयेत् ॥ ११४॥ तादृग्वचःप्रपंचैस्तैर्बर्द्धकैर्गर्द्धकैरपि । तं विप्रलम्भयामासुर्मीनवद्धीवरा रसात् ॥ ११५॥ शनैतमनोवृत्तिर्बभूवासौ यथातथा । तदीयदीक्षामादत्त जैनमार्गातिनिस्पृहः ॥ ११६॥ अन्यदा तैर्गुरुत्वेऽसौ स्थाप्यमानोऽवदन्ननु । एकवेलं मया पूर्वे संवीक्ष्या गुरवो ध्रुवम् ॥ ११७ ॥ इति प्रतिश्रुतं यस्मात्तदने तत्प्रतिश्रवम् । सत्यसंधस्त्यजेत्तत्कस्तत्र प्रहिणुताथ माम् ॥ ११८॥ इति सत्यप्रतिशत्वमतिचारु च सौगते । मन्यमानास्ततः प्रैषुः स चागाहरुसंनिधौ ॥ ११९ ॥ गत्वाथोपाश्रये सिंहासनस्थं वीक्ष्य तं प्रभुम् । ऊर्ध्वस्थानशुभा यूयमित्युक्त्वा मौनमास्थितः ॥ १२०॥ गर्गस्वामी व्यमृक्षच संजशे तदिदं कुलम् । अनिमित्तस्य जैनीवाग नान्यथा भवति ध्रुवम् ॥ १२१ ॥ अस्माकं ग्रहवैषम्यमिदं जज्ञे यदीदृशः। सुविनेयो महाविद्वान् परशास्त्रप्रलंभितः ॥ १२२ ॥ तदुपायेन केनापि बोध्योऽसौ यदि भोत्स्यते । तदस्माकं प्रियं भाग्यैरुदितं किं बहूक्तिभिः॥१२३॥ ध्यात्वेत्युत्थाय गुरुभिस्तं निवेश्यासनेऽपिता। चैत्यवंदनसूत्रस्य वृत्तिर्ललितविस्तरा ॥ १२४॥ ऊचुश्च यावदायामः कृत्वा चैत्यनतिं नयम् । ग्रंथस्तावदयं वीक्ष्य इत्युक्त्वा तेऽगमन् बहिः॥ १२५॥ - १H. सचेतनः D. त्वं मतीरुते. Page #212 -------------------------------------------------------------------------- ________________ प्रभावकचरिते ततः सिद्धश्च तं ग्रंथं वीक्ष्यमाणो महामतिः । व्यमृशत्किमकार्य तन्मयारब्धमचिन्तितम् ॥ १२६ ॥ कोsन्य एवंविधो माहगविचारितकारकः । स्वार्थभ्रंशैः पराख्यानैर्मणि काचेन हारयेत् ॥ १२७ ॥ मदोपकारी स श्रीमान् हरिभद्रप्रभुर्यतः । मदर्थमेव येनासौ ग्रंथोऽपि निरमाप्यत ॥ १२८ ॥ आचार्यो हरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हंत स एवाद्य निवेशितः ॥ १२९ ॥ अनागतं परिज्ञाय चैत्यवंदनसंश्रया । मदर्थं निर्मिता येन वृत्तिर्ललितविस्तरा ॥ १३० ॥ विषं विनिर्धूय कुवासनामयं व्यचीचरद्यः कृपया मदाशये । अचित्यवीर्येण सुवासनासुधां नमोस्तु तस्मै हरिभद्रसूरये ॥ १३१ ॥ किं कर्त्ता च मया शिष्याभासेनाथ गुरुर्मम । विज्ञायैतन्निमित्तेनोपकर्त्तुं त्वाह्वयन्मिषात् ॥ १३२ ॥ तदंघ्रिरजसा मौलिं पावयिष्येऽधुनानिशम् । आगः स्वं कथयिष्यामि गुरुः स्यान्न हानीदृशः ॥ १३३॥ तथागतमतिभ्रांतिर्गता मे ग्रंथतोऽमुतः । कोद्रवस्य यथा शस्त्राघाततो मदनभ्रमः ॥ १३४ ॥ एवं चिंतयतस्तस्य गुरुर्बाह्यभुवस्ततः । आगतस्तद्दृशं पश्यन् पुस्तकस्थं मुदं दधौ ॥ १३५ ॥ नैषेधिकीमहाशब्दं श्रुत्वोः संभ्रमादभूत् । प्रणम्य रूक्षयामास शिरसा तत्पदद्वयम् ॥ १३६ ॥ उवाच किंनिमित्तोयं मोहस्तव मयि प्रभो । कारयिष्यति चैत्यानि पश्चात्कि मादृशोऽधमाः ॥ १३७ ॥ उन्मीलादूषकास्फोटस्फुटवेदनविद्रुहः । २०४ स्वादविघ्नाश्चला दन्ताः कुशिष्याश्च गताशुभाः ॥ १३८ ॥ आहूतो मिलनव्याजाद्बोधायैव ध्रुवं प्रभो । हारिभद्रस्तथा ग्रंथो भवता विदधे करे ॥ १३९ ॥ भग्नभ्रमः कुशास्त्रेषु प्रभुं विज्ञपये ततः । स्वस्यांतेवासिपाशस्य पृष्ठे हस्तं प्रदेहि मे ॥ १४० ॥ देवगुर्वाद्यवशोत्थमहापापस्य मे तथा । प्रायश्चित्तं प्रयच्छाद्य दुर्गतिच्छित् कृपां कुरु ॥ १४१ ॥ अथोवाच प्रभुस्तत्र करुणाशरणाशयः । आनंदाश्रुपरिश्रुत्या परिक्लिन्नोत्तरीयकः ॥ १४२ ॥ Page #213 -------------------------------------------------------------------------- ________________ श्रीसिद्धर्षिसूरिप्रबन्धः । २०५ मा खेदं वत्स कार्षीस्त्वं को वनीवद्यते नवा । पानशौण्डैरिवाभ्यस्तकुतर्कमदविह्वलैः॥१४३॥ नाहं त्वां धूर्तितं मन्ये यद्धचो विस्मृतं न मे। मदेन विकलः कोऽपि त्वां विना प्राक्श्रुतं स्मरेत् ॥ १४४ ॥ वेषादिधारणं तेषां विश्वासायापि संभवेत् । अतिभ्रांतिं च नात्राहं मानये तव मानसे ॥ १४५॥ प्रख्यातवक्तुकप्रज्ञा ज्ञातशास्त्रार्थमर्मकः। कः शिष्यस्त्वादृशो गच्छेऽतुच्छे मच्चित्तविभ्रमः॥ १४६॥ इत्युक्तिभिस्तमानंद्य प्रायश्चित्तं तदा गुरुः। प्रदेऽस्य निजे पट्टे तथा प्रातिष्ठिपञ्च तम् ॥ १४७॥ स्वयं तु भूत्वा निस्संगस्तुंगद्रंगभुवं तदा । हित्वा प्राच्यर्षिचीर्णाय तपसेऽरण्यमाश्रयत् ॥१४८॥ कायोत्सर्गी कदाप्यस्थादुपसर्गसहिष्णुधीः । कदापि निर्निमेषाक्षः प्रतिमाभ्यासमाददे ॥ १४९ ॥ कदाचित्पारणे प्रांताहारधारितशंबरम् ।। कदाचिन्मासिकाद्यैश्च तपोभिः कर्म सोक्षिपत् ॥ १५०॥ • एवं प्रकारमास्थाय चारित्रं दुश्चरं तदा । आयुरंते विधायाथानशनं स्वर्ययौ सुधीः॥१५१॥ इतश्च सिद्धव्याख्याता विख्यातः सर्वतोमुखे । पांडित्ये पंडितंमन्यपरशासनजित्वरः॥ १५२॥ समस्तशासनोद्योतं कुर्वन्सूर्य इव स्फुटम् । विशेषतोऽवदानस्तु कृतनिर्वृतिनिर्वृतिः ॥ १५३ ॥ असंख्यतीर्थयात्रादिमहोत्साहैः प्रभावना । कारयद्धार्मिकैः सिद्धो वचःसिद्धिं परां दधौ ॥ १५४ ॥ श्रीमत्सुप्रभदेवनिर्मलकुलालंकारचूडामणिः । श्रीमन्माघकवीश्वरस्य सहजप्रेक्षापरीक्षानिधिः । तवृत्तं परिचिन्त्य कुग्रहपरिष्वंगं कथंचित्कलिः प्रागल्भ्यादपि संगतं त्यजत भो लोकद्वये सिद्धये ॥ १५५॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ सिद्धर्षिवृत्ताख्यया श्रीप्रद्युम्नमुनींदुना विशदितः शृंगो जगत्संख्यया ॥ १५६॥ १५७। ग्रं १६० उभयं ३३८०॥ इति श्रीसिद्धर्षिप्रबन्धः १ D. P. वनीवच्यते. २ H. P. संवरः 18 Page #214 -------------------------------------------------------------------------- ________________ २०६ प्रभावकचरिते श्रीवीरप्रबन्धः आंतरारिपुविध्वंसी दुष्कर्मगजयूथहृत् । अष्टापदोदयद्वर्णश्रीवीरः स्वान्वयः श्रिये ॥१॥ श्रीधीरगणिस्वामिपादाः पांतु यदादात् । कषायादिरिपुवातो भवेन्नागमनक्षमः ॥२॥ विबुधा विबुधा यस्योपदेशैरमृताश्रवैः। स्वान्ययोरुपकाराय तस्य वृत्तं प्रतन्यते ॥३॥ पुरं श्रीमालमित्यस्ति गभस्तिरपहस्तितः । यदुद्यानद्रुमैः पूर्वपश्चिमावाश्रयगिरी ॥४॥ मंदतामरसत्वं च यत्र विभ्रति नो जनाः। मंदतामरसत्वं च दधते न सरांस्यपि ॥ ५॥ श्रीधूमराजवंशीयः कुमुदामोदिमंडलः। राजात्र देवराजोस्ति तरंगितनयोदधिः ॥ ६॥ वणिक् प्राग्रहरस्तत्र शिवनागाभिधः सुधिः । यन्मंत्रर्व्हियतेऽत्युग्रद्विजिव्हप्रभवं विषम् ॥ ७॥ दृढानुरागी श्रीजैनधर्मे श्रीधरणाभिधम् । आरराध स नागेंद्रं तद्भक्तरतुषच्च सः॥ ८॥ कलिकुंडक्रमं तस्य सर्वसिद्धिकरं ददौ । विषापहारकं सद्यो जपहोमादिकैर्विना ॥९॥ यः पूत्कारकरस्पर्शेरष्टानामपि संहरेत् । विषं नागकुलानां स मंत्रो निष्पुण्यदुर्लभः ॥ १० ॥ स्तवनं स तदा चके तत्संदर्भप्रभावपरिपूतम् । स्मरणादपि दुरितहरं ख्यातं धरणोरगेंद्राख्यम् ॥ ११ ॥ तस्य पूर्णलतान्वर्था कांता धर्मद्रुमाश्रिता। कुलकंदा वचःपत्रा यशःपुष्पा महाफला ॥१२॥ स्वस्तिवीरस्तयोः पुत्रो रत्नदीप इव स्फुरन् । अक्षयार्चिस्तमोहंता दिवसः प्रकटप्रभः ॥१३॥ यस्य कोटिध्वजव्याजाद्वैजयंत्य इवोर्जिताः। सुमनस्थेन गीर्वाणान् जित्वा वीरः कथं न सः॥१४॥ स सप्तोद्वाहितः कन्याः सप्तानां व्यवहारिणाम् । सप्ताब्धीनामिवामूल्यरत्नौधैर्मडिताः श्रियः॥१५॥ श्रीवीरं वंदितुं वीरः श्रीमत्सत्यपुरेऽन्यदा। मृते पितरि वैराग्याद्याति पर्वसु सर्वदा ॥१६॥ १ H. रारिहरि० २ D सः वंशेनिः. Page #215 -------------------------------------------------------------------------- ________________ श्रीवीरप्रबन्धः । अन्यदा तस्करैर्गच्छन् विद्रोतुमयशस्करैः । अवेद्यतारवान् शुष्कपत्रैः कारस्करैरिव ॥ १७ ॥ प्रणश्य च तदा शालः श्रेष्ठिनो गृहमागमत् । अधृतेश्चांगमन्माता गृहद्वारे जनश्रुतेः ॥ १८ ॥ वीरः कुत्र तया पृष्टे नर्मणा सोऽप्यभाषत । चौरेर्वीरो मृषावीरः प्रहतः सत्ववर्जितः ॥ १९ ॥ इत्याकर्ण्य तदंबा च तत्रैवास्थादजीविता । अहो अतुच्छं वात्सल्यं मातुर्वाक्यपथातिगम् ॥ २० ॥ पितुर्भर्तुः कलाचार्यमित्रयोरुपकारिणः । भवेत्कथंचिदानृण्यं जनन्या न कथंचन ॥ २१ ॥ तदा च चौरसंघाताद्वीरो वीरप्रसादतः । स्वक्षेत्रेणाक्षतेनागात् शालभादिव कर्षुकः ॥ २२ ॥ दृष्ट्रा स्वांबां गतप्राणां विस्मरन्निजसंकटम् । किमभूदित्यवपृच्छन् यथावृत्तं तदाशृणोत् ॥ २३ ॥ अनुतप्तः प्रियाबंधुवीरेणाभिदधे तदा । अस्थिभंगं कथं नर्म कृतं मद्भाग्यदूषकम् ॥ २४ ॥ स प्राह कोऽपि नर्मोक्त्या किं मातेव विपद्यते । शल्यं विल्वकवन्मेऽभूदित्याजन्माप्यनिर्गमम् ॥ २५ ॥ वीरः प्राहाथ वैराग्याज्जनन्या मम च स्फुटम् । कीडग्दूरतरं स्नेहसंबंधे पश्यतान्तरम् ॥ २६ ॥ हास्येन मन्मृतिं श्रुत्वा माता सत्येन संस्थिता । सत्येपि निधने तस्या वयं किंचिन्मुचोपि न ॥ २७ ॥ उक्त्वेति कोटिमेकैकां कलत्रेभ्यः प्रदाय सः । शेषः श्रीसंघपूजासु चैत्यौघे चाव्ययद्धनम् ॥ २८ ॥ परिग्रहपरित्यागं कृत्वा गार्हस्थ एव सन् । गत्वा सत्यपुरे श्रीमद्वीरमाराधयन्मुदा ॥ २९ ॥ उपवासान् स (त) दा चाष्ट कृत्वा पारणकं व्यधात् । समस्तविकृतित्यागादहो अस्य महत्तपः ॥ ३० ॥ प्रासुकाहारभोजी च स चतुर्विधपौषधी । पुरबाह्ये श्मशानादौ कायोत्सर्गे निशि व्यधात् ॥ ३१ ॥ दिव्यमानुषतैरश्चोपसर्गेषु समासहिः । तप्यमानस्तपस्तीव्रमभवत्तीर्थसन्निभः ॥ ३२ ॥ निजक्रियानुमानेन गुरोरुत्कंठितः सदा । एकचित्तो महावीरपादान् ध्यायत्यमंधीः ॥ ३३ ॥ १ H. स्या २०७ Page #216 -------------------------------------------------------------------------- ________________ २०८ प्रभावकचरिते प्रदोषसमयेऽन्येधुः प्रतिमार्थ बहिर्भुवि । गच्छन्दूरात्समायांतमायांतं जंगमं शिवम् ॥ ३४॥ चारित्रमिव मूर्तिस्थं मथुरायाः समागतम् । सवर्षशतदेशीयमपश्यद्विमलं गणिम् ॥ ३५॥ क्षितिपीठलुठन्मूर्द्धा सर्वाभिगमपूर्वकम् । ववंदे वंदितस्तेन धर्मलाभाशिषा च सः॥ ३६॥ अकाले नगराद्वाह्ये धर्मशील व गम्यते । इत्युक्ते प्रांतभूमीषु व्युत्सर्गायेति सोऽवदत् ॥ ३७॥ गणिः प्राहातिथिस्तेऽहमंगविद्योपदेशतः। मिलित्वा ते वकालाय यामि शत्रुजये गिरौ ॥३८॥ वीरोऽवदथश्रेयो दिनं मे यद्भवादृशाः। प्रसादमसमं कृत्वोत्कंठते किल मादृशाम् ॥ ३९ ॥ निशां सफलयाम्यद्य तत्पूज्यवरिवस्यया । चिंतामणिं करप्राप्तं कः कुण्ठोप्यवमन्यते ॥४०॥ इत्युक्त्वा दर्शयन् स्वीयोपाश्रयं तस्य सहरोः। शुश्रूषां च स्वयं चके देहविश्रामणादिकाम् ॥४१॥ ततश्चाह मुनीशोंग विद्यां त्वमशठः पठ। प्रभावकश्रुतज्ञानाद्भवितासि मते यथा ॥४२॥ वीरः प्राह गृहस्थानां कथं सिद्धांतवाचना।। नाधीतं पुनरायाति वृद्धत्वाद्विदधे किमु ॥४३॥ अथाह गुरुरध्वन्यो भवांतरगतावहम् । अंगविद्या महाविद्या तवायाता स्वयंवरा ॥४४॥ तदर्थ ज्ञापयिष्यामि शीघ्रं तत्पुस्तकं पुनः। थारापद्रपुरे श्रीमान्नाभेयस्य जिनेशितुः॥४५॥ चैत्यस्य शुकनाशेऽस्ति तं गृहीत्वा च वाचये । इत्युक्त्वादात् परिव्रज्यां गुरुवीरस्य सादरम् ॥ ४६॥ दिशन् ग्रंथस्य तस्यार्थ दिनत्रयमवास्थितः।। ततो जगाम स श्रीमान् विमलो विमलेऽचले ॥४७॥ तत्र श्रीवृषभं नत्वा तदेकध्यानमानसः। संन्यासात्रिदिवं प्राप पापमातंगकेसरी ॥४८॥ ततो गुरुनियोगेन वीरस्तत्र पुरे ययौ । स्थाने च तत्समादिष्टे श्राद्धेभ्यः प्राप पुस्तकम् ॥४९॥ अधीता तेन तत्रांगविद्या च गणिविद्यया। तस्याः प्रसादतः सोऽभूदुग्रशक्तिर्महातपाः ॥५०॥ १D. धारा० Page #217 -------------------------------------------------------------------------- ________________ श्रीवीरप्रबन्धः । अभूदथ परीवारस्तस्य प्राचीनपुण्यतः । अबुद्धबोधने सैष नियमं चाग्रहीत्तदा ॥५१॥ विजहीर्षुर्गणिर्वीरोऽणहिल्लपुरसंमुखम् । आजगाम स्थिराग्रामे विरूपानाथसंश्रिते ॥५२॥ स चात्र बलभीनाथापराख्यो व्यंतराधिपः । रात्रौ देवगृहे सुप्तं हन्ति मत्र्य महारुषा ॥ ५३॥ तद्बोधाय महामातृपीठांतर्गणिविद्यया । अर्द्धतुर्यकरोन्मानकुंडं कृत्वा महोदयः॥ ५४॥ तत्रस्थैः स निषिद्धोऽपि महाशक्तिभरात्ततः। अस्थादस्थानमीदृक्षभयानामक्षतव्रतः॥ ५५॥ झंझादिवातवद्विघ्नानवजानन् सुराद्रिवत्। कायोत्सर्गस्थितः काये निष्प्रकंपो मनस्यपि ॥५६॥ उद्यत्किलकिलाशब्दै तिं बाह्ये स्वयं वदन् । आययौ बलभीनाथ आतंकं विदधजने ॥ ५७॥ व्यकार्षीद्धस्तिनः पूर्व जंगमानिव पर्वतान् । तमाश्रितान् सुरेद्रेण सह वैरभयादिव ॥ ५८॥ तस्य रेखा न लंघते मर्यादा सागरा इव । उन्नतावनतैः शुंडादंडैरुड्डामरा अपि ॥ ५९ ॥ ततः प्रसर्पतः सर्पान् सदानैक्षयत्तराम् । दृष्टिनिर्यद्विषज्वालान्भस्मीभूतान्यदेहिनः॥६०॥ तां रेखामनतिक्रम्य स्थितांस्तान्वीक्ष्य निर्जरः। विलक्ष्य इव दध्यौ स महिमास्य जनातिगः॥६१॥ ततो राक्षसरूपाणि भैरवाणि चकार सः। क्षोभाय तस्य नाभूवन्प्रतिकूलानि तान्यपि ॥ ६२॥ अनुकूलैरथारंभि मुमुक्षोर्विप्रलंभनम् । मातापिताकलत्राणि कंदंति समयैक्षयत् ॥ ६३॥ तत्वज्ञस्तान्यवाशासीन्मोहर्विध्यसकोन्नतेः। वीरे कुंभोद्भवेऽमुत्र दक्षिणां दिशमाश्रिते ॥६४॥ कुभावेपि सुराचाल्यः सत्ववीरतपोनिधिः। द्रष्टुं पूर्वाचलं प्राप्ते कौतुकादिव भास्करे ॥६५॥ प्रत्यक्षीभूय गीर्वाण उवाचासौ तपोनिधिम् ।। अखर्वपर्वताध्वन्यध्वन्यवध्वस्तवाक्रमम् ? ॥६६॥ पूर्व सुरनरेशानां मानभंगो मया दधे। त्वां विना नैव केनापि भक्तो मे स्खलनं कृतम् ॥ ६७॥ १P omits णि कंदंति सुरा० २D. स्यकोन्मति. ३ D कजयाथै च वलित्वा वपिसुरा.?. . Page #218 -------------------------------------------------------------------------- ________________ २१० प्रभावकचरिते पूर्वास्थडक्वरीपुर्यामागतोऽहं शिवालये। भीमेश्वराख्ये तलिंगमप्रणम्यैव च स्थितः ॥ ६८ ॥ चरणौ तु जलाधारे न्यस्य सुप्तश्च तत्क्षणे । तत्रागत्य नृपोऽपृच्छन्मां स विस्मयमानसः॥ ६९॥ नमसि त्वं न किं देवमशानाच्छक्तितोऽथवा । तदावोचमहं राजन् हेतुं ते कथये स्फुटम् ॥ ७० ॥ शिवोयं शक्तिसंबद्धो मां दृष्ट्रा लजया नतः। भविष्यति यतो लज्जा पुंसः पुंसोऽग्रतोभवेत् ॥ ७१॥ एवं स्थितेपि देवेस्मिन्नमति प्राकृतो जनः। पशूपमे जने तस्य का व्रीडास्था ममापि च ॥ ७२ ॥ चित्ते कौतुकमत्रास्ति मत्प्रणामात्तदास्य चेत् । । उत्पातः कोपि जायेत तत्र दोषोपमोपि मे ॥ ७३॥ इत्युक्त्वा विरते मय्यब्रवीभूमिपतिस्ततः। वैदेशिका भवन्त्यत्र स्फारवाक्यक्रमाः सदा ॥ ७४॥ चर्मदेहः पुमान् देवसाम्यं स्वस्येह मन्यते । हास्यं स चेतनानां तद्वालानां विप्रलंभनम् ॥ ७५ ॥ या काचिदस्ति ते शक्तिस्तां प्रयुक्ष्व न ते पुनः। दोषोऽणुरपि कार्येऽत्र नगरं साक्षि वर्त्तताम् ॥ ७६ ॥ श्रुत्वेति प्रणतिं यावत्कुर्वे संगत्य संनिधौ । त्राकृत्य तावत् पुस्फोट लिंगं लोकस्य पश्यतः॥ ७७ ॥ अथाहमवदं भीतिसंभ्रमभ्रान्तलोचनम्। भूपालं बालवत्कंठरोधाव्यक्तस्वरं तदा ॥ ७८ ॥ मदुत्तेजनदंभेन त्वया वैरं प्रसाधितम् । लिंगेऽस्मिन्नर्चनक्लेशैर्दूनेन चिरकालतः ॥ ७९ ॥ श्रुत्वेति पादयोमौलिं मीलयित्वानुनीतिभूः । राजा सपरिवारोऽयमाह देवस्त्वमेव नः ॥ ८॥ तीर्थ त्वयैव दत्तं स्यादन्यथोच्छिन्नमेव तत् । शिवस्त्वमेव देहस्थः पाषाण इतरः पुनः ॥ ८१॥ एवमुक्तो योगपट्टेनावेष्टयमिदं न्वहम् । संबद्ध विदलं तत्र लिंगमद्यापि पूज्यते ॥ ८२॥ महाबोधे ततो बौद्धविहारशतपंचकम् । तान् विजित्य मया भग्नं तत्र सामर्थ्यतो निजात् ॥ ८३॥ तथा मम प्रतिज्ञास्ति संमुखं विजये ध्रुवम् । महाकालाख्यया शंभुभीत्या मे कोणके स्थितः ॥८४॥ सोमेश्वरजयाथै च चलित्वागममत्र च । Page #219 -------------------------------------------------------------------------- ________________ २११ श्रीवीर प्रबन्धः । सोऽत्रागत्यामिलद्भीतो मम ब्राह्मणरूपतः ॥ ८५ ॥ प्राहेदं दारुणं क्षेत्रं पवित्रं दत्तमत्र च । महोदयाय तद्याचे दातुमीशो भवान्यदि ॥ ८६ ॥ मयोचेहं क्षमो दाने मार्गणानां यथेप्सितम् । घटमूटकटंकानां लक्षै राज्यान्नहेमसु ॥ ८७ ॥ ततोऽसौ ब्राह्मणोऽवोचन्मम किंचिद्ददख तत् । याचखेति मदुक्ते च स प्राह श्रूयतां ततः ॥ ८८ ॥ अत्र क्षेत्रे स्थिरो भूत्वावतिष्ठख महाबल । श्रुत्वेति ज्ञानतो यावदीक्षे तावत्स शंकरः ॥ ८९ ॥ आतंकात्सोमनाथाख्यं छलितुं मां समाययौ । वामनो बलिभूपालमिव वृद्धद्विजच्छलात् ॥ ९० ॥ दंड कमपि मे देहि यथा सत्यः प्रतिश्रवः । मम स्यादन्यथात्रापि स्थितस्तेस्मि व्यथावहः ॥ ९१ ॥ अथ स प्राह नाहंयुस्त्वय्यहं तद्वचः शृणु । मद्यात्रा तस्य पूर्णा स्याद्यस्तामद्य न पश्यति ॥ ९२ ॥ अन्यथार्द्धकला सा स्यादित्युक्त्वा स्वाश्रयं गतः । वर्त्ततेऽद्यापि तत्तादृग्मद्वचः कोपि लंघयेत् ॥ ९३ ॥ ततः प्रभृत्यसौ ग्रामः स्थिरमित्याख्ययाभवत् । मम शंभोश्च वाचां हि स्थिरता नहि दुर्लभा ॥ ९४ ॥ इति न स्खलिता शक्तिर्मम मर्त्यैः सुरैरपि । त्वं तु श्वेतांबराकारो दैवं मत्तोपि शक्तिमान् ॥ ९५ ॥ नावमंतुमहं शक्तः समीक्षे दूरतः स्थितः । रेखाकुंडं ज्वलत्वारं ? वदिदं शंकितः पुमान् ॥ ९६ ॥ तुष्टस्तव तपःशक्तेः वांच्छितं प्रार्थय द्रुतम् । अक्षेपात्पूरयिष्ये तत्कल्पवृक्ष इव ध्रुवम् ॥ ९७ ॥ पारयित्वा ततो वीरः परमेष्ठिनमस्कृतेः । जगादनादरा अत्र सर्वसंगमुचो वयम् ॥ ९८ ॥ तथापि किंचिन्मद्भक्तेर्गृहाणेत्युदितामुना । मुनिराह वधं रक्ष तवाप्यायुर्विनश्वरम् ॥ ९९ ॥ दुर्गतौ पतने हेतुर्मोलोयं प्राणिनां वधः । तथाख्यातैः पुरावृत्तैर्हर्षो मे नास्त्यहंकृतैः ॥ १०० ॥ महादानेषु सामर्थ्यमात्मनश्च त्वयोदितम् । जीवाभयप्रदानं च सर्वेभ्योप्युत्तमं पुनः ॥ १०१ ॥ हर्षादाह स तथ्यं ते वचो जानेऽहमप्यदः । स्वेच्छाचारी परीवारो मम तस्य प्रियं न्विदम् ॥ १०२ ॥ । P. च्वार ? H omits Page #220 -------------------------------------------------------------------------- ________________ २१२ प्रभावकचरिते त्वद्वचोभिः सुधासारसारैरित्यतिहर्षितः। प्रासादजगतीमध्ये जीवानां रक्षये वधम् ॥ १०३ ॥ श्रीवीरोप्याह भूयात्तद्राज्ञा ज्ञातमिदं वचः। आचंद्रकालिकं वृत्तमावयोः पुण्यहेतवे ॥ १०४॥ अणहिल्लपुरे चासीच्चक्रवर्ती च नूतनः। श्रीमान् चामुंडराजाख्यस्तत्रापि समये नृपः ॥ १०५॥ आज्ञापयदिदं च श्रीविरूपानाथ एव तत् । प्रधानस्तैर्नृपस्याथ हर्षात्तत्राययौ च सः॥ १०६॥ सत्कर्मणि चिकीर्षात्र कस्य नो महतेत्यसौ। विशाय जीवरक्षायै तच्छासनमचीकरत् ॥ १०७ ॥ आहूतश्च ततो राज्ञा पुनरप्याययौ तदा। अणहिल्लपुरं धीरस्तत्राबोधानबोधयत् ॥ १०८॥ आचार्यत्वप्रतिष्ठास्य विदधे परमर्षिभिः। सूरिभिर्वर्द्धमानाख्यैः संघाध्यक्षं महोत्सवात् ॥ १०९॥ तत्र श्रीवल्लभीनाथः श्रीवीरप्रभुभक्तितः। प्रत्यक्षीभूय धर्माख्यां शृणोत्यस्याग्रतः स्थितः ॥ ११०॥ , परं क्रीडाप्रियत्वेन नरं प्रेक्ष्य सलक्षणम् । अवतीर्यास्य देहे च क्रीडते पीडयाविना ॥ १११ ॥ श्रीमान् वीरोपि तदृष्ट्वावादीदेवं न सांप्रतम् । व्यंतराधीश ते केलिं मनुष्या असहिष्णवः ॥ ११२॥ एवं निववृते चासौ प्रभुणा स निषेधितः । तथाह मम तोषस्य फलं किमपि नात्र वः॥११३॥ उवाच पुनरानंदात्तव सामर्थ्यमस्ति किम् । अष्टापदाचले गंतुं श्रीजैनभवनोन्नते ॥ ११४॥ स देवः प्राह शक्तिों गन्तुं नावस्थितौ पुनः। तत्र सन्ति यतः सूरे व्यंतरेंद्रा महाबलाः ॥ ११५ ॥ अवस्थातुं न शक्नोमि तत्तेजः सोदुमक्षमः । याममेकं त्ववस्थास्ये बलवत्कौतुकं तव ॥ ११६ ॥ अधिकं तु क्षणं मित्र त्वमवस्थास्यसेऽथ चेत् । तत्तत्रैव भवानवागंता हंतुं ध्रुवं ह्यदः ॥११७॥ मुनौ तत्प्रतिपेदाने धवलं धवलं ततः। विकृत्यारोहयत्तं च वस्त्रवेष्टितमस्तकम् ॥ ११८ ॥ क्षणेनैव ययौ तस्य गिरेर्मूर्ध्नि स ऊर्द्धगः। वृषादुत्तारयामास चैत्यद्वारे ततो मुनिम् ॥ ११९ ॥ प्राह. मह. सोमे Page #221 -------------------------------------------------------------------------- ________________ श्रीवीरप्रबन्धः । २१३ द्वारपांचालिकाजानुपाश्चात्यशिखरांतरे । तस्थौ निलीय तत्रस्थदेवज्योतिरसासहिः ॥ १२० ॥ गव्यूतत्रितयोच्छ्रायं योजनायामविस्तरम् । चतुर्द्वारं महाचैत्यमाद्यचक्रिविधापितम् ॥ १२१ ॥ दृष्ट्वा प्रमाणवर्णैश्च प्रतिमास्ता यदोदितैः । एकैकस्मान्नमस्काराच्छ्रुत्वा स प्राणमन्मुदा ॥ १२२ ॥ प्रभावनाविधित्सायै तदभिज्ञानमानयत् । पंचशक्षत्पतान् तस्मादग्रहीन्नाकिढौकितान् ॥ १२३ ॥ निशायाः प्रथमे यामे चलितस्तीर्थयात्रया | प्राग्वत्स पुनराद्याच्च द्वितीये घटिकाधिके ॥ १२४ ॥ सौरभामोदतः शालेरक्षतानामुपाश्रयः । विमानमिव साधर्म सुमनः संवृतो बभौ ॥ १२५ ॥ पृष्ठे मुनिभिराहाथ गुरुरष्टापदाचले । वंदयध्वं मुदा देवान् श्राद्धाग्रे कथयंश्च तम् ॥ १२६ ॥ चैत्ये च मिलितः संघः श्रीमान्भूमिपतेः स च । आख्यापयन्महाश्चर्यं कौतुकादाययौ स च ॥ १२७ ॥ तेनाकार्यानुयुक्तोऽथाभिज्ञानं पुनराह च । चतुर्विंशतिसंख्यानां स्वभावाख्यानतोऽर्हताम् ॥ १२८ ॥ तथाहि वधउला बेसामला बेरत्तुप्पलवन्त । मरगयवन्नाविन्नजिणसोलसकंपणवन्ता ॥ १२९ ॥ नियनियमाणि हिंकारवियभरहिजिनयणाणंद । तेमईभाविहिं वंदियारा वउनु वी सजिणंद ॥ १३० ॥ राजाह स्वेष्टदेवानां स्वरूपकथने वरा । नास्ति प्रतीतिरस्माकमन्यत्किमपि कथ्यताम् ॥ १३१ ॥ अक्षतान् दर्शयामास तैः सामान्यगुणोदयान् । वर्णैः सौरभविस्तारैरपूर्वान्मानववजे ॥ १३२ ॥ ते द्वादशांगुलायामा अंगुलं पिंडविस्तरे । अवेद्यंत स्ववर्णेन महीपालेन ते ततः ॥ १३३ ॥ पूर्व तुरुष्कभंगस्य तेऽभूवंस्तदुपाश्रये । अपूज्यंत च संघेनाष्टापदप्रतिबिंबवत् ॥ १३४ ॥ एवं चातिशयैः सम्यक् सामान्यजन दुस्तरैः । श्रीमान् वीरगणिः सूरिर्विश्वपूज्यस्तदाभवत् ॥ १३५ ॥ अन्यदा मंत्रिणं वीरं रहः प्राह महीपतिः । पूर्वादिष्टक्रमान्याय्याद्राज्यं पालयतो मम ॥ १३६ ॥ १ PD निसा • Page #222 -------------------------------------------------------------------------- ________________ प्रभावकचरिते समनोमंडलाश्रेयो वचःसिद्धिकुलालयः । वीरो गुरुश्च मंत्री च ममार्तीन्दुविधुन्तुदः ॥ १३७॥ एकश्चिंताज्वरोऽस्माकं महाबाधानिबंधनम् । श्रुत्वा प्रतिविधेहीदं कस्याने नास्य कथ्यते ॥ १३८ ॥ अथाह वीरमंत्रीश स्वामिन्नादिश्यतां मम । क्रियते भृत्यलेशेन किं मयान्यदधीशितुः॥१३९ ॥ राजाह मम शुद्धान्तकान्तानां संभवे सति । स्रावो भवति गर्भस्य तत्र प्रतिविधिं कुरु ॥ १४० ॥ इत्यादिष्टो महामात्यः श्रीमद्वीरप्रभोः पुरः। व्यनिशपत्ततः सूरिमूरीकृत्य स चाब्रवीत् ॥ १४१॥ अभिमंत्रितवासैमें क्रियतामभिषेचनम् । अवरोधपुरंध्रीणां प्रजायंते सुता यथा ॥ १४२॥ एवं च विहिते मंत्रिप्रभुणा वचने गुरोः । श्रीमद्वल्लभराजाद्या नरेंद्रस्याभवन् सुताः॥१४३॥ अष्टादशशतीदेशे विहरन्नन्यदा प्रभुः। आगादंबरिणी ग्राम्ये ग्राम्येतरनरान्विते ॥ १४४ ॥ विशुद्धोपाश्रये तत्र स्थितो गत्वा निशागमे । व्युत्सर्गाय बहिःप्रेतवनमाशिश्रिये मुदा ॥ १४५ ॥ परमारवराम्नायसद्वज्राकरहीरकः । रुद्राभिधः स तं दृष्टा नमश्चक्रेऽतिभक्तितः ॥ १४६॥ उवाच च मुने मास्थाः श्वपदावजसंकुले । श्मशाने ग्राममध्येन आगच्छ प्रासुकाश्रये ॥१४७॥ तिष्ठ सौख्यात्तदाकर्ण्य मुनिः प्राह गुरोः सदा । कायोत्सर्गे बहिः पृथ्व्यां कुर्वति प्रभवस्ततः ॥ १४८॥ आधेयानाधृती राजपुत्रः श्रुत्वेति सोगमत् । निजं धाम ततस्तस्या जंबूपायनमागमत् ॥ १४९ ॥ स सिखादयिषुर्जबूफलान्यत्रोटयत्तदा । वृतं तत्र कृमि दृष्ट्वा शंकया धूनयन् शिरः॥ १५० ॥ जगाद कृमयः सूक्ष्माः फलेष्वपि यदा भवेत् । अदृष्टं किमिव स्वाद्यं निशादौ हि विवेकिना ॥ १५१ ॥ आहूय ब्राह्मणैः पृष्टैः प्रायश्चित्तं प्रदेशितम् । विशुद्धये द्विजन्मभ्यो देयः स्वर्णमयः कृमिः॥ १५२॥ दध्यौ श्रुत्वेति संकल्प्य द्वितीयोपि कृमिर्मया । हंतव्यो नावगच्छामि ततो धर्मममुं हृदि ॥ १५३॥ १D. ग्राम Page #223 -------------------------------------------------------------------------- ________________ श्रीवीरप्रबन्धः। पृष्टव्यश्च विचारोऽयं कस्यापि शमिनो मुनेः।। प्रात नमुनिं ग्राममध्यमागतमानमत् ॥ १५४ ॥ ततः पप्रच्छ संदेहं गुरुं विस्तरतोऽवदत् । जीवाः सर्वत्र तिष्ठति द्विधा स्थावरजंगमाः ॥ १५५ ॥ स्थावरास्ते धरानीरवह्निवातमहीरुहाः। जंगमाश्च परिशेयास्ते द्वित्रिचतुरिंद्रियाः॥१५६॥ पंचेद्रियाः सुरास्तिर्यग्नरनैरयिका अपि । गजमीनमयूराद्याः स्थलनीलांबरोपमाः॥१५७ ॥ वनस्पतिस्तथा जीवाधारो मूलफलादिके। उत्पद्यते विपद्यते यजीवास्तत्र भूरिशः॥१५८॥ धर्मः कृपैव जीवानां विवेकस्थ विचारय । इति संयमिनो वाचं स श्रुत्वा प्रत्यबुध्यत ॥ १५९ ॥ सर्व हित्वाग्रहीद्दीक्षामक्षीणश्रेयसे स च । शास्त्रेष्वधीतपूर्वी च जैनागममवाचयत् ॥ १६० ॥ महाविद्वान् स गीतार्थक्रियाज्ञानद्वयेप्यभूत् । प्रदीप इव दीपेन गुरुणा समदीधितिः॥१६१ ॥ शुतज्ञानात्परज्ञाय स्वायापर्यतमन्यदा। गच्छभारं च शिष्येशे भद्रे श्रीवीरसूरयः ॥१६२॥ श्रीचंद्रसूरिरित्याख्या पूर्वकं ते न्यवेशयन् । स्वयं तु योगरोधेन तस्थुनिष्कंपसंवराः ॥१६३ ॥ हित्वा देहं जरहमिव दिव्यभुवं ययुः। श्रीवीरप्रभवो बोधशक्तेराधारतां गताः॥१६४॥ वसुवह्निनिधी जन्म ९३८ व्रतं व्योमवसुग्रहे ॥९८०॥ इंद्रनंदग्रहे ९९१ वर्षेऽवसानमभवत्प्रभोः ॥ १६५ ॥ गार्हस्थ्यं समभूत्तस्य द्विचत्वारिशतं समाः। • एकादशवतेऽथायुत्रिपंचाशत्समा अभूत् ॥ १६६ ॥ श्रीवीरसूरेर्विदितं चरित्रं कर्णावतंसं कुरुतात्र संतः। उत्कंठिते श्रीजिनबोधिलक्ष्मीर्यथा महानंदसुखप्रबोधा ॥१६७॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसः प्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ वीरस्य वृत्तं प्रभोः श्रीप्रद्युम्नमुनींदुना विशदितः शृंगस्तिथीसंख्यया ॥ १६८ ॥ नवोऽयं प्रद्युम्नः शिवसहचरः प्रीतिमतुलां दौ संतोषाय प्रकटरिपवे यो रतिमपि । Page #224 -------------------------------------------------------------------------- ________________ २१६ प्रभावकचरिते कवित्वक्षोदाद्यामृतरुचिसखित्वं च मनुते । शुभध्यानोपायं परिहृतमदादिः स जयतु ॥ १६९ ॥ ग्रं० १६९ अ० ५ उभयं ३५११॥ इति श्रीवीरगणिप्रबंधः। अथ श्रीशांतिसूरिप्रबंधः. पातु वो वादिवेतालः कालो दुर्मत्रवादिनाम् । शांतिसूरिः प्रभुः श्रीमान् प्रसिद्धः सर्वसिद्धिदः॥१॥ व्याचिख्यासां तदाख्याने दधे तद्भक्तिभावितः । अनूरुः सूरसेवातः किं न व्योमाध्वजांघिकः॥२॥ अस्ति श्रीगूर्जरो देशः कैलासाद्रिनिभः श्रिया। धनदाधिष्ठितश्चारुमानसामानसंगमः॥३॥ अणहिल्लपुरं तत्र नगरं नगरप्रभम् । वचःप्रभुद्विजिह्वानां यत्र सद्वचनामृतैः॥४॥ श्रीभीमस्तत्र राजासीद्धृतराष्ट्रभवद्विषन् । सदाप्राप्तार्जुनश्रीको लोकोत्तरपराक्रमः ॥५॥ श्रीचंद्रगच्छविस्तारिशुक्तिमुक्ताफलस्थितिः । थारापद इति ख्यातो गच्छः स्वच्छधियांनिधिः॥६॥ सच्चारित्रश्रियां पात्रं सूरयो गुणभूरयः। श्रीमद्विजयसिंहाख्या विख्याताः संति विष्टपे ॥७॥ श्रीमत्संपकचैत्यस्य प्रत्यासन्नाश्रयस्थिताः। भव्यलोकारविंदानां बोधं विदधतेऽर्कवत् ॥ ८॥ तथा-श्रीपत्तनप्रतीचीनोलघुरप्यलघुस्थितिः। उन्नतायुरितिग्राम उन्नतायुर्जनस्थितिः ॥९॥ तत्रास्ति धनदेवाख्यः श्रेष्ठी श्रीमालवंशभूः। अहेहुरुपदवद्वसेवामधुकरः कृती ॥१०॥ धनश्रीरिव मूर्तिस्था धनश्रीस्तस्य गेहिनी। तत्पुत्रो भीमनामाभूत्सीमा प्रज्ञाप्रभावताम् ॥ ११ ॥ कंबुकंठच्छन्नमौलिराजानुभुजविस्तरः। छत्रपद्मध्वजास्तीर्णपाणिपादसरोरुहः ॥ १२ ॥ सर्वलक्षणसंपूर्णः पुण्यनैपुण्यशेवधिः। विज्ञातो गुरुभिः संघभारधौरेयतानिधिः॥ १३ ॥ अलंचक्रुर्विहारेण ग्राममग्राम्यबुद्धयः। तत्ते वितंद्रविज्ञानविज्ञातशुभसंभवाः ॥१४॥ १ D द्वारा P थारापद्रि० २ H प्रतीचीतो. Page #225 -------------------------------------------------------------------------- ________________ श्रीशान्तिसूरिप्रबन्धः । २१७ श्रीनाभेयं प्रणम्याथ चैत्ये तस्य गृहं ययुः। अर्थयांचक्रिरे भीमं धनदेवसमीपतः ॥ १५॥ कृतपुण्योऽस्मि मत्पुत्रश्चेत्पूज्यार्थप्रसाधकः। इत्युक्त्वा प्रददौ पुत्रममुत्रेह च शर्मणे ॥१६॥ एवं तैस्तदनुज्ञातैरदीक्ष्यत शुभे दिने । भीमो मिथ्यादृशां भीम उदग्रप्रतिभाबलः ॥१७॥ शांतिरित्यभिधा तस्य विधेयस्य व्यधीयत। स कलाः सकलाः प्राप पूर्वसंकेतिता इव ॥१८॥ समस्तशास्त्रपाथोधिपारदृश्वाऽभूत्क्रमात् । विचिंत्येति निजे पट्टे प्रभवस्तं न्यवेशयन् ॥ १९ ॥ खगच्छभारं विन्यस्य तत्र प्रायोपवेशनात् । प्रेत्यार्थ साधयामासुस्तेऽथ संसृतिसंहृतौ ॥ २०॥ अणहिल्लपुरे श्रीमद्भीमभूपालसंसदि। शांतिसूरेः कवींद्रोऽभूद्वादिचक्रीति विश्रुतः ॥२१॥ अन्यदावंघ्रिदेशीयः सिद्धसारस्वतः कविः। ख्यातोऽभूद्धनपालाख्यः प्रचेतस इवापरः ॥२२॥ स गोरसे यहातीते साधुभिर्जीवदर्शनात् । यैरबोध्यत तत्पूज्यश्रीमहेन्द्रा गुरोगिरा ॥२३॥ गृहीतदृढसम्पक्वः कथां तिलकमञ्जरीम् । कृत्वा व्यजिशपत् पूज्यान् क एनां शोधयिष्यति ॥ २४॥ विचार्य तैः समादिष्टं संति श्रीशांतिसूरयः। कथांते शोधयिष्यति सोऽथ पत्तनमागमत् ॥ २५॥ तदा च सूरयः सूरितत्त्वस्मरणतत्पराः। देवतावसरे ध्यानलीना आसन्मठांतरे ॥२६॥ प्रतीक्ष्याणां प्रतीक्षायामुपयुक्तः कवीश्वरः। नूतनाध्ययनं शिष्यमेकमद्भुतमब्रवीत् ॥ २७ ॥ तथाहि-खचरागमने खचरो हृष्टः खचरणांकितपत्रधरः । खचरवरं खचरश्चरति खचरमुखि खचरं पश्य ॥ २८ ॥ इदं व्याख्याहि चेद्वेत्सि तत्तु पंडितमंडनः। इत्याकर्ण्य स च व्याख्यादिदं वृत्तमकृच्छ्रतः॥ २९ ॥ श्रुतेति स कविस्वामी प्राह हृष्ट इदं कियत् । श्रीशांत्याचार्यहस्तस्य प्रभावो बहुरीक्ष्यते ॥ ३०॥ उपन्यासं प्रतिष्ठायास्तत्र सर्वज्ञजीवयोः। ऊर्जस्विगर्जिपर्जन्यध्वनिना विदधे च सः॥३१॥ १ D प्रतीक्षाणा प्रतीक्ष्याया सु p० २ H चरं D चर. 19 Page #226 -------------------------------------------------------------------------- ________________ २१८ प्रभावकचरिते सिंहासनमलंचक्रे गुरुभिस्तावदाशु तैः। अपरो मातृकापाठोचितशिष्यस्तथोच्यत ॥ ३२॥ इदानीं किं कृतं वत्स स्तंभावष्टंभिना त्वया । स प्राहानेन यत्प्रोक्तं तत्सर्वमवधारितम् ॥ ३३॥ वदेति प्रभुभिः प्रोक्ते निस्वानध्वानधीरगी। उज्जग्राहातिकुग्राहव्यूहसहरणाग्रहः ॥३४॥ श्रुत्वेति धनपालोपि चमत्कारातिपरितः। उवाच भारती किं नु प्राप्ता बालर्षिरूपतः॥ ३५॥ प्रेषयध्वं मया सार्धममुमेव धियां निधिम् । गुरुसंदेहसंदोहशैलदंभोलिविभ्रमम् ॥ ३६॥ अथ ते सूरयः प्रोचुः कालोऽस्य पठितुं ततः। क्लिष्टप्रमाणशास्त्राणि परग्रंथेष्वधीतिनः ॥ ३७॥ पात्रं चेच्छास्त्रपाथोधिर्वादिकल्लोलितं भवेत् । इत्याशानस्ततो नायमध्यायायतिरिच्यते ॥ ३८ ॥ सिद्धसारस्वतो विद्वानथोचे प्रभुभिधुवम् । देशः शृंगारणीयोऽयं मालवः स्वक्रमांबुजैः ॥ ३९ ॥ इत्याकर्ण्य प्रभुःप्रोचे चेनिबंधोऽयमत्र वः । आपृष्टव्यः सदा संघः प्रधानाचार्यसंगतः॥४०॥ ततस्तदनुमत्या तेऽवंतिदेशे व्यजीहरन् । हृताः श्रीभीमभूपालप्रधानैः सपरिच्छदैः ॥४१॥ पथि संचरतां तेषां निशि संगत्य भारती। आदेशं प्रददे वाचा प्रसादातिशयस्पृशा ॥४२॥ स्वस्य दर्शननिष्णाता ऊर्चे हस्ते त्वया कृते ।। चतुरंगसभाध्यक्षं विद्रविष्यंति वादिनः॥४३॥ सक्रोशं योजनं धारानगरीतः समागमत् । तस्य तत्र गतस्य श्रीभोजो हर्षेण संमुखः॥४४॥ एकैकवादिविजये पणः संविदधे तदा। मदीया वादिनः केन जय्या इत्यभिसंधितः॥४५॥ लक्षं लक्षं प्रदास्यामि विजये वादिनं प्रति । गूर्जरस्य बलं वीक्ष्यं श्वेतभिक्षोर्मया ध्रुवम् ॥ ४६॥ विश्वदर्शनवादींद्रान् स राज्ञः पर्षदि स्थितः। जिग्ये चतुरशीतिं च स्वस्वाभ्युपगमस्थितान् ॥४७॥ अजैषीदूर्ध्वहस्तेन प्रत्येकं प्रतिवासरम् । अनायासादसौ सारवक्ता न्यायैकनिष्ठधीः ॥४८॥ १D. P. पाथोधे. Page #227 -------------------------------------------------------------------------- ________________ श्रीशान्तिसूरिप्रबन्धः। २१९ लक्षांस्तत्संख्यया दत्वा द्रव्यस्याथ महीपतिः। तत आह्वास्त तत्कालं सिद्धसारस्वतं कविम् ॥४९॥ ततोऽनुययुस्ते तं स भीतो द्रव्यव्ययादतः। पंचकोटिव्ययप्राप्तौ वादिपंचशतीजये ॥ ५० ॥ किंनामामुष्य जैनर्षेर्धनपालस्ततोऽब्रवीत् । शांतिरित्यभिधा सूरेरस्य शुद्धेति भूपतिः ॥५१॥ शांतिनाम्ना प्रसिद्धोऽस्ति वेतालो वादिनां पुनः । ततो वादं निषेध्यासौ संमान्यातः प्रहीयते ॥५२॥ तत्कथाशोधकत्वेन नामुमत्र विसूत्रये । अन्यथा मत्सभा जित्वा को यात्यक्षतविग्रहः॥५३॥ स्युः पंचदशलक्षेण सहस्रा गूजरावनेः।। एवमंकेऽथ तज्जशे लक्षद्वादशकं ततः॥ ५४॥ तथा षष्टिसहस्राश्च मया दत्तास्ततोऽधुना । कथा शोधयितव्याशु धनपालधियां निधेः॥५५॥ पर्यालोच्येति तेनाथ स्थापिताः शांतिसूरयः । लादशभिस्तत्र देवो चैत्यानचीकरत् ॥५६॥ अवशिष्टाश्चतुःषष्टिः सहसा भूपदत्ततः। धारापद्राभिधद्रंगे प्रहिताः प्रभुभिस्तदा ॥ ५७ ॥ तत्रस्थादिप्रभोश्चैत्ये मूलनायकवामतः। तैर्देवकुलिकाकारिसशालश्च रथो महान् ॥ ५८॥ कथा च धनपालस्य तैरशोध्यत निस्तुषम् । वादिवेतालविरुदं सूरीणां प्रददे नृपः ॥ ५९॥ कवीश्वरानुयाताश्च गूर्जरेशपरावधिः। प्रत्यावृत्त्याथ ते प्रापुः पत्तनं श्रीनिकेतनम् ॥.६०॥ अग्रे च तत्र वास्तव्यजिनदेवस्य धीमतः। श्रेष्ठिनस्तनयः पद्मनामा दष्टो महाहिना ॥ ६१ ॥ मांत्रिकैः सर्वपक्षीयमंत्रौषधविजूंभितैः। अत्यर्थं प्रतिकारेषु कृतेष्वपि न सजितः ॥ ६२॥ तत उत्पाद्य गर्तायां निक्षिप्तः स्वजनैः सह । सर्पदष्टव्यवस्थायां पुनरुज्जीवनाशयः ॥ ६३॥ इति विज्ञापिते शिष्यैर्जिनदेवगृहेऽगमत् । संबोधनार्थमाचख्युरथ ते प्रभवस्तदा ॥ ६४॥ १D तं. २P धेः D यिः. Page #228 -------------------------------------------------------------------------- ________________ २२० प्रभावकचरिते दष्टं दर्शयतास्माकं प्रकाश्य क्षितिमध्यतः। जिनदेवस्तदाकर्ण्य श्मशाने तैः समं ययौ ॥६५॥ भुवमुत्खाय तस्मिंश्च दर्शिते गुरवोऽमृतम् । तत्त्वं स्मृत्वास्पृशन् देहं दष्टश्वासी समुत्थितः ॥६६॥ गुरुपादौ नमस्कृत्य पद्मः पद्मनिभाननः। प्राहाहं गुरवः स स्वजनाः कथमिहागमन् ॥ ६७॥ प्राग्वृत्ते कथिते सद्यो जिनदेवेन हर्षितः । उत्सवाहरुभिः सार्ध स खं निलयमागमत् ॥ ६८॥ तत्पित्राभ्यर्थिताः पूज्या निजमाश्रममाययुः। गुरुर्वेश्मागतश्चोपकर्ता प्राप्येत केन सः॥ ६९॥ अथ प्रमाणशास्त्राणि शिष्यान् द्वात्रिंशतं तदा। अध्यापयंति श्रीशांतिसूरयश्चैत्यसंश्रिताः॥ ७० ॥ सूरिः श्रीमुनिचंद्राख्यः श्रीनट्टलपुरादगात् । अणहिल्लपुरे चैत्यपरिपाटीविधित्सया ॥ ७१ ॥ संपत्संपत्तिरम्यश्रीसंपर्कश्रीजिनालये। नत्वा श्रीवृषभं सूरिवृषभं प्राणमत्ततः॥७२॥ प्रमेया दुःपरिच्छेद्या बौद्धतर्कसमुद्भवाः। तेनावधारिताः सर्वेऽन्यप्रज्ञानवगाहिताः ॥ ७३ ॥ अपुस्तकः स ऊर्ध्वस्थो दिनानां च दशाशृणोत् । तत्रागत्य तदाध्यायध्यानधीरमनस्तदा ॥ ७४॥ बहुशः कथ्यमानेपि प्रमेये दुर्घटेऽन्यदा। छात्रेष्वनधिगच्छत्सु पूज्या निवेदमागमन् ॥ ७५॥ भस्मनि हुतमित्युक्त्वा गुरवोऽत्र निशश्वसुः। तदा श्रीमुनिचंद्राख्यः सूरिः पूज्यान् व्यजिज्ञपत् ॥ ७६॥ सपुस्तकाः पाठका ये प्रष्ठप्रज्ञावतोन्नताः। किं वदंति त एवात्र पुरा गुरुपुरस्कृताः॥ ७७ ॥ अपरो बहिरायातः सर्वथानुपलक्षितः। सोऽपि किं लभते वक्तुं नवेत्यादिशत प्रभो ॥ ७८॥ श्रुत्वेति हृच्चमत्कारि तद्वचः प्रभवोऽवदन् । प्रज्ञायां पक्षपातो नः शिष्याणां नान्यहेतुषु ॥ ७९ ॥ इतोऽह्नि षोडशेऽतीते यद् व्याख्यातं सुदुर्घटम् । अस्माभिस्तदभिप्रायादद्योक्तं सुविवेचनम् ॥ ८०॥ निशमय्येत्यसौ प्राज्ञस्तदतीतदिनावधिः । सर्वेष्वहस्सु यच्चोक्तं तदनूद्य यथातथम् ॥ ८१॥ १ P. दिनान्पं० D दिनानाच. २D P. भसिते. Page #229 -------------------------------------------------------------------------- ________________ श्रीशान्तिसूरिप्रबन्धः । २२१ सद्यश्च तैर्यदाख्यातं परप्राज्ञैः सुदुःश्रवम् । सर्वानुवादसंवादमवादीद्विशदं ततः ॥ ८२॥ श्रीशांतिसूरिभिस्तोषपोषतः परिषवजे। प्रोचे च संनिवेश्यांके रत्नरेणुवृतं भवान् ॥ ८३॥ वत्स प्रमाणशास्त्राणि पठाशठमतिर्मम । पार्श्व नश्वरदहस्य लाभमत्र गृहाण भोः॥८४॥ पुनर्व्यजिज्ञपत्सूरिर्मुनिचंद्रप्रभो कथम् । अध्येयं स्थानकाभावे दुष्प्रापं स्थानमत्र यत् ॥ ८५॥ ततस्ते टंकशालायाः पश्चाद्भागे समर्पयन् । आश्रयार्थ गृहं चारु श्राद्धपार्खाद्विभूषणम् ॥ ८६॥ षट्दर्शनप्रमाणानां शास्त्राण्यक्लेशतोऽथ सः। अध्यैष्ट ज्ञापकशात्रोर्योगो दुर्लभ ईदृशः॥ ८७॥ ततः सुविहितानां हि साधूनामाश्रयाः पुरे। बभूवुरत्र संवृत्या सर्वसंघचरित्रिणाम् ॥ ८८॥ उत्तराध्ययनग्रंथटीका श्रीशांतिसूरिभिः। विदधे वादिनागेंद्रसन्नागदमनी हि सा ॥ ८९ ॥ शिष्येण मुनिचंद्रस्य सूरेः श्रीदेवसूरिणा। तन्मध्यत उपन्यस्य स्त्रीनिर्वाणबलादिह ॥९०॥ पुरः श्रीसिद्धराजस्य जितो वादे दिगंबरः। तदीयवचसां मिश्रा विद्वदुःसाधसाधिका ॥ ९१॥ अथान्येधुर्जिते धर्मे धनपालेन मालवे । एक एव महीपीठे कविस्त्वमिति मानिते ॥ ९२॥ प्रोक्ते च धनपालेन बुधोऽणहिल्लपत्तने । अस्ति श्वेतांबराचार्यः शांतिसूरिः परो न हि ॥ ९३॥ दिनैः कियद्भिरभ्यागात्तं द्रष्टुं धर्मकोविदः । स्वगश्रीगर्वसर्वखहरं श्रीपत्तनं पुरम् ॥ ९४॥ धारापद्रमहाचैत्यप्रत्यासन्नमठं ततः। श्रुत्वागादपराह्नेऽसौ बुधदर्शनकौतुकः ॥९५ ।। तदानीं स प्रभुर्दैहे कंडूपीडित औषधम् । संमृद्य पिहितद्वाराररेस्तदुचितांशुकः?॥९६॥ संवीक्ष्य कुंचिकाछिद्राज्ज्ञापितं यतिभिर्गुरुम् । पृच्छयैव विजेष्येऽमुं धर्मो ध्यात्वेति तं जगौ ॥९७ ॥ १H. तद्वक्तव्यं. २ H. दूषणां D. श्वेद्विदूषणं. ३ H. omits it. ४. P. समा D सनागदमनीसमा. ५ P. स्त. Page #230 -------------------------------------------------------------------------- ________________ २२२ प्रभावकचरिते कस्त्वमत्रोत्तरं सूरिः प्रादादेव इति स्फुटम् । देवः क इति तत्प्रश्न त्वहमित्युत्तरं ददौ ॥ ९८॥ अहं क इति पृच्छायां श्वेति वाचमवोचत । श्वा क एतादृशि प्रश्ने त्वमित्युत्तरमातनोत् ॥९९ ॥ पुनस्त्वं क इति प्रश्ने वितीर्ण प्राग्वदुत्तरम् । तयोश्चक्रकमेतद्धिजशेऽनंतमनंतवत् ॥ १०० ॥ ततश्चमत्कृतः सोऽभूद्वार उद्घाटिते सति। सतत्वोपप्लवग्रंथाभ्यासोपन्यासमातनोत् ॥ १०१॥ वितंडाविरते चात्र श्रीशांत्याचार्य उजगौ। कृतः सर्वानुवादोऽत्र प्रतिज्ञस्तं विवादिनम् ॥ १०२॥ ममार्पय निजं वेषं योगपट्टादिकं तथा। अंगचेष्टाः समस्तास्ते विधीयते यथा तथा ॥ १०३॥ तथा कृते च सर्वत्र धर्मों वाद्यतिविस्मितः। पादावस्य प्रणम्याह नाहमीशे भवजये ॥ १०४॥ बुधस्त्वमेव च श्रीमान् धनपालोदितं वचः। प्रतीतमेव मच्चित्ते ताकिमनृतं वदेत् ॥ १०५॥ इत्युक्त्वा प्रययौ स्थानं निजं सनिरहंकृतिः। अहंकारश्रियां नामाभिचा रपरमौषधिः ॥१०६ ॥ अथ द्रविडदेशीयोऽन्यदा वादी समागमत् । अव्यक्तं भैरवाशब्दान् हाकारं किमपि ब्रुवन् ॥ १०७॥ प्रभवस्तस्य भाषायामभिज्ञा अपि कौतुकात् । भित्तिस्थे घोटके हस्तं दत्वाभिदधिरे स्फुटम् ॥ १०८ ॥ वद त्वमन्यदेशीयवादिना सह संगतम् । अव्यक्तवादी पशुवद्योगोयं तिर्यगाकृतेः॥१०९॥ वदतीत्थं प्रभौ सांकामिकसारस्वतोत्तरे। तुरंगमप्रतिकृतिस्तरलं सोऽवदघृशम् ॥ ११०॥ विकल्पैर्गहनैः कष्टादप्यशक्यानुवादिभिः। तथा निरुत्तरः पश्वाकारं स्वं तेन लंभितः ॥ १११ ॥ गते निर्विद्यतेऽस्मिंश्च कांदिशीके जनोऽवदत् । अस्मिस्तपति नास्त्यन्यो वादी वाग्देवतावरात् ॥ ११२ विहारं कुर्वतां तेषां धारापद्रपुरेऽन्यदा। देवी श्रीनागिनीव्याख्याक्षणो नित्यं समृच्छति ॥११३ ॥ तत्पट्टेवासनिक्षेपमासनायाथ ते व्यधुः। देव्या सह गुरोस्तस्य समयोऽयं प्रवर्त्तते ॥ ११४ ॥ १ वि• D P कृतस०. २ । नां. ३ D तक्षणे नृत्यं. Page #231 -------------------------------------------------------------------------- ________________ श्रीशान्तिसूरिप्रबन्धः । २२३. अन्यदालसनिक्षेपं वैचित्र्यात्ते विसस्मरुः । आसने प्रेषणे चात ऊर्ध्वस्था सा चिरं स्थिता ॥ ११५॥ ध्यानस्थानां निशामध्ये सद्यो देवीस्वरूपिणी । मध्येमठमुपालंभप्रदानायाययौ तदा ॥ ११६ ॥ उद्योतं सूरयो दृष्ट्वा स्त्रियं चातिरतिस्थिताम् । प्रवर्तकं मुनि प्रोचुर्नारी प्राप्तात्र किं मुने ॥ ११७ ॥ वेद्मीदं नेति तेनोक्तोऽवदद्देवी स्वयं तथा। वासालाभान्ममाद्यांह्री सव्यथावूर्वसंस्थितेः॥११८॥ श्रुतज्ञानमयांगानां भूयाच्चेद्वोऽपि विस्मृतिः। आयुः षण्मासशेषं तदभिज्ञानादतः प्रभोः ॥ ११९ ॥ स्वगच्छसंस्थितिं कृत्वा प्रेत्य पथ्यं व्यधत्त तत् । ज्ञाते ममोचितं ह्येतत्कालं विज्ञापितं प्रभोः॥१२०॥ इत्युक्त्वांतर्हितायां च देव्यां प्रातर्निजं गणम् । संघं च मंत्रयित्वा द्वात्रिंशत्सत्पात्रमध्यतः॥ १२१ ॥ सुधीश्वरास्त्रयः सूरिपदे तेन निवेशिताः। श्रीवीरसूरिः श्रीशालिभद्रसूरिस्तथापरः ॥ १२२ ॥ श्रीसर्वदेवसूरिश्च मूर्त्ता रत्नत्रयीव सा। सदृत्तालंकृता दीप्यमाना सत्तेजसा बभौ ॥ १२३॥ नाभूत् श्रीवीरसूरीणां कथंचित्सूरिसंततिः। तेषां राजपुरिग्रामे श्रीनेमिशाश्वतं वपुः ॥ १२४ ॥ शाखाद्वये पुरे विद्वत्कोटीरपरिवारिते। सूरयोऽद्यापि वर्तते संघोद्धारधुरंधराः॥ १२५॥ श्रीशांतिसूरयः श्रीमदुजयंताचलं प्रति । यशोभिधानसुश्राद्धसुतसोढेन संगताः॥१२६॥ कृत्वा प्रयाणमल्पैश्च दिनैस्तं गिरिमभ्ययुः। श्रीनेमिं हृदये ध्यात्वा चक्रुः प्रायोपवेशनम् ॥ १२७॥ धर्मध्यानाग्निनिर्दग्धभवार्तिविततेऽथ सः। अज्ञातक्षुत्तृषानिद्राप्रभृत्यंतप्रतीतयः॥ १२८॥ समाधिना व्यतीत्याथ दिनानां पंचविंशतिम् । वैमानिकसुरावासमधिजग्मुर्जगन्नताः ॥ १२९ ॥ श्रीविक्रमसंवत्सरतो वर्षसहस्त्रे गते स षण्णवतौ । शुचिसितनवमीकुजकृत्तिकासु शांतिप्रभोरभूदस्तम् १३० इत्थं श्रीशांतिसूरेवरचरितमिदं वादिवेतालनानः पूर्वश्रीसिद्धसेनप्रभृतिसुचरितवातजातानुकारम् । 1 D. पुरी. २ H. नेमिः ३ D. सुश्राषसुतसाढेन. ४ H. विदते. Page #232 -------------------------------------------------------------------------- ________________ २२४ प्रभावकचरिते अद्य प्राचीनविद्वजनपरिणमतामाद्धानं श्रिये स्तानंद्याच्चाचंद्रकालं विबुधजनशतैः सम्यगभ्यस्यमानम्॥१३१॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ शृंगोऽगमत्षोडशः श्रीप्रद्युम्न मुनींना विशदिता श्रीशांतिसूरिप्रथा ॥ १३२ ॥ ग्रंथ १३६ अ० ९ उभयं ३६, २४६ अक्षर १७. इति श्रीवादिवेतालप्रबंध: श्रीमहेन्द्रसूरिप्रबंधः श्रीमन्महेद्रसूरिभ्यो नमस्कारं प्रशास्महे । सत्यंकारमिवागण्य पुण्यपण्यस्थिरीकृतौ ॥ १ ॥ श्रीमतो धनपालस्य सालस्यः को गुणस्तुतौ । यस्याविचलविश्वासे ब्राह्मी तथ्यवचःक्रमा ॥ २ ॥ श्लाघ्यः स धनपालः स्यात्काल आंतरविद्विषाम् । यहुद्धिरेव सिद्धाज्ञा मिथ्यात्वगरलच्छिदे ॥ ३ ॥ तद्वृत्ते वाचमाधास्ये दास्ये तिष्ठन् गुरुक्रमे । विधास्ये स्वस्य नैर्मल्यमादास्ये जन्मनः फलम् ॥ ४ ॥ अस्त्यवत्यभिधो देशो देशोनं ? वडवामुखम् । यस्य येन च संत्यत्र कुलानि नव भोगिनाम् ॥ ५ ॥ आधारः पुरुषार्थानां पुरी धारास्ति यत्पुरः दानकल्पद्रुबाहुल्यादसारा सामरावती ॥ ६ ॥ तत्र श्रीभोजराजोऽस्ति राजा निर्व्याजवैभवः । अवैरं यन्मुखांभोजं भारती श्रीनिवासयोः ॥ ७ ॥ यद्यशः स्वर्णदीतीरे प्रवृत्तव्योमविद्रवे । विधिः पूजाविधौ नालिकेरवद्विधुमादधे ॥ ८ ॥ इतश्च मध्यदेशीयसंकाश्यस्थानसंश्रयः । देवर्षिरस्ति देवर्षिप्रभावो भूमिनिर्जरः ॥ ९ ॥ तस्य श्रीसर्वदेवाख्यः सूनुरन्यूनविक्रमः । ब्राह्मण्यनिष्टया यस्य तुष्टाः शिष्टा विशिष्टया ॥ १० ॥ तस्य पुत्रद्वयं जज्ञे विज्ञेशैरचितक्रमम् । आद्यः श्रीधनपालाख्यो द्वितीयः शोभनः पुनः ॥ ११ ॥ तत्रान्यदाययौ चांद्रगच्छपुष्करभास्करः । श्री महेंद्रप्रभुः पारदृश्वा श्रुतपयोनिधेः ॥ १२ ॥ १ H. णमंता. २ H. ३६६४२. ३ D. नदंडवा ०. Page #233 -------------------------------------------------------------------------- ________________ श्री महेन्द्रसूरिप्रबन्धः । जनानां संशयोच्छेदमादधद् व्याख्यया तया । विश्रुतः सर्वदेवेन द्विजराजेन स श्रुतः ॥ १३॥ स चास्योपाश्रये पायादुचितं मानितश्च तैः । दिनत्रयमहोरात्रं तथैवास्थात्समाधिना ॥ १४ ॥ पप्रच्छ प्रभुरप्येवं परीक्षाहेतवे हिं नः । सुधियो यूयमायाथ कार्य वाप्यस्ति किंचन ॥ १५ ॥ स्वयंभुवः परा मूर्तिः प्राहासौ द्विजसत्तमः । महात्मनां हि माहात्म्यवीक्षणे सुकृतार्जनम् ॥ १६ ॥ कार्य नः किंचिदप्यन्यदस्ति तत्रार्थिनो वयम् । रहस्यं वद नाख्येयमितरेषां गुणोदधे ॥ १७ ॥ स्थित्वैकांते प्रभुः प्राह ख्यातं यत्कथनोचितम् । इति श्रुत्वा जगादासौ पिता वः पुण्यवानभूत् ॥ १८ ॥ राजपूज्यस्ततो लक्षैर्दानं प्रापदसौ सदा । गृहे मम निधेः शंका तृष्णाविलसितं ह्यदः ॥ १९ ॥ तं सर्वज्ञातविज्ञाना यूयं यदि ममोपरि । अनुग्रहधियाख्यात परोपकरणोद्यताः ॥ २० ॥ ब्राह्मणः सकुटुंबस्तत्स्वजनैः सह खेलति । दानभोगैस्ततः श्रीमत्प्रसीद प्रेक्षयस्व तत् ॥ २१॥ युग्मम् सूरिर्विमृश्य तत्पार्श्वाल्लाभं शिष्योत्तमस्य सः । २२५ आह सम्यग्भवत्कार्य विधास्यामो धियां निधे ॥ २२ ॥ परं न किं भवान् दाता रहः कथ्यं हि नस्त्वया । सामि स्वामिन्समस्तस्य दास्यामि तव निश्चितम् ॥ २३ ॥ अहं स्वरुचि भावत्कवस्तुतोऽर्धं समाददे । साक्षिणोऽत्र विधीयतां द्रव्यव्यतिकरो ह्ययम् ॥ २४ ॥ व्याख्याता वेदवेदांगशास्त्रेषु वितथं कथम् । वदाम्यत्र तथाप्यस्तु विश्वासाय प्रभोरिदम् ॥ २५ ॥ साक्षीकृत्य ततस्तत्र स्थितान्मेने गुरुस्तदा । हृष्टेन गृहमागत्य पुत्रयोर्जगदे तथा ॥ २६ ॥ शुभेऽह्नि सूरिमाह्वास्तज्ञानाज्ज्ञात्वा स तद्भुवम् । निश्चित्योवाच तद्द्रव्यं ख्यानयित्वाप स द्विजः ॥ २७ ॥ चत्वारिंशत्सुवर्णस्य टंकलक्षा विनिर्ययुः । दृष्टेपि निःस्पृहोत्तंसः सूरिः स्वोपाश्रयं ययौ ॥ २८ ॥ १ हितः २ D. प्राहाख्याते • P प्राहाख्यात ० ३ H. स. ४ D. P.. तंतसू.. Page #234 -------------------------------------------------------------------------- ________________ प्रभावकचरिते श्रीमतः सर्वदेवस्य महेंद्रस्य प्रभोस्तथा । दानग्रहणयोर्वादो वर्षे यावत्तदाभवत् ॥ २९ ॥ अन्यदा सत्यसंधत्वाद्ब्राह्मणः सूरिमाह च । देर्यद्रव्येऽत्र ते दत्ते स्वगृहं प्रविशाम्यहम् ॥ ३० ॥ सूरिः प्राहातिरुचितं ग्रहीष्ये वचनं मम । भवत्विदं ततो मित्रं गृहाण त्वं द्विजोऽवदत् ॥ ३१ ॥ सूरिराह सुतद्वंद्वाद्देह्येकं नन्दनं मम । सत्यप्रतिज्ञता चेत्ते न वा गच्छ गृहं निजम् ॥ ३२ ॥ इतिकर्तव्यतामूढो द्विजः कष्टेन सोऽवदत् । प्रदास्यामि ततो वेश्म निजं चिंतातुरो ययौ ॥ ३३ ॥ तत्रानास्तृतखद्वायां सुप्तोऽसौ निद्रया विना । दृष्टश्च धनपालेनागतेन नृपसौधतः ॥ ३४ ॥ विषादः किंनिमित्तोऽयं नंदने मयि तिष्ठति । यथादिष्टक तत्त्वमाख्याहि मम् कारणम् ॥ ३५ ॥ ततः प्राह पिता वत्स सत्पुत्रा हि भवादृशाः । पित्रादेशविधाने स्युरीदृग्गाढाभिसंधयः ॥ ३६॥ ऋणतः पितरं याति नरकादुद्धरत्यथ । सद्गतिं च प्रदत्ते यो वेदे प्रोक्तः सुतः स च ॥ ३७॥ श्रुतिस्मृतिपुराणानामभ्यासस्य कुलस्य वः । फलं तदेव युष्माकं घट्टणादस्मदुद्धृतिः ॥ ३८ ॥ ततः शृण्ववधानात्त्वं संति जैना महर्षयः । महेंद्रसूरयो यैस्ते द्रव्यमीदृक् प्रदर्शितम् ॥ ३९ ॥ यथाभिरुचितं चैषामर्धदेयं प्रतिश्रुतम् । ततः पुत्रद्वयादेकं याचंते करवै हि किम् ॥ ४० ॥ संकटादमुतो वत्स त्वयैव ह्यधुना वयम् । मोच्यामहे ततस्तेषां शिष्यो मत्कारणाद्भव ॥ ४१ ॥ कोपगर्भ तदाह श्रीधनपालो धियां निधिः । तातोक्तं भवता यादृग् नेदृक्कोऽप्युचितं वदेत् ॥ ४२ ॥ संकाश्यस्थान संकाशा वयं वर्णेषु वर्णिताः । चतुर्वेदविदः सांगपारायणभृतः सदा ॥ ४३ ॥ तथा श्रीमुंजराजस्य प्रतिपन्नसुतोऽभवत् । श्रीभोजबाल सौहार्द भूमिर्भूमिसुरो ह्यहम् ॥ ४४ ॥ तत्पूर्वजानिह स्वीयान् पुत्रो भूत्वा प्रपातये । श्वभ्रे पतितशूद्राणां वीक्षया ह्यवगीतया ॥ ४५ ॥ १ D P. दाना०. २ D. देव. ३D P. हाभि• २२६ Page #235 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः । २२७ एकस्त्वमृणतो मोच्यः पात्याः सर्वेऽपि पूर्वजाः। इमं कुव्यवहारं नादास्ये सजननिंदितम् ॥ ४६॥ कार्येणानेन नो कार्य मम स्वरुचितं कुरु । तातमित्यवमत्यामुं स तस्मादन्यतो ययौ ॥ ४७ ॥ अश्रुपूरप्लुताक्षोऽसौ निराशो गुरुसंकटे।। यावदस्ति समायातस्तावदागात् सुतोऽपरः ॥४८॥ पृष्टस्तेनापि दैन्येऽत्र निमित्तं स तदावदत् । धनपालेन कुत्रापि कार्ये प्रतिहता वयम् ॥ ४९ ॥ भवान् बालस्ततः किंतु तत्र प्रतिविधास्यते । गच्छ स्वकर्मभोक्तारो भविष्यामः स्वलक्षणैः॥५०॥ निराशं वाक्यमाकर्ण्य तत्पितुः शोभनोऽवदत् । मा तात विह्वलो भूया मयि पुत्रे सति ध्रुवम् ॥ ५१॥ धनपालो राजपूज्यः कुटुंबभरणक्षमः। निश्चितस्तत्प्रसादेन भवतादिष्टमाचरे ॥ ५२॥ वेदस्मृतिश्रुतिस्तोमपारगः पंडितोऽग्रजः। कृत्याकृत्येषु निष्णातः स विवेक्तु यथारुचि ॥५३॥ अहं तु सरलो बाल्यादेतदेव विचारये । पित्रादेशविधेरन्यो न धर्मस्त जन्मनाम् ॥ ५४॥ अत्र कृत्यमकृत्यं वा नैवाहं गणयाम्यतः। कूपे क्षिप निषादानां मामर्पय यथारुचि ॥५५॥ श्रुत्वेति सर्वदेवश्च तं बाढं परिषखजे। मामृणान्मोचयित्वा त्वं समुद्धर महामते ॥५६॥ ततः प्रागुक्तकार्य तच्छ्रावितोऽसौ सुतोत्तमः। अतिहर्षात्ततः प्राह कार्यमेतत्प्रियं प्रियम् ॥ ५७॥ श्रीजैना मुनयः सत्यनिधयस्तपसोज्ज्वलाः। तत्संनिधाववस्थानं सद्भाग्यैरेव लभ्यते ॥५८॥ जीवानुकंपया धर्मः स च तत्रैव तिष्ठति। चिह्नं यत्सत्यधर्मस्य ज्ञानमीदृक्प्रतीतिदम् ॥ ५९॥ कः स्थास्यति गृहावासे विषये विकिला(रा)कुले। इदं कार्यमिदं कार्यमिति चिंतार्तिजर्जरे ॥६०॥ बिभेत्युभयथा बंधुवल्लभाया धनश्रियः। असंतुष्टधियस्तिष्ठत्स्वपि भाग्येषु वस्तुषु ॥६१॥ ममापीदग्गतिः कन्यासंबंधे भाविनि ध्रुवम् । तत्तात मत्प्रिये कार्ये शंकसे किं निषेधतः॥ ६२॥ 3 D. P. सूनुजन्मना. Page #236 -------------------------------------------------------------------------- ________________ प्रभावकरि तदुत्तिष्ठ कुरु स्नानं देवार्चनमथ क्रियाम् । वैश्वदेवादिकां कृत्वा निर्वृतः कुरु भोजनम् ॥ ६३ ॥ ततो मां तत्र नीत्वा च तेषामंके विनिक्षिप । पवित्रय निजं जन्म यथा तत्पदसेवया ॥ ६४ ॥ इत्याकर्ण्य तदा विप्र आनंदाश्रुपरिप्लुतः । उत्तस्थौ गाढमाश्लिष्य मूर्ध्नि चुम्बितवान् सुतम् ॥ ६५ ॥ ततः सर्वाः क्रियाः कृत्वा भोजनानंतरं द्विजः । प्रायाच्छोभनदेवेन सहाचार्यप्रतिश्रये ॥ ६६॥ अंकमारोपयामास स तेषां वल्लभं सुतम् । यावान् भाति विभातव्यः पूज्यैस्तावानयं सुतः ॥ ६७ ॥ सूरयस्तमनुज्ञाप्यादीक्षयंस्तं सुतं मुदा । तद्दिनांतः शुभे लग्ने शुभग्रहनिरीक्षिते ॥ ६८ ॥ ते विजहुः प्रभाते चापभ्राजनविशंकिताः । अणहिल्लपुरं प्रापुर्विहरंतो भुवं शनैः ॥ ६९ ॥ इतश्च धनपालेन सर्वदेवः पृथकृतः । विकर्मकृन्निधिद्रव्यात्पुत्रं विक्रीतवानिति ॥ ७० ॥ अदृष्टव्यमुखास्ते च दीक्षापतितशुद्रकाः । कौतस्कुताः शमव्याजात् स्त्रीबालादिप्रलंबकाः ॥ ७१ ॥ निर्वास्यते ततो देशादेषां पाषंडमद्भुतम् । ध्यात्वा विज्ञाप्य राजानं तच्चक्रे तेन रोषतः ॥ ७२ ॥ युग्मम् एवं द्वादशवर्षाणि श्रीभोजस्याज्ञया तदा । न मालवे विज तच्छ्रीपीतांबरदर्शनम् ॥ ७३ ॥ स्थितानां गुर्जरे देशे धोरासंघो व्यजिज्ञपत् । श्रीमन्महेंद्रसूरीणां यथावृत्तं यथातथम् ॥ ७४ ॥ इतः शोभनदेवश्चाध्यापितः सूरिभिस्तदा । विदधे वाचनाचार्यः शक्रेणापि स्तुतो गुणैः ॥ ७५ ॥ अवंति संघविज्ञप्तिं श्रुत्वाख्याच्छोभनो विभुः । यास्याम्यहं निजभ्रातुः प्रतिबोधाय सत्वरम् ॥ ७६ ॥ दौर्मनस्यमिदं संघे मन्निमित्तं समाययौ । अहमेव प्रतीकारं तत्र संधातुमुत्सहे ॥ ७७ ॥ गीतार्थैर्मुनिभिः सार्द्ध प्रभुभिः प्रेष्यताथ सः । धारापुरमथायातः प्रयातः प्रौढिमद्भुतम् ॥ ७८ ॥ प्राप्ते काले च 'साधून्स 'प्रैषीगोचरचर्यया । श्रीमतो धनपालस्य गृहे परिचिते चिरम् ॥ ७९ ॥ १ H. विघातव्य. २२८ Page #237 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः। तत्र तावागतौ साधू विद्वदीशस्तदा च सः। स्नानायोपविवेशाथ स्नेहासक्तवपुदृढम् ॥ ८०॥ व्याहृत्य धर्मलाभं तौ तस्थतुः स्वस्थचेतसौ । सरत्यस्तीति विदधे धनपालप्रियोत्तरम् ॥ ८१॥ प्राह श्रीधनपालश्च किंचिद्देह्यनयोर्बुवम् । गृहाद्यांत्यर्थिनो रिक्ता अधर्मोयं यतो महान् ॥ ८२ ॥ उषितान्नं तया नीतं गृहीतेत्र ततो दधि । द्वितीयमाहृतं पृष्टं तैरेतत् किमहर्भवम् ॥ ८३॥ किं दनि पूतराः सन्ति न वा यूयं दयाभृतः। एतथ्यहस्थितं लातो नोचेद्च्छ त शीघतः॥ ८४॥ तावचतुरियं रीतिरस्माकं किमसूयसि। असूयया महान् दोषः प्रियवाक्यं हि सुंदरम् ॥ ८५॥ अथ चेत्पृच्छसि भ्रांतिं विना जीवस्थितिं ध्रुवम् । गोरसेऽहयातीते नासत्यं ज्ञानिनां वचः॥ ८६ ॥ सुधीनाथस्ततोऽवादीत्तदानादीनवं वचः। दर्शयत्तं प्रतीत्यै नो दनि जीवानमूदृशि ॥ ८७॥ पूलिकालक्तकस्याथ ताभ्यां तत्र व्यमोच्यत । जीवादध्नस्तस्यां? द्रागेवारुरुहुस्तदा ॥ ८८॥ चलंतस्ते हि चक्षुष्या अचक्षुष्याः स्थिताः पुनः। तद्वर्णास्तद्रसा जीवास्तदा तेनेक्षिताः स्फुटाः ॥ ८९॥ मिथ्यात्वस्यावलेपोऽथ तद्वाक्येन विनिर्ययौ । तदा कृतीश्वरस्याहिनाथमंत्रैर्विषं यथा ॥ ९०॥ अचिंतयदसौ धर्म एषां जीवदयोज्वलः।। य एष पशुहिंसादिरसौ मिथ्येव लक्ष्यते ॥ ९१॥ उक्तं च तेन-सावच्छ अछि धम्मो जामुणियजिणाणसासणं तुम्हें । कणगानुराणकणगं ससियपयं अलभमाणाणं ॥ ९२॥ विद्वन्नाथस्ततोऽवादीत्को गुरुः कुत आगमः। भवतां कुत्र वा स्थाने शुद्धे यूयमवस्थिताः॥९३॥ श्रुत्वेति वदतस्तौ च श्रूयतामवधानतः। गूर्जरादेशतः श्रीमन्नायाता वयमत्र भोः॥९४॥ श्रीमन्महेंद्रसूरीणां शिष्यः श्रीशोभनो गुरुः। नाभेयभुवनाभ्यर्णे स्थितोस्ति प्राशुकाश्रये ॥ ९५॥ १ म. सरस्य. २ P. नो H. दर्शयंत...वान् तादृशि. ३ P. तूलि. 20 Page #238 -------------------------------------------------------------------------- ________________ २३० प्रभावकचरिते इत्युक्त्वा जग्मतुस्तौ च निजं स्थानं महामुनी। सुस्नातो भक्तिपूर्व च सुधीः प्रायादुपाश्रये ॥ ९६ ॥ अथ श्रीशोभनो विज्ञोऽभ्यातस्थौ गुरुबांधवम् । आलिलिंगे च तेनासौ सोदरस्नेहमोहतः॥९७॥ तेन चा सने दत्तेऽग्रजेनोपाविशत्तदा। ऊचे च पूज्य एव त्वममुं यो धर्ममाश्रयः॥९८॥ जिनेंद्रदर्शनं धर्ममूलं भोजनृपाशया। यन्निस्य मयोपार्जि नांतस्तस्य महांहसः॥९९ ॥ सर्वदेवः पिता त्वं चानुज एतौ महामती । यावेनं सुगुरुं धर्ममाद्रियेथां भवच्छिदे ॥१०॥ वयमत्र पुनर्धर्माभासे धर्मतया श्रिते। स्थिता गतिं न जानीमः कामपि प्रेत्य संश्रयाम् ॥ १०१॥ तदाख्याहि मदानायो दधिरत्नानुज स्फुटम् । धर्म शर्मकरं मर्मममोच्छेदे विधायिनम् ॥ १०२॥ अथ श्रीशोभनो विद्वान् बंधोः स्नेहभरं वहन् । उवाच त्वं कुलाधार शृणु धर्म कृपैव यत् ॥१०३॥ देवधर्मगुरूणां च तत्वान्यवहितः शृणु। देवो जिनो महामोहस्मरमुख्यारिजित्वरः॥१०४॥ स्वयं मुक्तः परान्मोचयितुं सामर्थ्यभूभृशम् । प्रदाता परमानंदपदस्य भगवान् ध्रुवम् ॥ १०५॥ शापानुग्रहकर्तारो मग्ना विषयकर्दमे । स्त्रीशस्त्राक्षत्रगाधारा देवताः स्युर्नृपा इव ॥ १०६॥ गुरुः शमदमश्रद्धासंयमः श्रेयसां निधिः। कर्मनिर्जरणासक्तः सदाचरितसंवरः ॥१०७ ॥ परिग्रहमहारंभो जीवहिंसाकृतोद्यमः । सर्वाभिलाषसंपन्नो ब्रह्महीनः कथं गुरुः ॥ १०८ ॥ सत्त्याऽस्तेयदयाशौचक्षमाब्रह्मतपःक्रियाः। मृदुत्वार्जवसंतोषा धर्मोऽयं जिनभाषितः ॥ १०९ ॥ अवद्यवस्तुदानेन भवेञ्च पशुहिंसया। अधर्मो धर्मवत्ख्यातो नाहः कृत्रिमवस्त्रवत् ॥ ११० ॥ समुवाच ततः श्रीमान् धनपालः श्रियांनिधिः। प्रतिपन्नो मया जैनधर्मः सद्गतिहेतवे ॥१११ ॥ ततः श्रीमन्महावीरचैत्यं गत्वा ननाम च । वीतरागनमस्कारं श्लोकयुग्मेन सोऽब्रवीत् ॥ ११२॥ १ P D. भुक्ति. २ H. P संचरिसंवाः । Page #239 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः । २३१ तथाहि-बलं जगद्धिसनरक्षणक्रम क्षमा च किं संगमके कृतागसि । इतीव संचिंत्य विमुख्यमानसंरुषेवरोषस्तव नाथ निर्ययौ११३ कतिपयपुरखामीकायव्ययैरपि दुर्ग्रहो मितवितरिता मोहनासौ पुरानुसृतो मया । त्रिभुवनविभुर्बुद्धया (व्या)राध्योधुना सुपदप्रदः प्रभुरपि गतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ ११४ ॥. अन्यदा पूर्णिमासंध्यासमये नृपमब्रवीत् । जैनदर्शनसंचारहेतवे देशमध्यतः॥ ११५॥ राजंस्तव यशोज्योत्स्ना धवलांबरविस्तरः। प्रकटस्तमसोहंता भूयादर्थप्रकाशकः ॥ ११६ ॥ राजा वदन्मया ज्ञातोऽभिसंधिर्मत्रिते ततः। श्वेतांबराश्चरंत्वत्र देशे को दर्शनं द्विषन् ॥११७ ॥ ततो धारापुरीसंघसंगत्याज्ञापयत्प्रभोः। श्रीमन्महेंद्रसूरेस्तत्तत्रायान्मंक्षु सोऽप्यथ ॥ ११८॥ क्रमेण धनपालश्च धर्मतत्वविचक्षणः। दृढसंपत्कनिष्ठाभिर्ध्वस्तमिथ्यामतिर्बभौ ॥ ११९ ॥ राशा सह महाकालभवनेसोऽन्यदा ययौ। तन्मंडपगवाक्षेचोपाविशन्नशिवाग्रतः॥१२०॥ राज्ञाहूतः सच द्वाराग्रतः स्थित्वा झटित्यपि । व्यावृत्य त्रिस्ततो भूपः पप्रच्छैनं सविस्मयः ॥ १२१ ॥ सखे किमिदमित्यत्र पृष्टे स प्राह संगभृत् । देवोऽस्ति शक्तिसंबद्धो बीडया न विलोक्यते ॥ १२२ ॥ राजाह दिवसेष्वेतावत्सु किं तादृशोऽर्चितः । भवता प्राह सोहं च बालत्वाल्लजितो नहि ॥ १२३॥ दिनानीयंति लोकश्च भवंतोऽपीदृशा यतः। शुद्धांतांतर्वधूसक्ते त्वय्यपीक्षितुमक्षमः ॥ १२४॥ कामसेवापरैः प्राच्यैरपि भूपैर्भवादृशैः। बलित्वादर्चनं त्वस्य प्रवर्तितमिहेदृशः ॥ १२५ ॥ यतः-अवरहदेवहं सिरुपुजिइ महएवह पुणुलिंगु । बलियाजं जि प्रतिष्टइं तंणमन्तदूचगु ॥ १२६॥ स्मित्वा ध्यौ च भूपालो हास्यं सत्यसमं ह्यदः । पृच्छाम्यपरमप्यस्मिन्नेतदुत्तरमस्पृहः ॥ १२७॥ १ P. D. सखेचरो. २ D P. ३ P. संधे. Page #240 -------------------------------------------------------------------------- ________________ २३२ प्रभावकचरिते बहि गिरिटेर्मूर्ति दृष्ट्वा प्राह च कौतुकात् । एष किं दुर्बलोऽजल्पि सिद्धसारस्वतोऽसि भोः ॥ १२८ अथाह धनपालोपि सत्योक्तौ भवति क्षणः। अस्तु वा सत्यकथने को दोषो नस्ततः शृणु ॥ १२९ ॥ तथाहि-दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना भस्माप्यस्य किमंगना यदि वसा कामं परिद्वेष्टि किम् । इत्यन्योन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनं भुंगी शुष्कशिरावनद्धमधिकं धत्तेऽस्थिशेषं वपुः॥ १३० याज्ञवल्क्यस्मृतिं व्यासो बहिः पार्षदमंडले। तारं व्याख्याति भूपश्च तत्र शुश्रूषुरासिवान् ॥ १३१ ।। व्यावृत्त्य स्थितमद्राक्षीद्वयस्यं च ततोऽवदत् । श्रुतिस्मृतिषु तेऽवज्ञावहितो न शृणोषि यत् ॥ १३२॥ सोऽजल्पन्नावगच्छामि तदर्थ व्यस्तलक्षणम् । प्रत्यक्षेण विरुद्धं हि शृणुयात्को मतिभ्रमी ॥ १३३ ॥ कथं-स्पर्शोऽमेध्यभुजां गवामघहरो वंद्या विसंज्ञा द्रुमाः स्वर्गच्छागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः स्फीतं फल्गु चवल्गुच श्रुतिगिरा को वेत्ति लीलायितम्१३४ अथनिष्पद्यमाने च यज्ञे तत्र महापशोः। बद्धस्य हंतुमश्रौषीद्दीनारावं महीपतिः॥ १३५॥ अथ किं जल्पतीत्युक्ते कविचक्री ततोऽवदत् । भाषामेषां विजानामि तत्सत्यं शृणु मद्वचः॥१३६॥ तथाहि-अर्काहितदलोछेदी सत्वोल्लासतनुस्थितिः। नाम्ना गुणैश्च विष्णुर्यः स कथं वध्यतामजः॥१३७॥ नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्ग यांति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बांधवैः॥ १३८॥ श्रीभोजः कुपितस्तस्यापसव्यवचनक्रमैः। दध्यावमुं हनिष्यामि विब्रुवंतं द्विजब्रुवम् ॥ १३९ ॥ साक्षादस्य हतौ किं चापवादः परमो भवेत् । रहः कुत्रापि वेलायां वध्योऽसावेष संश्रयः॥ १४०॥ १ H. गरि० D. भृगिविटे. Page #241 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः। २३३ तदा चागच्छतो राजपथि खं मंदिरं प्रति । वृद्धा स्त्री दृक्पथप्राया तटस्था बालिकान्विता ॥ १४१॥ नवकृत्वः शिरो धूनयंती वृद्धां विलोक्य सः। नृपः प्राह किमाहासौ ततोवादीत्कृतीश्वरः ॥ १४२॥ किं नंदी किं मुरारिः किमु रतिरमणः किं हरः किं कुबेरः किंवा विद्याधरोऽसौ किमथ सुरपतिः किं विधुः किं विधाता। नायं नायं न चायं न खलु नहि न वा नापि नासौ न चैषः क्रीडां कर्तुं प्रवृत्तः स्वयमिह हि हेतेर्भूपतिर्भोजदेवः ॥१४३॥ श्रुत्वाथ भूपतिर्दध्यौ नववारोचितान् किमु । विकल्पान्नवकृत्वोऽथ तत्रापर्यहरत्ततः॥ १४४॥ शानिवद्वदिता कोन्य एतं दुर्भाषकं विना । निग्रहाहः स किं श्रीमन्मुंजवर्द्धितविग्रहः ॥ १४५॥ कदाचिद्भूपतिर्मित्रं पाप॰वाह्वयत्ततः। ययौ सखेटकास्तत्र शूकरं च व्यलोकयन् ॥ १४६॥ कामं कर्णातविश्रांतमाकृष्य किल कार्मुकम् । बाणं प्राणं दधन् हस्ते व्यमुंचन्यंचदास्यकः ॥ १४७॥ पतितोऽसौ किरि?रं घर्घरारावमारसन् । प्राहुर्विज्ञाः प्रभुर्योधः पार्श्वे वा नान्य ईदृशः॥१४८॥ पंडितशे ततो दृष्टिः श्रीभोजस्यागमत्तदा । किंचिद्वदिष्यथेत्युक्ते स प्राह शृणुत प्रभोः॥१४९॥ तच्चेदं-रसातलं यातु यदत्र पौरुषं व नीतिरेषा शरणो ह्यदोषवान् । निहन्यते यदलिनापि दुर्बला हहा महाकष्टमराजकं जगत्१५० अन्यदा नवरात्रषु लिंबजागोत्रजार्चने। राज्ञाथ विहिते हन्यमाने छागशते तथा ॥ १५१ ॥ रक्ताक्षे घातरक्ताक्षे बद्ध्वा खगद्विधाकृते । एकघातान् सदेशस्थाः प्रशशंसुर्नृपं हतौ ॥ १५२ ॥ धनपालो जगादाथ करुणैकमहोदधिः । एतत्कर्मकृतो विज्ञाः प्रशंसाकारिणोऽपि च ॥१५३ ॥ यतः-पसुवेरुडंविविहसिडं निसुणइसाहुक्कारु । तं जाणइ नरयहहु हह दिन्नड संचकाऊ॥१५४॥ अन्यदा श्रीमहाकाले पवित्रारोहपर्वणि। महामहेऽगमद्राजा वयस्यं प्रत्युवाच च ॥१५५॥ सखे त्वदीयदेवानां कदापि न पवित्रकम् । अपवित्रास्ततस्ते स्यू राजमित्रं ततोऽवदत् ॥ १५६॥ १ ले. २ H. निंब. Page #242 -------------------------------------------------------------------------- ________________ २३४ प्रभावकचरिते तथाहि-पवित्रमपवित्रस्य पावित्र्यायाधिरोहति । जिनः स्वयं पवित्रः किमन्यैस्तत्र पवित्रकैः ॥१५७॥ अपावित्र्यं शिवे चैतद्भक्तमप्यातं यतः। लिंगार्चनं तरं याच्यमानाभ्युपगमाडुवम् ॥ १५८ ॥ मूर्ति श्रीकामदेवस्य रतियुक्तां हसन्मुखाम् । तालिकायाः प्रदानायोदितहस्तां नराधिपः ॥ १५९ ॥ पश्यन् पंडितचंडांशुमाभाषत सकौतुकः। किमेष तालिकां दित्सुहसन् कथयति स्फुटम् ॥ १६०॥ धनपालस्ततः सिद्धसारस्वतवशात्तदा । अवदत्तथ्यमेवाशुशानी को हि विलंबते ॥१६१ ॥ तच्चेदं-स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः॥१६२॥ अन्यदा नृपतिः प्राह तव सूनृतभाषणे । अभिज्ञानं किमप्यस्ति सत्यं कथय तन्मम ॥ १६३॥ चतुद्वारोपविष्टानां केन द्वारेण निर्गमः। स्यादस्माकमिदानीमित्याख्याहि कविवासव ॥ १६४ ॥ ततोऽसौ पत्रकेऽलेखीदक्षराणि महामतिः। ततः समुद्रयित्वा च स्थगीवित्तस्य चार्पयत् ॥ १६५॥ ध्यायन्निति नृपो द्वारचतुष्क्रस्येह मध्यतः। एकेन केनचिद्वारा गतितिा भविष्यति ॥ १६६ ॥ शानिनोप्यस्य वचनमत्र मिथ्या करिष्यते । ततो गते गृहं मित्रे भुक्त्याह्वानं समागमत् ॥ १६७ ॥ मंडपोपरिभागे च छिद्रं प्राप्यत यन्नरैः । तेन छिद्रेण निर्गत्य राजा स्वरचितो ययौ ॥ १६८॥ तन्मध्याह्न कवीशं तमाकार्यापृच्छदद्भुतम् । पत्रकं कर्षयित्वा स स्थगीमध्याददर्शयत् ॥ १६९ ॥ तत्र चोपरिभागेन निर्यास्यति नृपो ध्रुवम् । इति तथ्यं वचस्तस्य ज्ञात्वा राजा चमत्कृतः॥ १७०॥ अन्येयुः सेतुबंधेन प्राहिणोन्नपतिर्नरान् । प्रशस्तिर्विद्यते यत्र विहिता श्रीहनूमता ॥ १७१ ॥ तत्काव्यानयनार्थ ते मधूच्छिष्टस्य पट्टिका। निधायांभोनिधौ मत्स्यवसां जितविलोचना ॥ १७२॥ १ P. हि सन्मु०. २ P. H. पापात. Page #243 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः । प्रशस्त्युपरितो बाढं विन्यस्याथ पुनस्ततः । उत्पाद्या परतैलाक्षपट्टिकासु च मीलिताः ॥ १७३ ॥ ततोऽप्युद्धृत्य पत्राल्पमक्षराण्यालिखन्नराः । तानि रक्षः कुलानीव षंडवृत्तान्यतोऽभवन् ॥ १७४ ॥ राज्ञालोक्यंत तान्यत्राविशदर्थानि किं पुनः । हट्टे शाकफलानीव खंडितान्यरसान्पपुः ? ॥ १७५ ॥ पूरयंति निजैः प्रज्ञाविशेषैस्ते महाधियः । परं राज्ञश्चमत्कारकरी कस्यापि नैव वाक् ॥ १७६ ॥ द्विपदी त्रिपदी चैका तन्मध्यादर्पिता ततः । श्रीमतो धनपालस्य बालस्य कविताविधौ ॥ १७७॥ तथाहि-हरशिरसि शिरांसि यानि रेजुर्हरिहरितानि लुठति गृध्रपादैः तद्यथा-स्नाता तिष्ठति कुन्तलेश्वरसुता वारोंग राजस्वसुद्यूतेनाद्य जिता निशा कमलया देवी प्रसाद्याद्य च । इत्यंतःपुरचारिवारवनिताविज्ञापनानंतरं वचनानंतरं विद्वान् ते समस्ये अपूरयत् ॥ १७८ ॥ तथाहि—अयि खलु विषमः पुराकृतानां । २३५ विलसति जन्तुषु कर्म्मणां विपाकः ॥ १७९ ॥ तद्यथा-स्मृत्वा पूर्वसुरं विधाय बहुशो रूपाणि भूपोऽभजत् कीरविद्वान् हसन्नाह जैनोचितमिदं वचः ॥ १८० ॥ तेषां मते परीपाकः कर्मणां हि प्रकथ्यते । समस्यापूरणं ह्येतत्सौवीरामोदमेदुरम् ॥ १८१ ॥ कवींद्रः प्राह कीरस्य रागः स्याद्वद मे ध्रुवः । मलिनांगस्य सत्यं तु सूर्यः प्रकटयिष्यति ॥ १८२ ॥ द्वापंचाशत्पले फाले शुद्धे चेन्मम मानुषम् । अत्रेदृशाक्षराण्येवावश्यमीदृक्प्रतिश्रये ॥ १८३ ॥ कौतुकादथ भूपालस्तत्तथैव व्यधापयत् । राजा मित्रं ततः फाले शुद्धः शुद्धयशोनिधिः ॥ १८४ ॥ प्रतीत एव राजात्र सत्ये को नाम मत्सरी । अथान्येद्युरपृच्छत्तं सुधीशं भोजभूपतिः ॥ १८५ ॥ जैना जलाश्रयद्वारं सुकृतं किं न मन्यते । ततोऽवदत्स तत्रापि सूनृतं सूनृतव्रतः ॥ १८६ ॥ तथाहि - सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा यथेच्छं विच्छिन्नाशेषतृष्णाः प्रहसितमनसः प्राणिसार्था भवंति । १ P त्याक्त. Page #244 -------------------------------------------------------------------------- ________________ २३६ प्रभावकचरिते शोषं नीते जलौघे दिनकरकिरणैर्यात्यनंता विनाशं तेनोदासीनभावं भजति यतिजनः कूपवप्रादिकार्ये ॥ १८७॥ राजाह सत्यमेवेदं धर्मसत्यो जिनाश्रयः। व्यवहारस्थितानां तु रुच्यो नैव कथंचन ॥ १८८ ॥ ततो राजसखा प्राह पित्राहमपि पाठितः। किंचिज्ज्ञात्वा मयाश्रावि का कथा त्वबुधे जने ॥१८९ ॥ त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं स्तयं हेयं विषयविरतिः सर्वसंगानिवृत्तिः । जैनो धर्मों यदि न रुचितः पापपंकावृतेश्यस्तत्कि न्यूनो घृतमवगतं किंप्रमाद्यति नो चेत् ॥ १९०॥ धनपालस्ततः सप्तक्षेत्र्यां वित्तं व्ययेसुधीः। आदौ तेषां पुनश्चैत्यं संसारोत्तारकारणम् ॥१९१॥ विमृश्येति प्रभो भिसूनोः प्रासादमातनोत् । बिंबस्यात्र प्रतिष्ठां च श्रीमहेंद्रप्रभुर्दधौ ॥ १९२॥ सर्वज्ञपुरतस्तत्रोपविश्य स्तुतिमादधे । जयजंतु कप्पेत्यादि गाथापंचशतामिमाम् ॥ १९३॥ एकदा नृपतिः स्मार्त्तकथाविस्तरनिस्तुषः । वयस्यमवदज्जैनकथां श्रावय कामपि ॥ १९४ ॥ द्वादशाथ सहस्राणि ग्रंथमानेन तां ततः। परिपूर्य ततो विद्वत्समूहैरवधारिताम् ॥ १९५॥ यथार्था काच दोषस्योद्धारा तिलकमंजरी। रसेन कवितारूपचक्षु३मल्यदायिनी ॥ १९६॥ विद्वजनास्यकर्पूरपूराभां वर्णसंभृताम् । सुधीविरचयांचने कथां नवरसप्रथाम् ॥१९७॥ त्रिभिर्विशेषकम् रसां नवपरां कोटिं प्रापिताः कविचक्रिणा। कथायां तत्समाप्तौ च तद्ध्याने परिवर्तते ॥ १९८ ॥ खयूथ्यानामिवामीषा प्रस्तावं ते दधुध्रुवम् । रसानां सततः षण्णामावादमबुधजनः॥१९९॥ दुहित्रा च ततः पृष्टं तातग्रंथः समापि किम् । अहो स्पर्द्धा पितृध्याने सुताज्ञानेथ चित्रकृत् ॥२००॥ अथासौ गूर्जराधीशकोविंदेशशिरोमणिः। वादिवेतालविशदं श्रीशांत्याचार्यमाह्वयत् ॥ २०१॥ १ H यायनी०.२ P D प्रमेह्य. ३ P D व्ययेच्छु. ४ H कथिता. ५J नस्य. ६ P प्राप्तावक०. Page #245 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः । २३७ अशोधयदिमां चासावुत्सूत्राणां प्ररूपंणात् । शब्दसाहित्यदोषास्तु सिद्धसारखतेषु किम् ॥ २०२॥ तस्यां व्याख्यायमानायां स्थालं हैमममोचयत् । भूपालः पुस्तकस्याधो रससंग्रहहेतवे ॥२०३॥ तत्र तद्रसपीयूषं पूर्वमाहूतवान् नृपः।। आधिव्याधिसमुच्छेदहेतुमक्षयतृप्तिदम् ॥ २०४॥ संपूर्णायां च तस्यां स प्राह पृच्छामि किंचन । तथा त्वामर्थये किंच तेन धारय मे रुषम् ॥ २०५॥ पूर्वमेव कथारंभे शिवः पात्वेत्यमंगलम् । चतुःस्थानपरावर्त तथा कुरुत सद्विरा ॥ २०६॥ धारासंज्ञामयोध्यायां महाकालस्य नाम च । स्थाने शक्रावतारस्य शंकरं वृषभस्य च ॥ २०७॥ श्रीमेघवाहनाख्याया मम नामकथा ततः। आनंदसुंदरा विश्वे जीयादाचंद्रकालिकम् ॥ २०८ ॥ सुधीः प्राह महाराजन् शुभं प्रत्युपताशुभम् । परावर्ते कृतेऽमुष्मिन् सूनृतं मद्वचः शृणु ॥ २०९॥ पयःपात्रे यथा पूर्णे श्रोत्रियस्य करस्थिते । अपावित्र्यं भवेत्तत्र मद्यस्यैकेन बिंदुना ॥ २१०॥ एवमेषां विनिमये कृते पावित्र्यहानितः। कुलमेते ध्रुवं राज्यं राष्ट्र च क्षीयतेतराम् ॥ २११ ॥ शेषे सेवाविशेषं ये न जानंति द्विजिह्वताम् । यांतो हीनकुलाः किं ते न लजंते मनीषिणाम् ॥ २१२॥ अथ राजा रुषा पूर्णः पुस्तकं तन्यधादसौ। अंगारशकटीवह्नौ जाड्यात्पूर्व पुरस्कृते ॥ २१३॥ ततो रोषाद्वभाणासौ गाथामेकां नृपं प्रति । पुनर्नानेन वीक्ष्यामीत्यभिसंधिः कठोरगीः॥२१४॥ साचेयं-मालविउसि किमन्नं मन्नसिकन्नेण निञ्चइतसि । धनपालंपि न मुंचसि पुच्छामि सवंचणं कत्तो ॥ २१५॥ अथ वेश्म निजं गत्वा दौर्मनस्येन पूरितः। अवाङ्मुखः स सुष्वाप तदा नास्तृततल्पके ॥२१६॥ न स्नानं देवपूजा न भुंक्ते वार्तापि न स्मृता। वचनं नैव निद्रापि पंडितस्य तदाभवत् ॥ २१७॥ १D त्रादिप्र. २ H हि. ३ PH पान्वेत्य ? ४ म ख्यायां. ५ म वृत्ते. Page #246 -------------------------------------------------------------------------- ________________ प्रभावकचरिते मूर्त्तयेव सरस्वत्या नवहायनवालया । दुहित्रा मन्युहेतुं स पृष्टस्तथ्यं यथाह तत् ॥ २१८ ॥ उत्तिष्ठ तात चेद्राज्ञा पुस्तकं पावके हुतम् । अक्षयं हृदयं मेस्ति सकलां ते ब्रुवे कथाम् ॥ २१९ ॥ स्नानं देवार्चनं भक्तिं कुरु शीघ्रं यथा तव । कथापीठं ददे हृष्टस्ततः सर्वे चकार सः ॥ २२० ॥ कथा च सकला तेन शुश्रुवेऽत्र सुतामुखात् । कदाचिन्न श्रुतं यावत्तावन्नास्याः समाययौ ॥ २२१ ॥ सहस्रत्रितयं तस्याः कथाया अत्रुटत्तदा । अन्यत्संबंधसंबद्धं सर्वे न्यस्तं च पुस्तके ॥ २२२ ॥ अथापमानपूर्णोयमुच्चचाल ततः पुरः । मानाद्विनाकृताः संतः संतिष्ठते न कर्हिचित् ॥ २२३ ॥ पश्चिमां दिशमाश्रित्य परिस्पंदं विनाचलत् । प्राप सत्यपुरं नाम पुरं पौरजनोत्तरम् ॥ २२४ ॥ तत्र श्रीमन्महावीर चैत्ये नित्ये पदे इव । दृष्टे स परमानन्दमाससाद विदांवरः ॥ २२५ ॥ नमस्कृत्य स्तुतिं तत्र विरोधाभास संस्कृताम् । चकार प्राकृतां देव निम्मलेत्यादि सास्ति च ॥ २२६ ॥ दिनैः कतिपयैर्भोजः भूजानिस्तमजूहवत् । नास्तीति ज्ञातवृत्तांतः किंचित्खेदवशोऽभवत् ॥ २२७ ॥ आहे चेचित्यते चित्ते कद्वदोष्णासु यात्वसौ । परस्तत्सदृशो नान्यस्तथ्यवागू भारतीनिभः ॥ २२८ ॥ ईदृक्पूरुषसंसर्गे मंदभाग्या वयं ननु । देशं तस्य कथं हंसवासपुण्यं विजृंभते ॥ २२९ ॥ इत्यस्य विद्यमानस्य चकोरस्य कुहूष्विव । प्रायाद्धर्माभिधः कौलो विद्वांस्तद्वृत्तमुच्यते ॥ २३० ॥ तद्यथा - आधारोनंतगोत्राणां पुरुषोत्तमसंश्रयः । आकरोऽनेकरत्नानां लाटदेशोऽस्ति वार्द्धिवत् ॥ २३९ ॥ यत्र मेकलकन्योर्मिनिचयो दर्शनाज्जनम् । पवित्रयेत्तदस्ति श्रीभृगुकच्छाख्यया पुरम् ॥ २३२ ॥ तत्रास्ति वेदवेदांगपारगो वाडवाग्रणीः । सूरदेव इति ख्यातो वेधा इव शरीरवान् ॥ २३३ ॥ सतीशिरोमणिस्तस्य कांता कांतनयस्थितिः । सावित्रीत्याख्यया ख्यातिपात्रं दानेश्वरेषु या ॥ २३४ ॥ 1DP पाठं. २ D वे. २३८ Page #247 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः । २३९ तयोरुभावभूतां च पित्राशानिलयौ सुतौ । धर्मः शर्मश्च दुहिता गोमतीत्यभिधा तथा ॥२३५॥ धर्मः खनामतो वामः शठत्वादनयस्थितिः। पितुः संतापकृजज्ञे सूर्यस्येव शनैश्चरः॥ २३६॥ स पित्रोक्तो धनं वत्स जीविकायै समर्जय । मुधा न लभ्यते धान्यं तत्ते जठरपूरकम् ॥ २३७॥ निष्कलत्वात्ततो नीचसंसर्गात्पाठवैरतः। सर्वोपायपरिभ्रष्टोऽभूदिक्षुक्षेत्ररक्षकः ॥ २३८ ॥ तत्र श्रीक्षेत्रपालोस्ति न्यग्रोधाधः सदैवतः। तदर्चानिरतो धर्मः सदासीद्भक्तिबंधुरः॥२३९ ॥ स च स्वस्वामिनो गेहे गतः क्वचन पर्वणि । भुंश्वात्रेति तदुक्तः सन् प्रोवाच प्रकटाक्षरम् ॥ २४०॥ न वल्भे क्षेत्रपालाची विनाहं प्रलयपि हि । क्षेत्रं ययौ ततोऽभ्यर्च्य तमूों यावदास्थितः॥२४१ ॥ तावदैक्षिष्ट नग्नां स योगिनीं तदृतेर्बहिः। क्षेत्रपालप्रसादेन शक्तिं मूर्तिमतीमिव ॥ २४२॥ तया चेक्षुलतामेकां प्रार्थितेनातिभक्तिना। तयुग्मं रससर्वस्वपूर्ण तस्याः समाय॑त ॥ २४३॥ तदास्वादप्रमोदेन सप्रसादाथ सावदत् ।। किं त्वं घृणायसे वत्स नवासोप्यवदत्ततः॥२४४॥ न घृणाये महामाये सा ततः पुनराह च । व्यादेहि वचनं तन तच्चक्रे सादरं वचः॥२४५॥ सा च तद्रसगंडूषं सुधावत्तन्मुखेऽक्षिपत् । हस्तं तन्मस्तके प्रादादायातस्य वृतेर्बहिः ॥२४६॥ तिरोधत्त क्षणेनैव सा देवी च गिरां ततः। विमुच्य स च तत्सर्व तस्मानिरगमद्रुतम् ॥ २४७ ॥ शनैर्गच्छन् पुरः प्राप पूर्वगंगातटं ततः। अचिंतितमवादीच्च काव्यं सारस्वतोदयात् ॥ २४८॥ तथाहि-एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयंति विध्यभिदुरा वारा प्रवाहाः पुरः। हेलोद्वतितनर्तितप्रतिहतव्यावर्तितप्रेरित त्यक्तस्वीकृतनिद्भुतप्रकटितप्रोद्भूततीरदुमाः ॥ २४९ ॥ १H सुंद. २ H. ल्मे. ३ H. विदितं. Page #248 -------------------------------------------------------------------------- ________________ २४० प्रभावकचरिते तत उत्तीर्य नावासौ नगरांतः समागमत् । निजावासं जनन्या च स्नेहादस्पर्शि हस्तयोः॥ २५०॥ अद्योत्सूरे कथं प्रागा इति पित्रोदितस्तथा। लसता सोऽनुजेनापि शिरसा हृदि पस्पृशे ॥ २५१ ॥ जामिर्गद्गदशब्दात्तं भ्रातीतः पुनःपुनः। सर्वानप्यवमन्यासौ रूक्षाक्षरमथोऽवदत् ॥ २५२॥ मातर्मा स्पृश मास्पृश त्वमपि मे मा तात तृप्तिं कृथाः भ्रातः किं भजसे वृथा भगिनि किं निःकारणं रोदिषि । निःशंकं मदिरां पिबंति नृपलं खादंति ये निर्दया चंडालीमपि यांति निघृणतया ते हन्त कौला वयम् ॥२५३॥ इत्युक्त्वा निर्ययौ गेहात्त्यक्त्वा स्वस्नेहमंजसा । अवंतिदेशसारा स धारां प्राप पुरी ततः॥२५४॥ स राजमंदिरद्वारि पत्रालंबं प्रदत्तवान् । काव्यान्यमूनि चालेखीत्तत्र मानाद्रिमूर्द्धगः ॥२५५ ॥ तद्यथा-शंभुर्गौडमहामहीप्रकटके धारानगर्या द्विजो विष्णुर्भट्टिअमंडले पशुपतिः श्रीकन्यकुब्जे जितः। येनान्येऽपि जडीकृताः कतिपये जन्यानिले वादिनः सोऽयं द्वारि समागतः क्षितिपते धर्मः स्वयं तिष्ठति ॥२५६॥ यः कोपि पंडितंमन्यः पृथिव्यां दर्शनेष्वपि। तर्कलक्षणसाहित्योपनिषत्सु वदत्वसौ ॥२५७ ॥ अथ श्रीभोजभूपालपुरः संगत्य पर्षदम्।। तृणाय मन्यमानोऽसौ साहंकारां गिरं जगौ ॥ २५८॥ गलत्विदानि चिरकालसेवितो मनीषिणामप्रतिमल्लतामदः। उपस्थिता सेयमपूर्वरूपिणी तपोधनाकारधरा सरस्वती ॥ २५९ ॥ क्षितिप तव समक्षं बाहुरुर्वीकृतो मे वदतु वदतु वादी विद्यते यस्य शक्तिः। मयि वदति वितंडावादजल्पप्रवीणे जलधिवलयमध्ये नास्ति कश्चिद्विपश्चित् ॥ २६०॥ हेमाद्रेर्बलवत्प्रमाणपटुता ताय॑स्य पक्षो दृढः शैलानां प्रतिवादिता दिविषदां पात्रावलंबग्रहः । देवास्यैव सरस्वतीविलसितं किंवा बहु बमहे धर्म संचरति क्षितौ कविवुधख्यातिग्रहाणां यदि ॥२६१ ।। - १ D. व्रजेना. २ D. कपटके. ३ H P जल्पानिले. ४ H विपदा पात्रा० ५ H. देशास्य च...विशसितं. Page #249 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः । २४१ बृहस्पतिस्तिष्ठतु मंदबुद्धिः पुरंदरः किं कुरुते वराकः । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥२६२॥ आचार्योऽहं कविरहमहं वादिराट् पंडितोऽहं दैवंज्ञोऽहं भिषगहमहं मांत्रिकस्तांत्रिकोहम् । राजन्नस्यां जलधिपरिखामेखलायामिलाया- . माज्ञासिद्धः किमिह बहुना सिद्धसारस्वतोऽहम् ॥२३॥ इत्याडंबरकाव्यानि तस्य श्रुत्वा महाधियः। अर्वाग्दृशोऽभवन् सर्वे भूपालो व्यमृशत्ततः ॥२६४॥ पुंसा तेन विना पर्षच्छून्येव प्रतिभासते। स कथं पुनरागंता य एवमपमानितः॥ २६५॥. पुनः प्राप्यः कथंचित्स्यात्तदा प्रतिविधास्यते।। एवं विचित्य सर्वत्राप्रैषीद्विश्वास्यपूरुषान् ॥ २६६॥ शोधितः सर्वदेशेषु तेषामेके तमाप्नुवन् । मरुमंडलमध्यस्थे पुरे सत्यपुराभिधे ॥ २६७॥ तैश्च वैनयिकीभिः स वाणीभिस्तत्र सांत्वितः। आदासीन्ये स्थितः प्राह नायास्ये तीर्थसेव्यहम् ॥ २६८॥ तैर्विज्ञप्ते यथावृत्ते भूपः पुनरचीकथत् । ततोदासीनताभासं वैचोसावखरप्रियम् ॥ २६९ ॥ श्रीमुंजस्य महीभर्तुः प्रतिपन्नसुतो भवान् । - ज्येष्ठोऽहं तु कनिष्ठोस्मि तत्कि गण्यं लघोर्वचः॥२७० ॥ पुरा ज्यायान्महाराजस्त्वामुत्संगोपवेशितम् । प्राहेति विरुदं तेऽस्तु श्रीकूर्चालसरस्वती ॥ २७१ ॥ त्यक्त्वा वयं त्वया वृद्धा राज्यमाप्ताश्च भाग्यतः। जये पराजये वाप्यवंतिदेशः स्थलं तव ॥ २७२ ॥ ततो मत्प्रियहेतोस्त्वमागच्छ गच्छ माथवा । जित्वा धारां त्वयं कौलः परदेशी प्रयास्यति ॥ २७३ ॥ तत्ते रूपं विरूपं वा जानासि स्वयमेव तत् । अतःपरं प्रवक्तुं न सांप्रतं नहि बुझ्यते ॥ २७४॥ प्राकृतोऽपि स्वयं ज्ञानं कुरुते नेतरत्पुनः। किं पुनस्त्वं महाविद्वांस्तद्यथारुचितं कुरु ॥ २७५ ॥ धनपाल इति श्रुत्वा स्वभूमेः पक्षपाततः। तरसागात्ततो ज्ञात्वा राजाभिमुखमागमत् ॥ २७६॥ दृष्टे च पादचारेण भूपं संगम्य धीनिधिम् । दृढमाश्लिष्य चावादीत्क्षमस्वाविनयं मम ॥ २७७॥ १ P D सर्वज्ञो० २. P भासं वचो सा. H. भावं वाचो सावस्वर० 21 Page #250 -------------------------------------------------------------------------- ________________ २४२ प्रभावकचरिते धनपालस्ततः साश्रुरवादीद्राह्मणोऽप्यहम् । निःस्पृहो जैनलिंगश्चावश्यं तद्रतसस्पृहः ॥ २७८ ॥ मयि मोहो महाराज विलंबयति मामिह । भवेन्मानापमानो हि नादासीनचेतसि ॥ २७९ ॥ अथ राजाह मे खेदो नाणुरप्यस्त्यसौ तव । त्वयि जीवति भोजस्य सभा यत्परिभूयते ॥ २८०॥ पराभवस्तवैवायमितिश्रुत्वा कृतिप्रभुः। प्राह मा खिद्यतां भिक्षुरक्लेशाजेष्यते प्रगे ॥२८१॥ श्रुत्वेति हृदये तुष्टो ययौ श्रीभोजभूपतिः। विद्वानपि निजं वेश्म वेषं त्यक्त्वा पुनर्ययौ ॥ २८२॥ सन्मार्जनातिगे गेहे शशकाखुकृतैर्बिलैः। दृश्यनिःसंख्यवल्मीकदुर्गमे प्राविशत्ततः ॥ २८३॥ राजा सौधे गतः प्रातः पृष्ठो भूपेन वेश्मनः। शुद्धिं विद्वत्प्रभुः प्राह श्रूयतां सूनृतं वचः ॥ २८४ ॥ तच्चेदं-पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ २८५॥ राज्ञा धर्मस्तदाहूत आस्थाने स्वःसभोपमे । श्रूयतां धनपालोऽयमाययौ वादिदर्पहृत् ॥ २८६ ॥ धर्मोघच्छित्तपं विज्ञं पूर्व परिचितं तदा।। दृष्वा काव्यमदोऽवादीत्तदावर्जनगर्भितम् ॥ २८७॥ श्रीछित्तपे कर्दमराजशिष्ये सभ्ये सभाभर्तरि भोजराजे । सारस्वते स्त्रोतसि मे प्लवंतां पलालकल्पा धनपालवाचः ॥२८८ ॥ धनपेति नृपस्यामंत्रणे मे मम तद्गिरः। आलवाचः प्लवंतां हि सिद्धसारखते रे? ॥ २८९ ॥ इति भूपालमित्रेण शब्दखंडनया तया । अस्यैव प्रतिपक्षार्थेऽक्षरैस्तैरेव जल्पितः ॥ २९० ॥ समस्यामर्पयामास सिद्धसारस्वतः कविः। धर्मस्तां च पुपूरेऽसौ वारानष्टोत्तरं शतम् ॥ २९१ ॥ तासामेकापि निर्दोषा न विद्वच्चित्तहारिणी। पुपूरे चांत्यवेलायामित्थं तेन मनीषिणा ॥ २९२॥ इयं व्योमांभोधेस्तटमिव जवात्प्राप्य पतनं निशांतो विश्लिष्टा घनघटितकाष्ठा विघटते ॥ २९३ ॥ इति समस्या. १H लिंगत्वा. २ P विरत्युक्तं. ३ H संमार्ज. ४ D. एलो. ५ D. रुरं H. क्लते ? ६ P. शिशानौ D शिशोनौविश्लिष्यद्. Page #251 -------------------------------------------------------------------------- ________________ श्रीमहेन्द्रसूरिप्रबन्धः। २४३ वणिग्वक्रानंदत्विर्षि शकुनिकोलाहलगणे । निराधारास्तारास्तदनु च निमजति मणयः ॥ २९४॥ अतिश्रुतिकटुत्वेन चंद्रास्तवर्णनेन च । न्यूनोक्तिदूषणाच्चापि साम्यैषापि मानिता ॥ २९५॥ ततो वज्रं समस्यायाः पतत्विति च सोऽवदत् । विलक्षो जयभग्नाशः स मिथ्याडंबरः कविः ॥ २९६ ॥ ततः श्रीधनपालेनापूरि विद्वन्मनोहरा । अनायासात्समस्येयं यतोऽस्यैतत्कियत्किल ॥ २९७ ॥ असावप्यामूलत्रुटितकरसंतानतनिकः प्रयात्यस्तं प्रस्तासितपट इव श्वेतकिरणः॥ २९८॥ भग्नो मग्नः पराभूतिवारिधौ बोधितस्ततः। . तरंडाद्धर्म उद्दभ्रे कवींद्रेणेति गाथया ॥ २९९ ॥ आसंसारं क इव पुणवेहिं पइदि यहगहियसारोवि । अजवि अभिन्नमुद्दोव्वजयइ वायापरिप्फदो ॥ ३००॥ ततः श्रीभोजराजोऽपि कृतीशानुमतस्तदा। यच्छ धर्मस्य वित्तस्य लक्षं तेनेत्यवाद्यत ॥ ३०१॥ तद्यथां-ब्रह्मांडोदरकोटरं कियदिदं तत्रापि मृद्गोलकं पृथ्वीमंडलसंज्ञकं कुपतयस्तत्राप्यमी कोटिशः। तत्रैके गुरुगर्वगद्गदगिरो विश्राणयंत्यार्थिनां हा हा हंत वयं तु वज्रकठिनास्तानेव याचेमहि ॥ ३०२॥ न ग्रहीष्ये ततो वित्तमसारकमशाश्वतम् । अभिमाने हृते जीवे पुरुषः शवसंनिभः ॥ ३०३॥ स आह कविरेकोऽपि धनपालो धियां निधिः। इति प्रतीतं मच्चित्ते बुधो नास्ति नु निश्चितम् ॥ ३०४॥ सविस्मयं ततः प्राह सिद्धसारस्वतः कविः। नास्तीति नोच्यते विद्वन् रत्नगर्भा वसुंधरा ॥ ३०५॥ अणहिल्लपुरे श्रीमान् शान्तिसूरिः कृतीप्रभुः। जैनः ख्यातत्रिभुवने बुधस्त्वमवलोकय ॥ ३०६॥ स्नेहाद्विसर्जितो राज्ञा वादीशेनाप्यसौ ततः। विजये तस्य भग्नाशो व्यमृशन्मानसांतरा ॥ ३०७॥ अद्य पूर्व न केनापि स्खलितं वचनं मम । ईदृग्मम वचो हंता साक्षागाह्मी नतु द्विजः ॥ ३०८॥ १H क्रंदनविधि. २ H P. वरी. Page #252 -------------------------------------------------------------------------- ________________ प्रभावकचरिते प्रयाणं सुंदरं तस्माडुधालोकमिषादतः । ध्यात्वेति गुर्जरं देशं प्रति प्रस्थानमातनोत् ॥ ३०९ ॥ प्रातः संसदि भूपालस्तमाह्वस्त विशारदम् । नास्तीति च परिज्ञाते धनपालः कविर्जगौ ॥ ३१० ॥ धर्मो जयति नाधर्म इत्यलीकीकृतं वचः । इदं तु सत्यतां नीतं धर्मस्य त्वरिता गतिः ॥ ३११ ॥ राजा प्राह यथा जीवं विनांगेऽवयवान्विते । सत्यपि स्यान्न सामर्थ्यमुत्तरेऽपि परागतैः ॥ ३१२ ॥ तद्वदेकं विना मित्रं धनपालं कृतिप्रभुम् । मूके च धर्मसंवादे सभा तेन विनाकृता ॥ ३१३ ॥ तस्मात्स एव मत्पार्श्व शृंगारयतु सर्वदा | श्रुत्वेति धनपालोऽपि तुष्टः सन्मानतः प्रभोः ॥ ३१४ ॥ यथा स पत्तनं प्राप्तो जितः श्रीशांतिसूरिभिः । बुद्धास्ते मानितास्तेन तज्ज्ञेयं तच्चरित्रतः ॥ ३१५॥ इतश्च शोभनो विद्वान् सर्वग्रंथमहोदधिः । यमकान्विततीर्थेशस्तुतिं चक्रेऽतिभक्तितः ॥ ३१६॥ तदेकध्यानतः श्राद्ध त्रिर्भिक्षया ययौ । पृष्टः श्राविकया किंतु विरागे हेतुरत्र कः ॥ ३१७ ॥ स प्राह चित्तव्याक्षेपान जाने स्वगतागते । श्राविकः स्यात्परिज्ञाते गुरुभिः पृष्ट एष तत् ॥ ३९८ ॥ स प्राह नस्तुतिद्ध्याना जानेऽपश्यदहो गुरुः । तत्काव्यान्यथ हर्षेण प्राशंसत्तं चमत्कृतः ॥ ३१९ ॥ तदीयदृष्टसंगेन तत्क्षणं शोभनो ज्वरात् । आससाद परं लोकं संघस्याभाग्यतः कृती ॥ ३२० ॥ तासां जिनस्तुतीनां च सिद्धः सारस्वतः कविः । arai चकार सौंदर्य स्नेहं चित्ते वहन् दृढम् ॥ ३२९ ॥ आयुरंतं परिज्ञाय कोविदेशो ऽन्यदा नृपम् । आपृच्छत परं लोकं साधितुं गुरुसंनिधौ ॥ ३२२ ॥ श्रीमन्महेंद्रसूरीणां पादांभोजपुरस्सरम् । तनुं समलिखनेहिधर्म एव स्थितः सदा ॥ ३२३ ॥ उग्रेण तपसा शुद्धदेहः क्षिप्तांतरद्विषन् । सम्यक्त्वं निरतीचारं पालयन्नालये गुरोः ॥ ३२४ ॥ १ P गतौ. २ D किंत्वात्रि. P किंत्वत्रिरागा. २४४ Page #253 -------------------------------------------------------------------------- ________________ श्रीसूराचार्यप्रबन्धः । २४५ तिष्ठनिर्याप्यमानस्य स्थविरैः श्रुतपारगैः। अन्ते देहं परित्यज्य श्रीसौधर्ममशिश्रयत् ॥ ३२५ ॥ युग्मम् । गुरवोऽपि तदा तस्य दृष्टा छेकत्वमद्भुतम् । लोकद्वयेऽपि संन्यासपूर्व तेऽपि दिवं ययौ ॥ ३२६ ॥ श्रीमन्महेंद्रगुरुदीक्षितशोभनस्य प्रज्ञाधनस्य धनपालकवेश्च वृत्तम् । श्रीजैनधर्मदृढवासनया लभंतां भव्यास्तमस्ततिहरं ननु बोधिरत्नम् ॥ ३२७॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभुः श्रीप्रभा चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ वृत्तं महेंद्रप्रभोः . श्रीप्रद्युम्नमुनींदुना विशदितः शृंगो मुनींदुप्रम ॥ ३२८ ॥ श्रीदेवानंदसूरिर्दिशतु मदमसौ लक्षणाद्येन हैमादुद्धृत्यप्राज्ञहेतोर्विहितमभिनवं सिद्धसारस्वताख्यम् । शाब्दं शस्त्रं यदीयान्वयकनकगिरिस्थानकल्पद्रुमश्च श्रीमान्प्रद्युम्नसूरिर्विवदयति गिरं नः पदार्थ प्रदाता ॥ ३२९॥ इति श्रीमहेंद्रप्रभसूरिप्रबंधः ॥ ग्रंथ. ३६१ अ० २६ उभयं ४००८. श्रीसूराचार्यप्रबन्धः ॥ सूराचार्यः श्रिये श्रीमान् सुमनःसंघपूजितः। यत्प्रज्ञया सुराचार्यो मात्राधिकतया जितः॥१॥ सूराचार्यप्रभोरत्र ब्रूमः किं गुणगौरवम् । येन श्रीभोजराजस्य सभा प्रतिभया जिता ॥ २॥ चरित्रं चित्रकृत्तस्य सुधीहृद्भित्तिषु स्थितम् । ज्ञात्वा वर्णाजवलं व्याख्यायते स्थैर्याय चेतसः ॥३॥ अणहिल्लपुरं नाम गुर्जरावनिमंडलम्। अस्ति प्रशस्तिवत्पूर्व भूपालनयपद्धतेः॥४॥ प्रतापाक्रांतराजन्यचक्रं चक्रेश्वरोपमः। . श्रीभीमभूपतिस्तत्राभवदुःशासनार्दनः॥५॥ शास्त्रशिक्षागुरोोणाचार्यः सत्याक्षतव्रतः। अस्ति क्षात्रकुलोत्पन्नो नरेंद्रस्यास्य मातुलः ॥६॥ तस्य संग्रामसिंहाण्यभ्रातुः पुत्रो महीपतिः। महीपाल इति ख्यातः प्रज्ञाविजितवाक्पतिः॥७॥ १H. उभयं ४०८८. २ H. omits sts २-३. Page #254 -------------------------------------------------------------------------- ________________ २४६ प्रभावकचरिते तत्तातेऽस्तं गते दैवाद्वाल्य एव प्रभोः पुरः । तन्माता भ्रातृपुत्रं खं प्रशाधीति प्रभुं जगौ ॥ ८॥ निमित्तातिशयाज्ज्ञात्वा तं शासनविभूषकम् । आदराजगृहुर्भ्रातृजायां संतोपवाग्भरैः ॥९॥ शब्दशास्त्रप्रमाणानि साहित्यागमसंहिताः। अमिलन्स्वयमेवास्य साक्षिमात्रे गुरौ स्थिते ॥ १० ॥ स्नेहादेव गुरोः पार्श्वममुश्चन् जगृहे व्रतम् । खपट्टे स्थापयन्मंक्षु तादृशा नोचितांतिगाः ॥११॥ वार्त्तमानिकशास्त्रांभोरुहाभासनभानुमान् । जनाशानतमश्छेदी सूराचार्यः स विश्रुतः ॥ १२॥ अथ श्रीभोजराजस्य वाग्देवीकुलसनः । कलासिंधुमहासिंधोर्विदल्लीलामहौकसः ॥१३॥ प्रधाना आजग्मिवांसः श्रीभीमनृपपर्षदम् । गाथामेकामजल्पच्च निजनाथगुणोद्धृताम् ॥ १४ ॥ युग्मम् । तथाहि-हेलानिद्दलियगइंदकुंभपडियपयावपसरस्स । सीहस्समयणसमंनिदिग्गहो नेयसंधाणं ॥१५॥ हेलया तवज्ञाय तेषां सन्मानमादधे । आवासभुक्तिवृत्त्यायैर्भूपस्थानं च ते ययुः ॥ १६ ॥ गतेषु तेषु भूपालः स्वप्रधानानिहादिशत् । शोध्यः प्रत्युत्तरार्यायै विपश्चित्कश्चिद्भुतः॥१७॥ स्वस्वमत्यनुमानेन प्रत्यार्याः कविभिः कृताः। न चमत्कारिणी राज्ञस्तासामेकापि चाभवत् ॥ १८ ॥ सर्वदर्शनिशालासु चतुष्के चत्वरे त्रिके। हर्म्यचैत्येषु गच्छन्ति ततः प्रेक्षाकुतूहलात् ॥ १९ ॥ श्रीमद्गोविंदसूरीणां चैत्ये ते चान्यदाययुः। तदा पर्वणि कुत्रापि तत्रासीत्प्रेक्षणक्षणः ॥२०॥ अंगहारप्रकारैश्च त्रिपताकादिहस्तकैः। तत्र ननर्ति लास्येन तांडवेन च नर्तकी ॥ २१ ॥ आतोद्यतालसंवादसंपन्नविषमासनैः । श्रांताश्लक्ष्णोपलस्तंभं स्पर्श स्रक्षणवन्मृदुम् ॥ २२॥ आशिश्लेष नटीस्वेदहृतये पवनार्थिनी। तत्काठिन्यप्रकर्षस्य द्रावणायेव निर्भरम् ॥ २३ ॥ युग्मम् । १६ ता गिरः. २ D. सत्तम. Page #255 -------------------------------------------------------------------------- ________________ श्रीसूराचार्यप्रबन्धः । व्यजिज्ञपन् विशिष्टाश्च श्रीगोविंदाय सूरये । इमामीहगवस्थानां वर्णयध्वं प्रभो स्फुटम् ॥ २४॥ सूराचार्य च तत्रस्थं तदुत्कीर्तनहेतवे । तं तदा दिदिशुः पूज्यास्तत्क्षणाच्चाथ सोऽब्रवीत् ॥२५॥ तद्यथा-यत्कंकणाभरणकोमलबाहुवल्लि___ संगात्कुरंगकदृशोर्नवयौवनायाः। न स्विद्यसि प्रचलसि प्रविकंपसे त्वं तत्सत्यमेव दृषदा ननु निर्मितोऽसि ॥२६॥ तत्कालं ते नृपायेदं गत्वा हृष्टा व्यजिज्ञपत् । गोविंदाचार्यपार्श्वेऽस्ति कविः प्रत्युत्तरक्षमः॥२७॥ भूपालः प्राह सौहार्दभूमिः सूरिरसौ हि नः । समानयत सन्मान्यं सकवित्वं गुरुं ततः ॥२८॥ आदेशानंतरं ते श्रीगोविंदस्याश्रयं ययुः। आजूहवंस्ततःसोपि भूपसंसदमाययौ ॥२९॥ सूराचार्य च पाच ऽस्य दृष्ट्वा भूपाप्रमोदभूः। मन्मातुलस्य पुत्रोऽसौ संभाव्यं सर्वमत्र तत् ॥ ३०॥ आशीर्वाद्योपविष्टस्य सूरि पार्ह आसने श्रीभोजप्रहितां गाथां विद्वद्भिः श्रावितस्ततः॥३१॥ तदनंतरमेवाथ सूराचार्य उवाच च। कोऽवकाशो विलंबस्य तादृक्पुण्योदये सति ॥३२॥ तथाहि-अंधय सुयाणकालोभीमोपुहवीमिम्भिइ विहिणा । जेण संयपि न गणियं का गणणा तुज्श इक्कस्स ॥ ३३ ॥ इत्यर्थ भीमभूपालः श्रुत्वा रोमांचकंचुकी। धाराधिपप्रधानानां हृतं प्राजीहयत्करे ॥३४॥ श्रीभोजस्तां प्रवाच्य विममर्शति चेतसि । ईदृक्तविभवो देशः स कथं परिभूयते ॥ ३५॥ सूरिः श्रीभीमराजेन सन्मान्येन व्यसृज्यत । किं कुर्यात् त्वयि पार्श्वस्थे श्रीभोजे विदुषां निधिः ॥ ३६ ॥ अन्यदा गुरुभिः शिष्योऽध्यापनेऽसौ न्ययोज्यत । कारयति गुणा वप्रप्रतिष्ठां पुरुषाकृतेः ॥ ३७॥ कुशाग्रीयमतिः शास्त्ररहस्यानि पटुप्रभुः । तथा दिशति जानंत्येकशः श्रुत्वापि ते यथा ॥ ३८ ॥ तारुण्यवयसा प्रज्ञापाटवेनाधिकेन च । किंचिदृप्तः स्वशिष्याणां कुप्यत्यनवगच्छताम् ॥ ३९ ॥ Page #256 -------------------------------------------------------------------------- ________________ २४८ प्रभावकचरिते ततस्तान् शिक्षयन्नेकां रजोहरणदंडिकाम् । नित्यं भनक्ति कोपारिस्तादृशानपि गंजयेत् ॥ ४०॥ एकदा त्ववलेपोऽपि स्वजातीयसहायताम् । कर्तुमत्राययौ स्वीयानुपदीनोतको भवेत् ? ॥४१॥ वैयावृत्त्याकरं स्वीयं खिन्नस्तन्नित्यभंगतः। आदिशइंडिकालोहा कार्यास्माकं रजोहतौ ॥४२॥ छात्रा वित्रासमापन्नाः खिन्नचित्ततनूभृतः। उपाध्यायात्कथंचित्ते वासरं निरयापयन् ॥४३॥ आवश्यकविधेः शास्त्रगुणनाच्चानु ते ततः। अर्द्धरात्रिककालस्यावसरेऽपि विनिद्रकाः॥४४॥ ज्येष्ठप्रभुक्रमांभोजसेवाहेवाकिनस्ततः। नत्वा व्यजिज्ञपन्विश्रमयंतश्चरणद्वयम् ॥ ४५॥ शरण्यं शरणायाता अश्रांतस्रवदश्रवः । शिरोभेदमृते भीता उपाध्यायस्य चेष्टितम् ॥ ४६॥ त्रिभिर्विशेषकम्. श्रुत्वा प्रभुभिरादिष्टं वत्साः स्वच्छाशयस्य तु । एष वोऽह्नाय पाठाय त्वरते नतु वैरतः॥४७॥ यदयोमयदंडस्य सोर्थी तद्धि विरुध्यते । शिक्षिष्यते तथायं वो नाचरेद्विद्रवं यथा ॥४८॥ इत्थमाश्वासितास्ते च स्वस्वस्थानण्वसूषुपन् । सूराचार्योऽपि तत्रागाच्छुश्रूषाहेतवे प्रभोः ॥४९॥ ददे कृतककोपात्तैर्वदने नानुवंदना । अप्रसादे ततो हेतुं पप्रच्छाह प्रभुः पुनः ॥ ५० ॥ लोहदंडो यमस्यैवायुधं नहि चरित्रिणाम् । घटते हिंस्रवस्तु स्यात्तथैव तु परिग्रहे ॥५१॥ आद्योऽपि कोऽप्युपाध्यायः पाठको न शिशुबजे । अहो ते स्फुरिता प्रज्ञा पुंसां हृदयभेदिनी ॥५२॥ श्रुत्वेति व्यकुशच्छात्रवर्गादयमुपद्रवः। उत्तस्थे च प्रभोरग्रेऽवादीत्सविनयं वचः॥ ५३॥ पूज्यहस्तसरोजेन मौलौ किं व्यलसन्मम । एवं निस्त्रिंशता शंका मयि यूयं व्यधत्त किम् ॥ ५४ ॥ काष्ठदंडिकया देहे प्रहारो दीयते यथा । न तथा लोहदंडेन ज्ञापनैव विधीयते ॥ ५५॥ १ D. 'मोनको'. निस्पृशता. Page #257 -------------------------------------------------------------------------- ________________ श्रीसूराचार्यप्रबन्धः । २४९ मद्गुणा यद्यमीषां स्युरिति चिंता ममाभवत् । घेतपूर्णाश्चपलकैर्न स्युः सत्यमिदं वचः॥५६॥ अथ ज्यष्ठप्रभुः प्राह सर्वेषां गुणसंहतिः। कोट्यंशेनापि नास्त्यत्र को मदस्तहुणेषु भो ॥ ५७ ॥ इत्याकर्ण्य ततः सूराचार्यप्राज्यमतिस्थितिः । प्राह नाहं कृतोहं को गर्वो ऽनतिशयस्य मे ॥ ५८ ॥ अभिसंधिर्ममायं तु चेन्मया पाठिता अमी। व्यहृत्य परदेशेषु जायंते वादिजित्वराः ॥ ५९॥ पूज्यानां किरणा भूत्वा जनजाड्यहृतौ ननु । युष्माकं सोऽपि शृंगार उन्नतिर्जिनशासने ॥ ६०॥ गुरवः प्राहुरुत्तानमते बालेषु का कथा। किमागच्छसि लग्नस्त्वं कृतभोजसभाजयः॥६१॥ श्रुत्वेत्याह स चादेशः प्रमाणं प्रभुसंमितः। आदास्ये विकृतीः सर्वाः कृत्वादेशममुं प्रभोः ॥ ६२ ॥ इत्युक्त्वा निजसंस्तारेऽक्षिपत्लेक्षणं ततः। सामर्षः सूरिशार्दूलः शार्दूलः श्रस्तफालवत् ॥ ६३ ॥ प्रातः कृत्वा त्ववादीत्सोऽनध्यायोद्यास्तु पाठने । शिशुत्वाजहृषुः शिष्या महोत्सव इवागते ॥ ६४॥ मध्याह्ने शुद्धमाहारमानीय यतिमंडले। .. मिलिते सूरसूरि तमाह्वाययत सहरुः ॥६५॥ आययौ परिविष्टे स गृह्णाति विकृति नहि । अनुनीतोऽपि गीतार्थः पूज्यैरप्युदिते दृढम् ॥६६॥ अमुञ्चन्नाग्रहं संघे नाप्युक्ते इदमभ्यधात् । मम प्रतिश्रवो हंता नाश्रवो मोच्यतां पुनः ॥ ६७॥ भणिष्यथाथ चेत्किचित्तन्ममानशनं ध्रुवम् । ततः संवाहयामास गीताथैः सह साधुभिः ॥ ६८॥ तत उत्संगमारोप्य शिशिक्षे तैरसौ सुधीः। परदेशे विहर्ता च वत्स भूयात्सचेतनः॥६९॥ शास्त्रं वंशो जातिप्रज्ञाकुलमा(लानणु)संयमाः। संति जयिनश्च यमा नियमास्तथापि यौवनमविश्वास्यम्॥७०॥ इति पूज्योपदेशश्रीशंगारैः स तरंगितः । मानयन स्वान्यदेशीयलब्धवस्तपस्विनः ॥ ७१ ॥ ततः श्रीभीमभूपालपृच्छायै राजसंसदम्। संप्राप गुर्वनुज्ञातो राज्ञां ज्ञातः पुरापि यः॥ ७२॥ १ H. मृद्गु०..२ H. मृतप्० ३ H. ननिशथस्य. Page #258 -------------------------------------------------------------------------- ________________ २५० प्रभावकचरिते सुवर्णमणिमाणिक्यमये पीठे च भूपतिः । न्यवेशयहुधं बंधुं हेमात्यसौरभाद्भुतम् ॥ ७३ ॥ तदा च मालवाधीशविशिष्टा पुनराययुः। खरूपं निजनाथस्य भूपालाय व्यजिज्ञपन् ॥ ७४ ॥ देव त्वद्विदुषां प्रज्ञाप्रातिभै रंजितो नृपः। श्रीभोजः सम्यगुत्कंठां तेषु धारयते प्रभुः ॥ ७५ ॥ ततः प्रहिणुत प्रेक्षादक्षनाथ प्रसद्य तत्। अन्योन्यं कौतुकं विद्वद्भूभृतां विद्यते यथा ॥ ७६ ॥ राजा प्राह महाविद्वानास्ते मद्धांधवो नवः । परदेशे कथं नाम प्रस्थाप्योऽसौ स्वजीववत् ॥ ७७ ॥ प्रतिपत्तिं ममेवास्य चेद्विधत्ते भवत्पतिः । प्रवेशादिषु मानं च स्वयं दत्ते तदस्तु तत् ॥ ७८ ॥ सूराचार्योऽपि दध्यौ च तोषाद्भाग्यमिहोदितम् । मम पूज्यप्रसादेन यत्तस्याह्वानमागमत् ॥ ७९ ॥ अथाह भूपते धाराधिनाथ कृतिना मया ।। गाथाया कविता दृष्टा तत्रोत्तरमदामहम् ॥ ८० ॥ शमिनां कौतुकं किं न विचित्रे जगति ध्रुवम् ।। श्रीमद्भोजस्य चित्रार्थ गम्यते तदनुज्ञया ॥ ८१ ॥ राजाह तत्र मद्भाता त्वं किं तं वर्णयिष्यसि । स प्राहाहं मुनिभूपं कुतो हेतोः स्तुवे ततः॥ ८२॥ ऊरीकृते प्रधानैश्च तत्र मालवभूपतेः। प्रयाणायानुजज्ञे तं विशेशं भीमभूपतिः ॥ ८३ ॥ गजमेकं ततः प्रेषीत्सप्तीनां शतपंचकम् । पदातीनां सहस्रं च संबंधौ भक्तिनिर्भरैः॥ ८४ ॥ शुभे मुहूर्ते नक्षत्रवारग्रहबलान्विते । चरे लग्ने ग्रहे क्रूरे तत्रस्थे शुभवीक्षिते ॥ ८५॥ गुरुसंघाभ्यनुज्ञातो बहिः प्रस्थानमातनोत् । पंचमेऽह्नि प्रयाणं च चके वक्रेश्वराकृतिः ॥८६॥ युग्मम् । ततः प्रेयाणकस्तोकमेवासौ गुर्जरावनेः। संधिक्षोणिमवाप्याथ ससज स च सजयः॥ ८७॥ धाराधिरूढप्रज्ञाभूर्धारापुरमवाप्तवान् । प्रधानश्च प्रतिज्ञातं ज्ञापितः स्वप्रभुस्ततः ॥ ८८ ॥ युतः सर्वर्द्धिसामग्रया सैन्यमान्यमदैन्यभूः। अवंतिनायकः सजयितास्याभिमुखोऽचलत् ॥ ८९ ॥ १ D हेमान्यत्. २ D संबद्धौ. ३ प्रयाणं क०४H Pततः.. Page #259 -------------------------------------------------------------------------- ________________ श्रीसूराचार्यप्रबन्धः। २५१ दंताथलैः कलेविन्ध्य इव पर्यंतपर्वतैः। रथैर्ध्वनिप्रथैरभैरदभैरभ्रवड्यभात् ॥ ९०॥ शोभमानो वराश्वीयैः कल्लोलैरिव वारिधिः। पदातिराजभिाजद्राजा राजेव तारकैः॥९॥ त्रिभिर्विशेषकम् राजा मान्योपरोधेन व्रताचारव्यतिक्रमे । प्रायश्चित्तं चिकीर्षुश्चित्ते सूरिरारूढवान्गजम् ॥ ९२॥ दृग्गोचरे करिस्कंधात्तावुत्तीर्य स्थितौ भुवि । राजा च मुनिराजश्च मिलितो भ्रातराविव ॥९३॥ देशागतमहाविद्वदुचितं नृपकोशतः। प्रवालकमयं पढें तध्यक्षः समानयत् ॥ ९४॥ नियुक्तैश्चाथ तैः स्थूलवेष्टनेभ्यो विवेष्ट्य च । कंबिकाहस्तमानेन दैर्ध्यविस्तारयोः समः ॥ ९५॥ अष्टांगुलोच्छ्रयः सूर्यबिंबवत्तेजसा दृशाम् । दुर्दशाः शुद्धभूपीठे व्यमुंचत नृपाज्ञया ॥९६॥ अत्राध्वमिति भूपालानुज्ञाताः प्रत्यलेखयन् । ते रजोहरणात्रि(त्र)स्त्वं तत्रोपविविशुस्ततः ॥९७ ॥ अथ श्रीभोज आह स्मो रणलोमालिपिच्छकान् । किंतु प्रमार्जितं रेणु जीवा चात्र न संति किम् ॥९८॥ उपविष्टस्ततः सूरिः कंपमानशरीरकः ।। राज्ञा पृष्टः कथं कंपो जशेऽथ प्राह सोऽप्यथ ॥ ९९ ॥ राजपत्नीविकाशस्त्रिहस्तान् वीक्ष्य बिभेम्यहम् । राशोचेऽसौ स्थिती राज्ञां सप्रहासौ व्रतस्थितिः ॥ १००॥ अस्त्वेवमिति राज्ञोक्ते सजैनीमाशिषं ददौ । भूपालायोत्तरस्थैयेहर्षिताय कलानिधिः ॥ १०१॥ हुत्वा मंत्री विधाता लवणमुडुगणं साध्य तेजः कृशानौ धात्रीपात्रं विमोच्य द्विजनिनदमहामंत्रघोषेण यावत् । आदायेदं घरह कृषति मुहुरुषा शाकिनी ताम्रचूडध्वानं तावजयत्वं वसुमति सुमनोमंडले भोजराज ॥१०२॥ परस्परं प्रशंसाभिर्निर्गम्यकमपि क्षणम् । राज्ञा स्वमंदिरं प्राप सूरिः पुर्यंतरीयिवान् ॥ १०३॥ मध्यनगरि तत्रास्ति विहारोहारवक्षिते ।। जनाद्विज्ञाय तत्रायात्सूराचार्यः कैलानिधिः ॥ १०४॥ सुवर्णमणिमाणिक्यपूजाभिः प्रसरत्प्रभाः। प्रतिमा वीतरागाणां ववंदे भक्तिनिर्भरम् ॥ १०५॥ १D P मो. २ D. P. चार्यक. Page #260 -------------------------------------------------------------------------- ________________ २५२ प्रभावकचरिते लुठत्पाठाकपाठाप्तिकर्मठा शठपंडिते (?)। प्रणष्टबठरे प्रायान्मठे निष्ठितकल्मषः॥१०६ ॥ तत्र चूडसरस्वत्याचार्योऽनार्यतमोर्यमा। अस्ति प्रशस्तिर्यस्यास्ति विश्वविद्वन्मुखे सदा ॥ १०७॥ सर्वाभिगमपूर्व च प्राणतस्तैः प्रभुर्मुदा । तच्छिष्याः प्रणमंतामुं सौवागतिकवाणयः ॥ १०८॥ तैस्तथातिथयो नैव गोचरे प्रहितास्तथा । आनीय शुद्धमाहारं भोजिता भक्तिपूर्वकम् ॥ १०९ ॥ साधम्मिकनृपश्राद्धकुशलप्रश्नकेलिभिः। अपराह्नेऽभवत्तेषां परितोषभरालघुः ॥ ११०॥ अवलेपश्च भूपस्य प्रभूतातिशयादभूत् । तदा कदाचिदंभोजादपि कीटः प्रजायते ॥ १११ ॥ असौ षडपि संमील्य दर्शनानि तदा भणन् । भवद्भिाम्यते लोकः पृथगाचारसंस्थितैः ॥ ११२ ॥ तस्मात्सर्वेऽपि संगत्य दर्शनस्य मनीषिणः। कुरुध्वमेकमेवेदं संदिहाम यथा नहि ॥ ११३ ॥ विज्ञप्तं मंत्रिमुख्यैस्तु भूपः प्राच्योऽपि कोऽपि नः । समर्थोऽपि विधातासीदीदृक्षस्येह कर्मणः ॥ ११४ ॥ भूपतिं प्राह किं कोऽपि परमारान्वये पुरा।। आसीत्स्वशक्तितो भोक्ता सगौडं दक्षिणापथम् ॥ ११५॥ तूष्णीकेष्विति विश्रुत्य तेषु भूपो निजैनरैः । समपिंडयदेकत्र वाटके तान् पशूनिव ॥ ११६॥ सहस्रसंख्यया तत्र पुंसः स्त्रीरपि चानयत् । भोक्तुं नादाच सर्वेषामैकमत्या चिकीर्षया ॥ ११७॥ अनादिसिद्धशास्त्रौघप्रमाणैश्च निजैनिजैः । गतिरेकः कथं तेषां धान्येष्वेको यथा रसः ॥ ११८ ॥ क्षुधाबाधापरीणामादैकमत्यं त्वजायत । जीवो निजः कथं रक्ष इति चिंतामहाज्वरे ॥ ११९ ॥ तन्मध्ये दर्शनस्थित्या सूराचार्योऽपि चागमत् । सर्वैरैक्येन सोऽभाणि सांत्वनापूर्वकं तदा ॥ १२०॥ भूपालः काल एवायं य एवं दर्शनबजे। ऐक्यबुद्धिं विधित्सुस्तन्न भूतं न भविष्यति ॥ १२१ ॥ भवतो गुर्जराच्छेकवाक्प्रपंचेन केनचित् । १H. ना. Page #261 -------------------------------------------------------------------------- ________________ - श्रीसूराचार्यप्रबन्धः । २५३ निवर्तयध्वमेनं कुविकल्पादमुतो दृढात् ॥१२२॥ 'परं सहस्रलोकानां भवंतः प्राणदानतः। उपार्जयध्वमत्युग्रं पुण्यं यद्गणनातिगम् ॥ १२३॥ सूराचार्यस्ततः प्राहातिथीनां नः किमागतो। कार्य भवेन्महीशोऽपि न नः प्रतिवदेत्किमु ॥ १२४ ॥ परंतु दर्शनश्रेणिराराध्यानादिपद्धतिः। तदुक्तोपक्रमं किंचित्करिष्यामो विमोचकम् ॥ १२५ ॥ अमात्यपार्श्वतो भूपपुरतोऽख्यापयद्गुरुः। आयातयातमस्माकं नृपेण सहसाग्रतः॥१२६॥ परं दर्शनिलोकानां बहूनामनुकंपया। किंचिद्वदामि चेद्भूपोऽवधारयति तत्त्वतः॥ १२७॥ राजापि शीघ्रमायातु गूर्जरः कविकुंजरः। इत्युक्ते मंत्रिभिःसार्ध स ययौ राजमंदिरम् ॥ १२८ ॥ अवदद्भूपतेऽभ्यागतानामातिथ्यमद्भुतम् । उचितं विदधे सम्यक् भूप एव तपस्विनाम् ॥ १२९ ॥ परं ततः कथं कार्य दर्शनानि धृतानि यत् । तत्तु दूयेत तेनैव वयं यामो भुवं स्वकाम् ॥ १३० ॥ तत्रापि हि गताः किंतु स्वरूपं कथयाम हो । धारापुरश्च संस्थानं पृच्छामो भवदंतिके ॥१३१॥ राजाहाभ्यागतानां वो नाहं किमपि संमुखम् । भणाम्येषां तु पार्थक्ये हेतुं पृच्छामि निश्चितम् ॥ १३२॥ स्वरूपं मत्पुरो यूयं शृणुताव्यग्रचेतसः। चतुर्भिरधिकाशीतिः प्रासादानामिह स्थिताः॥१३३॥ चतुष्पथानि तत्संख्यानि च प्रत्येकमस्ति च । चतुर्विशतिरट्टानामेवं पुरि च सूत्रणा ॥ १३४ ॥ सूरिः प्राहैकमेकांतं कुरु किं बहुभिः कृतैः। एकत्र सर्व लभ्यत लोको भ्रमति नो यथा ॥ १३५ ॥ राजाऽवदत्पृथग्वस्त्वर्थिनामेकत्र मीलने । महाबाधा ततश्चके पृथर हट्टावली मया ॥१३६॥ इत्याकावदत्सूरि रिर्वतृत्वकेलिषु । विद्वानपि महाराज विचारयसि किं नहि ॥१३७॥ स्वकृतान्यपि हट्टानि भतं न क्षमसे यदि । अनादिदर्शनानि त्वं कथं ध्वस्तुं समुद्यतः ॥ १३८ ॥ १ H. तप० D. कूप. २ P. महि D. ये मयि. ३ P. अभानि D. अमानिन्व. 22 Page #262 -------------------------------------------------------------------------- ________________ २५४ प्रभावकचरिते दयार्थी जैनमास्थेयाद्रसार्थी कौलदर्शनम् । वेदांश्च व्यवहारार्थी मुक्तयर्थी च निरंजनम् ॥ १३९ ॥ चिरप्ररूढचित्तस्थावलेपैः सकलो जनः । एकः कथं भवेत्तस्मान्महीपाल विचिंतय ॥ १४० ॥ श्रुत्वेति भ्रष्टकुग्राहावलेपो भूपतिस्तदा । संमान्य भोजयित्वा च दर्शनान्यमुचदृते ॥ १४१ ॥ अवस्थेयं भवद्भिश्च सांगत्याग्रहमाह्वयम् । इत्थं बहुमतो गच्छ निजं सूरिरुपाश्रयम् ॥ १४२ ॥ तत्र व्याकरणं श्रीमद्भोजराजविनिर्मितम् । तच्च विद्यामठे छात्रैः पठ्यतेऽहनिशं भृशम् ॥ १४३ ॥ मिलंति सुधियः सर्वे तत्र कारणमागमत् । तत्र प्रचलितः सूरिः श्रीमान् चूडसरखती ॥ १४४ ॥ सहिष्यामो वयमपि सुराचार्येण जल्पिते । गुर्जरावनिविद्वत्ता शंकया च न्यषेधितैः ॥ १४५ ॥ दर्शनार्थे परिश्रान्ता यूयमद्यावतिष्ठथ । सदोद्यतः पुनरसौ प्राह तत्प्रेक्षणोत्सुकः ॥ १४६ ॥ तारुण्ये कः श्रमो युष्मद्देशविद्वन्निरीक्षणे । कुतूहलाद्विहारो नः समागच्छाम एव तत् ॥ १४७ ॥ अथ तेऽप्यनुमन्तारः प्रतिषेधेन तान् सह । नीतवंतस्तदा पाठशालायां शंकितास्तदा ॥ १४८ ॥ उपाध्यायश्च तत्राहातिथयः कुत आययुः । ऊचे तत्र स्थिताचार्यैरणहिल्लपुरादिति ॥ १४९ ॥ विशेषसंभ्रमाच्चक्रे व्यापकः स्वागतादिकम् । उपवीविशदेषोपि प्रधानानि तद्वयम् ॥ १५० ॥ सूराचार्यस्ततः प्राह ग्रंथः कोऽत्र प्रवाच्यते । कृतिः श्रीभोजराजस्य शब्दशास्त्रं स चावदत् ॥ १५१ ॥ प्रोच्यतां तन्नमस्कार इत्युक्तेऽभ्यागतैर्बुधैः । उपाध्यायः सह छात्रैः पटुस्वरमुवाच तम् ॥ १५२ ॥ तद्यथा - चतुर्मुखमुखांभोजवनहंसवधूर्मम । मानसे रमतां नित्यं शुद्धवर्णा सरस्वती ॥ १५३॥ सूराचार्यस्ततः प्राह किंचिदुत्प्रासगर्भितम् । एवं जातीयविद्वांसो देशेऽत्रैव न चान्यतः ॥ १५४ ॥ अस्माभिर्भारती पूर्वमश्रावि ब्रह्मचारिणी । कुमारी सांप्रतं तत्र व्यपदिष्टा वधूरिति ॥ १५५ ॥ १ D. P. शि (श) श्वत् . Page #263 -------------------------------------------------------------------------- ________________ श्रीसूराचार्यप्रबन्धः। २५५ चित्रमश्रुतपूर्व तदन्यत्पृच्छामि किंचन । मातुलस्य सुता गम्या यथास्ते दक्षिणापथे ॥ १५६ ॥ सुराष्ट्रायां भ्रातृजाया देवरस्य यथोचिता । भवद्देशे तथा गम्याऽनुजांगजवधूः कथम् ॥१५७ ॥ यद्वधूशब्दसामीप्ये मानसे रमतां मम । प्रयुक्तं तद्भवंत्येव देशाचाराः पृथग्विधाः ॥१५८॥ अनुत्तरं प्रतिहतश्चालयन्नन्यसंकथाः । कालं विलंबयामासेष्टानध्यायकृतादरः॥ १५९॥ संध्यावसरसंप्राप्तः श्रीभोजनृपतेः पुरः। अपराह्नेतिवृत्तं स जगौ विस्मयकारकम् ॥ १६०॥ भूपश्च विस्मितः प्राह संभाव्यं गुर्जरावनौ । इदं प्रातर्विलोक्योऽसौ विद्वानाहूय निश्चितम् ॥ १६१॥ तत्रस्थाचार्यपार्श्वे च भूपालः प्रैषयनरान् । आह्वातुमतिथिं तं च भक्तिपूर्व तमाह्वयत् ॥ १६२ ॥ ततश्चूडसरस्वत्याचार्येण सह स प्रभुः। ययौ श्रीभोजभूनाथसभां स्वर्गसभानिभाम् ॥ १६३॥ राज्ञा नृपांगणाग्रे च शिलैका निहिता तदा। गूर्जराने निजप्राणस्फूर्तिदर्शनहेतवे ॥ १६४ ॥ तत्र पूर्ण पुनश्छिद्रं प्रार विधाप्य विधाय च । तद्वर्णसमकल्केन तादृशोपि छलार्थिनः॥ १६५॥ युग्मम् । आगच्छन्तं तदालोक्य सूरीश्वरमिलापतिः। आकणे धनुराकृष्यामुचल्लक्षे दृशं दधन् ॥ १६६ ॥ सूराचार्यश्च सूक्ष्मक्षी कल्कालेपं तटस्थितम् । बाणाग्रोत्कीर्णमालोक्य गर्भार्थ काव्यमब्रवीत् ॥१६७॥ तथाहि । विद्धा विद्धा शिलेयं भवतु परमतः कामुर्कक्रीडितेन श्रीमत्पाषाणभेदव्यसनरसिकतां मुंच मुंच प्रसीद । वेधे कौतूहलं चेत्कुलशिखरिकुलं बाणलक्षीकरोषि ध्वस्ताधाराधरित्रीनृपतिलकतदायाति पातालमूलम्॥१६८॥ इत्थमद्भुतसामर्थ्यवर्णनात्तोषितो नृपः। अधृष्यप्रज्ञमेनं श्रीधनपालोपि बुद्धवान् ॥ १६९॥ व्यचिंतयच्च वुद्धिं च विज्ञानं भूपतेरियम्। गर्भितोक्तिरहो जैना जीयंते केन मेधया ॥ १७० ॥ निजाश्रयं ययौ श्रीमान् सूराचार्यों नृपार्चितः । राजा स्थानमथास्थाय समस्तविदुषो वदन् ॥ १७१ ॥ १D P. ते...यन् । Page #264 -------------------------------------------------------------------------- ________________ २५६ प्रभावकचरिते गूर्जरोयं महाविद्वानाययौ श्वेतचीवरः। अनेन सार्ध कोपीह वादमुद्रां बिभर्तु वः ॥ १७२॥ पंडितानां सहस्रार्धमध्ये सर्वेप्यवाङ्मुखाः। भग्नास्तत्प्रतिघातेन घनगार्भका इव ॥ १७३ ॥ विलक्षो नृपतिः प्राह किं गेहे नर्दिनः खलु । स्वयं वृत्तिभुजोऽस्माकं विद्वजल्पा मुधा बुधाः ॥ १७४ तेषामेको महाप्राज्ञः प्रादान्मंत्रं प्रभो शृणु। मा वैलक्ष्यं प्रपद्येथा रत्नगर्भा वसुंधरा ॥ १७५॥ निर्जरा इव देहस्था गूर्जराः श्वेतभिक्षवः । दुर्जेयास्तदतो मंत्रसाध्यं कार्यमिदं प्रभो ॥ १७६॥ छात्रेः कोपि महाप्राज्ञ आषोडशसमाह्वयः। प्रमाणशास्त्रोपन्यासं पाठ्यतामशठः सुधीः ॥ १७७ ॥ श्रुत्वेति भूपतिस्तुष्टिपुष्टः पंडितवाक्यतः। अस्त्वेवमित्यवादीत्तत्त्वमेवैतत् कुरुष्व भो ॥ १७८ ॥ एकः पटुर्बटुः सौम्यः प्रज्ञावक्तृत्वशेवधिः।। तर्कशास्त्रसदझ्यासोपन्यासं पाठितस्ततः ॥ १७९ ॥ अतिव्यक्ताक्षरं तेनादायि पाठं गुरोः पुरः । एतद्विज्ञाप्य राजानं मुहूर्तः शोधितः शुभः॥१८० ॥ शापितं बादसूराय सूराचार्याय भूभुजा। समाहूय च वादाथै स्थापितोऽसौ वरासने ॥ १८१॥ पट्टवासोऽतिवसनश्छात्रः शृंगारितस्ततः । सुवर्णरत्नपुष्पाढ्याभरणैः शरणैः श्रियः ॥ १८२ ॥ स्वमंकं तं समारोप्य राजाह प्रतिवाद्यसौ। ततो जगाद वादींद्रः प्रकटाक्षरपद्धतिः ॥ १८३॥ क्षीरकंटः क्षीरगंधवक्रोपक्रिमवागसौ। यूनां न उचितो नैव समाने विग्रहः खलु ॥१८४॥ राजाह रभसा नायं बाल एवेति भाव्यताम्। शिशुरूपा ह्यसौ ब्राह्मी जितेऽस्मिन्मत्सभा जिता ॥ १८५॥ पूर्ववादो लघोरस्तु सूरिणोक्ते ततः शिशुः। यथालिखितपाठं च व्यक्तमस्खलिताक्षरम् ॥ १८६ ॥ अपदच्छेदवाक्यं तत् विशरारूविभक्तिकम् । शृण्वन्मेने ह्यसावर्थावगमो न विना वदेत् ॥ १८७॥ १P D. गण. D omits आययौ...तेन. २ Dd H . ३H, पुष्परत्ना. D P. यूयंन ...वासमानो. Page #265 -------------------------------------------------------------------------- ________________ श्रीसूराचार्यप्रबन्धः । २५७ इत्येवं शंकया क्षुण्णं विमृशनिश्चिकाय च। पट्टिकापाठएवायमीदृशोऽत्र नहीतरत् ॥१८८॥ जल्पेद्यावद्रयेणासौ तावत्परुषशब्दतः। पाश्चात्यं तु पदं कूटं बभणे भवता हि भो ॥ १८९ ॥ पुनर्भणेति सप्तोक्ते रभसेति ततोऽवदत् । पट्टिकायां ममेदृक्षं लिखितं निश्चयो मम ॥ १९० ॥ सूराचार्य इति श्रुत्वा प्राह संतोषनिर्भरम् । यादृक् लक्षणशास्त्रादौ श्लोको वादोऽपि तादृशः ॥ १९१ ॥ तदापृच्छामहे श्रीमान् भोजभूपालपुंगवः। अदर्शि मालवों देशो मंडकाः खादिता अपि ॥ १९२ ।। इत्युक्त्वा प्रययौ सूरिर्मठं हतजितद्विषम् । लज्जामन्युभराक्रांतो राजास्थानं व्यसर्जयत् ॥ १९३॥ श्रीमान् चूडसरस्वत्याचार्यः प्राघुणमभ्यधात् । अस्माकं शासनोद्योतात्सुखं त्वन्मृत्युतोऽसुखम् ॥१९४॥ श्रीभोजराजः स्वसभाजेतारं हन्ति निश्चितम् । जये पराजये वापि न श्रेयः किमु कुर्महे ॥ १९५॥ सूराचार्यस्ततोऽवादीद्वीरधौरणिधूर्धरः। वं रक्षिष्येऽहमात्मानं भवद्भिर्मानुतप्यताम् ॥ १९६ ॥ तदा श्रीधनपालेन प्रेरितः कविचक्रिणा। पुरुषो गूर्जराचार्य प्रोचे स्वस्वामिवाचिकम् ॥ १९७॥ पूज्याश्च येन केनापि मद्वेश्मायांतु सत्वरम् । अविश्वास्यो नृपस्यास्य प्रसादो पि भयंकरः॥ १९८॥ मंडनं सर्वदेशानां भवाग विश्रुतः सुधीः। भाग्यातिशयतो मादृगजनैर्दुर्लभ एव यत् ॥ १९९॥ मद्दर्शनानन्तरं च विधेया कापि नाधृतिः। सुखेन गूर्जरं देशं प्रापयिष्यामि निश्चितम् ॥ २००॥ अहो जागर्ति भाग्यं वः साधूनां मितभाषिणाम् । प्रातः क्षणेऽश्ववारैस्तच्चैत्यं वाटमवेष्टयत ॥२०१॥ संतोषजयपत्रं वः प्रदास्यति नृपाग्रणी। विद्वांसमतिथिं प्रेषयध्वं विध्वस्तवादिनम् ॥ २०२॥ इति वास्तव्यसूरिं तेऽभ्ययुर्विधुरिताननम् । आयास्यतीति तानाह शुन्यतायातचेतनम् ॥ २०३ ॥ मध्याह्ने कर्कशे सूर्यतापात्कुंभे गुरौ तदा। कृतवेषपरावर्तो दाम दत्वा दृढं गते ॥२०४॥ Page #266 -------------------------------------------------------------------------- ________________ २५८ प्रभावकचरिते तत्रत्यैकानगारेण प्रावृत्यासौ जरत्पटीम् । मलिनां निःसरंश्चैत्यद्वारेण जगदे भटैः ॥ २०५॥ युग्मम् । बहिः कथं तु निर्यासि मध्ये गच्छ सितांबरः। अर्पिते गुर्जरे सर्वे सर्वतो मुत्कला ध्रुवम् ॥ २०६ ॥ स च श्रुत्वा करालोकिर्विकरालमुखोऽवदत् । मध्ये सिंहासनासीनं भूपालमिव गर्वतः ॥२०७॥ कर्णे धृत्वा प्रभोरग्रे नयतास्माकवैरिणम् । जयपत्रमथाप्नोति यमपत्रमथापि वा ॥२०८॥ तृषाक्रांता वयं युष्मत्पुरवास्तव्यतां गताः। भवद्धर्मेण नीराय गच्छामोमुंचत द्रुतम् ॥ २०९ ॥ एकेन चाश्ववारेण कृपया मोचितोऽथ सः। मनीषिमौलिरत्नस्य गृहं प्रापापभीः प्रभुः ॥ २१० ॥ स चाह वाक्पथातीताच्छैकताने यतीश्वरः। यमदृष्टिपथादंतर्धाय मे दृक्पथे स्थितः॥ २११ ॥ अद्य ते जन्म मन्येहं गच्छस्तेऽद्य सुपुण्यकः।। यद्भवानागतो जैनशासनव्योमभास्करः ॥११२॥ कथमागा इदं पृष्टः सूराचार्यो यथा तथा । अभ्ययादिति च श्रुत्वा परमानंदमाप्तवान् ॥ ११३ ॥ भूमीग्रहे सावकाशेऽवस्थाप्यादरपूर्वकम् । शुद्धाहारेण तं भक्त्या प्रत्यलाभं यदुद्यतः ॥ २१४ ॥ ततस्तांबूलिकस्तोमं तत्र यातं निरीक्ष्य सः। अत्यादरेण संमान्य भोजनाच्छादनादिना ॥ २१५॥ ततश्चाभ्यर्थयामास तान्मम भ्रातरं स्वकम् । अणहिल्लपुरं यावत्परानयत निश्चितम् ॥ २१६ ॥ तेऽप्यूचुर्ब्राह्मणः पूज्यो राज्ञां ज्ञातो बुधाग्रणीः । तदादेशः प्रमाणं नः कार्यमावश्यकं ह्यदः ॥२१७॥ नाबानिवृतिराधेया न यामः सपरिच्छदम् । यानारोहेतरे भक्तौ निश्चितो वर्ततामसौ ॥ २१८ ॥ श्रीमता धनपालेन दीनाराणां शतं ददे। अंगीकरणतोऽमीषां रंगसंगतरंगिणा ॥ २१९ ॥ गुरवोऽल्लकमध्ये च गुप्तं कृत्वा गुरुं तदा । पर्याण्यवृषभान् शीघ्रं ते चेलुगूर्जरावनौ ॥ २२० ॥ १ H. तत्र चैका• D तत्रैत्ये०. २ D अर्जि०. ३ D त्मान.. Page #267 -------------------------------------------------------------------------- ________________ श्रीसूराचार्यप्रबन्धः । २५९ महीतटागतेन श्रीसूराचार्येण सहुरोः । विज्ञापितं नरेरात्मागमनं कौशलोत्तरम् ॥ २२१ ॥ इतश्च विविशुश्चैत्यमपराह्ने भटाः स्वयम् । साधुं स्थूलोदरं दृष्ट्वा सिंहासन्युपवेशितम् ॥ २२२॥ प्रधानवस्त्रसंवीतमुद्यन्मदकलाकृतिम् ।। एवमूचुनृपादेशानिर्गच्छत जिनालयात् ॥ २२३॥ युग्मम् ॥ मध्ये योत्र विलंबः सोदूखलेथातवंचना। . उत्थाय सोऽग्रतो भूत्वाऽश्ववारैः सह जग्मिवान् ॥ २२४ ॥ पार्थिवस्य पुरो भूत्वावतस्थे मौनमास्थितः। विलक्षेण ततो राज्ञा हायिका जल्पितास्तदा ॥ २२५॥ कोयं भवद्भिरानीतो जबे(ठ)रः स्थूलदेहभृत् । ततोसौ गूर्जरश्छेको भवतामग्रतो ननु ॥ २२६॥ अक्षिण रेणुं हि निक्षिप्य केनाप्यंधः कृतः कथम् । भवतां सदृशः कश्चिच्चेतनारहितो नहि ॥ २२७॥ तेऽप्यूचुर्नाथ नीरस्य वाहकं दुर्गतं मुनिम् । एकं मुक्त्वा न कस्यापि निर्गमोऽस्मत्पुरः प्रभोः ॥ २२८ ॥ भूप आह परावृत्य वेषं वः पश्यतां ययौ। विजित्य न सतां नान्यस्तं विनोत्पन्नबुद्धिमान् ॥ २२९॥ पुरस्थं प्राह राजा खमावासं गच्छ पुण्यतः।। मूर्खत्वं हि वरं श्लाध्यं येनास्मत्तोऽपि जीवितः॥ २३०॥ इत्यसौ प्रहितो राज्ञा मठे व्यावृत्य चाययौ। मूर्ध्न एव भ्रुवो नैवाक्षतवर्द्धनमुंडने ॥ २३१ ॥ इतः श्रीभीमभूपालः प्रजिघाय नरान्निजान् । आह्वायकान्निजभ्रातुर्मातुलो वृत्तिभिः सह ॥ २३२॥ स्वदेशे प्रकटो भूत्वा राजधानीमथाययुः। गुरवः संघसंवीताः स्वस्याभिमुखमागमत् ॥ २३३॥ राजा च सर्वसामग्र्या प्रतिपंथी च का शुभे। आचार्यः स्वगुरोः पादौ प्रेक्ष्य हीमानिवानमत् ॥ २३४॥ प्रत्यासन्नश्च तेषां स सर्वाभिगमपूर्वकम् । योगी चाष्टांगयोगेन प्रह्वोऽभिहितवान् वचः ॥ २३५॥ सफलाद्य गुरोराशा सफला मातुराशिषः। प्रसन्नाहक त्वमादृक्षे श्रीसंघस्य फलेग्रहिः ॥२३६॥ १ D वठरः २ D. वि. Page #268 -------------------------------------------------------------------------- ________________ २६० प्रभावकचरिते अविमृश्य विधायीव गतौ मालवके तदा । अक्षतोऽहमिहागच्छं यजित्वा भोजपर्षदम् ॥ २३७ ॥ युग्मम् तथान्तेवासिनोऽमी श्रीगुरुपादाग्रतो मम । क्षणं नाकथयिष्यंत शिक्षिष्यत न च प्रभुः ॥ २३८ ॥ बालोय यदि दर्पण न व्यधास्यं प्रतिश्रवम् । गुरुमस्तकहस्तस्य का प्रमाणमथोच्यते ॥ २३९ ॥ इत्याकर्ण्य प्रभुयॊणः शोणहद इव स्थिरः । उवाच वाचमाचारचारुचारित्रचंचुरः ॥२४०॥ एवं प्रतिश्रयं क्लीबदुष्करं विदधीत कः। निर्वाहयेत च श्रीमान् विना त्वामाप्तवाग्वरम् ॥ २४१ ॥ सगच्छसंघाश्च वयमाचानाम्लैरुपस्थिताः । आभवद्वदनालोकात् सम्यक्शासनदेवताम् ॥ २४२॥ सगद्गदमुदित्वैवं स बाढ़ परिषस्वजे । गुरुभिश्वाथ भूपोऽपि श्रीभीमः प्राह सादरम् ॥ २४३ ॥ मनीषी विनयी छेकस्तत्कालोत्पन्नबुद्धिमान् । त्वां विना दृश्यते नान्यस्तेजस्वी दृढवीर्यभूः ॥ २४४॥ श्रीभोजं छलयित्वा यत्तादृक्प्राज्ञपरिग्रहम् । आगत्याक्षतदेहस्त्वं मम तेजोऽभ्यवर्द्धयः॥ २४५ ॥ किंचित्पृच्छामि संदेहं नृपतिः ससुतो न वा। सूरसूरिरथ प्राह पयोवाहनिभध्वनिः॥ २४६॥ रसना में महाराज त्वां विना स्तौति नापरम् । मदुक्तस्य च काव्यस्य भावार्थ शृणु कौतुकात् ॥२४७॥ शिला विद्धा सती विद्धान्छिद्रे शरमुचां हि कः । विक्रमः कामुकक्रीडां मुंचत व्याजतः कृताम् ॥ २४८ ॥ व्यसने दृषदां भेदाद्भवतां पूर्वजो गिरिः। अर्बुदस्तस्य भेदे तु ध्वस्तधारा धरित्र्यपि ॥ २४९॥ पातालमूलं यातीयं शिक्षयेऽहमिति ब्रुवन् । अपि द्विषति सच्छिक्षा दातव्या शमजीवितैः ॥ २५० ॥ श्रीभीमः प्राह तच्छ्रुत्वा पुलकोद्भेदमेदुरः । मद्वंधुना जिते भोजे का मे चिंतास्ति तजये ॥ २५१ ॥ स्वसमीपे समारोप्य गजराजवरासने । सूराचार्यस्य भूपालः प्रवेशोत्सवमातनोत् ॥ २५२ ॥ १D. द्रोणि. Page #269 -------------------------------------------------------------------------- ________________ अभयप्रबन्धः । अतीचारान् स विज्ञप्य गुरुपार्श्वे महामतिः । देशान्तरगतौ जातास्तपसाशोधयद्दृढम् ॥ २५३ ॥ युगादिनाथश्रीनेमिचरिताद्भुतकीर्तनात् । इतिवृत्तं द्विसंधानं व्यधात् स कविशेखरः ॥ २५४ ॥ यः पूर्व पिपठीः शिष्यवर्गस्तमिह सूरिराट् । सम्यग् निष्पाद्य वादद्रतया सममयोजयत् ॥ २५५ ॥ श्री द्रोणसूरिणां गत्या परलोके सुसाधिते । क्षितावक्षामचारित्रपवित्रः सूरिसद्गुरुः ॥ २५६ ॥ प्रभावनाभिः श्रीसंज्ञमुन्नमय्य श्रुतोदधिः । शिष्यान्निष्पाद्य संपाद्य जैनप्रवचनोन्नतिम् ॥ २५७ ॥ योग्यं सूरिपदे न्यस्य भारमत्र निवेश्य च । प्रायोपवेशनं पंचत्रिंशद्दिनमितं दधौ ॥ २५८ ॥ आत्मारामादरः सम्यग् योगत्रयनिरोधतः । श्री भीमभूपतेर्बंधुरुत्तमां गतिमाश्रयत् ॥ २५९ ॥ २६१ चतुर्भिः कलापकम् । श्रीसूराचार्यवृत्तं व्यरचि परिचितं वादविद्याविनोदक्षुभ्यद्वादिप्रवादं किमपि गुरुमुखादन्यतो वाप्य किंचित् । श्रेयो देयादमेयं जिनपतिवचनोद्योतनस्थैर्यहेतुः सेतुर्जाड्यां बुराशेर्भवतु भवभृतामद्य विद्योद्यमाय ॥ २६० ॥ श्रीचंद्रप्रभसूरिपट्टसरसी हंसप्रभः श्रीप्रभा चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीसूरसूरेः कथा श्रीप्रयुनमुनींना विशदितः शृंगोऽयमष्टादशः ॥ २६१ ॥ इतिश्रीसूराचार्यप्रबन्धः ॥ ग्रंथ० २६९ अ २३ भम० ४२७७ । अभयदेवप्रबन्धः । श्रीजैनतीर्थधम्मिलोऽभयदेवः प्रभुः श्रिये । भूयात्सौमनसोद्भेदभाखरः सर्वमौलिभूः ॥ १ ॥ आहत्याष्टांगयोगं यः स्वांगमुद्धृत्य च प्रभुः । श्रुतस्य च नवांगानां प्रकाशी स श्रिये द्विधा ॥ २ ॥ वदन्बालो यथा व्यक्तं मातापित्रोः प्रमोदकृत् । तद्वृत्तमिह वक्ष्यामि गुरुहर्षकृते यथा ॥ ३॥ अस्ति श्रीमालवो देशः सद्वृत्तरसशालितः । जंबूद्वीपाख्यमाकंदफलं सद्वर्णवृत्तसूः ॥ ४ ॥ Page #270 -------------------------------------------------------------------------- ________________ २६२ प्रभावकचरिते तत्रास्ति नगरी धारा मंडलायोदितस्थितिः। मूलं नृपश्रियो दुष्टविग्रहद्रोहशालिनी ॥५॥ श्रीभोजराजस्तत्रासीद्भूपालः पालितावनिः । शेषस्येवापरे मूर्ती विश्वोद्धाराय यद्भुजौ ॥६॥ तत्र लक्ष्मीपति म व्यवहारी महाधनः । यस्य श्रिया जितः श्रीदः कैलासाद्रिमशिश्रयत् ॥ ७ ॥ अन्यदा मध्यदेशीयकृतब्राह्मणनंदनौ । प्रह्वप्रज्ञाबलाक्रांतवेदविद्याविशारदौ ॥ ८॥ अधीतपूर्विणौ सर्वान्विद्यास्थानांश्चतुर्दश । स्मृत्यैतिह्यपुराणानां कुलकेतनतां गतौ ॥९॥ श्रीधरः श्रीपतिश्चेति नामानौ यौवनोद्यमात् । देशांतरदिदृक्षायै निर्गतौ तत्र चागतौ ॥ १० ॥ त्रिभिविशेषकम् तौ पवित्रयतः मात्र लक्ष्मीधरगृहांगणम् । सोऽपि भिक्षां ददौ भक्त्या तदाकृतिवशीकृतः ॥११॥ गेहाभिमुखभित्तौ च लिख्यते स्मास्य लेखकम् । टंकविंशतिलक्षाणां नित्यं ददृशतुश्च तौ ॥ १२॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसंकुलम् । तत्परिस्फुरितं सम्यक् सदाभ्यस्तमिवानयोः ॥ १३ ॥ जनो मत्पार्श्वतः सूपकारवत्सूपकारवान् । वर्त्तते निष्ठुरः किंतु मम किंचिन्न यच्छति ॥ १४ ॥ ब्राह्मणा अपि गीर्वाणान्मन्मुखादाहुतिप्रदाः । तर्पयंतु फलं तु स्यात्तत्कर्मकरतैव मे ॥१५॥ इतीव कुपितो वह्निरलैकेनापि भस्मसात् । विदधे तां पुरीमूरीकृतप्रतिकृतक्रियः ॥१६॥ त्रिभिर्विशेषकम् । लक्ष्मीपतिर्द्वितीयेऽह्नि न्यस्तहस्तः कपोलयोः । सर्वस्वनाशतः खिन्नो लेख्यदाहाद्विशेषतः ॥ १७ ॥ प्राप्ते काले गतौ भिक्षाकृते तस्य गृहांगणे । प्राप्तौ प्लुष्टं च तदृष्ट्वा विषण्णाविदमूचतुः॥ १८ ॥ यजमान तवोनिद्रकष्टेनावां सुदुःखितौ । किं कुर्वहे क्षुधा किंतु सर्वदुःखातिशायिनी ॥ १९ ॥ पुनरीक्शुचाक्रांतसत्ववृत्तिर्भवान् किमु ।। धीराः सत्वं न मुंचंति व्यसनेन भवादृशाः ॥ २० ॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम् । न मे धनान्नवस्त्रादिदाहाहुःखं हि तादृशम् ॥ २१ ॥ Page #271 -------------------------------------------------------------------------- ________________ अभयदेवप्रबन्धः । २६३ यादृग्लेखकनाशेन निर्धर्मेण जनेन यत् । कलहः संभवी धर्महानिकृत्क्रियते हि किम् ॥ २२॥ युग्मम् । जजल्पतुश्च तावावां भिक्षावृत्ती नचापरम् । शक्नुवो नोपकर्तुं हि व्याख्यावो लेखकं पुनः ॥ २३ ॥ श्रुत्वातिहर्षभूः श्रेष्ठी स्वपुरस्तौ वरासने। न्यवेशयजनः स्वार्थपूरकं ध्रुवमर्हति ॥ २४ ॥ तावादितः समारभ्यातिथिवारर्भसंगतम् । व्यक्तवत्सरमासांकसहितं खटिनीदलैः ॥२५॥ वर्णजात्यभिधामूलद्रव्यसंख्यानवृद्धिभृत् । आख्यातं लेखकं स्वाख्याख्यानवद्धिषणाबलात् ॥ २६ ॥ पत्रकेषु लिखित्वा तत् श्रेष्ठी दध्यावहो इमौ । मम गोत्रसुरौ कौचित्प्राप्तौ मदनुकम्पया ॥ २७ ॥ यद्विशोपकमात्रेण वदंतौ तावविस्मृतम् । दुस्तरीसंपुटे पत्रनिरपेक्षं हि लेख्यकम् ॥ २८ ॥ युग्मम् । ततः सन्मान्यसद्भोज्यवस्त्राद्यैर्बहुमानतः। स्वगेहचित्रको तेन विहितौ हितवेदिना ॥ २९॥ जितेंद्रियौ स तौ शांतौ दृष्ट्येति व्यमृशद्धनी। शिष्यौ महुरुपाद्येऽमूस्तां चेत्तत्संघभूषणौ ॥ ३० ॥ इतः सपादलक्षेऽस्ति नाम्नाकूर्चपुरं पुरम्। मषीकूर्चकमाधातुं यदलं शास्त्रवानने ॥ ३१॥ अल्लभूपालपुत्रोपि शक्योऽतीव धराधरः। श्रीमान् भुवनपालाख्यो विख्यातः सान्वयाभिधः ॥ ३२ ॥ तत्रासीत्प्रशमश्रीभिर्वर्द्धमानगुणोदधिः। श्रीवर्द्धमान इत्याख्यः सूरिः संसारपारभूः ॥ चतुर्भिरधिकाशीतिश्चैत्यानां येन तत्यजे । सिद्धांताभ्यासतः सत्यतत्त्वं विज्ञाय संसृतेः ॥ ३४ ॥ अन्यदाविहरन्धारापुर्या धाराधरोपमः। आगाद्वारब्रह्मधाराभिर्जनमुज्जीवयनमुम् ॥ ३५ ॥ लक्ष्मीपतिस्तदार्कण्य श्रद्धालक्ष्मीपतिस्ततः । ययौ प्रद्युम्नशांताभ्यामिव ताभ्यां गुरोर्नतौ ॥ ३६॥ सर्वाभिगमपूर्व स प्रणम्योपाविशत्प्रभुम् । तौ विधाय निविष्टौ च करसंपुटयोजनम् ॥ ३७॥ १ P. ईषत्. D. ग. Page #272 -------------------------------------------------------------------------- ________________ २६४ प्रभावकचरिते वर्यलक्षणवर्या च ध्यौ वीक्ष्य तनुं तयोः । गुरुराहानयोर्मूर्तिः सम्यक् स्वपरजित्वरी ॥ ३८ ॥ तौ च प्राग्भवसंबद्धाविवानिमिषलोचनौ । वीक्ष्यमाणौ गुरोरास्यं व्रतयोग्यौ च तैर्मतौ॥ ३९ ॥ महावतभरोद्धारसूरिणौ तपसो निधी। अध्यापितौ च सिद्धांतं योगोद्वहनपूर्वकम् ॥ ४०॥ ज्ञात्वौचित्यं च सूरित्वे स्थापितौ गुरुभिश्च तौ । सिद्धवासोहि सौरभ्यवासं समनुगच्छति ॥४१॥ जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः। नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ॥ ४२ ॥ ददे शिक्षेति तैः श्रीमत्पत्तनैश्चैत्यसूरिभिः। विघ्नं सुविहितानां स्यात्तत्रावस्थानवारणात् ॥४३॥ युवाभ्यामपनेतव्यं शक्त्या बुद्ध्या च तत्किल । यदिदानीतने काले नास्ति प्राज्ञो भवत्समः ॥४४॥ युग्मम् । अनुशास्ति प्रतीच्छाव इत्युक्त्वा गुर्जरावनौ । विहरंतौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥४५॥ सद्गीतार्थपरीवारौ तत्र भ्रांती गृहे गृहे । विशुद्धोपाश्रयालाभा वाचां सस्मरतुर्गुरोः ॥ ४६॥ श्रीमान् दुर्लभराजाख्यस्तत्रचासीद्विशां पतिः। गी:पतेरप्युपाध्यायो नीतिविक्रमशिक्षणात् ॥४७॥ श्रीसोमेश्वरदेवाख्यस्तत्र चासीत्पुरोहितः। तद्नेहे जग्मतुर्युग्मरूपौ सूर्यसुताविव ॥ ४८ ॥ तद्वारे चक्रतुर्वेदोच्चारं संकेतसंयुतम् । तीर्थ सत्यापयंतौ च ब्राह्मं पैञ्यं च दैवतम् ॥४९॥ चतुर्वेदीरहस्यानि सारणीशुद्धिपूर्वकम् । व्याकुर्वतौ स शुश्राव देवतावसरे ततः॥ ५० ॥ तद्धानध्याननिर्मग्नचेताः स्तंभितवत्तदा । समग्रेद्रियचैतन्यं श्रुत्योरेव स नीतवान् ॥५१॥ ततो भक्त्या निजं बंधुमाप्याय वचनामृतैः । आव्हानाय तयोः प्रैषीत्प्रेक्षापेक्षी द्विजेश्वरः ॥ ५२ ॥ ता च दृष्टांतरायातौ दध्यावंभोजभूः किमु । द्विधा भूयादआदत्तदर्शनं स्वस्य दर्शनम् ॥ ५३ ॥ हित्वा भद्रासनादीनि तदत्तान्यासनानि तौ। समुपाविशतां शुद्धस्वकंबलनिषद्ययोः ॥५४॥ Page #273 -------------------------------------------------------------------------- ________________ अभयदेवप्रबन्धः । वेदोपनिषदां जैनतत्वश्रुतगिरां तथा । वाग्भिः साम्यं प्रकाश्यैतावश्यधत्तां तदाशिषम् ॥ ५६ ॥ २६५ तथाहि अपाणिपादो ह्यमनो (जवनो) ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति विश्वं नहि तस्यास्ति वेत्ता शिवो ह्यरूपः स जिनोऽवताद्वः५७ ऊचतुश्चानयोः सम्यगवगम्यार्थसंग्रहम् । दययाभ्यधिकं जैनं तत्रावामाद्रियावहि ॥ ५८ ॥ युवामवस्थिती कुत्रेत्युक्ते तेनोचतुश्च तौ । न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः ॥ ५९ ॥ चंद्रशालां निजां चंद्रज्योत्स्ना निर्मलमानसः । स तयोरपर्यत्तत्र तस्यतुः सपरिच्छदौ ॥ ६० ॥ द्विचत्वारिंशता भिक्षादोषैर्मुक्तम लोलुपम् । नवकोटीविशुद्धं चायातं भैक्षमभुंजताम् ॥ ६१ ॥ मध्याह्ने याज्ञिकस्मार्त्तदीक्षितानग्निहोत्रिणः । आहूय दर्शितौ तत्र निर्व्यूढौ तत्परीक्षया ॥ ६२ ॥ यावद्विद्याविनोदोयं विरिचेरिव पर्षदि । वर्त्तते तावदाजग्मुर्नियुक्ताश्चैत्यमानुषाः ॥ ६३॥ ऊचुश्चतेझटित्येव गम्यतां नगराद्वहिः । अस्मिन्नलभ्यते स्थातुं चैत्यबाह्यसितांबरैः ॥ ६४ ॥ पुरोधाः प्राह निर्णेयमिदं भूपसभांतरे । इति गत्वा निजेशानामाख्यातमिह भाषितम् ॥ ६५ ॥ इत्याख्याते च तैः सर्वैः समुदायेन भूपतिः । वीक्षितः प्रातरायासीत्तत्र सौवस्तिकोऽपि सः ॥ ६६ ॥ व्याजहाराय देवास्मद्गृहे जैनमुनी उभौ । स्वपक्षे स्थानमप्राप्नुवंतौ संप्रापतुस्ततः ॥ ६७ ॥ मया च गुणग्राह्यत्वात् स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्मे प्रहिताश्चैत्य पक्षिभिः ॥ ६८ ॥ अत्रादिशत मे क्षूणं दंडं वात्र यथार्हतम् । श्रुत्वेत्याह स्मितं कृत्वा भूपालः समदर्शनः ॥ ६९ ॥ मत्पुरे गुणिनः कस्माद्देशांतरत आगताः । वसंतः केन वार्यते को दोषस्तत्र दृश्यते ॥ ७० ॥ अनुयुक्ताश्च ते चैवं प्राहुः शृणु महीपते । पुरा श्रीवन राजोभूच्चापोत्कटवरान्वयः ॥ ७१ ॥ स बाल्ये वर्द्धितः श्रीमद्देवचंद्रेण सूरिणा । नागेंद्र गच्छभूद्वारप्राग्वराहोपमास्पृशा ॥ ७२ ॥ 23 Page #274 -------------------------------------------------------------------------- ________________ २६६ प्रभावकचरिते पंचाश्रयाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्यदमत्र राज्यं ददौ नवम् ॥ ७३॥ वनराजविहारं च तत्रास्थापयत प्रभुः। कृतज्ञत्वादसौ तेषां गुरूणामहणं व्यधात् ॥ ७४ ॥ व्यवस्था तत्र चाकारि संघेन नृपसाक्षिकम् । संप्रदायविभेदेन लाघवं च यथाभवत् ॥ ७५ ॥ चैत्यगच्छयतिवातसंमतोवसतान्मुनिः। नगरे मुनिभिर्नात्र वस्तव्यं तदसंमतैः ॥ ७६ ॥ राक्षां व्यवस्था पूर्वेषां मान्या पाश्चात्यभूमिपैः। यदादिशसि तत्कार्य राजन्नेवस्थिते सति ॥ ७७॥ राजा प्राह समाचार प्राग्भूपानां वयं दृढम् । पालयामो गुणवतां पूजां तूल्लंघयेम न ॥ ७८॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः। एधंते युष्मदीयं तद्राज्यं नात्रास्ति संशयः ॥ ७९ ॥ उपरोधेन नो यूयममीषां वसनं पुरे। अनुमन्यध्यमेवं च श्रुत्वा तेत्र तदा दधुः ॥ ८ ॥ सौवस्तिकस्ततः प्राह स्वामिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्यार्थे श्रीमुखेन प्रदीयताम् ॥ ८१ ॥ तदा समाययौ तत्र शैवदर्शनवासवः। शानदेवाभिधः क्रूरसमुद्रविरुदाह (हि)तः ॥ ८२ ॥ अभ्युत्थाय समभ्यर्च्य निविष्टं निज आसने । राजा व्यजिज्ञपत्किचिदद्य विज्ञप्यते प्रभो ॥ ८३॥ प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम् ।। इत्याकर्ण्य तपस्वींद्रः प्राह प्रहसिताननः ॥ ८४॥ गुणिनामर्चनां यूयं कुरुध्वं विधुतैनसाम् । सोऽस्माकमुपदेशानां फलपाकश्रियां निधिः॥ ८५ ॥ शिव एव जिनो बालत्यागात्परपदस्थितः। दर्शनेषु विभेदो हि चिह्न मिथ्यामतेरिदम् ॥ ८६ ॥ निस्तुषव्रीहिहट्टानां मध्ये त्रिपुरुषाश्रिता। भूमिं पुरोधसा ग्राह्योपाश्रयाय यथारुचि ॥ ८७ ॥ विघ्नः स्वपरपक्षेभ्यो निषेध्यः सकलो मया। द्विजस्तच्च प्रतिश्रुत्य तदाश्रयमकारयत् ॥ ८८॥ ततः प्रभृति संजज्ञे वसतीनां परंपरा । महद्भिः स्थापितं वृद्धिमश्नुते नात्र संशयः ॥ ८९ ॥ Page #275 -------------------------------------------------------------------------- ________________ अभयदेवप्रबन्धः । २६७ श्रीबुद्धिसागरः सूरिश्चके व्याकरणं नवम् । सहस्राष्टकमानं तत् श्रीबुद्धिसागराभिधम् ॥९॥ अन्यदा विहरंतश्च श्रीजिनेश्वरसूरयः। पुनर्धारापुरी प्रापुः सपुण्यप्राप्यदर्शनाः ॥९१॥ श्रेष्ठीमहीधरस्तत्र पुरुषार्थत्रयोन्नतः। मुक्कैकां स्वधने संख्यां यः सर्वत्र विचक्षणः ॥९२॥ तस्याभयकुमाराख्यो धनदेव्यंगभूरभूत् ।। पुत्रः सहस्रजिह्वोपि यहुणोक्तौ नहि प्रभुः ॥९३॥ सपुत्रः सोऽन्यदा सूर्ति प्रणंतुं सुकृती ययौ । संसारासारतां मूलश्रुतो धर्मश्चतुर्विधः॥९४॥ अथाभयकुमारोऽसौ वैराग्येण तरंगितः। आपपृच्छे निजं तातं तप:श्रीसंगमोत्सुकः ॥९५॥ अनुमत्या ततस्तस्य गुरुभिः स च दीक्षितः। ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ॥९६॥ स चावगाढसिद्धांतःतत्प्रेक्षानुमानतः। बभौ महाक्रियानिष्ठः श्रीसंघं भोजभास्करः॥९७॥ श्रीवर्द्धमानसूरीणामादेशात्सूरितां ददौ । श्रीजिनेश्वरसूरिश्च ततस्तस्य गुणोदधेः॥९८॥ श्रीमानभयदेवाख्यः सूरिः पूरितविष्टपः। यशोभिर्विहरन्प्राप पत्यपद्रपुरं शनैः ॥ ९९ ॥ आयुःप्रान्ते च संन्यासमवलंब्य दिवः पुरीम् । अलंचक्रुर्वर्द्धमानसूरयो भूरयः क्रमात् ॥ १०० ॥ समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः। सिद्धांतत्रुटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥ १०१॥ ईषत्स्थितं च यत्सूत्रं प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थ खिलं जशे ततश्च तत् ॥ १०२॥ निशीथेऽत्र प्रभुं धर्मस्थानस्थं शासनामरी। नत्वा निस्तंद्रमाह स्माभयदेवं मुनीश्वरम् ॥ १०३॥ श्रीशीलांकः पुरा कोट्याचार्यनाम्ना प्रसिद्धभूः। वृत्तिमेकादशांश्याः स विदधे धूतकल्मषः ॥ १०४॥ अंगद्वयं विनान्येषां कालादुच्छेदमादधुः। वृत्तयस्तत्र संघानुग्रहायाद्य कुरूद्यमम् ॥ १०५॥ सूरिः प्राह ततो मातः कोऽहमल्पमतिर्जडः। श्रीसुधर्मकृतग्रंथदर्शनेऽप्यसमर्थधीः॥ १०६॥ १. शंका. २. P. तत्वका. Page #276 -------------------------------------------------------------------------- ________________ २६८ प्रभावकचरिते अज्ञत्वात्वचिदुत्सूत्रे विवृते कल्मषार्जनम् । प्राच्यैरनंतसंसारभ्रमिभृद्दर्शितं महत् ॥ १०७ ॥ अनुलंध्या च ते वाणी तदादिश करोमि किम् । इतिकर्तव्यतामूढो लभते किंचिदुत्तरम् ॥ १०८ ॥ देवी प्राह मनीषीश सिद्धांतार्थविचारणे । योग्यतां तव मन्ताहं कथयामि विचिंतया ॥ १०९॥ यत्र संदिह्यते चेतः प्रष्टव्योऽत्र मया सदा । श्रीमान् सीमंधरस्वामी तत्र गत्वा धृतिं कुरु ॥ ११०॥ आरभव ततो होतन्मात्र संशय्यतां त्वया । स्मृतमात्रा समायास्ये इहार्थे त्वत्पदोः शपे ॥ १११ ॥ श्रुत्वेत्यंगीचकाराथ कार्य दुःकरमप्यदः। आचामाम्लानिचारण्य ? ग्रंथसंपूर्णतावधिः ॥ ११२॥ अक्लेशेनैव संपूर्णा नवांग्या वृतयस्ततः । निरवाह्यत देव्या च प्रतिज्ञा या कृता पुरा ॥ ११३ ॥ महाश्रुतधरैः शोधितासु तासु चिरंतनैः। ऊरीचक्रे तदा श्राद्धैः पुस्तकानां च लेखनम् ॥११४॥ ततः शासनदेवी च विजने तान्व्यजिशपत् । प्रभो मदीयद्रव्येण विधाप्या प्रथमा प्रति ॥ ११५॥ इत्युक्त्वा सा च समवसरणे परिहैमनीम् । उत्तरीयां निजज्योतिः क्षतदृष्टिरुचिं दधौ ॥ ११६ ॥ तिरोधत्त ततो देवी यतयो गोचरादथ । आगता ददृशुः सूर्यबिंबवत्तद्विभूषणम् ॥ ११७ ॥ चित्रीयितास्ततश्चित्ते पप्रच्छुस्ते प्रभून्मुदा । ते चाचख्युरुदंतं तं श्राद्धानाहाययंस्तथा ॥ ११८ ॥ आयातानां ततस्तेषां गुरवः प्रेक्षयंश्च तत् । अजानंतश्च तन्मूल्यं श्रावकाः पत्तनं ययुः ॥ ११९ ॥ अदर्शितैश्च सा तत्र स्थितरत्नपरीक्षिणम् । अज्ञास्तेऽपि च तन्मूल्ये मन्त्रं विदधुरीदृशम् ॥ १२० ॥ अत्र श्रीभीमभूपालपुरतो मुच्यतामियम् । तद्दत्तो निःक्रयो ग्राह्यो मूल्यं निर्णीयते ननु ॥ १२१ ॥ समुदायेन ते सर्वे पुरो राज्ञस्तदद्भुतम् । मुमुचुः किल शक्रेण प्रणयात्प्राभृतं कृतम् ॥ १२२॥ तदुदंते च विज्ञप्ते तुष्टः प्रोवाच भूपतिः। तपखिना विना मूल्यं न गृह्णामि प्रतिग्रहम् ॥ १२३ ॥ Page #277 -------------------------------------------------------------------------- ________________ अभयदेवप्रबन्धः । २६९ ते प्रोचुः श्रीमुखनास्य यमादिशति निःक्रयम् । स एवास्तु प्रमाणं नस्ततः श्रीभीमभूपतिः ॥ १२४ ॥ द्रम्मलक्षत्रयं कोशाध्यक्षाद्दापयति स्म सः। पुस्तकान्लेखयित्वा च सूरिभ्योददिरेथ तैः ॥१२५ ॥ पत्तने ताम्रलिप्त्यां चाशापल्यां धवलक्वके । चतुराश्चतुरशीतिः श्रीमंतः श्रावकास्तथा ॥ १२६॥ पुस्तकान्यंगवृत्तीनां वासनाविशदाशयाः। प्रत्येकं लेखयित्वा ते सूरीणां प्रददुर्मुदा ॥ १२७॥ युग्मम् ॥ प्रावर्त्तत नवांगानामेवं तत्कृतवृत्तयः। श्रीसुधर्मोपदिष्टेष्टतत्त्वतालककुंचिकाः ॥ १२८॥ पुरं धवलकं प्रापुरथ संयमयात्रया। स्थानेष्वप्रतिबंधो हि सिद्धांतोपायास्तिलक्षणम् ॥ १२९॥ आचामाम्लतपःकष्टान्निशायामतिजागरात् । अत्यायासात्प्रभोर्जशे रक्तदोषो दुरायतिः॥ १३०॥ अमर्षणजनास्तत्र प्रोचुरुच्छत्रदेशनात् । वृत्तिकारस्य कुष्ठोऽभूत्कुपितैः शासनामरैः ॥ १३१ ॥ निशम्येति शुचाक्रान्तः स्वांतःप्रेयाभिलाषुकः । निशि प्रणिदधे पन्नगेंद्रं श्रीधरणाभिधम् ॥ १३२॥ लेलिहानेश्वरं लेलिहानं देहमनेहसा। अचिरेणैक्षत श्रीमान् खप्ने सत्वकषोपलः ॥ १३३ ॥ . कालरूपेण कालेन व्यालेनालीढविग्रहः। क्षीणायुरिति संन्यास एव मे सांप्रतं ततः॥ १३४॥ इति ध्यायन् द्वितीयेह्नि निशि स्वप्ने स औच्यत । धरणेद्रेण रोगोऽयं मया लिह्य हृतस्ततः॥१३५॥ युग्मम् ॥ निशम्येति गुरुः प्राह नार्तिममृत्युभीतितः। रोगाद्वा पिशुना यंतु कद्वदा तद्विदुःसहम् ॥ १३६॥ नागः प्राहाधृतिर्नात्र कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं हित्वा दैन्यं जिनोद्धतेः॥१३७॥ श्रीकान्तीनगरीसक्तधनेशः श्रावकेण यत् । वारिधेरंतरा यानपात्रेण व्रजता सता ॥ १३८॥ तदधिष्ठायिकसुरस्तंभिते वहने ततः। अर्चितव्यतरस्योपदेशेन व्यवहारिणौ ॥ १३९ ॥ तस्या भुवः समाकृष्टा प्रतिमानां त्रयीशितुः। तेषामेकाचचारूपग्रामे तीर्थ प्रतिष्ठितम् ॥१४०॥ Page #278 -------------------------------------------------------------------------- ________________ प्रभावकचरिते अन्या श्रीपत्तने चिंतातरोर्मूले निवेशिता। अरिष्टनेमिप्रतिमा प्रासादांतःप्रतिष्ठिता ॥ १४१॥ तृतीया स्तंभनग्रामे सेटिका तटिनीतटे । तरुजालांतरे भूमिमध्ये विनिहितास्ति च ॥१४२॥ तां श्रीमत्पार्श्वनाथस्य प्रतिमा प्रतिमामिह । प्रकटीकुरु तत्रैतन्महातीर्थ भविष्यति ॥ १४३ ॥ षभिः कुलकम् पुरा नागार्जुनो विद्यारससिद्धौ धियां निधिः । रसमस्तंभयभूम्यंतःस्थबिंबप्रभावतः॥१४४॥ ततस्तंभनकाभिख्यस्तेन ग्रामो निवेशितः। तदेषा तेपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥१४५ ॥ युग्मम् ॥ अदृष्टान्यैः सूरिवृद्धारुपांते मार्गदर्शिका । श्वेतस्वरूपतस्तत्र क्षेत्रपालो यथाग्रतः ॥ १४६ ॥ उक्त्वेत्यंतर्हिते तत्र सूरयः प्रमदोद्धराः। व्याकुर्वन्ति स्म संघस्य निशावृत्तं तदद्भुतम् ॥ १४७॥ ततश्च संमदोत्तालैः प्रक्रान्ता धार्मिकैस्तदा। यात्रानवशती तत्र शकटानां चचाल च ॥ १४८॥ अग्रे भूत्वा प्रभुर्वृद्धा कौलेयकपदानुगः। श्रावकाऽनुमतोऽचालीत्तणकंटकिना यथा ॥ १४९॥ शतैस्तत्र ययुः सेटीतीरे तत्र तिरोहितौ । वृद्धाश्वौ तौ ततस्तस्थुस्तत्राभिज्ञानतोऽमुतः ॥ १५० ॥ पप्रच्छुरग्रे गोपालान्पूज्यं किमपि वो किमु । जल्पा? मत्रास्ति तेष्वेकः प्रोवाच श्रूयतां प्रभो ॥१५१॥ ग्रामे महीणलाख्यस्य मुख्यपट्टकिलस्य गौः। कृष्णागत्य क्षरेत्क्षीरमत्र सर्वैरपि स्तनैः॥१५२॥ गृहे रिक्तैव सा गच्छेदुह्यमानाऽतिकष्टतः। मनाग्मुंचति दुग्धं न ज्ञायतेऽत्र न कारणम् ॥ १५३ ॥ तत्र तैर्दर्शितं क्षीरमुपविश्यास्य संनिधौ। श्रीमत्पार्श्वप्रभोः स्तोत्रं प्रोचे प्राकृतवस्तुकैः ॥१५४॥ जयतिहूयणेत्यादिवृत्तं द्वात्रिंशतं तदा। अवदन् स्तवनं तत्र नासाग्रन्यस्तदृष्टयः॥१५५ ॥ बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः। शनैरुन्निद्रतेजस्विबिंबं तत्प्रतिवस्तुकम् ॥१५६॥ प्रणतं सूरिभिः संघसहितरेतदंजसा। गतो रोगः समग्रोऽपि कायोऽभूत्कनकप्रभः ॥ १५७ ॥ १ P. बिंबा० २ P. महाण, Page #279 -------------------------------------------------------------------------- ________________ अभयदेवप्रबन्धः । २७१ गंधांभोभिः स संस्मप्य कर्पूरादिविलेपनैः। विलिप्य चार्चितः सौमनसैः सौमनसैस्तदा ॥ १५८॥ चक्रे तस्योपरिच्छाया सच्छायाप्रतिसीरया। सत्रावारितात्तत्र संघो ग्राम्यानभोजयत् ॥ १५९ ॥ . प्रासादार्थ ततश्चक्रुः श्राद्धाव्यस्य मीलनम् । अक्लेशेनामिलल्लक्षं ग्राम्यैरनुमता च भूः॥१६० ॥ श्रीमल्लवादिशिष्यस्य श्राद्धैरानेश्वराभिधः। महिषाख्यः पुरावासः समाह्वायि धियां निधिः ॥ १६१॥ अनुयुक्तः समं मान्यकर्मांतरविचक्षणः । अथ प्रासाद आरोढुं सोऽचिरात्पर्यपूर्यत ॥१६२॥ कर्माध्यक्षस्य वृत्तौ यम्भ एकोदिनं प्रति । विहितो घृतकर्षश्च भुक्तो तंडुलमानकम् ॥ १६३॥ विहृत्य भोजनात्तेन तेन द्रव्येण कारिता। खादेवकुलिका चैत्ये सा तत्राद्यापि दृश्यते ॥ १६४ ॥ शुभे मुहूर्ते बिंबं च पूज्यास्तत्र न्यवेशयन् । तद्रात्रौ चरणाधीशस्तेषामेतदुपादिशत् ॥ १६५ ॥ स्तवनादमुतो गोप्यं मद्वाचा वस्तुकद्वयम् । कियतां हि विपुण्यानां प्रत्यक्षीभूयते मया ॥ १६६ ॥ तदादेशादतोऽद्यापि त्रिंशद्वत्तमिता स्तुतिः। सपुण्यैः पठ्यमानात्र क्षुद्रोपद्रवनाशनी ॥ १६७॥ ततःप्रभृत्यदस्तीर्थ मनोवांच्छितपूरणम् । प्रवृत्तं रोगशोकादिदुःखदावघनाघनः ॥१६८ ॥ अद्यापकलशो जन्मकल्याणकमहामहे । आद्यो धवलकश्राद्धः सच रूपयति प्रभुम् ॥ १६९ ॥ बिंबासनस्य पाश्चात्यभागेऽक्षरपरंपरा। ऐतिह्यान् श्रूयते पूर्वप्रकथिता जने? ॥ १७०॥ नमस्तीर्थकृतस्तीर्थे वर्षे द्विकचतुष्टये । आषाढश्रावको गौडोऽकारयत्प्रतिमात्रयम् ॥१७१ ॥ श्रीमान् जिनेश्वरः सूरिस्तथा श्रीबुद्धिसागरः। चिरमायुः प्रपाल्यैतौ संन्यासाद्दिवमीयतुः ॥ १७२॥ श्रीमानभयदेवोपि शासनस्य प्रभावना। पत्तने श्रीकर्णराज्ये परणोपास्तिशोभितः ॥ १७३ ॥ विधाय योगिनीरोधधिकृतापरवासनः । परं लोकमलंचक्रे धर्मध्यानकधीनिधिः॥ १७४॥ युग्मम् । Page #280 -------------------------------------------------------------------------- ________________ २७२ प्रभावकचरिते वृत्तांतोऽभयदेवसूरिसुगुरोरीदृक् सतामर्चितः कल्याणैकनिकेतनं कलिकलाशैलाद्रिवज्रप्रभः । भूयादुर्धरदुर्घटोदिततमःप्रध्वंससूर्योदयः श्रेयः श्रीनिलयो लयं दिशतु वो ब्रह्मण्यनंतोदये ॥ १७५ ॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरी प्रद्युम्नसूरीक्षितो वृत्तांतोऽभयदेवसूरिसुगुरोः शृंगोगहेंदुप्रमः ॥ १७६ ॥ वरकरणबंधुजीवकनृतिल कनालीकरूपविजयस्व । श्रीप्रद्युम्नसुजाते सुमनश्चित्रं नवकुलश्रीः ॥ १७७॥ ग्रंथ १८२ अ० उभयं ४४५६ । इतिश्री अभयदेवप्रबन्धः अथ श्रीवीरप्रबंधः। वीराचार्यः श्रिये सोस्तु संतः क्रोधाद्यरिक्षयम् । यदभ्यासे कृताभ्यासाः कर्तुमिच्छंति सांप्रतम् ॥ १॥ यत्करस्पर्शमात्रेण कन्यादिष्वपि संक्रमम्।। विधाय भारती वक्ति कथं वीरः स वर्ण्यते ॥२॥ बहुश्रुतमुखाच्छ्रुत्वा तद्वृत्तं कियदप्यहम्। वर्णयिष्यामि बालः किं न वक्ति स्वानुमानतः॥३॥ श्रीमच्चंद्रमहागच्छसागरे रत्नशैलवत् । अवांतराख्यया गच्छः षंडिल्ल इति विश्रुतः॥४॥ श्रीभावदेव इत्यासीत् सूरिरत्नं च रत्नवत् । पात्रस्नेहादिहीनोऽपि सदा लोकहिते रतः॥५॥ श्रीमद्विजयसिंहारव्याः सूरयस्तत्पदेऽभवन् । प्रतिवादिद्विपघटाकटापाटनलंपटाः ॥६॥ तत्पट्टमानससरोहंसाः श्रीवीरसूरयः। बभूवुर्गतिशब्दाभ्यामनन्यसदृशश्रियः ॥७॥ राजा श्रीसिद्धराजस्तान्मित्रत्वे स्थापयन् गुणैः। खभावविशदे ह्येष ददाति कुमुदे मुदम् ॥ ८॥ अथ मित्रं समासीनो नृपतिर्नर्मणावदत् । श्रीवीराचार्यमुन्निद्रं तेजो वः क्षितिपाश्रयान् ॥९॥ अथाहुः सूरयः स्वीयप्रज्ञा भाग्यैर्विजृभते । प्रतिष्ठा नान्यतःश्वा किं सिंहोजस्वी नृपादृतः॥१०॥ Page #281 -------------------------------------------------------------------------- ________________ श्रीवीरप्रबन्धः । राजाह मत्सभां मुक्त्वा भवतोऽपि विदेशगा। अनाथा इव भिक्षाका बाह्यभिक्षाभुजो ननु ॥११॥ सूरिराह भवत्प्रेमसंदानमिव नोऽभवत् । दिनानीयंति गच्छाम आपृष्टः सांप्रतं भवान् ॥१२॥ भूपः प्राह न दास्यामि गन्तुं निजपुराय वः। सूरिराह निषिध्यामो यांतः केन वयं ननु ॥१३॥ इत्युक्त्वा खाश्रयं प्रायात् सूरिभूरिकलानिधिः। रुरोध नगरद्वारः सर्वत्र नृपतेनरैः ॥१४॥ इतश्च गुरवः साध्यं धर्मकृत्यं विधाय ते । विधिवद्विदधुर्ष्यानं श्रीपट्टपट्टिकासनाः ॥ १५ ॥ अध्यात्मयोगतः प्राणनिरोधाद्गनाध्वना । विद्याबलाञ्च ते प्रापुः पुरी पल्लीतिसंशया ॥१६॥ प्रातर्विलोकिते तत्रादृष्टे राजाह्यचिंतयत् । किं मित्रं गत एवायं सदा शिथिलमोहधीः ॥ १७ ॥ ईदृक् पुनः कथं प्राप्योनेकसिद्धिकुलावनिः । सिद्धिस्नेहे वयं मंदपुण्याः पिण्याकसंनिभाः ॥१८॥ इतश्च ब्राह्मणैः पल्लीवासैः श्रीपत्तने पुरे । विज्ञाप्यततरां श्रीमजयसिंहनरेशितुः॥१९॥ तिथिनक्षत्रवारावासरव्यक्तियुते दिने । श्रीवीरसूरिरायातः संगतो इति न स्फुटम् ॥२०॥ श्रुत्वेति विममर्शाथ भूपालः केलिरीदृशी। विकृता यत्स एवैष प्रमोहापोहवासरः ॥२१॥ ययावाकाशमार्गेण तद्रात्रावेव स ध्रुवम् । नर्मलीलाद्वितीयेह्नि तद्विजानां स संगतः॥२२॥ युग्मम् । उक्तं वा रसपूर्णोऽथ प्रधानान् प्राहिणोन्नुपः। आह्वानाय महाभक्ता ययुस्ते तत्र मंक्षु च ॥२३॥ नृपस्यानुनयः सांद्रीकृत्य तश्च प्रकाशितः। औदासीन्यस्थितास्ते च प्रोचुः प्रचुरसंयमाः॥२४॥ कारणं सहकार्यत्र राज्ञ उच्चावचं वचः। तस्माद्विहृत्य देशेषु यद्येष्यामो भवत्पुरे ॥ २५॥ दुर्लभं मानुषं जन्म व्रतं विद्या बलं श्रुतम् । मुधा नराधिपस्नेहमोहे को नाम हारयेत् ॥ २६ ॥ इत्याकर्ण्य च ते प्रोचुरेकं शृणुत भूपते । वचः सिद्धत्वमस्माकं त्वत्संगात्तथ्यतास्पदम् ॥२७॥ Page #282 -------------------------------------------------------------------------- ________________ २७४ प्रभावकचरिते भविष्यति पुनः कालमियंतं पितृनाम तत् । सिद्धे भवति पार्श्वस्थ वयं सिद्धाहि नान्यथा ॥२८॥ श्रुत्वेति बहुमानाद्रेरिव तैराददे वचः। आयास्यते पुरे तत्र मा चिंतात्र विधीयताम् ॥ २९ ॥ महाबोधपुरे बौद्धान् वादे जित्वा बहून् तथा । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिताः ॥ ३०॥ परप्रवादिनस्तैश्च जितास्तेषां च भूपतिः। छत्रचामरयुग्मादिराजचिह्नान्यदान्मुदा ॥ ३१ ॥ व्यावृत्त्याध्वनिजां भूमिमायांतस्तेऽवतस्थिरे। पुरे नागपुरे तत्राप्यकार्युश्च प्रभावनाम् ॥ ३२ ॥ ज्ञात्वाथ सिद्धराजेनाहूता भक्तिभृताथ ते। प्रैषुः परिच्छदं गोप गिरिराजसमर्पितम् ॥३३॥ विजट्ठः सूरयस्तस्माच्छनैः संयममात्रया। अणहिल्लपुरासन्नं चारूपग्राममागमत् ॥ ३४॥ अभ्युद्ययावथ श्रीमजयसिंहनरेश्वरः । प्रवेशोत्सवमाधत्तादृष्टपूर्व सुरैरपि ॥ ३५॥ अथात्र वादिसिंहाख्यः सांख्यवादी समागमत् । परं प्रदत्तवानीदृक् लिखनश्लोकदुर्घटम् ॥ ३६॥ तथाहि-उद्धृत्य बाहुं किल रारटीति यस्यास्ति शक्तिः सच वावदीतु। मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि३७ श्रीमत्कर्णमहाराजबालमित्रं यतीश्वरः । गोविंदाचार्य इत्यस्ति वीराचार्यकलागुरुः॥ ३८ ॥ रात्रौ रहः समागत्य छन्नवेषः क्षमाधिपः। प्राह तं किमयं भिक्षुरपि पूज्यैः प्रतीक्ष्यते ॥ ३९ ॥ तैःप्रोचे भवतामेव वागविलोक्यात्र भूयते। प्रभाते विवदिष्यंतं वीराचार्यों विजेष्यते ॥४०॥ प्रीतो राज्ञा प्रभाते तमाह्वास्त नृपपर्षदि । स निःस्पृहवत्दंभेन शांतोऽवददिदं तदा ॥४१॥ वयं किमागमिष्यामो निःसंगो यदि भूपतिः। अस्मद्वाकौतुकी भूम्यासनोत्रायातु सोऽपि तत् ॥४२॥ प्रातः कुतूहली राजोररीकृत्य तदप्यथ । तदावासे समागच्छदुर्व्यामुामुपाविशत् ॥ ४३ ॥ समाह्वयत गोविंदसूरिं सूरिसभासदम् । सोऽपरान् साकृतीनीषद्विदुषोऽपि पुरोधे ॥४४॥ Page #283 -------------------------------------------------------------------------- ________________ श्रीवीरप्रबन्धः। वीराचार्य महाप्रज्ञाप्रज्ञातानेकशास्त्रकम् । उद्यत्कवित्ववित्कृत्वावधि पश्चाञ्चकार च ॥४५॥ समाययौ ततस्तत्रोपविष्टः कंबलासने । राजाह को वदेदेषाममुना वादिना सह ॥ ४६॥ . श्रीगोविंदप्रभुः माहानौचित्यक्षरसंगिना। अनेन शास्त्रपाथोधितरंडोपमधीजुषः (षा)॥४७॥ अझेन सह लजंतेवदंतस्तत् शिशुः कृती। वीरो वदिष्यति प्राज्ञः श्रुत्वा वादी स चावदत् ॥४८॥ दुग्धगंधमुखो मुग्धः किं वक्ष्यति मया सह । . असमानो विग्रहोयं नास्माकं भासते शुभः ॥ ४९ ॥ राशोचे क्षीरकंठास्यादर्थपीयूषगंधितः। अस्मात्त्वन्मदधत्तूरविभ्रमः स हरिष्यति ॥ ५० ॥ श्रुत्वेति स उपन्यासमवज्ञावशतोदधेः। अर्धकर्पूरहस्तस्थमस्तकस्तर्कसंभवम् ॥ ५१ ॥ विरते तत्र चाजल्पत् श्रीवीरो विदुषां प्रभुः। वदामि गद्यात्पद्याद्वा यच्चित्ते तव भासते ॥५२॥ स्वेच्छं तदुद्दिशच्छंदोऽलंकारं च ममाग्रतः। सर्वानुवादमर्थात्तु वादं वा सत्वरं भवान् ॥ ५३ ॥ श्रुत्वेति स पुनः प्राह गुर्जराडंबरः पुरः। गमनं क्रियते बालः किं ज्ञास्यति भवानिह ॥ ५४॥ अथ शक्तिस्तवास्ते चेत्पद्येन छंदसा पुनः। वद मत्तमयूरेणालंकारान्निह्नवात्तथा ॥ ५५॥ सर्वानुवादमाश्रित्य स निशम्येति तं जगौ। उत्तिष्ठासनसंस्थोस्थाः सावधानस्ततः शृणु ॥५६॥ वयं नहि गिरां देव्या अवहेलां विदध्महे । अर्द्धसुप्तपुरोवादादाकयेति सचोत्थितः॥५७ ॥ वाचि वीरं ततोवीरं यथा प्रागुक्तसंश्रवात् । उपन्यस्यंतमाकास्विद्यतोज्झितगीर्बलः ॥५८॥ श्रीवीरे विरते जल्पादर्थतस्तस्य कुर्वतः। अनुवादं जगादासौ जल्पसर्वानुवादतः ॥ ५९॥ न शक्नोमीति स प्राह वादिसिंहस्ततो नृपः। स्वयं बाहौ विधृत्यामुं पातयामास भूतले ॥ ६०॥ वक्तुं न शक्तश्चेदुच्चैरासने कथमासिवान् । तथा च कविराजः श्री श्रीपालो वाक्यमब्रवीत् ॥ ६१ ॥ Page #284 -------------------------------------------------------------------------- ________________ २७६ प्रभावकचरिते गुणैरुत्तुंगतां याति नोचैरासनसंस्थितः। प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥६२॥ ततो विडंब्यमानं तं दृष्ट्वा श्रीवीर ऊचिवान् । श्रूयते भूप मे वाणी प्राणी दर्पण जीयते ॥ ६३ ॥ यदनेन नराधीशः शुद्धन्यायैकनिष्ठधीः। सभामध्यमवज्ञातो वर्णाश्रमगुरुर्भवान् ॥ ६४ ॥ स्वस्यांबुजस्थिरावासप्रदानात्प्रीणिता दृढम् । त्वगृह्या कोपभूरत्र देव्यदाद्वाचि मंहताम् ॥ ६५ ॥ युग्मम् । वाचां रणे तु चास्माकं प्रागूढसमयो ह्ययम् । वादी निगृह्यमाणोहि संरक्ष्यः प्रतिवादिना ॥६६॥ ततो विमुच्यतां श्रीमन्मदांधोऽयं कृपास्पदम् । निशम्यति नृपेणासौ मुक्तो दृष्ट्वा ततो बहिः॥ ६७ ॥ जयपत्रार्पणादस्याददे तेजः परं तदा । द्रव्यं तु निस्पृहत्वेन स्पृशत्यपि पुनर्न सः॥ ६८ ॥ अन्यदा जययात्रायां बलितो गूर्जरे शिशुः । चतुरङ्गचमू चक्रे रेणुच्छादितभानुभिः ॥ ६९ ॥ श्रीवीराचार्यचैत्यस्य पुरतः सञ्चरिष्णुभिः। नृपमीक्षितुमाप्ते च कवीन्द्रे तत्र विश्रुते ॥ ७० ॥ क्रमात्तत्र च संप्राप्तः श्रीसिद्धाधीशभूपतिः । तं समीक्ष्य कविः कश्चित्समस्यापदमभ्यधात् ॥ ७१ ॥ तदुद्दिश्य कवौ वीराचार्य दृष्टिं व्यधान्नृपः। अनायासात्ततोऽपूरि कृतिना तेन सत्वरम् ॥ ७२ ॥ तथाहि-कालिन्दि ब्रूहि कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्माच्छत्रोमें नर्मदाहं त्वमपि मम सपत्न्याश्च गृह्णासि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कजलैर्मालवीनां बाष्पाम्भोभिः किमासांसमजनि बलितो गुर्जराणामधीशः॥७३॥ श्रुत्वेति भूप आचख्यौ तव सिद्धगिरानया। मालवेशं गृहीष्यामि संशयो नात्र मे हृदि ॥ ७४॥ त्वया बलानकस्थेनाशिष्टो मे शत्रुनिग्रहः । विजयस्य पताकेयं ततस्तत्रास्तु सा दृढम् ॥ ७५॥ श्रीभावाचार्यचैत्यस्य पताकाभूदलानके। महता विहितं यस्माञ्चिरेणापि न नश्यति ॥ ७६॥ वादीकमलकीया॑ख्य आशां वरयतीश्वरः। वादमुद्राभृद्भ्यागादवज्ञातान्यकोविदः ॥ ७७॥ Page #285 -------------------------------------------------------------------------- ________________ श्रीवीरप्रबन्धः । आस्थानं सिद्धराजस्य जिह्वाकण्डूययार्दितः । वीराचार्य स आह्वास्त ब्रह्मास्त्रं विदुषां रणे ॥ ७८ ॥ पञ्चवर्षीयबालां स सहादाय समागमत् । अवज्ञया वादिनं तं वीक्ष्य न्यविशदासने ॥ ७९ ॥ स चोपन्यस्तवान्सर्वसामर्थ्येन गुरुस्ततः । श्रीवीरो बालया सार्द्धमरंस्त कुतुकादिव ॥ ८० ॥ स तं दृष्ट्वाऽब्रवीद्वादी भूपते भवतः सभा । नोचिता विदुषां बालक्रीडाविप्लवसंभृता ॥ ८१ ॥ - राजा हस्तप्रमाणेन क्रीडत्येष बुधेश्वरः । इत्युक्त्वा प्रेषितो वीरो नृपेण प्राह सस्मितः ॥ ८२ ॥ समानवयसोर्वादों विमृश्येति मया ततः । एषा बाला समानिन्ये वस्त्रावृतनिरादरा ॥ ८३ ॥ एष वाद्यपि नग्नत्वादृश्यते डिम्भसन्निभः । उभयोरेतयोरस्तु वादो व्रीडात्वनेन तु ॥ ८४ ॥ स्त्रीनिर्वाणनिषेधेनानयैवास्य च विग्रहः । विधेयस्तदसौ वादमुद्रयामुं विजेष्यते ॥ ८५ ॥ अस्पृष्टहस्तौ तन्मौलौ प्रदायोचे यतीश्वरः । तां जल्पवादिनानेन स्थापय स्त्रीषु निर्वृतिम् ॥ ८६ ॥ ततः सा निपुणाधीतः प्रमाणविदुषामिव । वाग्भरैः स्थापयामास तेनाशक्य स्थिरोत्तरैः ॥ ८७ ॥ अनेडमूकतां प्राप्ते तत्र वित्रस्तमानसे । सस्रुर्जयजयारावाः सभ्यानां नृपतेरपि ॥ ८८ ॥ भूपालः प्राह को जेता मत्सभां तपति प्रभौ । श्रीवीरे वादिवीरेऽत्र सिद्धेऽनेकासु सिद्धिषु ॥ ८९ ॥ यदीयहस्तस्पर्शेन संक्रान्ता यत्र तत्र च । वाग्देवी भाषतेऽजस्रं स शक्यः केन वर्णितुम् ॥ ९० ॥ एवं युगप्रधानाभगुणव्यूता पटा इव । श्री वीरसूरयः पान्तु भव्यजाड्यापहारिणः ॥ ९१ ॥ श्रीमत्कालकसूरीणामनिर्वाच्यं प्रभाद्भुतम् । अद्यापि यत्कुले वीराः प्राग्वीरा भावयन्त्यमी ॥ ९२ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीवीरवृत्ताद्भुतं श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः सविंशोऽभवत् ॥ ९३॥ ग्रं० ९६ अ० ११ उभयं ४५५२ इति श्री वीरप्रबन्धः। 24 २७७ Page #286 -------------------------------------------------------------------------- ________________ २७८ प्रभावकचरिते श्रीदेवसूरिप्रबन्धः। श्रीदेवसूरिर्वः पातु य आक्रम्य दिगम्बरम् । कीर्तेरपि स्त्रियः सिद्धमूलविद्यामतिष्ठिपत् ॥१॥ देवाचार्यः प्रियो भूपात्केवलज्ञानशालिनाम् । विमोच्याभोजनं येनाव्युच्छित्तिः शासने कृता ॥२॥ जीवितानादिराजीवममध्यमहितोदयम् । अनंतविधुरद्रोहं वदनं तस्य संस्तुमः ॥ ३॥ भ्रांतिसंवर्तकभ्रांतिदुर्वृत्तरजसः शमे। . अवारवारिवाहश्रीतद्वृत्तं परिकीर्त्यते ॥४॥ अस्ति गूर्जरदेशस्य नवनीतमिवोद्धृतम् ।। अष्टादशशतीनाम मंडलं स्वर्गखंडलम् ॥५॥ तत्र मदाहृतं नाम नगरं नगराजिभिः। ध्वांतस्येव महादुर्गमगम्यं सूर्यरोचिषाम् ॥ ६ ॥ सद्वत्तो जीवनच्छायो राजमानः स्वतेजसा। प्राग्वाटवंशमुक्तासीद्वीरनागाभिधो गृही ॥७॥ तत्प्रिया सक्रियाधारा प्रियंकरगुणावनिः । जिनदेवीति देवीव मेना हिमवतो बभौ ॥ ८॥ अन्यदा सा निशि स्वप्ने पीयूषरुचिमैक्ष्यत । प्रविशंतं मुखे पृथ्व्यामवतारेच्छया किल ॥९॥ अन्वये गुरवस्तस्य श्रीमुनिचंद्रसूरयः। संति शांतिकमंत्रेति येषां नामाक्षराण्यपि ॥१०॥ प्रातः सा तत्पुरे गत्वा नत्वा सत्वमहालया। अपृच्छन्मुदिताचार्य स्वप्नस्यातिशयस्पृशः॥११॥ देवचंद्रनिभः कोऽप्यवततार तवोदरे। आनंदयिष्यते विश्वं येन ते चेत्थमादिशन् ॥ १२ ॥ अथ सा समयेऽसूत सुतं वज्रोपमद्युतम् । यत्तेजसा कलिः शैलश्चकंपे भेदभीतितः ॥ १३ ॥ हृदयानंदने तत्र वर्धमाने च नंदने । चंद्रस्वप्नात्पूर्णचंद्र इत्याख्यां तत्पिता व्यधात् ॥ १४ ॥ कदाचिन्नगरे तत्राशिवं जज्ञे जनांतकृत् । सहसैव यतो लोकः प्रेक्षाप्रेक्ष्यत्वमादधौ ॥ १५ ॥ वीरनागो विचिंत्यैतद्दक्षिणां दिशमाश्रयत् । भृगुकच्छपुरे प्राप लाटदेशविभूषणम् ॥ १६ ॥ विहारं जंगम तीर्थ श्रीमुनिचंद्रसूरयः। चक्रुस्तत्र तदादेशात्स्थापितोऽसौ सधर्मिभिः ॥ १७ ॥ Page #287 -------------------------------------------------------------------------- ________________ श्रीदेवसूरिप्रबन्धः । २७९ वर्षाष्टकवयाः पूर्णचंद्र इत्यस्य नंदनः। चक्रे सुखासिकादीनां वाणिज्यं शैशवोचितम् ॥१८॥ चिंतनौचित्यहर्येषु विकाशिचणकैः समाः। द्राक्षा अवापडिभत्वे(?)पिहि पुण्यानि जाग्रति ॥ १९॥ कस्मिंश्चित्सदनेऽन्येधुर्गतो व्यंजनविक्रये। द्रम्मान् हेमं च गेहेशं पिंडैरुज्झन्तमैक्षत ॥२०॥ तव भाग्योद्घाटश्लक्ष्णकर्करांगाररूपतः। पश्यतिम ततः पूर्णचंद्रः प्राहातिविस्मितः॥२१॥ किमुज्झसि महाद्रव्यं नरसंजीवनौषधम् । इत्युक्ते स गृही दध्यौ चित्तेऽहो पुण्यवानसौ ॥२२॥ वत्स द्रव्यमिदं वंशपात्रे क्षिप्त्वा ममार्पय। . इत्युक्त्वा पूरयित्वासौ पात्राण्यस्यार्पयत्तदा ॥२३॥ तत्करस्पर्शमाहात्म्यात्तद्रव्यं पश्यति स्म सः। अपुण्यपुण्ययोः साक्षादीदृशं दृश्यतेऽन्तरम् ॥२४॥ सोऽतर्गेहं क्षिपत्येवं सर्व निहितमंतरा। एका सुखासिकाहेतोः प्रसृतिस्तेन चार्थिता ॥ २५॥ हृष्टश्च पितुराख्याय ददौ तद्रविणं मुदा । वीरनागः प्रभूणां च यथावृत्तमदोऽवदत् ॥२६॥ व्यमृशंस्तेऽपि वाता|त्किमेष पुरुषोत्तमः। दर्शयंती वरूपाणि लक्ष्मीर्यस्याभिलाषुका ॥ २७॥ रंगत्कुमुदचंद्रांशुप्रसरोच्छादकोदयः । विरोचनो विनेयश्चेदेषानंतोन्नतिस्तदा ॥२८॥ ततस्तेऽप्यवदन् वाचं शृणु नस्तव यद्वरम् । वस्तु संपद्यते कस्य भक्ता तत्प्रतिपद्यते ॥ २९ ॥ स प्राह नाथ पूज्यानां कुले नो गुरुताभृताम् । अहं त्वेकसुतो जीर्णस्तदास्था मेऽत्र जीवितुम् ॥ ३०॥ व्यवसाये क्षमः कीदृक्षे पिताहं जनन्यपि । अस्य नश्यत्तनुस्थेमानन्यसूस्तद्वदामि किम् ॥ ३१ ॥ अत्र चेत्पूज्यपादानामाग्रहस्तन्मया नहि । विचारणं हि कर्तव्यं गृह्यतामेष नंदनः ॥ ३२॥ प्रभुराहाथ मे पंचशती चारित्रिणां गणे। सर्वेऽपि ते सुताः संतु न वै कस्मादतः प्रति ॥ ३३॥ ... अमी सधर्मिका यावजीवं कशिपुदास्तव। धर्म धेह्यास्त्र निश्चितः परलोकैकशंबलम् ॥ ३४॥ १P प्यवाता. २P प्रसराच्छा. Page #288 -------------------------------------------------------------------------- ________________ २८० प्रभावकचरिते तदंबां च यथादेशकारिणीमनुमान्य च । पूर्णचंद्रं दृढांभक्तिं प्रभवः समदीक्षयन् ॥ ३५॥ रामचंद्राभिधां तस्य ददुरानंदनाकृतेः। दर्शनोल्लासिनः संघसिंधुवृद्धिविधायिनः ॥ ३६॥ दुर्नेयत्वकलंकस्यापनोदादुपकारिणीम् । यत्प्रजा दुर्गशास्त्राणामपि वाग्गोचरः स किम् ॥ ३७॥ तर्कलक्षणसाहित्यविद्यापारगतः स च । अभूत्स्वपरसिद्धांते वर्तमाने कषोपलः ॥ ३८॥ . शिवाद्वैतं वदन् बंधः पुरे धवलके द्विजः। काश्मीरसागरे जिग्ये वादान् सत्यपुरे पुरे ॥ ३९ ॥ तथा नागपुरे क्षुण्णो गुणचंद्रो दिगंबरः। चित्रकूटे भगवतः शिवभूताख्यया पुनः॥४०॥ गंगाधरो गोपगिरौ धारायां धरिणीधरः।। पद्माकरो द्विजः पुष्करिण्यां "वाग्मदोद्धरः॥४१॥ जितश्च भृगुक्षेत्रे कृष्णाख्यो ब्राह्मणाग्रणीः। एवं वादजयोन्मुद्रो रामचंद्रः क्षितावभूत् ॥४२॥ विद्वान् विमलचंद्रोऽथ हरिचंद्रः प्रभानिधिः। सोमचंद्रः पार्श्वचंद्रो विबुधः कुलभूषणः॥४३॥ प्राक्षः शांतिस्तथा शोकचंद्रश्चंद्रोल्लसद्यशाः। अजायंत सखायोऽस्य मेरोरिव कुलाचलाः॥४४॥ ततो योग्यं परिज्ञाय रामचंद्रं मनीषिणम्। प्रत्यष्ठिपन् पदे दत्तदेवसूरिवराभिधम् ॥४५॥ पितुस्तस्य व्रतं वीरनागाख्यस्य खसुः पुनः। पुरात्तव्रतमुद्राया अमुद्राया महाव्रतैः ॥ ४६॥ महत्तरां प्रतिष्ठां च व्यधुर्विधुरितांहसः। श्रीमञ्चंदनबालेति नामास्याः प्रददुर्मुदा॥४७॥ युग्मम् । अन्यदा गुर्वनुज्ञाताः श्रीमंतो देवसूरयः। विहारमादधुः पूज्याः पुरे धवलकाभिधे ॥४८॥ उदयो नाम तत्रास्ति विदितो धार्मिकाग्रणी। .. श्रीमत्सीमंधरस्वामिबिंबं सैष व्यधापयत् ॥ ४९॥ ... स प्रतिष्ठाविधौ तस्य निश्चिन्वन्सहरुं ततः। श्रीमच्छासनदेवीं चाराध्नोत्रयहमुपोषितः॥५०॥. युगप्रधानकल्पेन श्रीमता देवसूरिणा। . .. . प्रतिष्ठापय विबं स्खमित्युपादिशताथ सा ॥ ५१ ॥ ... १H यथाभक्तिं. २P वामम०. Page #289 -------------------------------------------------------------------------- ________________ 2 श्रीदेवसूरिप्रबन्धः । तत्तदर्थनया बिंबप्रतिष्ठां विदधुस्तदा । ऊदावतीति नाम्ना तच्चैत्यमद्यापि विद्यते ॥ ५२ ॥ अथ नागपुरेऽन्येद्युः प्रभवो विजिहीर्षवः । गिरींद्रमर्बुदं प्रापुरुक्ता आरुरुहुश्च तम् ॥ ५३ ॥ मंत्रिणोंऽबप्रसादस्य गिरिमारोहतः सह । गुरुभिः कर्मवैचित्र्यादंदशूकोऽदशत्पदे ॥ ५४ ॥ ज्ञात्वा ते प्रेषयंस्तस्य हेतुं पादोदकं तदा । धौतमात्रे तदा तेन दंशोऽसौ निर्विषोऽभवत् ॥ ५५ ॥ श्रीनाभेयं नमस्कृत्य संसारार्णवतारणम् । तुष्टुवुः श्रीमदंबां च प्रत्यक्षां शासनेश्वरीम् ॥ ५६ ॥ सावादीत्कथयिष्यामि किंचित्ते बहुमानतः । दूरे सपादलक्षे त्वमायासीन्मम वाक्यतः ॥ ५७ ॥ गुरुस्तवाष्टमासायुरस्मादेव दिनाद्यतः । व्यावर्त्तस्व ततो वेगादणहिल्लपुरं प्रति ॥ ५८ ॥ इत्याख्याय तिरोधाश्च देवी दध्यौ ततः प्रभुः । मय्यंबाया इवांबाया वत्सलत्वमहो महत् ॥ ५९ ॥ व्यावृत्यायात्ततः पूज्यपुर आख्यत्सुरीवचः । आनंदमसमं प्रापुस्ते कालज्ञानतो निजात् ॥ ६० ॥ अन्यदा देवबोधाख्यः श्रीभागवतदर्शनी । भूरिवादजयोन्मुद्रः श्रीमत्पत्तनमाययौ ॥ ६१ अवलंबनपत्रं च राजद्वारे मदोद्धुरः । तत्र श्लोकं दुरालोकं विबुधैरलिखच्च सः ॥ ६२ ॥ तथाहि * एकद्वित्रिचतुःपंचषण्मेनकमनेनकाः । देवबोधे मयि क्रुद्धे षण्मेनकमनेन कः ॥ ६३ ॥ ततः सर्वेऽपि विद्वांस एनमालोक्य सूर्यवत् । दृशो विपरियंतिस्म दुर्बोधं सुधियामपि ॥ ६४ ॥ षण्मासांते तदा चांबा प्रसादो भूपतेः पुरः । देवसूरिप्रभुं विज्ञराजं दर्शयति स्म च ॥ ६५ ॥ स भूपालपुरः श्लोकं बिभेदोद्भेदधीनिधिः । कुलत्थजलवद्द्वंडशैलं राज्ञा मतः सुहृत् ॥ ६६ ॥ अथास्य श्लोकस्य विवरणं ૨૮૨ + कैगैरे शब्दे । कायंतीति क्वचित् डप्रत्यये काशब्देन वादिनः । षाः संतीति क्रियाध्याहारे षड्डादिनो न संति । क्व सति देवबोधे मयि क्रुद्धे सति । पुनः १ H. उदावसही. Page #290 -------------------------------------------------------------------------- ________________ .२८२ . प्रभावकचरिते कथंभूते। एकद्वित्रिचतुःपंचषण्मेनकमने मांकमाने मांतं मा क्विप् प्रमाणं एकं प्रमाणं प्रत्यक्षरूपं येषां ते एकमाः चार्वाकाः एकप्रमाणवादिनः। तथा द्विमाः द्वे प्रमाणे प्रत्यक्षानुमानरूपे येषां ते द्विमाः द्विप्रमाणवादिनो बौद्धाः वैशेषिकाच । तथा त्रिमाः त्रीणि प्रमाणानि प्रत्यक्षानुमानागमरूपाणि येषां ते त्रिमाः त्रिप्रमाणवादिनः सांख्याः। चत्वारि प्रत्यक्षानुमानागमोपमानरूपाणि प्रमाणानि येषां ते चतुर्माः चतुःप्रमाणवादिनो नैयायिकाः । तथा पंचमाः पंचप्रत्यक्षानुमानागमोपमानार्थापत्तिरूपाणि प्रमाणानि येषां ते पंचमाः पंचप्रमाणवादिनः प्रभाकराः। तथा षण्माः । तथा षट् प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरूपाणि प्रमाणानि येषां ते षण्माः षट्प्रमाणवादिनो मीमांसकास्तेषामितास्ते द्वे तृवात् तान् कमते अभिलषति । स एकद्विंत्रिचतुःपंचषण्मेनकमनः तस्मिन्मयि मेनकमने नका अपि नका नवादिनः। मा लक्ष्मीस्तस्या इनः स्वामी विष्णुः कमनो ब्रह्मा इन आदित्यः मेनकमनेनाः । अल्पत्वात्कप्रत्यये मेनकमनेनकाः । तेऽपि ब्रह्मविष्णुसूर्या मयि देवबोधे क्रुद्ध सति अज्ञानत्वान्नकाः न वादिनः यतो देवान् बोधयति इति व्युत्पत्त्या तेपि मया बोधिताः सुज्ञाना भवंति । तथा मानुषाणां पटुवादिनां विदुषामपि किं प्रमाणमिति ॥ इति पत्रावलंबव्याख्याश्लोकः ॥ ग्रं० ॥ १६॥ अथास्ति बाहडो नाम धनवान् धार्मिकाग्रणीः । गुरुपादान्प्रणम्याथ चके विज्ञापनामसौ ॥६७॥ आदिश्यतामतिश्लाघ्यं कृत्यं यत्र धनं व्यये। प्रभुराहालये जैने द्रव्यस्य सफलो व्ययः॥ ६८॥ आदेशानंतरं तेनाकार्यत श्रीजिनालयम् । हेमाद्रिधवलस्तुंगो दीव्यत्कुंभमहामणिः ॥ ६९ ॥ श्रीमता वर्द्धमानस्याबीभरविंबमद्भुतम् । यत्तेजसा जिताश्चंद्रसूर्यकांतमणिप्रभाः ॥ ७० ॥ शतैकादशके साष्टसप्ततौ विक्रमार्कतः । वत्सराणां व्यतिक्रांते श्रीमुनिचंद्रसूरयः॥ ७१ ॥ आराधनाविधिश्रेष्ठं कृत्वा प्रायोपवेशनम् । शमपीयूषकल्लोलप्लुतोऽसौ त्रिदिवं ययौ ॥ ७२ ॥ युग्मम् ॥ वत्सरे तत्र चैकत्र पूर्णे श्रीदेवसूरिभिः । श्रीवीरस्य प्रतिष्ठां स बाहडोऽकारयन्मुदा ॥७३॥ अथ नागपुरे श्रीमान् देवरिप्रभुर्ययौ। अभ्यागादत्र च श्रीमानाह्लादननरेश्वरः ॥ ७४ ॥ Page #291 -------------------------------------------------------------------------- ________________ श्रीदेवसूरिप्रबन्धः। .. . प्रणनाम तदायातः स च भागवतेश्वरः। देववोध इमामार्यामार्याचारोऽवदत्प्रभुः॥ ७५॥ सा चेयं-योवादिनो द्विजिह्वान् साटोपं विषममानमुद्रितः।। शमयति स देवसूरिनरेंद्रवंद्यः कथं न स्यात् ॥ ७६ ॥ . एवं चासौ महाभक्त्या स्थापितो नगरांतरा। राज्ञा विज्ञाततत्वार्थों भव्यान् बोधयति स्म सः॥ ७७॥ तञ्च श्रीसिद्धराजोऽथ नगरं रुरुधेतराम्। . तत्रस्थं देवसूरिं च ज्ञात्वाद्याववृते ततः॥ ७८॥ मध्यस्थितेऽत्र तन्मित्र दुर्ग लातुं न शक्यते । इति ध्यात्वाह्वयद्भक्त्या नृपः श्रीपत्तने प्रभुम् ॥ ७९ ॥ तत्र वर्षाखवस्थाप्याश्चित्ते तं चाभ्यमित्रयत् । प्राकारं जगृहे श्रीमान् सिद्धराजश्च सत्वरम् ॥ ८०॥ अथ कर्णावतीसंघोऽन्येधुरुत्कंठितः प्रभोः। आह्वाययन्महाभत्त्याचतुर्मासकहेतवे ॥ ८१॥ ततस्तत्राययुः पूज्याः संघादेशपुरस्कृताः। . सिद्धोपाश्रयमासाद्यावस्थानं प्रतिशुश्रुवुः ॥ ८२॥ अरिष्टनेमिप्रासादे व्याख्यानं च प्रतुष्टुवुः । अबुध्यताबुधा लोका यस्य श्रवणतो घनाः ॥८३॥ इतश्च दाक्षिणात्यः श्रीकर्नाटनृपतेर्गुरुः । श्रीजयकेशिदेवस्य श्रीसिद्धेशप्रसूपितुः॥ ८४ ॥ अनेकवादिनिर्जिष्णुर्वादिपुत्रकपद्धतिम् । वामपादे वहन् गर्वपर्वताधित्यकाश्रितः॥ ८५ ॥ जैनो जैनमतद्वेषिदर्पसर्पकरंडिका। श्रीमान् कुमुदचंद्राख्यो वादिचक्री दिगंबरः ॥ ८६ ॥ श्रीवासुपूज्यचैत्यस्थो वर्षानिर्वाहहेतवे । श्रीदेवसूरिधर्माख्या प्रभावामर्षणस्तदा ॥ ८७ ॥ श्रितान् मुखरयन् बंदिवृंदानि प्रजिघाय सः। . उद्दीपयन्वचोभिस्तं सूरिं शमिकुलेश्वरम् ॥ ८८ ॥ पंचभिः कुलकम् ॥ वैतालिकपतिर्धम्मिपर्षदंतः प्रविश्य च। आह स्तुतिपरस्तस्य काव्यानि क्रोधदीप्तये ॥ ८९॥ गेहं वाङ्मययोः पारदृश्वरी प्रेक्षयन्मतिम् । वीणापुस्तकभृद्राह्मी विस्मिता वेदपारगा ॥९०॥ १ H. शुद्धो Page #292 -------------------------------------------------------------------------- ________________ २८४ प्रभावकचरिते ततस्तब्रह्ममास्थाय तदुपास्तितरास्तिकाः। सितांबराः परानंदभाजो भवत किं न हि ॥ ९१ ॥ तथाहि-हहो श्वेतपटाः किमेष विकटाटोपोक्तिसंटंकितैः संसारावटकोटरेऽतिविषमे मुग्धो जनः पात्यते । तत्वातत्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं कौमुदचंद्रमंहियुगलं रात्रिंदिवं ध्यायत ॥९२ ॥ अथाह देवसूरीणां माणिक्याख्यो विनेयराट् । दर्शनप्रतिकूलाभिर्वाग्भी रोषांकुरं वहन् ॥ ९३॥ तद्यथा-कः कंठीरवकंठकेसरसटाभारं स्पृशत्यहिणा कः कुंतेन शितेन नेत्रकुहरे कंडूयनं कांक्षति । कः सन्नाति पन्नगेश्वरशिरोरत्नावतंसश्रिये यः श्वेतांबरदर्शनस्य कुरुते वंद्यस्य निंदामिमाम् ॥ ९४ ॥ माणिक्यः शिष्यमाणिक्यं जगदे देवसूरिभिः । नात्र कोपावकाशोऽस्ति खरवादिनि दुर्जने ॥ ९५॥ अथ बंदिराज आह श्वेतांबर चणकतुरग इह वादी । श्वेतांबरतमसोर्कश्वेतांबरमशकधूमोऽयम् ॥९६॥ श्वेताम्बरः प्रहसनैः सूत्रधारः प्रभुः कुमुदचंद्रः। किं वाच्यस्तव वाचा संदिश किमिहान्यवागडंबरैः॥९७। स गुरुः प्राह नाहयुर्वतमस्माकदर्शने । ततः कथय मद्भातुः पुर एकं हि वाचिकम् ॥ ९८॥ दिगम्बरशिरोमणेर्गुणपराङ्मुखे मास्मभूगुणग्रहफलं हि तद्वसति यद्रमापंकजे । ततस्त्यज मदं कुरु प्रशमसंयतान्स्वान्गुणान् दमो हि मुनिभूषणं स च भवेन्मदव्यत्यये ॥ ९९ ॥ इत्येवं कथिते बंदिवरेणास्य पुरो मुनेः । वादिनः सोऽवदन्मूर्ख साधूनां शम उत्तरम् ॥ १०० ॥ उत्तेजनं किमप्येष क्रियते चित्तपीडनम् । अस्य विद्याकलामध्यं ज्ञायते येन तत्त्वतः॥१०१॥ विमृश्येति निजैः साधुवृंदं रथ्यांतरागतम् । वैरानुबंधचेष्टाभिरुपासर्जयदद्भुतम् ॥ १०२ ॥ इत्येवमुपस्पृष्टेत्र निःप्रकंपे सुमेरुवत् । दिग्वासा निजरूपाभमविशिष्टं प्रचक्रमे ॥ १०३ ॥ निजचैत्याग्रतो यांती वृद्धां गोचरचर्यया । उपसर्गयितुं साध्वीमारेभेऽन्येधुरुद्यतः ॥ १०४॥ Page #293 -------------------------------------------------------------------------- ________________ श्रीदेवसूरिप्रबन्धः । २८५ अथ पल्लवकान् पल्लवकानिव नभस्तरोः। प्रेष्यतां कुंडके क्षिप्त्वा नर्तयामास साहसी ॥१०५ ॥ अहो साध्वीमसौ वृद्धां दर्शनिव्याजबुक्कसः। .. विडंबयति पापीति तस्या वर्णो जनेऽभवत् ॥ १०६॥ अथ सा मोचिता कैश्चिदनुकंपापरैर्नरैः। सूरेरुपाश्रयं प्रायादतिगद्गदशब्दभूः ॥ १०७॥ . किं कृतस्तेऽपमानोऽयमिति पृष्टा च सूरिभिः । जरामन्युभराव्यक्तस्वरं प्राह तदग्रतः ॥ १०८॥ वर्द्धितोऽध्यापितः सूरिपदे महुरुभिर्भवान् । स्थापितोऽस्सादृशामीहर विडंबनकृते ध्रुवम् ॥ १०९ ॥ दिगंबरोऽयं बीभत्सदर्शनः स्वविटवजैः। राजाध्वनि प्रयांतीं मामनाथवदुपाद्रवत् ॥ ११०॥ विद्वत्तया प्रभुत्वेन किं फलं तेऽवकाशिना। किं करस्थेन शस्त्रेण यदि शत्रुर्न हन्यते ॥ १११॥ शमशैत्यमहावल्याः फलं परिभवो दृढः। ग्रस्यते मुच्यते वापि राहुणा स्वेच्छया शशी ॥११२॥ अद्यते विक्रमे कालः पठितस्य फलं ह्यदः। धान्ये शुष्के धने चास्ते वर्षन् मेघः करोतु किम् ॥ ११३ ॥ देवसूरिरथो वाचमुवाच क्रोधदुर्द्धरम् । मा विषादं कुरुष्वायें दुर्विनीतः पतिष्यति ॥ ११४॥ आर्याह दुर्विनीतोऽयं पतिष्यति नवा पुनः। ... त्वयि न्यस्तभरः संघः पतिष्यत्येव वेत्रवत् ॥११५॥ प्रभुराह स्थिरीभूय चेद्विलोकयसे ततः। ... मुक्तानामिह वेधो नः संभवीगुणयुक्तयोः॥११६ ॥ अथ चोवाच माणिक्यविज्ञप्ति लिख मामिकाम् । श्रीमत्पत्तनसंघाय विनयातिशयस्पृशम् ॥ ११७ ॥ आदेशानंतरं सोऽथ लिखति स्म स्फुटाक्षरम् । अदर्शयत्प्रभोः पश्चादथासौ प्रत्यवाचयत् ॥११८॥ स्वस्ति नत्वा जिनं श्रीमदणहिल्लपुरे प्रभुम् । संघं कर्णावतीपुर्याः श्रीमंतो देवसूरयः ॥ ११९ ॥ भक्त्या विज्ञपयंत्यत्राशांबरेण विवादिना। शीघ्रमेवागमिष्यामः कृतवादाश्रवा इति ॥ १२० ॥ अचिराध्वन्यपुंसश्च हस्ते साथ समर्पिता। गूर्जराणां राजधानी स प्राप प्रहरत्रयात् ॥ १२१ ॥ Page #294 -------------------------------------------------------------------------- ________________ २८६ प्रभावकचरिते दृष्टवा संघेन मोऽसौ भोजनाच्छादनादिभिः । सम्मान्य प्रहितः शीघ्र प्रतिलेखं समर्प्य च ॥ १२२॥ आयादेवगुरोः पाखें संघादेशं ददौ मुदा । एनं ललाटे विन्यस्य विवृत्यावाचयञ्च सः॥ १२३ ॥ स्वस्ति श्रीतीर्थनेतारं नत्वा श्रीपत्तनात्प्रभुः। संघः कर्णावतीपुर्या परवादिजयोर्जितम् ॥ १२४ ॥ श्रीदेवोपपदं सूरिं समादिशति सम्मदात् । आगंतव्यं झटित्येव भवता वादिपुंगव ॥ १२५॥ किंच श्रीवादिवेताल शांत्याचार्यस्य सहुरोः। पार्श्वेऽधीतस्य शैवाख्यवादिजेतुर्महात्मनः ॥ १२६ ॥ मुनिचंद्रप्रभोः किन भवान् शिष्यशिरोमणिः। कालेऽधुनातने संघोदयस्त्वय्येव तिष्ठति ॥ १२७॥ ततः श्रीसिद्धभूपालं विज्ञप्यात्र सकौतुकम् । त्वत्कृतं विजयं स्वस्य वयं वीक्ष्यामहे ध्रुवम् ॥ १२८॥ श्राद्धानां श्राविकाणां च शतानि त्रीणि सप्त च । विजयाय तव श्रीमन्नाचामाम्लानि वितन्वते ॥१२९ ॥ प्रतिहन्तुं प्रत्यनीकसुराणां वैभवं लघुम् ।। देव्याः श्रीशासनेश्वर्या बलं दातुं स तत्वतः ॥ १३०॥ तदर्थमिति विज्ञाय विश्ववंद्यः स बंदिनम् । प्राहिणोद्वादिने धीमान् शिक्षयित्वा खवाचिकम् ॥ १३१.॥ स गत्वा चाह वादीन्द्रो देवाचार्यो वदत्यदः । मन्मुखेन व्रजन्नस्मि पत्तनेऽहं त्वमापतेः॥१३२॥ सभायां सिद्धराजस्य पश्यतां तत्सभासदाः। स्वपराभ्यस्तवाणीनां प्रमाणं लभ्यते यथा ॥१३३॥ भवत्वेवमिति प्रोचे स दिगंबरसंनिधौ। गत्वा प्रोवाच तत्सर्व श्रुतं तेनावधानतः ॥१३४ ॥ गमिष्यत इति प्रोक्ते वादिनाऽजायत क्षुतम् । तत्तस्याशकुनं मत्वा समेत्याकथयगुरोः॥१३५ ॥ ततः सूरिदिने शुद्ध मेषलग्ने रवौ स्थिते। सप्तमस्थे शशांके च षष्ठे राही रिपुद्रुहि ॥ १३६ ॥ प्रयाणं कुर्वतस्तस्य निमित्तं शकुनाः शुभाः। स्फुरितं दक्षिणेनाक्षणा शिरःस्पंदोऽप्यभूद्धशम् ॥ १३७ ॥ किकीदिविदृशो मार्गमाययौ चंद्रकी व्यरौत् । मृगाः प्रदक्षिणं जग्मुर्विषमा विषमच्छिदः ॥ १३८ ॥ १H. तत्वते? Page #295 -------------------------------------------------------------------------- ________________ श्रीदेवसूरिप्रबन्धः। तथा रथः प्रभोस्तीर्थनाथस्याभ्यर्चितो जनैः। अभ्यर्हितप्रतिमया बभूवाभिमुखस्तथा ॥१३९॥ इत्यादिभिर्निमित्तैश्च मतः सौष्ठवमाश्रितः। अक्षेपात्पत्तनं प्राप प्राप्तरूपेश्वरः प्रभुः ॥१४०॥ प्रवेशोत्सवमाधत्त संघ उत्कंठितस्ततः। तत्र सिद्धाधिपं भूपमपश्यञ्च क्षणे शुभे ॥ १४१ ॥ पुनश्च मागधाधीशो दिगंबरपुरोगतः। प्राह स्फुटं वचोभिः श्रीदेवाचार्यस्य वाचिकम् ॥ १४२॥ मदं मुंच यतः पुंसां दत्तेऽसौ व्यसनं महत् । शलाकापुरुषस्यापि दशास्यस्य यथा पुरा ॥१४३॥ एवमुक्त्वा स्थिते वैतालिके दिग्वसनोऽवदत् । श्वेतांबराः कथाभिज्ञा एषामेतद्धि जीवितम् ॥ १४४॥ अहं तु तत्कथाभीतः प्रीतो वादेन केवलम् । येन स्वस्य परस्यापि प्रमाणं हि प्रतीयते ॥ १४५॥ एवमेवोचितं तेन जल्पितं तपाग्रतः।। संगम्य वादमुद्रायां तदेतक्रियतां ध्रुवम् ॥ १४६ ॥ तत्र गच्छाम शीघ्रं च वयमप्यद्य निश्चितम् । प्रेस्थास्तवस्तदित्युक्त्वा रुरोह च सुखासनम् ॥ १४७॥ संमुखं पुनरासीञ्च क्षुतं व्यमृशदत्र च। विकारः श्लेष्मणः शब्दस्तत्रास्था कास्तु मादृशाम् ॥१४८॥ स्याद्वा ततोऽपि कंडूतिर्जिह्वायामेतरेण न । प्रतिहन्येत वादेन क्षुतमस्मानिषेधकम् ॥ १४९॥ याम एव तथाप्येवमुक्त्वा संचरतः सतः। अवातरत्फणी श्यामः कालरात्रेः कटाक्षवत् ॥ १५०॥ व्यलंबत परीवारस्तस्याशकुनसंभ्रमात् । आह च स्वामिनो नैव कुशलं दृश्यते ह्यदः ॥१५१ ॥ स प्राह पार्श्वनाथस्य तीर्थाधिष्ठायको मम । धरणेद्रो ददौ दर्श साहाय्यविधये ध्रुवम् ॥ १५२ ॥ इत्याद्यशकुनै ढं निषिद्धोऽपि दिगंबरः। अणहिल्लपुरं प्राप तथा प्रावेशिकैरपि ॥ १५३॥ इतश्च श्रीदेवसूरेः पुरं प्रविशतः सतः। थाहडो नागदेवश्चाययाते संमुखौ तदा ॥ १५४ ॥ . ताभ्यां प्रणम्य विज्ञप्तं दिगंबरपराजये। . दाप्यतां स्वेच्छया द्रव्यमेतदर्थ तदर्जितम् ॥१५५॥ १P कथातीतप्रीतो. २ P प्रस्तास्तव. Page #296 -------------------------------------------------------------------------- ________________ २८८ प्रभावकचरिते श्रीदेवसूरयः प्राहुर्यदि ब्राह्मीप्रसादतः। न जयस्तत्किमुत्कोचैः संकोचैः सत्यसंविदाम् ॥ १५६ ॥ अथाह थाहडो नाथ शांबरेण धनव्ययात् । तत्रस्थेन धनाध्यक्षादशिता गांगिलादयः ॥ १५७ ॥ ऊचुश्च प्रभवो देवा गुरवश्चात्र जाग्रति ।। कार्योऽन्वयो न युष्माभिरस्थाने द्रविणस्य तत् ॥ १५८ ॥ ततः कुमुदचंद्रेणागतेन नगरांतरा। श्वेतांबरजयोन्नत्यै कृतं पत्रावलंबनम् ॥ १५९ ॥ दिनानां विशति प्रत्युपाश्रयं यतिनां तदा। नीरं तृणानि मुक्त्वा च सपुरोगान्यवादयत् ॥ १६०॥ केशवत्रितयं तस्य पक्षे सभ्यतया स्थितम् । अन्येऽप्यर्वाग्दशः सर्वे तस्य पक्षस्पृशोऽभवन् ॥ १६१ ॥ थाहडस्तस्य तत्रत्यं राजद्वारे विलंबितम् । स्फाटयामास शृंगारमिव तस्य जयश्रियः॥१६२॥ श्रीसिद्धाधीश्वरो राजा श्रीपालादधिगम्य च । वृत्तांतमाह्वयत्तत्र श्वेतांबरदिगंबरौ ॥ १६३ ॥ सभाव्यवस्थामाधाय प्रैषीदूतं च सत्वरम् । संबंधकावताराय तयोगौगिलमंत्रिणे ॥ १६४॥ ततः श्रीकरणे सोऽथ श्रीदेवगुरुराह्वयत् । जातिप्रत्ययतः किंचिद्विशिष्टमिव चावदत् ॥ १६५ ॥ तथाहि-दंतानां मलमंडलीपरिचयात्स्थूलं भविष्णुस्तुति श्रुत्वा भैक्षकपिंडभक्षणविधिं शौचं किलात्रात्मनः। नीरं साक्षिशरीरशुद्धिविषये येषामहो कौतुके तेऽपि श्वेतपटाः किमीश्वरपुरः कांक्षति जल्पोत्सवम् ॥१६६ आह देवगुरुः स्फूर्त्या मीमांसासक्तताजुषः। धीवराश्वोचितं तद्वः शौचाचारविचारणम् ॥ १६७ ।। परमुक्तं च-विमृशविमृशांभोभिः शक्योऽपसारयितुं नये र्जठरपिठरीक्रोडस्थेमाप्यहो मललेशकः। कथमिव सदा तिष्ठन्नात्मन्यरूपिणि तैरहो परिदलयितुं पार्यो नार्यः स पातककर्दमः ॥ १६८ ॥ माणिक्यः प्राह किनाम द्विजस्यास्यास्ति दूषणम् । श्रीसिद्धेश उपालभ्यः सविवेकबृहस्पतिः ॥१६९ ॥ संस्कारे सूत्रपालेन चतुर्दाहृदयात्मनाम्। वपुमेनोवचःकायं जनेष्वन्यान्यरूपतः॥१७०॥ १P लावाम्लतः H. चात्मत् ? Page #297 -------------------------------------------------------------------------- ________________ श्रीदेवसूरिप्रबन्धः । २८९ अकृत्यकृत्ययोस्तुल्यः कर्त्तव्यत्वस्पृशां सदा । द्विजन्मनां प्रधानत्वं दर्शनानां विडंबनम् ॥ १७१ ॥ इत्येवमूहापोहेन संबंधो नार्पितस्तदा। प्रातः समागतः पृष्टो राजा सचिवगांगिलः॥१७२॥ लिखितो भवता का संबंधः किं वादिनोईयोः। स प्राहैषामपावित्र्यानाही राजसभास्थितिः॥ १७३॥ अतो मया न चालेखि संबधो नृपतिस्ततः। अंतःकोपानलं बभ्रे पयोधिरिव वाडवम् ॥ २७४ ॥ एवं च सदसन्मर्त्यविशेषविदुषस्तव । व्ययस्य करणं तेऽलंकारारोपस्तवोचितः॥१७५॥ प्र(अ)ज्ञानां गौरवर्णोऽपि काल एवावभासते। अल्पोप्यत्र न ते दोषः सा ममैवाविचारिता ॥ १७६ ॥ परं दर्शनबाह्यत्वाद्राम्यवनागरोऽपि सन् । नांतर्मुखो गुणान् दोषीकृत्य यस्मात्प्रजल्पसि ॥ १७७ ॥ अन्यदेकं च ते भाग्यं यत्तेन ब्रह्मचारिणा । एवं विवदमानोऽपि शापाद्भस्मीकृतोऽपि सन् ॥ १७८ ॥ संमान्य चास्य संबंधमधुनैव समर्पय । लिखित्वा वादिनोदिकाले जयपराजये ॥ १७९ ॥ राजादेशं गृहीत्वेति तेन प्रैषि निजोऽनुजः। सांत्वनाय प्रभोः सोऽपि तत्कृत्वायदत्र ते ॥१८॥ प्रभुर्विजयसेनाख्यं प्रैषीत्तत्र मनीषिणम् । नोचितं गमनं तत्र सचिवानां मतौ स्वयम् ॥ १८१॥ दिगंबरो विजीयेत चेत्तन्न्यक्कारपूर्वकम् । निर्वास्योतः पुराद्धृत्वा परिस्पंदं स चौरवत् ॥ १८२॥ अथ श्वेतांबरो हारयेत्तत्तस्य शासनम् । उच्छिद्याशांबरत्वेनावस्थाप्यं तैः स्थितैः किमु ॥ १८३॥ इत्येवं लेखयित्वात्र तं राजकरणेऽमुचत् । कृतपक्षोपि संबंधोऽनुमतस्तैर्बलोन्नतैः॥१८४॥ प्रेषितः सिद्धराजेन श्रीश्रीपालः कवीश्वरः। शिक्षां दत्वातिवात्सल्यादेवसूरिप्रभोरथ ॥ १८५॥ स प्रणम्य नृपस्याह वाचिकं तत्पुरः स्फुरन् । स्वदेशपरदेशस्था अपि विज्ञा ममार्हिताः॥१८६॥ परं तथा त्वया बंधो वक्तव्यं वादलीलया। यथा देशांतरीजेयः स्थेयः श्रेयः कृतेर्मम ॥ १८७॥ १२. प्रजानां. 25 Page #298 -------------------------------------------------------------------------- ________________ प्रभावकचरिते त्वय्येव मम वित्तस्य दृढावस्थितिरीदृशी । यथा व्रीडयसे नो नः सभां कार्यस्तथा ध्रुवम् ॥ १८८ ॥ अथ श्रीदेवसूरिश्व प्रददे प्रतिवाचिकम् । प्रतापस्ते महाराज विदेशिबुधजित्वरः ॥ १८९ ॥ वयं सहकृतस्तत्र परं मा दोल्यतां मनः । गुरूपदिष्टपक्षधैर्विजेष्ये तं विवादिनम् ॥ १९० ॥ कविदुषां शास्ता तद्वचः कौतुकी च कः । भवानिव भवानिच्छुरप्यहं येन वादकृत् ॥ १९१ ॥ इति तद्वच आख्याच्च श्रीपालः कविवासवः । भूपालोपि मुदं प्राप देवसूरिवचोमृतैः ॥ ९९२ ॥ चंद्राष्ट शिववर्षेऽत्र १९८१ वैशाखे पूर्णिमादिने । आहूतौ वादशालायां तौ वादिप्रतिवादिनौ ॥ १९३ ॥ वादी कुमुदचंद्रश्चाययावाडंबरस्थितः । सुखासनसमासीनश्छत्रचामरशोभितः ॥ १९४ ॥ प्रतीहारेण मुक्तेऽत्र पट्टे वासावुपाविशत् । आहाद्यापि न चायाति श्वेतभिक्षुः कथं भिया ॥ १९५ ॥ अथ श्रीदेवसूरिश्वाययौ भूपालसंसदम् । ऊचे कुमुदचंद्रश्च खप्रज्ञाबलगर्वितः ॥ १९६ ॥ तथाहि - श्वेतांबरोऽयं किं ब्रूयान्मम वादरणांगणे । सांप्रतं सांप्रतं तस्माच्छीघ्रमस्य पलायनम् ॥ १९७ ॥ सूरिः प्रोवाच बंधु किमसत्यं वदत्यसौ । श्वेतांबरो यतः श्वायमस्माद्वादरणांगणे ॥ १९८ ॥ भषणे तस्य पर्याप्तं रणेनाधिकृतिः पुनः । परं पलायनं शीघ्रं युक्तं युक्तं वदत्यदः ॥ १९९॥ श्रुत्वेति पार्षदा वाचं शब्दखंडनयानया । स्मिता विस्मितमाधाय दध्युरस्य जयो ध्रुवम् ॥ २०० ॥ एकाग्रमानसौ तत्र शासने पक्षपातिनौ । थाहst नागदेवश्च सह चाजग्मतुर्मुदा ॥ २०१ ॥ थाहङः स्वगुरुं व्यज्ञपयद्रव्येण भेदिना । सभ्याश्रुता मया द्रव्यं तद्दास्ये द्विगुणं ध्रुवम् ॥ २०२ ॥ प्रभावनाकृते स्वीयशासने वत्समादिश । अथावदहुरुर्द्रव्यव्ययः कार्यो न हि त्वया ॥ २०३ ॥ अद्य प्रभुभिरादिष्टः श्रीमुनिचंद्रसूरिभिः । स्वप्ने यद्वत्स वक्तव्यः प्रयोगः स्त्रीषु मुक्तिकृत् ॥ २०४ ॥ १ H. चासामु. २ P. प्रभृति. २९० Page #299 -------------------------------------------------------------------------- ________________ श्रीदेवसूरिप्रबन्धः। २९१ उत्तराध्ययनग्रंथटीका श्रीशांतिसूरिभिः । कृता तदनुसारेण वक्तव्यं जेष्यते रिपुः ॥ २०५॥ इत्युक्त्वा नृपतेराशीर्वादं दर्शनसंगतम् । अभ्यधात् सूरिरानंदहेतुं केतुं विवादिनाम् ॥ २०६॥ नारीणां विदधाति निर्वृतिपदं श्वेतांबरःप्रोल्लसकीर्तिस्फीतिमनोहरं नयपथप्रस्तारभंगीगृहम् । यस्मिन्केवलिनो विनिर्जितपरोत्सेकाः सदा दंतिनो राज्यं तजिनशासनं च भवतश्चौलुक्य जीयाञ्चिरम् ॥२०७॥ ऊचे कुमुदचंद्रेण वादिना सिद्धभूपते । आशीरासीमभूमीशविद्वद्विजयशोभिनः ॥ २०८ ॥ सा चेयं-खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालय च्छायामाश्रयते शशी मशकतामायांति यत्राद्रयः। इत्थं वर्णयतोनभस्तव यशो जातं स्मृतेर्गोचरं तद्यत्र भ्रमरायते नरपते वाचस्ततो मुद्रिताः॥२०९॥ तस्मिन्महर्षिरुत्साहसागरश्च कलानिधिः। प्रज्ञाभिरामो रामश्च नृपस्यैते सभासदः ॥२१०॥ ते प्रोचुर्मुद्रिता वाच इति दिग्वाससः क्षतिः। नारीमुक्ति निमुक्तिर्यत्र तत्र जयो ध्रुवः॥ २११ ॥ देवाचार्यश्च भानुश्च श्रीपालश्च महाकविः । पक्षे दैगंबरे तत्र केशवत्रितयं मतम् ॥ २१२॥ तत्रोत्साहो मदोत्साह उवाच प्रकटाक्षरम् । किंचिदुत्प्रासनागर्भ दृष्ट्वा दिग्वस्त्रपार्षदात् ॥ २१३॥ तथाहि-संवृतावयवमस्तदूषणं साधनं सदसि दर्शयिष्यतः । अस्य लुंचितकचस्य केवलं केशवत्रितयमेति सभ्यताम्२१४ महर्षिणा च विज्ञप्त उपलक्षप्रभुस्ततः। प्रयोग उच्यतां सम्यगादिदेशेति कौतुकात् ॥ २१५॥ ततोऽसौ नास्ति निर्वाणं स्त्रीभवस्थस्य देहिनः । तुच्छसत्वतया तस्य यस्तुच्छो मुक्तिरस्य न ॥ २१६॥ अत्रोदाहरणं बालः पुमान् तुच्छाऽबलाभवः। अतो न निर्वृतिस्तत्र प्रयोगममुमाह सः ॥२१७॥ देवसूरिरथाहमासिद्धधर्मिविशेषणम् । स्त्रीभावनिर्वृति प्राप मरुदेवागमे मतम् ॥ २१८ ॥ तवाप्रसिद्धमेतच्चेदनेकांतं ततः पठ। तस्य मार्गमतिक्रम्य दुर्नयो ह्यवधारणम् ॥ २१९ ॥ १D. ध्याति. Page #300 -------------------------------------------------------------------------- ________________ २९२ प्रभावकचरिते तथा हेतुश्च ते दृष्यो नैकांतिकतया सतः । स्त्रियोऽपि यन्महासत्वाः प्रत्यक्षागमवीक्षिताः ॥ २२० ॥ सीताद्या आगमेऽध्यक्षं पुनः साक्षान्महीपतेः। माता श्रीमयणल्लाख्या सत्वधर्मैकशेवधिः ॥ २२१ ॥ तथा व्याप्तिरलीकेयं प्रतिव्याप्ते प्रढौकनात् । याः स्त्रियाम्ना ध्रुवं तुच्छा नैतत्तत्सत्वदर्शनात् ॥ २२२॥ तथा तद्दर्शनात्तत्रोदाहृतिश्चापि दूषिता। बालं पुंसामभिज्ञानादतिमुक्ताकसाधुवत् ॥ २२३ ॥ तथास्योपनयोऽसिद्धःप्राक् सिद्धांतात्सदूषणात् । ततो निगमनं दुष्यं प्रत्यनुमानसंभवात् ॥ २२४॥ अनूद्य दूषयित्वैवं परपक्षमथ स्वकम् । पक्षे देवगुरुः प्राह स्त्रीभवेष्वथ निर्वृतिः ॥२२५॥ प्राणिनः सत्ववैशिष्ट्यात् स्त्रियः सत्वाधिका मया । दृष्टाः कुंतीसुभद्राद्या अथोदाहृतिरागमे ॥ २२६ ॥ महासत्वाः स्त्रियः संति मोक्षं गच्छंति निश्चितम् । इत्युक्त्वा विरते देवगुरावाशांबरोऽवदत् ॥ २२७ ॥ पुनः पठ ततोऽवाचि तत्राप्यनवधारिते। त्रिरप्याह कृते नैवमबुद्ध्वा तमदूषयत् ॥ २२८ ॥ प्रतिवाद्याह वाच्यस्यामबोधः प्रकटोत्तरम् । दिग्वासाः प्राह जल्पोऽयं कटित्रे लिख्यतामिह ॥ २२९ ॥ महर्षिः प्राह संपूर्णा वादमुद्रा च दृश्यते। दिगंबरो जितः श्वेतांबरो विजयमाप्य च ॥ २३० ॥ एवं चानुमते राज्ञा प्रयोगं केशवोऽलिखत् । बुवा च दूषिते तत्र देवसूरिस्तदावदत् ॥ २३१ ॥ अनूद्य दूषणं भित्त्वा स्वपक्षं स्थापयनिह । कोटाकोटीति शब्दं स प्रयुयोज विदूषणम् ॥ २३२॥ अपशब्दोऽयमित्युक्ते वादिना पार्षदेश्वरः । उत्साहः प्राह शुद्धोऽयं शब्दः पाणिनिसूचितः ॥ २३३॥ उक्तंच-कोटाकोटिः कोटिकोटी कोटिकोटिरिति त्रयः । शब्दाः साधुतयाहतसंमताः पाणिनेरमी ॥ २३४ ॥ इत्थं निरनुयोज्योनुयोगो निग्रहभूमिका । तवैवैषा समायाता व्यावर्त्तस्व ततो गृहात् ॥ २३५॥ अशक्नुवन्निति प्रत्युत्तरे देवगुरोस्ततः। सवैलक्षमथाहस्मानुत्तरः स दिगंबरः ॥२३६ ॥ १P. या स्त्रियो तास्तुवं०. Page #301 -------------------------------------------------------------------------- ________________ श्रीदेवसूरिप्रबन्धः । २९३ महाराज महान् वादी देवाचार्यः किमुच्यते । राजाह वद् निस्तंद्र कथयिष्यामि विस्मृतम् ॥ २३७॥ अवदत्यन्यसभ्यैश्च हरिताला प्रपातिता। संबंधकविधि भूप आदिशनिजपूरुषैः ॥ २३८ ॥ जयपत्रं प्रसादेन देवसूरेर्ददौ नृपः। ततोऽवादीहुरुस्तं च किमप्याचक्ष्महे वचः॥२३९॥ शास्त्रीयवादमुद्रायां निग्रहो यत्पराजयः। तद्वादिनस्तिरस्कारः कोऽपि नैव विरच्यताम् ॥२४॥ राजाह भवतां वाग्भिरिदमप्यस्तु किं पुनः। आडंबरापहारेण दर्शनित्वमवाप्यताम् ॥ २४१॥ एवं कृते तदावशार्गलाख्या सिद्धयोगिनी । श्रीमत्कामाख्यया देव्या प्रहिता साह्यगौरवात् ॥ २४२॥ भूयास्त्वमक्षयस्कंधः सिद्धाधीशस्तथा सुहृत् । तथा श्रीदेवसूरिश्वाशिषेत्यभिननंद तौ ॥ २४३॥ मषीकूर्चकमानीय भाले न्यस्तो दिगंबरः। ततः सा पश्यतामेव निश्चकाम नभोध्वना ॥ २४४॥ तुष्टिदाने ततो लक्षं द्रव्यस्य मनुजाधिपः। ददन्यषेधि निर्ग्रथेश्वरेणास्पृहताजुषा ॥ २४५॥ गणगंधर्वसिद्धादिदेवैः पूर्वमपीक्षितः। राजादेशात्प्रवेशस्य सोवय॑त महोत्सवः॥ २४६ ॥ समस्ततूर्यनिर्घोषपूर्व संगीतमंगलैः। कुलांगनाकृतैः सूरिर्वसतौ प्रविवेश सः ॥ २४७॥ राजवैतालिकस्तत्र तारखरत आशिषः। ददौ सदौचितीकृत्यविदं देवगुरुं प्रति ॥ २४८॥ संतोषस्फारनिःकिंचनजनवचनैराहतं प्रेक्ष्य नव्यं कामोहिंसादिकेभ्योऽप्यवगणिततमःशत्रुपक्षे शमादौ । आदिष्टो यस्य चेतो नृपतिपरिभवात्पुण्यपण्यं प्रवेश्य , प्रायासीद्वालयित्वाशुचिमतिवहिकां देवसूरिःस नंद्यात्॥४९ श्रीसिद्धहेमचंद्राभिधानशब्दानुशासने। सूत्रधारः प्रभुः श्रीमान् हेमचंद्रप्रभुर्जगौ ॥ २५० ॥ तथाहि-यदि नाम कुमुदचंद्रं नाजेष्यद्देवसूरिरहिमरुचिः। कटिपरिधानमधास्यत कतमः श्वेतांबरो जगति ॥ २५१॥ श्रीचंद्रसूरयस्तत्र सिद्धांतस्येव मूर्तयः। शासनोद्धारकूर्मायाशासन् श्रीदेवसूरये ॥ २५२॥ १D H नंदितो. २ H. स्पृहमा०. ३ H. पार्तन. ४ H. कामा. Page #302 -------------------------------------------------------------------------- ________________ प्रभावकचरिते २९४ श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि ॥ २५३ ॥ तदा गच्छस्थसंघस्य समस्तस्य विभावरी। विभावरीयसी चैषा विनिद्रत्वात्क्षणाद्गात् ॥ २५४ ॥ प्रातश्च प्रत्युपेक्षायामुपधिं साधवस्तदा । अपश्यन् खंडशश्चूर्णीकृतामाखुभिरुद्भवैः ॥ २५५ ॥ प्रवर्तकेन विज्ञप्ते गुरूणां ते व्यजिज्ञपन् । दिग्वासाः स्वसमं वेषं ममापि हि चिकीर्षति ॥ २५६ ॥ तत्र प्रतिनिधौ शक्तिर्मम पूज्यप्रसादतः । सौवीरपूर्ण आनायि कुंभो यतित एकतः ॥ २५७ ॥ गलपिंडनतः कंठं तस्य बद्धांतरामुचन् । अभिमंत्र्य ततः साधूनाह सर्वत्र साहसी ॥ २५८ ॥ खेदं कमपि माकार्षभवंतः कौतुकं महत् । समीक्षत यदेतेषां माविदुर्विनये फलम् ॥ २५९ ॥ पादोनप्रहरे श्राद्धा नग्नस्याजग्मुरानताः। प्रासादाहरुमस्माकं मुंचैनमिति भाषिणः ॥२६०॥ मद्वंधोः का भवेद्वाधा न जानीमो वयं ननु । अज्ञानदं ततः सर्वप्रकारैस्तैर्निषेधिताः ॥२६१॥ सार्द्धयामे च संपूर्णे नग्नाचार्यस्तदागमत् । नग्नाचार्य इवाहार्यः प्रशंसां प्रकटं धत्॥ २६२॥ आश्लिष्याद्धोसने सूरिरुपावेशयदत्र तम्। भ्रातः का बत पीडास्ति ममाज्ञातमिदं ध्रुवम् ॥ २६३ ॥ स प्राह हिंद्धि मा त्वं मां भव मा दीर्घरोषभूः। विमोचय निरोधं मे तन्निरोधे मृतिधुवम् ॥ २६४ ॥ तस्यैतद्ववचनं दीनं श्रुत्वावदसौ प्रभुः। भवान् सपरिवारोऽपि यातु मे वसतेबहिः ॥२६५॥ तदादेशेन तद्वारे स्थिता आध्माततुंदकाः। लुलाया इव संपूर्णेतिम्पदंगास्तदा बभुः ॥ २६६ ॥ साधोः पार्थात् समानाय्य कुंभं सौवीरपूरितम् । आच्छोटयन्मुखं तेषां संजज्ञे मुत्कलः श्रवः ॥ २६७ ॥ अनिरोधे निरोधे सत्यसपत्राकृताश्च ते। नृजलस्य प्रवाहेण जनः सर्वोऽपि विस्मितः ॥ २६८ ॥ अर्हितोपि भृशं शोकतप्तस्तस्मात्पराभवात् । ययौ कुमुदचंद्रोऽयमदृश्यत्वममास्थि च ॥ २६९ ॥ Page #303 -------------------------------------------------------------------------- ________________ श्रीदेवसूरिप्रबन्धः । २९५ तुष्टिदानं ददानस्य राज्ञः सूरेरगृह्णतः। . . आशुकोष्ठे गते मंत्रीराज्यारामशुकोऽब्रवीत् ॥ २७० ॥ देवैषां निःस्पृहाणां न धनेच्छा तजिनालयः। विधाप्यते यथामीषां पुण्यं तव च वर्धते ॥ २७१ ॥ भवत्वेवं नृपप्रोक्ते मंत्री चैत्यमकारयत् । खेन तेनेतरेणापि स्वामिनानुमतेन सः ॥२७२॥ दिनस्तोकं च संपूर्णः प्रासादोऽभ्रंलिहो महान् । मेरुचूलोपमः स्वर्णरत्नकुंभध्वजालिभिः ॥ २७३ ॥ श्रीनाभेयविभोबिंब पित्तलामयमद्भुतम् । दृशामगोचरं रोचिःपूरतः सूर्यबिंबवत् ॥ २७४ ॥ अनलाष्टशिवे वर्षे ११८३ वैशाखद्वादशीतिथौ। प्रतिष्ठा विदधे तत्र चतुर्भिः सूरिभिस्तदा ॥ २७५ ॥ एवं प्रभावनापूरप्लाविते धर्मिणां हृदि । क्षेत्रेऽवपन् बोधिबीजं चिरं च व्यहरत्प्रभुः॥ २७६॥ अन्यदा व्रजतोऽरण्ये नाम्ना पिप्पलवाटके। शार्दूलं गुरुशार्दूलो रेखायातं न्यषेधयंत् ॥ २७७॥ बालवृद्धाकुलो गच्छो विहारे प्रांतरावनौ । श्रुधादिबाधया तत्र क्लिष्टो दुःप्रतिकारया ॥ २७८ ॥ तदीयचिंतामात्रेण सार्थेऽकस्मादुपागते । प्रासुकैर्भक्तपानैस्तद्भव्यास्तं प्रत्यलाभयन् ॥ युग्मम् ॥ २७९ ॥ स्याद्वादपूर्वकं रत्नाकर स्वादुवचोऽमृतम् । प्रमेयशतरत्नाढ्यममुक्तं स किल श्रिया ॥ २८०॥ पीतान्दृष्ट्वा पुरा कुंभोद्भवेनांभोनिधीनिह । परवादिघटोद्भूतशतागम्यं व्यधान्नवम् ॥ युग्मम् ॥ २८१॥ इति श्रीदेवसूरीणामसंख्यातिशयस्पृशाम् । वर्षाणां व्यधिकाशीतिरत्यक्रामदतंद्रिणाम् ॥ २८२॥ श्रीभद्रेश्वरसूरीणां गच्छभारं समर्प्य ते। जैनप्रभावनास्थेमनिस्तुषश्रेयसि स्थिताः ॥ २८३ ॥ रसयुग्मरवौ वर्षे १२२६ श्रावणे मासि संगते । कृष्णपक्षस्य सप्तम्यामपराह्ने गुरोर्दिने ॥ २८४ ॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरंदरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः॥२८५॥ त्रिभिर्विशेषकम् ॥ शिखिवेदशिवे ११४३ जन्म दीक्षा युग्मशरेश्वरे ११५२। वेदाश्वशंकरे वर्षे ११७४ सूरित्वमभवत्प्रभोः ॥ २८६॥ १P रेखयासंन्य. Page #304 -------------------------------------------------------------------------- ________________ २९६ प्रभावकचरिते नवमे वत्सरे दीक्षा एकविंशत्तमे तथा । सूरित्वं सकलायुश्च त्र्यशीतिवत्सरा अभूत् ॥ २८७ ॥ इत्थं श्रीदेवसूरेश्वरितमधरितक्षुद्रवादिप्रवादं । नादं बर्द्धिष्णुजैनप्रवचनभविनां सत्वमुक्तैरसेव्यम् । श्रेष्ठं श्रेयःप्रदं तद्भवतु भवभृतामद्य काले भवानां नंद्यादाचंद्रकालं विबुधजनशतैर्नित्यमभ्यस्यमानम् ॥२८८ ॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीदेवसूरेः कथा श्रीप्रद्युम्नमुनींदुना विशदितः शंगः कुयुग्मक्रमः ।। २८९ ॥ अर्थ यच्छति संमृतिस्थितिमतां दुःखापनोदक्षम कल्पद्रुव्रजचिंतिताश्मनिवहादप्यद्भुतं यः प्रभुः। स श्रीमान् कनकप्रभः कथमयं शक्यो मया वर्णितुं प्रद्युम्नो यतिनायकश्च समभूद्यन्नाममंत्रस्मृतेः ॥ २९०॥ इति श्रीदेवसूरिप्रबन्धः। ग्रं० ३२५ उभयं ४८७९ ॥ हेमचंद्रसूरिप्रबंधः। श्रीहेमचंद्रसूरीणामपूर्व वचनामृतम् । जीवातुर्विश्वजीवानां राजचित्तावनिस्थितम् ॥१॥ . पातकांतकमातंगस्पर्शदूषणभूषणाः। श्रीहेमचंद्रसूरीणां वाचः स्वर्णोदकद्युतः॥२॥ अनंतागमविद्यामृन्मृतखोजीवनस्थितिः। श्रीहेमसूरिरव्याद्वः प्रतिश्रीपादलिप्तकः॥३॥ कृतिसदृत्तमुक्तास्त्रग्नायकश्चरितं प्रभोः। स्थाप्यतेऽतः प्रकाशाय सतां हृदयवेश्मसु॥४॥ अस्ति श्रीगूर्जरो देशः क्लेशावेशवियुक्तभूः। पुरुषार्थत्रयश्रीषु स्वर्गोपीच्छति यत्तुलाम् ॥५॥ अणहिल्लपुरं नाम कामधुक प्रणयिव्रजे। अस्ति प्रासादराजीभिर्नगरं नगरंगभूः ॥६॥ संक्रंदनसुपर्वारिद्विजिह्वा यस्य नोपमाम् । सुरासुरोरगाधीशाः प्रापुलॊकेश्वरा अपि ॥७॥ स तत्र वासुधासारसंप्रीणितचकोरकः । राजा सिद्धाधिपः सिद्धाधिपगीतयशा अभूत् ॥८॥ युग्मम् ॥ सत्पूजाभोजशृंगारप्रभावदृढरंगभूः। बंधूकमिव बंधूकं देशे तत्रास्ति सत्पुरम् ॥९॥ Page #305 -------------------------------------------------------------------------- ________________ हेमचंद्रसूरिप्रबन्धः। २९७ . व्यूढमोढान्वयप्रौढ उदूढमहिमा दृढः। बाढमाढौकयद्दाढ्यं प्रौढिषु प्रौढचेतसाम् ॥ १० ॥ उत्कोचकृतसंकोच उल्लोचः सत्वमंडपे। श्रेष्ठी तत्राभवञ्चाचः प्रवाचः पूजयन् सदा ॥ युग्मम् ॥ ११ ॥ गेहिनी पाहिनी तस्य देहिनी मंदिरंदिरा । यस्याः सीतासुभद्राद्याः सत्यः सत्याः सतीत्वतः॥१२॥ सा स्त्री चिंतामणिश्चितामणि स्वप्नेऽन्यदैक्षत । दत्तं निजगुरूणां च भत्त्यावेशनिवेशतः ॥ १३॥ .. चांद्रगच्छसरःपद्मं तत्रास्ते मंडितो गुणैः। प्रद्युम्नसूरिः शिष्यः श्रीदेवचंद्रमुनीश्वरः ॥ १४ ॥ आचख्यौ पाहिनी प्रातः स्वप्नमस्वप्नसूचितम् । तत्पुरः स तदर्थं च शास्त्रदृष्टं जगौ गुरुः ॥१५॥ जैनशासनपाथोधिकौस्तुभः संभवी सुतः। तव स्तवकृतो यस्य देवा अपि सुवृत्ततः॥ १६ ॥ श्रीवीतरागबिंबानां प्रतिष्ठादोहदं दधौ। अन्यदा सा स चापूरि सत्पत्या भूरिपुण्यतः॥१७॥ असूत सा च पुण्येऽह्नि जितवह्निप्रभं रुचा। मलयाचलचूले च चंदनं नंदनं मुदा ॥ १८ ॥ नानाविधध्वनत्तूर्यभरडंबरितांबरैः। .. . वर्धापनैर्व्यतीते च द्वादशाहे मुदा तदा ॥ १९ ॥ अभिधाविधिमाधित्सुः सनाभीन्भक्तितो निजान् । आहूय व्याहरञ्चाचः सदाचरणबंधुरः ॥ २० ॥ अस्मद्गृहे वितीर्णेऽत्र प्रतिष्ठादोहदोऽजनि । एतन्मातुस्तया रम्याः पूजाभिः स्युः सुरा अपि ॥२१॥ तच्चंगदेव इत्यस्य स्थानभृन्नाम सान्वयम्। विदधे विश्ववस्तूनां यतः सत्यं शुभायति ॥२२॥ क्रमुकैः क्रोडकर्पूरैः पत्रैः सौरभनिर्भरैः। दत्त्वा नागरखंडैश्च तांबूलं तान् व्यसर्जयत् ॥ २३॥ वर्द्धमानो वर्द्धमान इवासौ मंगलाश्रयः। शिशुत्वेऽप्यशिशुप्रज्ञः सोभूदक्षतदक्षतः ॥ २४॥ तस्याथ पंचमे वर्षे वर्षीयस इवाभवत् । मतिः सहरुशुश्रूषाविधौ विधुरितैनसः॥२५॥ अन्यदा मोढचैत्यांतः प्रभूणां चैत्यवंदनम्। कुर्वतां पाहिनि प्रायात् सपुत्रा तत्र पुण्यभूः॥२६॥ १H. बर्द्धापने० २ P व्याहरच्चाचः ? ३ P वतीर्णे. Page #306 -------------------------------------------------------------------------- ________________ २९८ प्रभावकचरिते साच प्रदक्षिणां दत्वा यावत्कुर्युः स्तुति जिने । चंगदेवो निषद्यायां तावन्निविविशे द्रुतम् ॥ २७॥ स्मरसि त्वं महास्वप्नं सकृदालोकयिष्यसि ।। तस्याभिज्ञानमीक्षस्व स्वयं पुत्रेण यत्कृतम् ॥ २८ ॥ इत्युक्त्वा गुरुभिः पुत्रः संघनंदननंदनः। कल्पवृक्ष इवाप्रार्थि स जनन्या समीपतः॥ २९॥ सा प्राह प्रार्थ्यतामस्य पिता युक्तमिदं ननु । ते तदीयाननुज्ञाया भीताः किमपि नाभ्यधुः ॥ ३० ॥ अलंध्यत्वाहुरोर्वाचामाचारस्थितया तया। दूनयापि सुतः स्नेहादाjत स्वप्नसंस्मृतेः ॥ ३१॥ तमादाय स्तंभतीर्थे जग्मुः श्रीपार्श्वमंदिरे । माघे सितचतुर्दश्यां ब्राह्मे धिष्ण्ये शनेर्दिने ॥ ३२॥ धिष्ण्ये तथाष्टमे धर्मस्थिते चंद्रे वृषोपगे । लग्ने बृहस्पतौ शत्रुस्थितयोः सूर्यभौमयोः॥ ३३॥ श्रीमानुदयनस्तस्य दीझोत्सवमकारयत् । सोमचंद्र इति ख्यातं नामास्य गुरवो दधुः ॥ ३४ ॥ संचस्करुः परिस्कारान् प्रज्ञाप्य परमाक्षरैः। अर्हतैस्तेऽहमर्हाणां तमेकप्रणिधानतः ॥ ३५॥ अथेत्यमिलिते कोपकलिते कट्रभाषिणि ।। प्रोचे प्राचेतसाभस्तमयं प्राशमयत् स्वयम् ॥ ३६॥ सोमचंद्रस्ततश्चंद्रोज्ज्वलप्रज्ञाबलादसौ। तर्कलक्षणसाहित्यविद्याः पर्यच्छिनद्रुतम् ॥ ३७॥ अन्यदा चिंतयत्पूर्व परो लक्षपदानुगः। आसीदेकपदात्तस्माद्धिगस्मानल्पमेधसः ॥ ३८॥ तत आराधयिष्यामि देवीं काश्मीरवासिनीम् । चकोरद्विजरोचिष्णुं ज्योत्स्नामिव कलावतः ॥ ३९ ॥ इति व्यज्ञपयत्प्रातः प्रभुं विनयनम्रवाक् । संमुखीनागमं देव्या ध्यात्वा सोऽप्यन्वमन्यत ॥४०॥ गीतार्थे साधुभिः सार्ध धाम विद्याव्रजस्य च । प्रस्थानं ताम्रलिप्त्याः स ब्राह्मीदेशोपरिव्यधात् ॥४१॥ श्रीरैवतावतारे च तीर्थे श्रीनेमिनामतः । साथै साधुमते तत्रावात्सीदवहितस्थितिः॥४२॥ निशीथेऽस्याविनिद्रस्य नासाग्रन्यस्तचक्षुषः। आराधनात्समक्षाभूद्राह्मी ब्रह्ममहोनिधिः॥४३ ॥ १P यत्तदालोक. Page #307 -------------------------------------------------------------------------- ________________ हेमचंद्रसूरिप्रबन्धः। २९९ वत्स स्वच्छमते यासीर्मास्म देशांतरं भवान् । तुष्टा त्वद्भक्तिपुश्याऽहं सेत्स्यतीहितमत्र ते ॥४४॥ इत्युक्त्वा सा तिरोधत्त देवी वाचामधीश्वरी। स्तुत्या तस्या निशां नीत्वा पश्चादागादुपाश्रयम् ॥४५॥युग्मम् सिद्धसारस्वतोऽक्लेशात्सोमः सीमा विपश्चिताम् । अभूदभूमिरुन्निद्रांतरवैरिकृतदुहः॥ ४६॥ प्रभावकधुराधुर्यममुं सूरिपदोचितम्। विज्ञाय संघमामंत्र्य गुरवोऽमंत्रयन्निति ॥४७॥ योग्यं शिष्यं पदे न्यस्य स्वकार्य कर्तुमौचिती। अस्मत्पूर्वऽमुमाचारं सदा विहितपूर्विणः ॥४८॥ तदैव विज्ञदैवज्ञवजाल्लग्नं व्यचारय। विमृश्य तेऽथ व्याचख्युः सर्वोत्तमगुणं क्षणम् ॥४९॥ जीवः कर्के तनौ सूर्यो मेषे व्योनि बुधान्वितः । चंद्रो वृषे च लाभस्थो भौमो धनुषि षष्टमः॥ ५० ॥ धर्मस्थाने झषे शुक्रः शनिरेकादशो वृषे । राहुस्तृतीयः कन्यायां वैश्वविघ्नविनाशनः॥५१॥ इति सर्वग्रहबलोपेतं लग्नं समृद्धिकृत् । होरा चांद्री ततः पूर्वा द्रेष्काणः प्रथमस्ततः॥५२॥ वर्गोत्तमः शशांकांशो नवमो द्वादशस्तथा। त्रिंशांशो वाक्पतेः षष्ठो लग्नेऽस्मिन् गुणमंडिते ॥५३॥ प्रतिष्ठा यस्य जायेत पुरुषस्य सुरस्य च । राज्ञां ज्ञातो जगत्पूज्यः स भवेद्विश्वशेखरः ॥५४॥ कुलकम् अथ वैशाखमासस्य तृतीयामध्यमेऽहनि । श्रीसंघनगराधीशविहितोत्सवपूर्वकम् ॥५५॥ मुहूर्ते पूर्वनिर्णीते कृतनंदीविधिक्रमाः। ध्वनत्र्यरवोन्मुद्रमंगलाचारबंधुरम् ॥ ५६ ॥ शब्दाद्वैतेथ विश्रांते समये घोषिते सति । पूरकापूरितश्वासंकुभको दमेदुरा ॥ ५७ ॥ श्रवणेऽगरुकपूरचंदनद्रवचर्चिते ।। कृतिनः सोमचंद्रस्य निष्टानिष्टांतरात्मनः ॥ ५८॥ श्रीगौतमादिसूरीशैराराधितमबाधितम् ।। श्रीदेवचंद्रगुरवः सूरिमंत्रमचीकथन् ॥५९॥ पंचभिः कुलकम् । तिरस्कृतकलाकेलिः कलाकेलिकुलाश्रयः। श्रीहेमचंद्रप्रभुः श्रीमान्नाम्ना विख्यातिमाप सः॥६०॥ १ H. मबो०. २ P. हेमचं०. Page #308 -------------------------------------------------------------------------- ________________ प्रभावकचरिते तदा च पाहिनी स्नेहवाहिनी सुत उत्तमे । तत्र चारित्रमादत्ताविहस्ता गुरुहस्ततः ॥ ६१॥ प्रवर्तिनी प्रतिष्ठां च दापयामास नम्रगी। तदैवाभिनवाचार्यो गुरुभ्यः सभ्यसाक्षिकम् ॥ ६२॥ सिंहासनासनं तस्या अन्वमानयदेष च । कटरे जननीभक्तिरुत्तमानां कषोपलः ॥६३॥ श्रीहेमचंद्रसूरिः श्रीसंघसागरकौस्तुभः। विजहारान्यदा श्रीमदणहिल्लपुरं पुरम् ॥ ६४ ॥ श्रीसिद्धभूभृदन्येधुराजपाटिकयाचरत् । हेमचंद्रप्रभुं वीक्ष्य तटस्थविपणौ स्थितम् ॥६५॥ निरुध्य टिंबिकासन्ने गजप्रसरमंकुशात् । किंचिद्भणिष्यतेत्याह प्रोवाच प्रभुरप्यथ ॥६६॥ कारय प्रसरं सिद्धहस्तिराजमशंकितम् ।। त्रस्यंतु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः ॥ ६७ ।। श्रुत्वेति भूपतिः प्राह तुष्टिपुष्टः सुधीश्वरः। मध्याह्न मे प्रमोदायागंतव्यं भवता सदा ॥६८॥ तत्पूर्व दर्शनं तस्य जज्ञे कुत्रापि स क्षणे । आनंदमंदिरे राज्ञा यात्राजयमभूत्प्रभोः॥६९॥ अन्यदा सिद्धराजोऽपि जित्वा मालवमंडलम् । समाजगाम तस्मै चाशिषं दर्शनिनो ददुः ॥ ७० ॥ तत्र श्रीहेमचंद्रोऽपि सूरिभूरिकलानिधिः। उवाच काव्यमव्यग्रमतिश्रव्यनिदर्शनम् ॥ ७१ ॥ तथाहि-भूमि कामगवि स्वगोमयरसैरासिंच रत्नाकरा मुक्तास्वस्तिकमातनुध्वमुडुप त्वं पूर्णकुंभो भव । धृत्वा कल्पतरोर्दलानि सरलैर्दिनवारणास्तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नत्वेति सिद्धाधिपः ॥७२॥ व्याख्याविभूषिते वृत्ते वृत्ते इव विभोस्ततः। आजुहावावनीपालः सूरिं सौधे पुनः पुनः॥७३॥ अन्यदावंतिकोशीयपुस्तकेषु नियुक्तकैः। दर्श्यमानेषु भूपेन प्रैक्षि लक्षणपुस्तकम् ॥ ७४ ॥ किमेतदिति पप्रच्छ स्वाम्यपीति व्यजिज्ञपत् । भोजव्याकरणं ह्येतच्छन्दशास्त्र प्रवर्त्तते ॥ ७५ ॥ असौ हि मालवाधीशो विद्वच्चशिरोमणिः । शब्दालंकारदैवज्ञतर्कशास्त्राणि निर्ममे ॥ ७६ ॥ १H. वः. Page #309 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः । ३०१ चिकित्साराजसिद्धांततरुवास्तूदयानि च। . अंकशाकुनकाध्यात्मस्वप्नसामुद्रिकान्यपि ॥ ७७ ॥ ग्रंथानिमित्तव्याख्यानप्रश्नचूडामणीनिह । विवृत्तिचायसद्भावेऽर्थशास्त्रं? मेघमालया ॥ ७८ ॥ भूपालोऽथावदत्कि नास्मत्कोशे शास्त्रपद्धतिः । विद्वान्कोपि कथं नास्ति देशे विश्वेपि गूर्जरे ॥ ७९ ॥ सर्वे संभूय विद्वांसो हेमचंद्रं व्यलोकयन् । महाभत्त्या च राज्ञासावभ्यर्थ्य प्रार्थितः प्रभुः ॥ ८०॥ शब्दव्युत्पत्तिकृच्छास्त्रं निर्मायास्मन्मनोरथम् । पूरयस्व महर्षे त्वं विना त्वमत्र कः प्रभुः॥ ८१ ॥ संक्षिप्तश्च प्रवृत्तोऽयं समयेऽस्मिन् कलापकः। लक्षणं तत्र निष्पत्तिः शब्दानां नास्ति तादृशी॥८२॥ पाणिनेर्लक्षणं वेदस्यांगमित्यत्र च द्विजाः। अवलेपादसूयंति कोऽर्थस्तैरुन्मनायितैः ॥ ८३॥ यशो मम तव ख्यातिः पुण्यं च मुनिनायक । विश्वलोकोपकाराय कुरु व्याकरणं नवम् ॥ ८४ ॥ इत्याकाभ्यधात् सूरिहेमचंद्रः सुधीनिधिः। कार्येषु नः किलोक्तिर्वः स्मारणायैव केवलम् ॥ ८५ ॥ परं व्याकरणान्यष्टौ वर्त्तते पुस्तकानि च। तेषां श्रीभारती देवी कोश एवास्ति ते ध्रुवम् ॥ ८६ ॥ आनाययतु काश्मीरदेशात्तानि स्वमानुषैः। महाराजो यथा सम्यक् शब्दशास्त्रं प्रतन्यते ॥ ८७॥ इति तस्योक्तिमाकर्ण्य तत्क्षणादेव भूपतिः । प्रधानपुरुषान् प्रैषीद्वाग्देवीदेशमध्यतः॥ ८८॥ प्रवराख्यपुरे तत्र प्राप्तास्ते देवतां गिरम् ।। चंदनादिभिरभ्यर्य तुष्टुवुः पाठनस्तवैः॥ ८९॥ समादिक्षत्ततस्तुष्टा निजाधिष्ठायकान् गिरा। मम प्रसादवित्तः श्रीहेमचंद्रः सितांबरः ॥९०॥ ततो मृर्त्यतरस्येव मदीयस्यास्य हेतवे। समर्प्य प्रेष्यतां प्रेष्यवर्गः पुस्तकसंचयम् ॥९१॥ ततः सत्कृत्य तान्सम्यग्भारती सचिवानरान् । पुस्तकान्यर्पयामासुः प्रैषुश्चोत्साहपंडितम् ॥९२॥ अचिरान्नगरं स्वीयं प्रापुर्दैवीप्रसादिताः। हर्षप्रकर्षसंपन्नपुलकांकुरपूरिताः॥९३॥ १ Hघे कांडं. २ P करेवि० ३ P खामीत्तेपि. ४ Pऽर्थशास्त्रं. 26 Page #310 -------------------------------------------------------------------------- ________________ ३०२ प्रभावकचरिते सर्व विज्ञापयामासुर्भूपालाय गिरोदिताः। निष्टानिष्टे प्रभौ हेमचंद्रे तोषमहादरम् ॥ ९४ ॥ इत्याकर्ण्य चमत्कारं धारयन् वसुधाधिपः। उवाच धन्यो मद्देशोऽहं च यत्रेदृशः कृती ॥९५॥ श्रीहेमसूरयोऽप्यत्रालोक्य व्याकरणव्रजम् । शास्त्रं चक्रुर्नवं श्रीमत्सिद्धहेमाख्यमद्धतम् ॥ ९६॥ द्वात्रिंशत्पादसंपूर्णमष्टाध्यायमुणादिमत् ।। धातुपारायणोपेतं रंगल्लिंगानुशासनम् ॥ ९७ ॥ सूत्रसद्वत्तिमन्नाम मालानेकार्थसुंदरम् । मौलिं लक्षणशास्त्रेषु विश्वविद्वद्भिरादृतम् ॥९८॥ त्रिभिर्विशेषकम् ॥ आदौ विस्तीर्णशास्त्राणि नहि पाठ्यानि सर्वतः। आयुषा सकलेनापि पुमर्थस्खलनानि तत् ॥ ९९ ॥ संकीर्णानि च दुर्बोधदोषस्थानानि कानिचित् । एतत्प्रमाणितं तस्माद्विद्वद्भिरधुनातनैः ॥ १०० ॥ मूलराजप्रभृतिभी राजपूर्वजभूभृताम् । वर्णवर्णनसंबद्धं पादांते श्लोकमेककम् ॥ १०१ ॥ तच्चतुष्कं च सर्वांते श्लोकैस्त्रिंशद्भिरद्भुतम् । पंचाधिकैः प्रशस्तिश्च विहिता विहितैस्तदा ॥१०२॥ युग्मम् ॥ राज्ञः पुरपुरोगैश्च विद्वद्भिर्वाचितं ततः। चक्रे वर्षत्रयं वर्षे राज्ञा पुस्तकलेखने ॥ १०३॥ राजादेशान्नियुक्तैश्च सर्वस्थानभ्य उद्यतैः । तदा चाहूय सच्चके लेखकानां शतत्रयम् ॥ १०४॥ पुस्तकाः समलेख्यंत सर्वदर्शनिनां ततः। प्रत्येकमेवादीयंताध्यतृणामुद्यमस्पृशाम् ॥ १०५॥ विशेषकम् ॥ अंगवंगकलिंगेषु लाटकर्णाटकुंकणे । महाराष्ट्रसुराष्ट्रासु वत्से कच्छे च मालवे ॥१०६॥ सिंधुसौवीरनेपाले पारसीकमुरंडके । गंगापारे हरिद्वारे काशिचेदिगयासु च ॥ १०७॥ कुरुक्षेत्रे कन्यकुब्जे गौडश्रीकामरूपयोः। सपादलक्षवजालंधरे च खसमध्यतः ॥ १०८ ॥ सिंहलेऽथ महाबोधे बोडे मालवकौशिके । इत्यादिविश्वदेशेषु शास्त्रं व्यस्तार्यत स्फुटम् ॥ १०९ ॥ __ चतुर्भिः कलापकम् ॥ अस्य सोपनिबंधानां पुस्तकानां च विशंतिः।। प्राहीयंत नृपेंद्रेण काश्मीरेषु महादरात् ॥ ११० ॥ Page #311 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः । एतत्तत्र गतं शास्त्रं स्वीयकोशे निवेशितम् । सर्वो निर्वाहयेत्तेनादृतं देव्यास्तु का कथा ॥ १११ ॥ काकलो नाम कायस्थः कुलकल्याणशेखरः । अष्टव्याकरणाध्येता प्रज्ञाविजितभोगिराट् ॥ ११२ ॥ प्रभुस्तं दृष्टमात्रेण ज्ञाततत्वार्थमस्य च । शास्त्रस्य ज्ञापकं चाशु विदधेऽध्यापकं तदा ॥ ११३ ॥ प्रतिमासं स च ज्ञानपंचम्यां प्रच्छनां दधौ । राजा च तत्र निर्व्यूढान् कंकणैः समभूषयत् ॥ ११४ ॥ निष्पन्ना अत्र शास्त्रे च दुकूलस्वर्णभूषणैः । सुखासनातपत्रैश्च ते भूपालेन नियोजिताः ॥ ११५ ॥ अन्यदा सत्प्रभोस्तस्य सभायां स्वः पतेरिव । विशुर्द्धव्रातरोचिन्यामेकश्चारण आययौ ॥ ११६ ॥ अवज्ञया न कोप्यत्र संमुखं तस्य वीक्षते । रत्नेषु वीक्ष्यमाणेषु जरतृणमणेरिव ॥ ११७ ॥ अथ चासावपभ्रंशादपाठीद्दोहकं वरम् । तत्पुण्यदोहदं ब्राह्मी प्रसादं प्रकटं ननु ॥ ११८ ॥ तथाहि - हेमसूरि अच्छाणिते ईसरजे पंडिया । लच्छिवाणि महुकाणि सांपइभागी मुह मरूम् ॥ ११९ ॥ तारमुक्तेऽस्य पूर्वाह्नौ नाम्ना पूज्य प्रजल्पनात् । अवज्ञाकृतिनोऽभूवन् सभ्यानां कोपतो दृशः ॥ १२० ॥ मांजिष्ठाः सावधानेषु तेषु तस्य पदत्रयम् । उवाच चारणस्तश्च श्रुत्वा ते पुलकं दधुः ॥ १२१ ॥ युग्मम् ॥ अचिंतयंश्च वाण्यस्य चमत्कारकृदुन्नता । बुधस्य हि स्थितिर्यत्र तस्य स्यान्महिमा गुरोः ॥ १२२ ॥ ऊचुर्मुदा ते संभूय पुनः पठ पुनः पठ । पठिते प्रभवो वोचन्निः क्षोभस्त्रिः पुनः पठ ॥ १२३ ॥ चतुः कृत्वोपि पाठे तु मतं कृतिभिरादरात् । कोपाभासमिवाविभ्रद्विचाराच्चारणोऽवदत् ॥ १२४ ॥ यूयं यथेष्टदातारो यदि तत्स्वानुमानतः । गृह्णाम्यहं गुरुं भारं वाहीक इव दुर्वहम् ॥ १२५ ॥ त्रिपाठे दोहकस्यास्य यल्लब्धं तेन मे धृतिः । नैवाधिकेन कार्य मे प्रत्युताहितहृद्भुजा ॥ १२६ ॥ ३०३ १ P. पृच्छनां. २ निर्व्यूहान्. ३ H. विबुध. ४H. जर तृण. ५ P. मुक्तेश्च. Page #312 -------------------------------------------------------------------------- ________________ ३०४ प्रभावकचरिते तस्यायुतत्रयं पूज्याः सभ्यपाछंददापयन् । स ऊचे मे धनं पूर्णमासप्तपुरुषावधि ॥ १२७॥ अहं प्रतिग्रहं गृह्णे न वातोऽभ्यधिकं किल । इत्युक्त्वा प्रययौ सोऽथ प्रदेशं स्वसमीहितम् ॥ १२८ ॥ राज्ञा श्रीसिद्धराजेनान्यदा-युयुजे प्रभुः। भवतां कोऽस्ति पट्टस्य योग्यः शिष्यो गुणाधिकः ॥ १२९ ॥ तमस्माकं दर्शयत चित्तोत्कर्षाय मामिव । अपुत्रमनुकंपार्ह पूर्वे त्वां मास्म शोचयन् ॥ १३० ॥ आह श्रीहेमचंद्रश्च न कोप्येवं हि चिंतकः। आद्योप्यभूदिलापालः सत्पात्रांभोधिचंद्रमाः ॥ १३१ ॥ सज्ञानमहिमस्थैये मुनीनां किं न जायते । कल्पद्रुमसमे राशि त्वयीशि कृतस्थितौ ॥ १३२ ॥ अस्त्यामुष्यायणोरामचंद्राख्यः कृतिशेखरः । प्राप्तरेखः प्राप्तरूपसंघे विश्वकलानिधेः ॥ १३३ ॥ अन्यदादर्शयंस्तेऽमुं क्षितिपस्य स्तुतिं च सः । अनुक्तामाद्यविद्वद्भिहल्लेखाधायिनी व्यधात् ॥ १३४॥ तथाहि-मात्रयाप्यधिकं किंचिन्न सहते जिगीषवः । इतीव त्वं धरानाथ धारानाथ ममाकृथाः ॥ १३५ ॥ शिरोधूननपूर्व च भूपालोत्र दृशं दधौ । रामे वामेतराचारो विदुषां महिमस्पृशाम् ॥ १३६ ॥ एकदृष्टिर्भवान् भूयाद्वत्स जैनेंद्रशासने । महापुण्योयमाचार्यो यस्य त्वं पदरक्षकः ॥ १३७॥ इत्युक्त्वा विरते राज्ञि रामस्यादुपदेशकम् ? । नेत्रदृष्टिहि दुर्घष्या सुकृतातिशयस्पृशाम् ॥ १३८ ॥ उपाश्रयाश्रितस्यास्य महापीडापुरःसरम् । व्यनशद्दक्षिणं चक्षुर्नरत्नमनुपद्रवम् ॥ १३९ ॥ कर्मप्रामाण्यमालोच्य ते शीतीभूतचेतसः। स्थितास्तत्र चतुर्मासीमासीनास्तपसि स्थिरे ॥ १४० ॥ चतुर्मुखाख्यजैनेंद्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्यामी श्रीसंघाने प्रतुष्टुवुः ॥ १४१ ॥ सुधासारवचःस्तोमाकृष्टमानसवासनाः। शुश्रूषवः समायांति तत्र दर्शनिनोऽखिलाः॥१४२॥ पांडवानां परिव्रज्याव्याख्याने विहितेऽन्यदा । ब्राह्मणा मत्सराध्माता व्याचख्युर्नृपतेरिदम् ॥ १४३॥ अस्तष्पदेककं. प्राही Page #313 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३०५ स्वामिन् पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोद्भुतम् ॥ १४४ ॥ तत्रेदमुच्यते स्वायुःप्रांते पांडोः सुता अमी। हिमानिमहिते जग्मुहिमवद्धधराध्वनि ॥ १४५॥ श्रीकेदारस्थितं शंभु स्नानपूजनपूर्वकम् । आराध्य परया भक्त्या स्वांताःस्वांतमसाधयन्॥१४६॥युग्मम् ॥ . अमी श्वेतांबराः शूद्रा विद्रुतस्मृतिसूक्तयः। तदुक्तवैपरीत्यातिजल्पंति निजपर्षदि ॥ १४७ ॥ अनौचित्यकृताचाराः पुरे तेऽरिष्टमित्यदः। भूभृता रक्षणीयाश्च दुराचाराः प्रजाकृताः॥१४८॥ विचार्य हृदि कार्याणि विचारक विधेहि तत् । इत्युक्त्वा विररामासौ द्विजव्यूहोऽतिधीरगीः ॥ १४९ ॥ राजाप्याह न भूपाला अविमृश्य विधायिनः। दर्शनानां तिरस्कारमविचार्य न कुर्वते ॥ १५०॥ अनुयोज्या अमी चात्र दद्युश्चेत्सत्यमुत्तरम् । तन्मे गौरविता एव न्याय एवात्र नः सुहृत् ॥ १५१ ॥ हेमाचार्योपि निर्ग्रथः संगत्यागी महामुनिः। असूनृतं कथं ब्रूयाद्विचार्य तदिदं बहु ॥ १५२ ॥ एवं भवत्विति प्रोचुः प्रवीणा ब्राह्मणा अपि ।। आजुहाव ततो राजा हेमचंद्रं मुनीश्वरम् ॥१५३ ॥ अपृच्छदथ माध्यस्थ्यात् सर्वसाधारणो नृपः। शास्त्रे च अर्हती दीक्षा गृहीता पांडवैः किमु ॥ १५४॥ सूरिरप्याह शास्त्रे न इत्यूचे पूर्वसूरिभिः। हेमाद्रिगमनं तेषां महाभारतमध्यतः ॥ १५५ ॥ परमेतन्न जानीमो येन शास्त्रेषु वर्णिताः । त एव व्यासशास्त्रेपि कीर्त्यतेऽथ परेऽपरे ॥१५६॥ राजाह तेऽपि बहवः पूर्व जाताः कथं मुने । अथावोचहुरुस्तत्र श्रूयतामुत्तरं नृप ॥१५७॥ व्याससंदर्भिताख्याने श्रीगांगेयः पितामहः। युद्धप्रवेशकालेऽसावुवाच स्खं परिच्छदम् ॥ १५८ ॥ मम प्राणपरित्यागे तंत्र संस्क्रियतां तनुः । न यत्र कोपि दग्धः प्राग्भूमिखंडे सदा शुचौ ॥ १५९ ॥ विधाय न्याय्यसङ्ग्रामं मुक्तप्राणे पितामहे ।। विमृश्य तद्वचस्तंगमुत्पाद्यास्य ययुर्गिरौ ॥१६०॥ १H. चार्हता. २ H. स्तत्र. TENTATIVE Page #314 -------------------------------------------------------------------------- ________________ ३०६ प्रभावकचरिते अमानुषप्रचारे च शृङ्गे कुत्रापि चोन्नते। अमुञ्चन्देवतावाणी क्वापि तत्रोद्ययौ तदा ॥ १६१ ॥ तथाहि अत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् । द्रोणाचार्यसहस्रन्तु कर्णसंख्या न विद्यते ॥ १६२ ॥ एतद्वयमिहाकर्ण्य विमृशामः स्वचेतसि । वहूनां मध्यतः केपि चेद्भवेयुर्जिनाश्रिताः ॥ १६३॥ गिरौ शत्रुजये तेषां प्रत्यक्षाः सन्ति मूर्तयः। श्रीनासिक्यपुरे सन्ति श्रीमच्चन्द्रप्रभालये ॥ १६४ ॥ केदारे च महातीर्थ कोपि कुत्रापि तद्रतः। बहूनां मध्यतो धम्म तत्र ज्ञानं ततः स्फुटम् ॥ १६५॥ स्मार्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः। ज्ञानं कुत्रापि चेद्गङ्गा नहि कस्यापि पैतृकी ॥ १६६ ॥ राजा श्रुत्वाह तत्सत्यं वक्ति जैनर्षिरेव यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥ १६७ ॥ अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद्विचाय्र्यैव कार्य कार्य क्षमाभृता ॥ १६८ ॥ तथाहमेव कायेऽत्र दृष्टान्तः समदर्शनः। समस्तदेवप्रासादसमूहस्य विधापनात् ॥ १६९ ॥ उत्तरानुदयात्तत्र मौनमाशिश्रियंस्तदा । स्वभावे जगतो नैव हेतुःकश्चिन्निरर्थकः ॥ १७० ॥ राज्ञा सत्कृत्य सूरिश्चाभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोण्वपि ॥ १७१ ॥ भूपेन सत्कृतश्चैवं हेमचन्द्रप्रभुस्तदा। श्रीजैनशासनव्योम्नि प्रचकाशे गभस्तिवत् ॥ १७२ ॥ राज्ञः सौवस्तिकोऽन्येधुराभिगाख्यो वृथारुषम् ।। वहन् जजल्प सूरिं तं निविष्टं राजपर्षदि ॥ १७३॥ धर्मे वः शमकारुण्यशोभितं न्यूनमेककम् । व्याख्याने कृतशृङ्गारास्त्रिय आयान्ति सर्वदा ॥ १७४॥ भवन्निमित्तमकृतं प्रासुकं ददते च ताः । विकारसारमाहारं तद्ब्रह्म व स्थितं हि वः ॥ १७५ ॥ यतः-विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशना स्तेपि स्त्रीमुखपङ्कजं सललितं दृष्ट्वैव मोहं गताः ॥ आहारं सुदृढं (सघृतं) पयोदधियुतं ये भुञ्जते मानवास्तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥ १७६ ॥ Page #315 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरि प्रबन्धः । ३०७ अथ सूरिरुवाचात्र नेदं विद्वजनोचितम् । अविमृश्य पुरस्कारं वचः शुचिपुरोहितः ॥ १७७ ॥ .यतो विचित्रा विश्वेस्मिन् प्राणिनां चित्तवृत्तयः। पशूनामपि चैतन्यवतां नृणान्तु किम्पुनः॥ १७८ ॥ यतः--सिंहो बली हरिणशूकरमांसभोजी सम्वत्सरेण रतिमेति किलैकवारम् । पारावतः खरशिलाकणभोजनोपि । कामी भवत्यनुदिनं बत कोऽत्र हेतुः॥१७९ ॥ श्रुत्वेति भूपतिः प्राहातिसाहसमिदंनृणाम् । य उत्तराय नालं स्यात्स यद्वदति पर्षदि ॥ १८०॥ इति भूपालसन्मान्यो वदान्यः सुकृतार्थिनाम् । श्रीहेमसूरिः संजज्ञे संघोद्धारधुरन्धरः ॥ १८१ ॥ अथान्यदा महाविद्वान् श्रीभागवतदर्शिनी। देवबोधाख्यरासी (आसीन्) क्रामिकसारखतोत्तरः ॥१८२॥ आजगाम धियां धामाणहिल्लपुरमध्यतः। व्यजिज्ञपनियुक्ताश्च श्रीसिद्धाधिपतेः पुरः॥१८३ ॥ ततः श्रीपालमामन्य कविराज नराधिपः। रहो मन्त्रयतेऽस्मासौ प्रतिपन्नं सहोदरम् ॥ १८४ ॥ देवबोधो महाविद्वान् द्रष्टव्योसौ कथं हि नः। निस्पृहत्वादनागच्छन् सभायां तपसोर्जितः ॥१८५॥ आत्मदेशे परो विद्वानागतो यन्न पूज्यते। तत्षणमात्मनः केन निर्यमपकीर्तिकृत् ॥ १८६॥ अथाह कविराजोपि विद्वानाडम्बरी च यः। स कथं निस्पृहो लक्ष्मी विनापरिकरः करम् ॥ १८७ ॥ सा विद्वद्वल्लभैर्युष्मादृशैर्भूपैर्भवेदिह । दत्तैव नापरः कश्चिदुपायोस्याःसमर्जने ॥ १८८॥ परं श्रीभारतीभक्त्यात्यादरः स्वामिनो यदि। तत्सुधर्मासधर्मायां पर्षद्याहूयतामसौ ॥१८९ ॥ अस्त्वेवमिति राज्ञोक्ते प्रधानपुरुषास्ततः। प्राहीयंत ततस्तेनाभिहितास्ते मदोद्धतम् ॥ १९० ॥ आह्वानायागता यूयं मम भूपतिदेशतः। भूपालैः किं हि नः कार्य स्पृहाविरहितात्मनाम् ॥ १९१॥ तथा काशीश्वरं कान्यकुब्जाधीशं समीक्ष्य च। गणयामः कथं स्वल्पदेशं श्रीगूर्जरेश्वरम् ॥ १९२॥ Page #316 -------------------------------------------------------------------------- ________________ प्रभावकचरिते परमस्मद्दिक्षायै भवतां स्वामिनस्तदा । उपविष्टः क्षितौ सिंहासनस्थं मां स पश्यतु ॥ १९३ ॥ एवं विसर्जितास्तेन यथावृत्तं व्यजिज्ञपत् । कविराजं नृपः प्राह तद्वाचातिचमत्कृतः ॥ १९४ ॥ विना जैनमुनीन् शान्तान् को न नामावलिप्तधीः । तारतम्याश्रिते ज्ञाने कोवकाशो मदस्य तत् ॥ १९५ ॥ द्रष्टव्यमिदमप्यस्य चेष्टितं कौतुकात्ततः । सश्रीपालस्ततो भूपोन्यदागच्छत्तदालये ॥ १९६ ॥ सिंहासनं स्वमद्राक्षीद्दिद्वद्वृन्दनिषेवितम् । मृगेन्द्रमिव दुर्धर्षे देवबोधं कवीश्वरम् ॥ १९७ ॥ दृढभक्त्या नमश्चक्रे राजा विनयवामनः । गुणपूर्ण सतां चित्ते नावकाशो मदस्य यत् ॥ १९८ ॥ प्रत्यक्षविश्वरूपं तं विश्वरूपवराशिषा | अभिनन्द्यावदत्पाणिसंज्ञयादर्शयद्भुवम् ॥ १९९ ॥ अत्रोपविश्यतां राजन् श्रुत्वेति क्ष्मापतिस्ततः । श्रीश्रीपालकृतं काव्यमुवाच प्रकटाक्षरम् ॥ २०० ॥ ‘यतः’-इहहि वसति मेरुः शेखरो भूधराणा मिह विनिहितभाराः सागराः सप्त चान्ये । इह महिपतिदम्भस्तम्भसंरम्भधीरम् ३०८ धरणितलमिहैव स्थानमस्मद्विधानाम् ॥ २०१ ॥ इत्युक्त्वा च प्रतीहारः पटास्तृतधरातले । उपाविशद्विशां नाथः प्रमाथो दोषविद्विषाम् ॥ २०२ ॥ पर्षदोनुचितः कोयमिति हस्तेन दर्शिते । कविराजे नृपोवादीदनादीनवगीर्भरः ॥ २०३ ॥ एकोहं विहितस्फीतप्रबन्धोऽयं कृतीश्वरः । कविराज इतिख्यातः श्रीपालो नाम भूमिभूः ॥ २०४ ॥ श्रीदुर्लभसरोराजस्तथा रुद्रमहालये । अनिर्वाच्यरसैः काव्यैः प्रशस्तीरकरोदसौ ॥ २०५ ॥ महाप्रबन्धचक्रेचे ( च ?) वैरोचनपराजयम् । विहस्य सद्भिरन्योपि नैवास्य तु किमुच्यते ॥ २०६ ॥ श्रुत्वेति स्मितमाधाय देवबोधकविर्जगौ । काव्यमेकं लसद्गर्वपर्वताधित्यकासमम् ॥ २०७ ॥ तथाहि शुक्रः कवित्वमापन्नः एकाक्षिविकलोपि सन् । चक्षुर्द्धयविहीनस्य युक्ता ते कविराजिता ॥ २०८ ॥ Page #317 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३०९ अतिशीघ्र तथा गुम्फे भित्यन्तः पूरणाकृतौ । कोभिमानस्ततो धीमन्नेकमस्मद्वचः शृणु॥२०९ ॥ . 'तद्यथा' भ्रातामकुविन्दकन्दलयता वस्त्राण्यमूनि त्वया गोणीविभ्रमभाजनानि बहुशोप्यात्मा किमायास्यते । अप्येकं रुचिरं चिरादभिनवं वासस्तदा सूच्यते यन्नोज्झन्ति कुचस्थलात्क्षणमपि क्षोणीभृतां वल्लभाः॥२१०॥ समस्यां दुर्गमां कांचित्पृच्छतेति नृपोदिते । श्रीपाल ऊचिवाने स्फुटं शिखरणीपदम् ॥ २११ ॥ तच्च-कुरङ्गः किम्भृङ्गो मरकतमणिः किं किमशनि ॥ तत्पाठपृष्ठ एवासाववदत्कविनायकः।। चरणतृतीय(त्रितयं)वृत्ते को विलम्बोत्र(स्त्व)मूदृशि॥२१२॥ तद्यथा-चिरं चित्तोद्याने चरसि च मुखाब्जं पिबसि च क्षणादेणाक्षीणां विषयविषमुद्रां हरसि च । नृप त्वं मानादि दलयसि च किं कौतुककरः कुरङ्गः किंभृङ्गो मरकतमणिः किं किमशनिः॥२१३॥ गृहाण चैकं मत्पार्श्वे किंशब्दं व्यवहारतः । दौस्थ्यं यत्र भवेद्यस्याधमों न स तत्र किम् ॥ २१४ ॥ निगद्यन्ते समस्याश्चामूदृश्यो विषमार्थकाः । एकपादा द्विपादा च त्रिपदी च बुधोचिताः ॥ २१५॥ किं शब्दवहलास्त्वेताः शून्यप्रश्ननिभा नृप । सदृक्षा भणितेरस्य निद्या कोविदसम्पदाम् ॥ २१६॥ तथाहि पौत्रः सोपि पितामहः। सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपात् । नमः कर्पूरपूराभं । चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं। वाचानुपदमेवासौताः पुपूरे कवीश्वरः। सिद्धसारस्वतानां हि विलम्बकविता कुतः॥ २१७॥ 'ताश्च'-मूर्तिमेकां नमस्यामः शम्भोरम्भोमयीमिमाम् ।। अब्जोत्पन्नतया यस्याः पौत्रः सोपि पितामहः॥ २१८॥ चलितश्चकितो भीतस्तव देव प्रयाणकः। सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्रपात् ॥ २१९ ॥ नभः कर्पूरपूराभं चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं करिष्यति शनैः शनैः॥ २२०॥ इत्थं गोष्टया महाविद्वन् शिरः कम्पकृता तदा। कियंतमपि निर्वाह्य क्षण सौधं ययौ नृपः ॥ २२१ ॥ अन्यदा श्रीदेवसूरिजितवादक्षणे मुदा। दत्ते वित्ते नरेन्द्रेण लक्षसंख्ये तदुद्धृते ॥ २२२ ॥ Page #318 -------------------------------------------------------------------------- ________________ ३१० प्रभावकचरिते अपरेणापि वित्तेन जैनप्रासादउन्नते । विधापिते ध्वजारौप्यविधानाख्यमहामहे ॥ २२३॥ देवबोधोपि सत्पात्रं तत्राहूयत हर्षतः। समायातेन भूपेन धर्मे ते स्युः समायतः॥ २२४ ॥ श्रीजयसिंहमेवाख्यमहेशभुवनाग्रतः? । आगच्छन् शङ्करं दृष्ट्वा शार्दूलपदमातनोत् ॥ २२५ ॥ यतः-एको रागिषु राजते प्रियतमादेहार्द्धहारी हरो श्रीमद्राजविहारेसावाययावुत्सवोन्नते। दृष्ट्रार्हतं द्वितीयञ्च पदं प्रणिजगाद सः॥ २२६ ।। नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात्परः । ततस्तत्र महापर्षत्पार्षद्यान् बुधशेखरान् । सावहेलं समीक्ष्याह स्वज्ञानासाविलप्तधीः? ॥ २२७ ॥ तद्यथा-दुर्वारस्मरघस्मरोरगविषव्यासंगमूढो जनः। शेषः कामविडम्बितो न विषयान्भोक्तुं न मोक्तुं क्षमः ॥२२८॥ भद्रासने समासीनः शक्तिः प्रकटनाकृते । आह भूपं नरं कञ्चिदानाययत पामरम् ॥ २२९ ॥ राज्ञादिष्टः प्रतीहारस्तत्क्षणादानयद्रुतम् । श्रीसिद्धाधीशकासारात्कंचित्कासारवाहकम् ॥ २३० ॥ भगवानपि पप्रच्छ किंते परिचयोक्षरे। कियानप्यस्ति स प्राह प्रज्ञातिसदृशं वचः॥ २३१ ॥ स्वामिन्नाजन्मनो शिक्षे थाजा इत्यक्षरे विना। रक्ताक्षवाहो रक्ताक्षस्तत्पुच्छास्यगतागतान् ॥ २३२॥ उवाच विदुषां नाथो देवबोधस्तृतीयके। उत्तमाङ्गे करं न्यस्यामुष्य वाक् श्रूयतां जनैः ॥ २३३॥ ततो दत्तावधानेषु सभ्येषु स्थिरधीरगीः।। काव्याभ्यासीव महिषी महामात्योऽब्रवीदिदम् ॥ २३४॥ तं नौमि यत्करस्पर्शायामोहमलिने हृदि । सद्यः सम्पद्यते गद्यपद्यबन्धविदग्धता ॥ २३५॥ इत्याकर्ण्य सकर्णेषकर्णेष्वतिचमत्कृतैः। द्रव्यलक्षं ददौ सिद्धाधीश्वरोस्य कवीशितुः ॥ २३६ ॥ आप्तास्तदीयवैरस्यात् श्रीपालोपि कृतिप्रभुः । वृत्तान्यन्वेषयत्यस्यास्तयागर्भमनामनाक् ॥ २३७ ॥ अन्यदात्यद्भुतं चारैर्भगवञ्चरितं किल । महन्निन्द्यमवज्ञेयं सम्यग् विज्ञातमौच्यत ॥ २३८ ॥ Page #319 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। अश्रद्धेयं वचः श्रद्धातव्यमस्मत्प्रतीतितः। प्रत्यक्षं यदृशा दृष्टमपि सन्देहयेन्मनः॥ २३९॥ वेदगर्भः सोमपीथी दग्ध्वा यज्ञोपवीतकम् । अपिबद्गाङ्गनीरेण प्राप्तभागवतव्रतः॥ २४०॥ असौ यत्याश्रमाभासाचारः सारस्वते तटे । निशीथे स्वपरीवारवृतः पिबति वारुणीम् ॥ २४१ ॥ राजा बुधः कविः शूरो गुरुर्वक्रः शनैश्चरः। अस्तं प्रयाति वारुण्यासङ्गी चित्रमयं तु नः ॥ २४२ ॥ अथाह कविराजोऽपि संभ्रमोदान्तलोचनः । कथं हि जाघटीत्येतच्छ्रद्धेयं नापि वीक्षयत् ॥ २४३ ॥ अस्य तुर्याश्रमस्थस्य भोगैर्व्यवहृतैरपि। नार्थस्तदर्शनाचारविरुद्धस्तु किमुच्यते ॥ २४४॥ तेऽप्यूचुः स्वदृशालोक्य वयं ब्रूमो न चान्यथा । यस्यादिशत तस्याथ वीक्षयामः प्रतिज्ञया ॥ २४५॥ श्रीपालोऽप्यूचिवान् श्रीमजयसिंहनरेशितुः। अद्य दर्शयत श्यामोत्तरार्धं तत्र सङ्गते ॥२४६॥ ओमिति प्रतिपन्ने च तैर्नृपाग्रे यथातथम् । व्यजिज्ञपदिदं सर्व सिद्धलारस्वतः कविः ॥ २४७ ॥ इत्याकाह भूपालः सत्यं चेन्मम दर्शय । इदं हि न प्रतीयेत साक्षादृष्टमपि स्फुटम् ॥ २४८॥ अर्धरात्रे ततो राजा प्रसये प्रेक्षिताध्वना । अवन्तिसैकतं प्राप दुःप्रापं कातरैर्नरैः ॥ २४९ ॥ वृक्षवल्लीमहागुल्मांतरेतो यावदीक्ष्यते । भूपस्तावद्ददर्शामुमुन्मत्तानुचराश्रितम् ॥ २५०॥ यथेच्छं गीयमानत्त्वादव्यक्तध्वनिसंभृतम् । चषकास्यस्फुरन्मद्यातवऋसखीसखम् ॥ २५१ ॥ 'युग्मम्' प्रतीतः सिद्धराजोऽपि दृष्टेदमतिवैशसम् । विचिकित्सां दधौ चित्ते नासाक्षणनपूर्वकम् ॥ २५२ ॥ अहो संसारवैचित्र्यं विद्वांसो दर्शनाश्रिताः। इत्थं विलुप्तमर्यादाः कुर्वते कर्म कुत्सितम् ॥ २५३ ॥ इदानीं यद्यहं साक्षादेनं नो जल्पयाम्यथ । प्रातः किमेष मन्येत दुश्चरित्रमिदं ननु ॥ २५४॥ इति ध्यायत एवास्य वाणी भूपस्य कर्णयोः। प्राविशत् प्रकटा कोर्टि रसप्राप्तातिकेलितः ॥ २५५॥ वीक्ष्य प्रान्तदशं स्वेशं तत्तेजःप्रसरोज्वला। विभांत्यनु प्रयातिस्म ज्योत्स्नाकटसतीस्वितिः ॥ २५६ ॥ Page #320 -------------------------------------------------------------------------- ________________ ३१२ प्रभावकचरिते प्रसन्नास्वादमत्यंतप्रसन्नास्वादमैककम् । विधायाथ निजं स्थानं गम्यतेऽथ विरम्यते ॥ २५७॥ इतिस्मृतिमनुक्त्वा यः प्रकटं वदति स्म तम् । अपि नः संविभागेषु कः स्वादेषु पराङ्मुखः ॥ २५८ ॥ क्षणं ध्यात्वा समुत्पन्नप्रतिभः प्रोचिवानिति । भवता निधिना भूप दिष्ट्या वर्धामहे वयम् ॥ २५९ ॥ सौवर्णपात्रमापूर्यार्पितं तेनाथ भूभृता। यावत्समीक्षते तावत्क्षीरपूर्ण व्यलोकयत् ॥ २६०॥ पपावथामृतास्वादं व्यमृशद्भूपतिः क्षणम् । इदं दुग्धं नु मद्यं वा शक्तयापावृत्त तद्रसम् ॥ २६१ ॥ चेत्परावृत्तमस्याहो शक्तिप्रातिभमद्भुतम् । ततो विससृजे तेनाऽवसरोयं मनीषिणा ॥ २६२॥ प्रातर्भूपसभां गत्वा देवबोधस्ततोऽवदत् । आपृच्छयसे महाराज वयं तीर्थयियांसवः ॥ २६३ ॥ श्रीसिद्धभूपतिः प्राह भवादृशमुनीश्वराः। देशस्य शान्तिनीरं कः प्रहेष्यति सकर्णकः ॥ २६४ ॥ आह सोप्यर्थवादेन कृतं यत्र कृतीश्वरः। प्रत्येति खलभाषाभिः स्थितिस्तत्र न युज्यते ॥ २६५ ॥ कुलविद्यावयोज्ञानशक्तयश्चेन्नरं नहि । व्यावर्तयन्ति सनिंद्यकर्मभ्यस्तत्पुरे हि किम् ॥ २६६॥ देवा देव्यो महामन्त्रा विद्याश्चानेकशो वशे। येषां ताः सिद्धयश्चाष्टौ कल्पस्तैर्वारजनैर्हि किम् ॥ २६७॥ ततो भूपाल नास्मादृगयोग्या पर्षत्तव स्फुटम् ।। ईदृग्ग्रामनटग्राम्ये संयोगः सदृशोऽस्तु वः ॥ २६८ ॥ साकूतमवदद्भूपः श्रीपालं कविपुङ्गवम् । शुश्रुवे शमिनो वाक्यं कोपगर्भ नतु त्वया ॥ २६९॥ प्रज्ञाचक्षुः कविर्दध्यौ कार्यसन्मानदण्डितः। भिक्षुरेष क्रियाभ्रष्टः स्रस्तरूपो यथा भवेत् ॥ २७० ॥ उवाच च महाराजाचिन्त्यशक्तिभृतोह्यमी । महाप्रभावा मुनयो न प्रहेया स्वदेशतः ॥ २७१ ॥ नहि द्रव्येण विद्वांस आवर्ण्यन्ते न चाटुभिः। परिज्ञातस्वभावा हि सद्वात्सल्येन केवलम् ॥ २७२ ॥ श्रुत्वा श्रव्यं वचस्तथ्यं स्वशिरो मनिपादयोः। स्पर्शयित्वा जगौ वाक्यं राजा विनयसंभृतम् ॥ २७३॥ मुनिः सदृत्य माहात्म्याभूपालाः पालकाः क्षितैः। वासवा इव शोभन्ते तत्र हेतुनहीतरः॥२७४॥ Page #321 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३१३ अस्मद्देशान्तरा तिष्ठ क्रियानिष्ठ मुनीश्वर । अर्थिप्रणयभंगं हि महात्मानो न कुर्वते ॥ २७५॥ इत्थं गिरां भरैः प्रीतोऽवातिष्ठत गुरुस्तदा। तिस्रः समाः समासन्ना दरिद्रश्च शनैरभूत् ॥२७६॥ तस्य न केयविक्रेयव्यवहाराद्धनागमः। राजदत्तं हि भुज्येत तद्विना दौस्थ्यमाययौ ॥ २७७ ॥ सूरेः श्रीहेमचन्द्रस्य विदितं वृत्तमप्यभूत् । श्रीश्रीपालश्च तत्पार्श्वमन्त्रयत्तदिदं रहः ॥ २७८ ॥ असौ भिक्षुर्निजाचारभ्रष्टो नष्टः क्रियाकुधीः। निष्टानिष्टयतिव्यूहादृश्यवक्रः कुवृत्तभूः॥२७९ ॥ दारियराजधानीत्वादिदानीमृणजर्जरः। मदोद्धतमहालोललोलाबशविनष्टभूः ॥ २८० ॥ अधुना सपरीवारो भिक्षया भुक्तिभाक्ततः। दर्शनी दर्शनाचारे स्थापितो निजलक्षणैः ॥ २८१ ॥ सिद्धीनामष्टसंख्यानां षड्ययुस्तस्य सहुणैः। अणिमा लघिमा च द्वे योषे प्रापतुरद्भुतम् ॥ २८२॥ श्रीसिद्धाधीश्वरं मूर्त देवेन्द्रमिव तेजसा । सौधमौलिस्थकाकोल इव सिंहासने स्थितः ॥ २८३॥ वर्णाश्रमगुरुं भूमावुपवेशयति स्म यः। निर्विवेकस्य तस्यैतन्मान्यावशालताफलम् ॥ २८४॥ मया चाश्रावि तन्मन्त्रोऽयद्रणोपद्रवो हि नः। राज्यपूज्यं हेमचन्द्रं विना नः प्रतिहन्यते ॥ २८५ ॥ तदसौ चेत्समायाति पूज्यपार्चे ततोपि नः। मान्योसौ पतितस्यास्य वकं कः प्रेक्षते सुधीः ॥२८६ ॥ अथोचुर्गुरवो यूयं यजल्पत तदेव तत् । एकत्रास्य गुणेनास्तु बहुमानः परत्र नः ॥ २८७ ॥ दृश्यते नान्यसामान्य संक्रामितगुणोत्तरम् । सारस्वतं न कुत्रापि समयेस्मिन्नमुं विना ॥ २८८ ॥ ततोसौ निर्विषः सर्प इव चेदागमिष्यति । म्लानमानकृतो धीमान् लभ्यानेनापि सत्कृतिः ॥ २८९॥ अथाह कविराजोपि गुणमेवेक्षते महान् । कृष्णवत्कृष्णमुक्तासु श्वदन्तधवलत्ववत् ॥ २९०॥ स्वाभिप्रायो मया प्रोचे पुनः पूज्यैर्बहुश्रुतैः। यथाविचारं कार्याणि कार्याणि गरिमोचितम् ॥ २९१ ॥ १ P. कुतोधीमन्. 27 - Page #322 -------------------------------------------------------------------------- ________________ प्रभावकचरिते अन्यदाभिनवग्रन्थगुम्फाकुलमहाकवौ। पट्टिकापट्टसंघातलिख्यमानपदव्रजे ॥ २९२ ॥ शब्दव्युत्पत्तयेऽन्योन्यं कृतोहापोहबन्धुरे। पुराणकविसंदृष्टदृष्टान्तीकृतशब्दके ॥ २९३ ॥ ब्रह्मोल्लासनिवासेऽत्र भारतीपितृमन्दिरे। श्रीहेमचन्द्रसूरीणामास्थाने सुस्थकोविदे ॥ २९४ ॥ क्षुधातुरः परीवारः प्रेरितः स परेद्यवि । अपराह्ने समागच्छत्प्रतीहारनिवेदितः॥२९५॥ चतुर्भिः कलापकम्। अभ्युत्तस्थुश्च ते देवबोधविद्वन्मतल्लिकाम् । मन्त्रौषधिप्रभास्तब्धवह्निवच्छीततेजसम् ॥ २९६ ॥ स्वागतं स्वागतं विद्वत्कोटीरजगतीश्रुतः। कृतपुण्यं दिनं यत्र जातस्त्वं लोचनातिथिः ॥ २९७ ॥ तदलंक्रियतामद्यार्द्धासनं नः कलानिधेः। संकटेष्वपि नियूंढकला(:) प्रागल्भ्यभूषिताः ॥ २९८ ॥ श्रुत्वेति देवबोधोपि ध्यौ मे मर्म वेत्त्यसौ । कथनात्कथनातीतकलातो वा न विद्महे ॥ २९९ ॥ यथा तथा महाविद्वानसौभाग्यश्रियोर्जितः। अत्र को मत्सरः स्वच्छे बहुमानः शुभोदयः ॥ ३०० ॥ समयेऽद्यतने कोऽस्य समानः पुण्यविद्ययोः। गुणेषु का प्रतिद्वन्द्वी तस्मात्प्राञ्जलयोचिताः॥ ३०१॥ अथोपाविशदेतेनाऽनुमते॰सने कृती। मनसा मन्यमानश्च पुंरूपी तां सरस्वतीम् ॥ ३०२॥ सविस्मयं गिरं प्राह सारसारस्वतोज्वलः। पार्षद्यपुलकांकूरघनाघनघनप्रभाम् ॥ ३०३ ॥ तथाहि-पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् । षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ ३०४ ॥ व्याधूतशिरसः श्लोकमेनं सामाजिका हृदा। श्रुत्वा सत्यार्थपुष्टिं च तेऽतुलं विस्मयं दधुः ॥ ३०५॥ ततः श्रीपालमाका-स्नेहयत्तेन स प्रभुः। आद्यो धर्मो व्रतस्थानां विरोधोपशमः खलु ॥ ३०६॥ अस्य वृत्तं ततः श्रीमजयसिंहनरेशितुः। ज्ञापयित्वा च तत्पााद्रव्यलक्षमदापयत् ॥ ३०७॥ अन्यदर्शनसम्बद्धविद्वत्प्रणतितस्तदा । प्रहीणभाग्यशक्त्यायुःस्थिति स्वां सुविमृश्य सः॥ ३०८ ॥ नव १P°द्धरः. Page #323 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३१५ तत्रतत्रानृणो भूत्वा देवबोधो महामतिः। तेन द्रव्येण गंगायां गत्वासानोत्परं भवम् ॥३०९॥ युग्मम्॥ अन्यदा सिद्धभूपालो निरपत्यतयार्दितः। तीर्थयात्रां प्रचक्रामानुपानत्पादचारतः॥ ३१०॥ हेमचन्द्रप्रभुस्तत्र सहानीयत तेन च । विना चन्द्रमसं किंस्यान्नीलोत्पलमतन्द्रितम् ॥ ३११॥ द्विधा चरणचारेण प्रभुर्गच्छन्न दृश्यते । शनैर्यान् जीवरक्षार्थ मूर्तिमानिव संयमः॥ ३१२ ॥ अर्थितैर्वाहनारोहे निषिद्धश्चरितस्थितैः। किश्चिद्रूनो जड़ा यूयमिति तानाह सौहृदात् ॥ ३१३॥ प्राकृतेनोत्तरं प्रादाद्यद्वयं निजडा इति । राजा चमत्कृते ध्यावूचेऽसौ सजडा जडाः॥ ३१४ ॥ वयन्तु सुधियः स्वीयखाचारं धतो ननु। निजडा इत्यहो सूरेः ध्वनिव्याख्यातिचातुरी॥३१५॥ दिनत्रयमसंजग्मुर्नुपस्याध्वनि सोपि च । कुपितानि च विज्ञाय सान्त्वनाय तदागमत् ॥ ३१६॥ प्रतिसीरांतरस्थानामाचामाम्लेन भुञ्जताम् । तामपावृत्य भूपालोऽपश्यत्तदशने विधिम् ॥ ३१७॥ अहो जितेन्द्रिया एते क्लिन्नमन्नं हि नीरतः। आकृष्य गृहते तदुश्वरमेतत्तपो ध्रुवम् ॥ ३१८॥ अज्ञानमेव लोकोऽयममून्मिष्टान्नभोजिनः। भक्तेरतिशयान् भव्यलोकानां वदति ध्रुवम् ॥ ३१९ ॥ ध्यात्वेत्याह भवद्देहव्यथोच्छेदाय कर्कशम् । नाभक्तेरुक्तमित्यागः पुन्नाग क्षम्यतां मम ॥ ३२०॥ सूरिः प्राह महाराज कुर्याद्गीः किं खराप्रिया । अरक्तद्विष्टवृत्तानां नृपतेढुंगेतस्य वा ॥ ३२१॥ यतः-भुञ्जीमही वयं भैक्ष्यं जीर्ण वासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३२२ ॥ सम्मान्य तांस्ततो राजा स्थानं सिंहासनाभिधम् । दत्वा द्विजेभ्य आरूढः श्रीमच्छर्बुजये गिरौ ॥ ३२३ ॥ श्रीयुगादिप्रभुं नत्वा तत्राभ्यय॑ च भावतः। मेने स्वजन्म भूपालः कृतार्थमितिहर्षभूः ॥ ३२४॥ ग्रामद्वादशकं तत्र ददौ तीर्थस्य भूमिपः। पूजायै यन्महांतस्तां चानुमानेन कुर्वते ॥ ३२५॥ १ P द्विधाचरेण प्रभुर्गच्छन्नदृश्यत. Page #324 -------------------------------------------------------------------------- ________________ प्रभावकारिते ततश्च गिरिमार्गेणाचिरादैवतकाचलम् । निकषानिकषः पुण्यवतां भर्ता भुवोऽगमत् ॥ ३२६ ॥ स प्रदापयदावासान् संकलग्रामसन्निधौ । गिरिं तत्र स्थितोपश्यन्नेत्रामृतरसायनम् ॥ ३२७ ॥ तदा श्रीनेमिचैत्यस्य पर्वतोर्द्धभुवि स्थितः । जीर्णोद्धारे कारिते च श्रीमत्सज्जनमन्त्रिणा ॥ ३२८ ॥ प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः स चाब्रवीत् । तीर्थप्रभावनाहर्षवशसम्फुल्ललोचनः ॥ ३२९ ॥ दे॒वयादवसद्वंशावतंसस्य जिनेशितुः । प्रासादः स्वामिपादानां कृतिरेषा समीक्ष्यते ॥३३०॥ युग्मन् । नृपतिः प्राह जाने श्री हेमचन्द्रोपदेशतः । उज्जयन्तमहातीर्थे श्रीनेमिस्तत्रतीर्थकृत् ॥ ३३१ ॥ जगत्पूज्यैः कृतिर्मेस्तु कथमेषेतिसंशये । श्रुत्वेत्यमात्य आहस्मावधानादवधार्य्यताम् ॥ ३३२ ॥ अद्य नवमे वर्षे स्वामिनाधिकृतः कृतः । आरुरोह गिरिं जीर्णमद्राक्षं च जिनालयम् ॥ ३३३॥ प्रतिवर्षे नृलक्ष्मीं च व्ययित्वा चैत्यमुद्धृतम् । स्वामिपादैरनुमतं चेत् प्रमाणमिदं न चेत् ॥ ३३४ ॥ सप्ताविंशतिलक्षांश्च द्रम्मान् गृह्णातु भूपतिः । इत्याकर्ण्य प्रभुः प्राह पुलकोद्भेदमेदुरः ॥ ३३५ ॥ कथमुक्तमिदं मन्त्रिन् तुच्छं द्रव्याद्शाश्वतात् । वपुः स्थिरं ममाकार्षीः पुण्यकीर्तिमयं महत् ॥ ३३६ ॥ त्वत्समः स्वजनः कोन्यो ममेह परलोकयोः । सखे विषीद मा तस्मादस्मिन्नारुह्यते ततः ॥ ३३७ ॥ वचोनुपदमीशश्चाधित्यकायां ययौ गिरेः । मण्डपे शुद्धमेदिन्यां स्थित्वाष्टांगं नतो जिनम् ॥ ३३८ ॥ पीठेष्वानीयमानेषु न्यवारयत तं जनम् । तीर्थेऽत्र नोपवेष्टव्यं परेणाप्यासनादिके ॥ ३३९ ॥ स्वापस्तल्पे विधेयो न भुक्तौ नार्दनिका तथा । स्त्रीसङ्गः सूतिकर्म्मापि न दध्मोथ विलोडनम् ॥ ३४० ॥ इत्यादिसिद्धमर्य्यादा वर्त्ततेद्यापि शाश्वती । ततोभ्यर्च्य जिनं स्वर्णरत्नपुष्पोत्करैर्वरैः ॥ ३४१ ॥ ३१६ १ P omits this line. २ Phas दारिद्र्यौघविनाशायासुखसंपत्ति दायकः । after जिनेशितुः । ३ HD त्प्रभुः ४P नादुनिका. Page #325 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३१७ ततोऽम्बाशिखरं गत्वा तां प्रपूज्य ननाम च । अवलोकनश्रृंगं चारोह स तु कौतुकी ॥ ३४२॥ तत्र श्रीनेमिनाथं च नत्वा भक्तिभरानतः। दिशोऽवलोकयामास तत ऊचे स चारणः ॥ ३४३॥ यतः-मई नायं सीथेसजंचडिउगिरनारसिरि। अलइआचारुदेसअलिकुंजो अइ कर्णऊत्र ॥ ३४४॥ पर्वतावतीर्याधः श्रीसोमेश्वरपत्तनम् । ययौ श्रीहेमचन्द्रेण सहितश्च शिवालयम् ॥ ३४५॥ सूरिश्च तुष्टुवे तत्र परमात्मस्वरूपतः । ननाम चाविरोधो हि मुक्तः परमकारणम्॥३४६॥ 'तथाहि' यत्र तत्र समये यथा तथा योसि सोस्यभिधया यया तया। वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तुते॥३४७॥ महादानानि दत्वा च पूजाश्च महिमाद्भताः। व्यावृत्तः कोटिनगरं प्रापदविकयादृतम् ॥ ३४८॥ अपत्यचिन्तयाक्रान्तोऽबिंकामाराधयत्ततः। श्रीहमसूरिभिर्ब्रह्ममूलावासैरिहादरात् ॥ ३४९॥ उपोष्य त्रिदिनान्ते चाह्वयंस्तां शासनामरीम्। प्रत्यक्षीभूय सा प्राह शृणु वाचं मुने मम ॥ ३५०॥ नास्यास्ति संततेर्भाग्यं जीवोऽपीहर न पुण्यभूः। समयेऽत्र कुमारस्य भूपभ्रातृसुतस्य च ॥३५१॥ स भावी भूपतिः पुण्यप्रतापमहिमोर्जितः। राज्यांतराणि जेतासौ भोक्ता च परमार्हतः॥३५२॥ अणहिल्लपुरं प्रायादनायासोत्सवोदयम्। अंतर्दूनसुताभावप्रजापीडनशंक्रितः॥ ३५३॥ इतः श्रीकर्णभूपालबंधः क्षत्रशिरोमणिः । देवप्रसाद इत्यासीत्प्रसाद इव संपदाम् ॥ ३५४॥ तत्पुत्रः श्रीत्रिभुवनपालः पालितसव्रतः। कुमारपालस्तत्पुत्रो राज्यलक्षणलक्षितः ॥ ३५५॥ अथ श्रीसिद्धभूमीशः पुत्राशाभंगदुर्मनाः। आह्वाययत देवज्ञान् परमज्ञानिसंनिभान् ॥ ३५६॥ ग्रहचाराय सद्भावप्रश्नचूडामणिक्रमैः। केवलीभिश्च संवाद्य तेऽथाचख्युःप्रभोः पुरः॥३५७ ॥ खामिन् कुमारपालोऽसौ युष्मद्वंधुषु तु ध्रुवम् । अलंकरिष्यते राज्यमनुत्वा न चलेदिदम् ॥ ३५८ ॥ प्रतापाक्रान्तदिक्चक्रेऽनेकभूपालजित्वरः। भविष्यति पुनस्तस्य पश्चाद्राज्यं विनश्यति ॥३५९ ॥ Page #326 -------------------------------------------------------------------------- ________________ ३१८ प्रभावकचरिते श्रुत्वेतिभूपतिर्भाव्यं भवतीति विदन्नपि । तत्र द्वेषं परं वोढा वधेच्छुरभवत्ततः॥ ३६० ॥ कथंचिदिति स ज्ञात्वापसृत्य शिवदर्शने। जटामुकुटवान् भस्मोद्धूलनः सत्तपो दधे ॥ ३६१ ॥ विज्ञप्तमन्यदाचारैर्जटाधरशतत्रयम् । अभ्यागादस्ति तन्मध्ये भ्रातृपुत्रो भवद्रिपुः ॥ ३६२ ॥ भोजनाय निमन्यन्ते ते सर्वेपि तपोधनाः । पादयोयेस्य पद्मानि ध्वजश्छत्रं स ते द्विषन् ॥ ३६३॥ श्रुत्वेत्याव्हाप्य तान् राजा तेषां प्राक्षालयत्स्वयम् ।। चरणौ भक्तितो यावत्तस्याप्यवसरोऽभवत् ॥ ३६४ ॥ पद्मेषु दृश्यमानेषु पदयोदृष्टिसंज्ञया। ख्यातेत्र तैर्नृपोजानात्कुमारोपि वुबोध तत् ॥ ३६५॥ ततः कमण्डलु हस्ते कृत्वा प्रस्तावदम्भतः। बहिर्भूय नृपावासादुपलक्षणभीर्दिने ॥ ३६६ ॥ बसतिं हेमसूरीणां त्रस्तः स्रस्तवपुबेलः। आययौ भूपते रक्ष रक्षेत्याख्यन् स्खलद् गिरा ॥ ३६७ ॥ प्रभुभिः साहसात्ताडपत्रलक्षांतराहितः । राजमत्र्यैः पदायातैालोकि नतु वीक्षितः ॥ ३६८ ॥ युग्मम् निश्याकृष्य प्रेषितश्च प्रायाद्देशान्तरं पुनः। प्राग्वदागात् साहसिक्यमहो भाग्यस्य लक्षणम् ॥ ३६९ ॥ तथा निर्गत्य तस्मात्तु वामदेवतपोधने । तत्तीर्थस्नानदम्भेन जटी प्रायादपायभीः॥ ३७० ॥ आलिनाम्नः कुलालस्य यावदालयसन्निधौ। आययौ पृष्ठतोलग्नात् सादिनस्तावदक्षत ॥ ३७१ ॥ आह प्रजापते रक्ष शरणागतवत्सल। मां संकटादतो रक्ष तत्रमागतमेव यत् ॥ ३७२॥ स च चिन्तितनीवाहकोणे संस्थाप्य तं तदा । मुमोच वह्निमहाय विमुच्य तद्वस्थितिम् ॥ ३७३ ॥ स तुरङ्गिभिरायातैः पृष्टः कोपिजटाधरः। तत्रायातो नवाजल्पि न व्यग्नत्वान्मयैक्ष्यत ॥ ३७४ ॥ निर्विद्यानादराच्चैते व्यावृत्य प्रययुस्तदा । रात्रौ सोऽपि बहिः कृष्टस्तेन देशान्तरेऽचलत् ॥ ३७५॥ स्तम्भतीर्थपुरं प्रायाद्विजेनानुगतस्तदा । तदावोसरिणा? श्रीमान् कुमारं स्फारवृत्तभूः॥ ३७६॥ १ 1. मन्त्रमागमे च. २ P. omits र्गय निद्धौ. Page #327 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः । श्रीमालवंशभूस्तत्र व्यवहारी महाधनः । समेस्त्युद्यानाभिख्यस्तस्य पार्श्वे महद्वदुः ॥ ३७७ ॥ एकान्तेऽस्य स्ववृत्तान्ते तेन सत्ये निवेदिते । अवादीद्वणिजां श्रेष्ठः किंचित्प्रार्थितशंबलः ॥ ३७८ ॥ अनभीष्टो महीशस्य यस्तेनार्थो न नः स्फुटम् । तद्दापसरेह त्वां मा द्राक्षू राजपूरुषाः ॥ ३७९ ॥ act स्वामिनमात्मीयं पुरः सीमां प्रहापय । एवमुक्तः स नैराश्यं प्राप प्राप्तभयोदयः ॥ ३८० ॥ श्रुत्वा कुमारपालोपि तत्पुरं प्राविशन्निशि । बुभुक्षाक्षामकुक्षिः सन् चतुर्थे लंघने तदा ॥ ३८१ ॥ सूरिः श्रीहेमचंद्रश्च चतुर्मासिकमास्थितः । तदा चारित्रसंज्ञातलब्धिभिर्गौतमोपमः ॥ ३८२ ॥ उद्यद्व्याख्यानलीलाभिर्वारिदस्येव वृष्टिभिः । शीतीकुर्वन्सदा भव्यमतो भूमिं शमिप्रभुः ॥ ३८३ ॥ कथंचिदपि तत्रागात् कुमारोपीक्षितश्च तैः । आकृत्या लक्षणैश्चायमुपालक्षि विचक्षणैः ॥ ३८४ ॥ वरासन्युपवेश्यो चै राजपुत्राखेनिर्वृतः ? | अमुतः सप्तमे वर्षे पृथ्वीपालो भविष्यति ॥ ३८५ ॥ सर्वे कैथं न सुप्राप्य कालं निःकिंचनैः क्षुधाः । द्वात्रिंशतमथ द्रम्मानस्य श्रावकपार्श्वतः । दापयित्वा पुनः प्राहुः शृण्वेकं नो वचः स्थिरम् ॥ ३८६ ॥ अद्यप्रभृति दारिद्र्यं नायाति तव संनिधौ । व्यवहारैरमोच्योऽसि भोजनाच्छादनादिभिः ॥ ३८७ ॥ एवं भावीति चेद्राज्ये प्राप्ते मम कृतं विभो । अवलोक्यमिदानीं तु बहूक्तैः फल्गुभिः किमु ॥ ३८८ ॥ इत्युक्त्वा प्रययौ देशांतरं गूढो नराधिपम् । घनं घनाघनैश्छन्न इव पार्वणचन्द्रमाः ॥ ३८९ ॥ कापालिकवते कौलेशे विचित्रपदोत्तरे । चरन् कदापि कुत्रापि कृत्रिमे कृत्रिमक्रमः ॥ ३९० ॥ ततो वर्षाणि सप्तापि दिनानीवात्यवाहयत् । गुरुवाक्यैर्मनो बिभ्रत्संकटेपि विसंकटम् ॥ ३९१ ॥ तस्य भूपालदेवीति कलत्रमनुगाभवत् । छायेव सर्वावस्थास्वमुंचंती सविधे स्थितिम् ॥ ३९२ ॥ १ P स्तत्व ? २ H omits this line. ३ H रमान्यो. ३१९ Page #328 -------------------------------------------------------------------------- ________________ ३२० प्रभावकचरिते द्वादशवथ वर्षाणां शतेषु विरतेषु च ॥ एकोनेषु महीनाथे सिद्धाधीशे दिवं गते ॥ ३९३ ॥ ज्ञात्वा कुतोपि सत्वाव्यः कुमारोगान्निजं पुरम्। अस्थादासन्नदेशस्थो वासकैः श्रीतरोरधः॥ ३९४ ॥ दुर्गादेव्याः स्वरं तत्र मधुरं शुश्रुवे सुधीः।। तामाजुहाव भाग्यस्य जिज्ञासुः प्रमतिं तदा ॥ ३९५ ॥ मम पश्यसि चेद्राज्यं देवि ज्ञाननिधे ततः। उपविश्यैव मे मूर्ध्नि स्वरं श्रुतिसुखं कुरु ॥ ३९६ ॥ वचनानंतरं सापि तथैवाधादतिस्फुटम् । त्वं राज इति संरावं तच्चेतःसौधदीपकम् ॥ ३९७ ॥ आयात्पुरांतरा श्रीमत्सांबस्य मिलितस्ततः। चित्ते संदिग्धराज्याप्तिनिमित्तान्वेषणादृतः॥ ३९८ ॥ स तेन सह संगत्य पार्श्व श्रीहेमसुप्रभोः। तनिषद्यादृते पट्टे उपविष्टोभिशिष्टधीः॥ ४९९ ॥ भविष्यत्येव ते राज्यं यनिविष्टोऽस्मदासने। एतदेव निमित्तं न इत्यमुष्य गुरुर्जगौ ॥ ४०० ॥ राज्ये छायाणदपातीति विगानभिया? नहि । ततोहमिति शंक्ये न प्रभो दुर्विनयो मयि ॥ ४०१ ॥ तत्रास्ति कृष्णदेवाख्यः सामंतोऽश्वायतस्थितिः। खसुः पतिं कुमारस्य मिलितो निशि तस्य च ॥४०२॥ युग्मम्। श्रीसिद्धराजमेरौ च संजग्मुः शिवमंदिरे। प्रधाना राज्यसर्वस्वं राज्ययोग्यपरीक्षिणः॥४०३॥ कुमारोऽपि पुरस्यांतराजगाम चतुष्पथम् । एकत्र संगतानां च प्रधानानां तदामिलत् ॥४०४॥ कृष्णः प्रवेशयामास प्रासादे तं करे कृतम्। तत्रापरावतस्थाते राजपुत्रौ प्रवेशितौ ॥ ४०५॥ तयोरेकः प्रणम्यात्र पार्षदान् स उपाविशत् । अपरोपि स्वसंव्यानपदं मुकुलमातनोत् ॥ ४०६॥ अथ श्रीकृष्णदेवेनोपविशेत्युदिते सति । संवृत्य वस्त्रयुगलं स्वमुपाविक्षद्वरासने ॥ ४०७ ॥ व्यचारयंत नीतिज्ञा एकस्तावत्कृतानतिः । निस्तेजाः परिभूयेत स्वैः परैरपि निंद्यधीः ॥ ४०८ ॥ संभ्रांतलोचनं पश्यन्नरो मुक्तचलांचलः। तस्य पार्थ्यात्परैर्भूपैर्विश्वं राज्यं ग्रहीष्यते ॥ ४०९ ॥ १P तू. Page #329 -------------------------------------------------------------------------- ________________ श्री हेमचंद्रसूरिप्रबन्धः । असौ कुमारपालश्च दैवज्ञानुमतः पुनः । धीरं पश्यन्निहायातः संवृत्यांचलमंडलम् ॥ ४१० ॥ निग्रहीता विपक्षाणां विग्रहीता दिगंतरान् । भविष्यति महाभाग्यः सार्वभौमसमः श्रियां ॥ ४११ ॥ अभिषेकमिहैवास्य विदध्वं ध्वस्तदुर्द्धियः । आसमुद्रावधिं पृथ्वीं पालयिष्यत्यसौ ध्रुवम् ॥ ४१२ ॥ अथ द्वादशधा तूर्यध्वनिडंबरितांबरम् । चक्रे राज्याभिषेकोऽस्य भुवनत्रयमंगलम् ॥ ४१३ ॥ प्रविवेशोत्सवै राजा राजसौधं नृपासनि । निविष्टो गोत्रवृद्धाभी रक्षतैरभ्यवर्च्छत ॥ ४१४ ॥ कृतप्रशमनाचारः प्रतापोग्रः परंतपः । ३२१ कुमारपालभूपालः पालयामास मेदिनीम् ॥ ४१५ ॥ सपादलक्षभूमीशमर्णोराजं मदोद्धुरम् । विग्रहीतुमनाः सेनामसावेनामसजयत् ॥ ४१६ ॥ हास्तिकाश्वीयपादातरथ्याभिरभितो वृतः । धिष्ण्यग्रहौषधीतारानिकरैरिव चंद्रमाः ॥ ४१७ ॥ चचाल लघुसामंतमंडलैकमहीधरैः । अन्यैश्च क्षत्रियैः सेव्यपादां भोजयुगस्ततः ॥ ४१८ ॥ दिनैः कतिपयैरेवाजयमेरुं सुदुर्ब्रहम् । लंकादुर्गमिवागम्यं नृपप्राकारमासदत् ॥ ४१९ ॥ परितोस्य च बब्बूलविदरीखदिरदुमैः । करीरैर्गुफितं नृणां दुर्गमं योजनद्वयम् ॥ ४२० ॥ बहुधा बहुभिर्मर्त्यैश्छिद्यमानपरिक्षयम् । प्राप्नोति न ततः खिन्नो व्यावर्त्तत नराधिपः ॥ ४२१ ॥ उपवर्ष समागत्याणहिल्लपुरमध्यतः । चतुर्मास्यां पुनः सैन्यं जातशोषमपोषयत् ॥ ४२२ ॥ प्रावर्त्तत च तस्यां ते पुनग्रष्मे न्यवर्त्तत । एवमेकादश समा व्यतीयुः पृथिवीपतेः ॥ ४२३ ॥ मम पीतपरांभोधेरपि भाग्याधिकं कथम् । अर्णोराज इति ध्यायन् क्षणं तस्थौ नराधिपः ॥ ४२४ ॥ तस्य वाग्भटदेवोस्ति मंत्री मंत्रीव नाकिनाम् । नीत्या क्षत्रेण मंत्रेणोदयनस्यांगभूस्तदा ॥ ४२५ ॥ अपृच्छत्तं नराधीशः संकटेऽस्मिन् समागते । अस्ति सप्रत्ययः कश्चित् सुरो यक्षोऽथ वासुरी ॥ ४२६ ॥ १ Pomits श्रिया "रितांबरम् . Page #330 -------------------------------------------------------------------------- ________________ ३२२ प्रभावकचरिते प्रातिहार्यप्रभावेण भवामो जितकाशिनः । यस्य तस्य मनोऽवश्यं वश्यं नो भवतु ध्रुवम् ॥ ४२७॥ व्यजिज्ञपदथ श्रीमान् वाग्भटस्तस्य वाग्भटः। अवधार्य वचः सावधानेन प्रभुणा मम ॥ ४२८ ॥ यदा श्रीस्वामिपादानामादेशात्प्रभुसोदरः। कीर्तिपालो महाबाहुः सुराष्ट्रामंडलं ययौ ॥ ४२९॥ तद्देशाधीश्वरं निग्रहीतुं नवधनाभिधम् ।। अनेकशो विग्रहैश्च खेदिताद्यनराधिपम् ॥ ४३०॥ तदा मजनकस्तत्र श्रीमानुदयनाभिधः । स्तंभतीर्थपुरावासी जन्ये सैन्यबलप्रदः॥ ४३१॥ अन्यदा गच्छता तत्र पुंडरीकाद्रिरुद्धरः। द्रष्टव्यस्यावधिदृष्टस्तेन दुष्प्राप्यदर्शनः॥४३२॥ आचख्ये च निजेशस्य तस्य माहात्म्यमद्भुतम् । श्रीमयुगादिनाथं च नमस्कृत्यातिभक्तितः॥४३३॥ मेने कृतार्थमात्मानं स ध्यानादनुजप्रभोः। प्रासादआलुलोके च तेन सोप्यतिजर्जरः । ततः श्रीकीर्तिपालेन प्रोचेऽसौ भांडशालिकः ॥ ४३४ ॥ प्रासादस्यास्य नश्चेतस्युद्दिधीर्षा स्थिता ध्रुवम् । जित्वामुं विग्रहं प्रत्यावृत्तः सर्व विधास्यते ॥ ४३५॥ पर्वतावतीर्याथ प्रतस्थे पुरतोऽधिपः।। अभ्यमित्रीणतां प्राप नृपः सोपि मदोद्धतः॥ ४३६ ॥ तत आसीन्महायुद्धं कुंताकुंति गदागदि। सैन्ययोरुभयोः शौर्यावेशादज्ञातघातवान् ॥ ४३७॥ तस्मिन्नुदयनोपि स्वस्वामिनः पुरतः स्थितः। प्रजह्वेऽप्रहृतश्चासौ न्यपतद्भूमिमंडले ॥ ४३८॥ युद्धे जिते हते शत्रौ शोध्यमाने रणे प्रभुः। निरीक्ष्योदयनं श्वासावशेषायुषमूचिवान् ॥ ४३९ ॥ अनित्यो भौतिको देहः स्थिरेण यशसा त्वया । व्यक्रीयत स्फुटं साधु वणिग्व्यवहृते कटुः ॥ ४४० ॥ किंचिद्यदस्ति ते चित्ते शल्यं खुरखुरायितम् । ब्रूहि तद्विदधानोहं किंचित्तस्यामृणातिगः ॥ ४४१॥ अथ स प्राह नाथ स्मो वयं स्वामिवशाः स्थिताः। तत्कार्यादपरं नैव जानीमोऽनन्यचेतनाः ॥ ४४२॥ श्रीमत्सिद्धाधिपाद्विश्यद्भवबंधुः क्षितीश्वरः।। वटुमेकं समीपे मे प्रैषीत्सन्यकृतो मया ॥ ४४३ ॥ Page #331 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३२३ श्रीमान् कुमारपालोपि शूणं मयि तदा धनम्। अधारयिष्यदत्युग्रमूरीचक्रे मयापि तत् ॥ ४४४॥ इदानीं तु त्वदंहीणामग्रे तन्मुंचतो मम । उभौ लोको निजाम्नायः श्रुतं शीलं पवित्रतम् ॥ ४४५॥ मृत्यौ विप्रतिसारो नास्माकं विज्ञापयामि तत् । किंचिन्मन्नंदनस्यास्य वाग्भटाख्यस्य कथ्यताम् ॥ ४४६॥ शत्रुजयमहातीर्थे प्रासादस्य परिश्रुतः। जीर्णोद्धारस्ततः श्रेयो हेतुर्मे स विधीयताम् ॥४४७॥ ओमित्युक्त्वा ततः कीर्तिपालेनांगीकृते तदा। . परासुरभवत्तत्र श्रीमानुदयनः शमी ॥४४८॥ कृते तत्रानृणे वगुरहं स्यामधुना पुनः। खां देवकुलिकामेकां नगरांतर्व्यधापयम् ॥४४९॥ तथात्रैव पुरे वासी व्यवहारी महाधनः। श्रीछहुक इत्याख्यः श्रेष्ठी नवतिलक्षकः ॥ ४५०॥ मन्मैत्र्या तेन चाकारि धर्मस्थानेत्र खत्तकम् । श्रीमत्तत्राजितस्वामिबिंबं चास्थाप्यतामुना ॥४५१ ॥ प्रतिष्ठिते च श्रीहेमसूरिभिर्ज्ञानभूरिभिः । तदीयहस्तमंत्राणां माहात्म्यात्सकलं ह्यभूत् ॥ ४५२ ॥ तत्रोपयाचितं स्वामी चेदिच्छति ततो ध्रुवम् । विजयोऽस्याभिधायीगपराजितताकरी ॥४५३॥ इति विज्ञापनां श्रुत्वा मामकां नायको भुवः। विदधातु विचार्येव नतु प्रभुं पुरोमति ॥ ४५४॥ विज्ञप्तेत्रावनीनेता ध्यातामात्यवचः क्रमः। ऊचे मंत्रिन् भवद्वाक्यात्कार्यजातं मया स्मृतम्॥ ४५५॥ सखे शृणु यदा पूर्व वयं सामान्यवृत्तयः। श्रीस्तंभतीर्थ गच्छाम दिनत्रयमुपोषिताः ॥ ४५६॥ वोसरिर्बटुरस्माभिः प्रेष्यतोदयनान्तिके। अकृतार्थस्ततश्चागात्तदागः स्फुरितं न मे ॥ ४५७ ॥ एतेऽहो स्वामिनो भक्त्या इति चेतस्यभून्मम।। परेषु रोषणः स्वीयाभाग्यदर्शी कृती न सः॥४५८॥ तथा श्वेतांबराचार्यों हेमसूरिमया तदा।। प्रदोषसमयेऽदर्शि कल्पद्रुमसमः श्रिया ॥ ४५९ ॥ पाथेयं कृपया किंच नद्याद्यद्यसौ प्रभुः। राज्यं कः प्राप्स्यदानंदि भवत्संगमसुंदरम् ॥ ४६० ॥ १ P विज्ञप यामि तु. २ P ननु प्रभपु. Page #332 -------------------------------------------------------------------------- ________________ ३२४ प्रभावकचरिते तथा तद्वचनं तथ्यमभूदैवतवाक्यवत् । अद्यापि ध्वनति ध्मातघंटाटंकारवदृढम् ॥ ४६१ ॥ बिंबस्यास्य प्रतिष्ठानव्याजात्स्मारयता गुरुम् । ममोपकृतमत्यर्थ कृतावदी नराधमः ॥ ४६२॥ तथा श्रीसिद्धराजोपि हत्वा खंगारभूपतिम् । तजातीयबहुत्वेन शक्तो देशं न वासितुम् ॥ ४६३ ॥ इदानीं त्वत्पितुर्बुद्ध्या शत्रवस्ते विनाशिताः। सर्वेऽपि च यथा तेषां नामापि नहि बुध्यते ॥ ४६४ ॥ भुक्तौन्यक्षेपि देशश्च मुक्तास्तत्राधिकारिणः। ईदृग् धीमान् भवद्वप्ता स्वामिभक्तिफलं हि तत् ॥ ४६५ ॥ कीर्तिपालः कुमारोऽसौ पदातिर्विग्रहादिषु । अवुधः सांयुगीनेन त्वत्पित्रैव बुधः कृतः ॥ ४६६ ॥ तीर्थोद्धारश्च संदिष्टस्तेन ते तदपीह नः। कार्य ततोऽधुनैवायमादेशो भवतात्तव ॥ ४६७ ॥ राजकोशात्समादाय धनान्यापूर्णतावधि । पूर्य तस्य प्रधानस्य स्वस्यास्माकं च वांछितम् ॥ ४६८ ।। इदानीं त्वस्य देवस्य विंबं मे दर्शय द्रुतम् । पुण्यैर्लभ्यं समभ्यर्च्य प्रधानं कुर्महे ततः॥ ४६९ ॥ ततः संदर्यमानाध्वा श्रीमद्वाग्भटमंत्रिणा।। संचचालाचलाधीशः प्राप चास्य जिनालयम् ॥ ४७० ॥ श्रीमंतं पार्श्वनाथं प्रागानतो मूलनायकम् । ददर्श मंत्रिणा ख्यातमजितं तदनु प्रभुम् ॥ ४७१ ॥ कुंकुमागुरुकर्पूरकस्तूरीचंदनद्रवैः । सुगंधकुसुमैश्चाची विदधे वासनावशात् ॥ ४७२ ॥ व्यजिज्ञपच्च तीर्थेशं त्वत्प्रभावान्नृपं रिपुम् । अस्मिन्नवसरे नाथ विजेप्ये त्वत्प्रसादतः॥४७३ ॥ ततो मम भवानेव देवो माता गुरुः पिता। अत्र साक्षी भवान्मंत्रिन् पाल्यमेतद्वचो मया ॥ ४७४॥ युग्मम् इत्युक्त्वानम्य तं भूपः पुलकांकितविग्रहः। तदा विजययात्रायां सैन्यानि समवाहयत् ॥ ४७५ ॥ उपचंद्रावति प्रायात्प्रयाणैरप्रमाणकैः। आवासान् दापयामास तत्र भूवासवो मुदा ॥ ४७६ ॥ तत्र विक्रमसिंहोऽस्ति राज्येऽमुष्य महाधरः। राज्ञः कटकसेवाया निर्विण्णो गमनामनाः॥ ४७७ ॥ १P यं. Page #333 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३२५ प्रशस्तैः स महामात्यैर्निजैः समममंत्रयत् । वयं खेदं परं प्राप्ता निर्जीवनृपसेवया ॥ ४७८ ॥ कः प्रतापो बलं किं वा भ्रांतदेशांतरे नरे। अत्र चित्रपटाजीवे चमत्कारोऽतिदुष्करः॥ ४७९ ॥ भस्माधारः पुटीपात्रं जटा मूर्ध्नि शिवार्चनम् । एवं वषे प्रणामो नः कात्र राज्यविडंबना ॥४८०॥ तस्मात्कथंचिदत्रैव यद्यसौ साध्यते नृपः। असौ हि शशकः षं(ख)जो? रुणनिप्पाववाटकः ॥ ४८१ ॥ कोऽपि चालुक्यवंशीयः क्षात्रतेजोभिरद्भुतः। राज्ये निवेश्यतेऽस्माकं तदाक्षां कर्तुमौचिती॥ ४८२ ॥ प्राहुस्तस्य प्रधानाश्च नोचितं भवतां कुले। स्वामिद्रोहो यतोऽधीश सिद्वाधिपपदस्थितः॥४८३॥ अस्माकं सर्वथाराध्यो युद्धेष्वनियतो जयः। दुर्ग रोधविशेषेण विमृश्यं तदिदं धनम् ॥ ४८४॥ उवाच च कथं बोध्यो भूपालोसौ भविष्यति। . कृतं वो परभिक्षाभिरुपायं वदत ध्रुवम् ॥ ४८५॥ वयं हि तस्य वक्तारः स्वामिना करणे पुनः। प्रमाणं स्वरुचिर्नाथ तत्कुरु प्रतिभाषितम् ॥४८६॥ अथाह विक्रमो वह्नियंत्रं प्रकुरुताधुना। मत्सौधेऽसौ यथावश्यमक्लेशेन विनश्यति ॥४८७॥ व्यचारयन्निमित्तं ते निजावांसेऽग्निदीपनम् । प्रागलभ्यात् कुमारे तत् विनाशस्यैव सूचकम् ॥ ४८८ ॥ किंच प्रविधामोत्र दुर्लध्या भवितव्यता। राज्यच्छेदोऽस्य संपन्नो भूपालो विजयी पुनः॥ ४८९ ॥ श्रीसिद्धाधीशपट्टे यः प्राच्यपुण्यैर्निवेशितः। एतत्सदृशभृत्यानां नास्यै योग्यो भविष्यति ॥ ४९०॥ एवं विमृश्य तेऽवोचन् हस्तस्पृष्टललाटकः। खाम्यादेशः प्रमाणं नः कार्या नात्र विचारणा ॥४९१॥ सूत्रधारैस्ततो भूमांतरा सौधं निवेशितम् । ऊवं च स्तंभपट्टादि चलं वस्त्रांचलोपमम् ॥ ४९२॥ तस्योपरि प्रतिसीरा प्रावारास्तरणास्तृताः। मंडिा विततोल्लोचा वबूलैः पद्मकैस्तथा ॥४९३॥ मौक्तिकैः कुसुमैर्गुच्छैर्विच्छंदकशतैरपि । सुंदरातत्र मयारिच थाच तत्र तंतुमयारिच ॥४९४॥ युग्मम् ॥ १P omits. ततोलो. 28 Page #334 -------------------------------------------------------------------------- ________________ ३२६ प्रभावकचरिते एकत्र कीलके कुष्टे तत्सर्व गर्तमंदिरे । खदिरांगारसंपूर्ण भस्मीभवति तत्क्षणात् ॥ ४९५॥ एवं निवेद्य ते नेत्रे नेत्रे बाप्पप्लुते दधुः। तन्नायकोप्युवाचैवं मतिः कार्यप्रसाधिका ॥ ४९६॥ असौ यथा तपस्वीग्शय्यायांचंगभंगिभिः। आक्षिप्ताक्षो निवेश्येत तदास्याधोगते मृतिः ॥ ४९७ ॥ इति प्रातर्विचिंत्यायमायाच्छिबिरमध्यतः। राजपादान्नमश्चक्रेऽवनीलुठनपूर्वकम् ॥ ४९८॥ विज्ञो विज्ञपयामास मौरवो मंडलेश्वरः। दंभात्सुधां मुखे विभ्रद्विषपूर्णो घटो यथा ॥ ४९९ ॥ अलंकुरुत हयं मे प्रसादः क्रियतां प्रभो। तत्र प्रत्यवसाने नावसानेनाद्य दुःस्थिते ॥ ५०० ॥ ध्वांतेतिधीनिधिर्भूपोनारवेषु न विश्वसेत् । प्राह नः परिवार प्राय भुक्ता ननु वयं ततः ॥ ५०१ ॥ क एवं हि हितान्वेषी स्वामिभक्तश्च दृश्यते । परमारकुलोद्भूतं भवंतमभयं विना ॥ ५०२ ॥ तत्र कः प्रतिषिद्धोस्ति शुभे कार्ये महीधरः। अस्माकं भवदावास एव योग्यो विलोकितुम् ॥५०३॥ खाम्यादेशः प्रमाणं मे इति प्राच्यपरिच्छदाम् । भक्तोऽसौ भोजयांचके पराह्वावध्यबाधय ॥ ५०४॥ अंगरक्षास्ततः स्वामिमूतिरक्षाः सदोद्यता। आहूतास्तत्समस्तं च कुट्टिमं प्रकटीकृतम् ॥ ५०५॥ यत्रासन्नः पुमानेको वृद्धो मतिमतां पतिः। आजिघ्रन् गंधमत्युग्रं ध्मातांगारगणस्य सः ॥ ५०६ ॥ विममर्श निजवांते विज्ञातं किंचिदद्भुतम् । तत्रास्ते वह्निसंबद्धं प्रभुविद्रोहकारणम् ॥ ५०७॥ ततस्तं विक्रमः साभिप्रायं दृष्टिविकारतः।। परिज्ञायातिसच्चके वक्राशयशिरोमणिः॥ ५०८ ॥ ययौ विक्रमसिंहोऽथ सह तेनैव मंदिरम् । राज्ञः प्राह च मत्सौधे नाथ पादोऽवधार्यताम् ॥५०९ ॥ अथ भूसंज्ञया तेन न्यषेधि गमनं प्रति । भूपतिः प्राह तंत्रं मे समस्तं भोजितं त्वया ॥ ५१०॥ वयं तु प्राक् त्रियामायां चिंताजागरपीडिताः। अधुनाभ्यवहारेषु नाभिलाषुकचेतसः॥ ५११॥ मुहूर्त्तश्चापि दैवज्ञैः प्रयाणाय निवेदितः। संप्रत्येव ततो ढकावाद्या प्रस्थीयते यथा ॥ ५१२॥ Page #335 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। त्वमपि स्वां चमूं सज्जीकृत्य "विशारदः। शीघ्रमागच्छ तच्छेका जंभायंते त्वरायते ॥ ५१३॥ अतः शंकां वहन्नोमित्युक्त्वा तां प्रययौ स्वकम् । धाम ज्ञातमिवायं खं विमृशन् चेतसि क्षणम् ॥ ५१४ ॥ झटित्येव प्रशस्ते च स्तंवाचाटप्रभोस्तदा। अचिराद्रिपुदुर्गस्योपकंठे शिबिरं दधौ ॥ ५१५॥ स यथास्थानमातस्थौ शिबिरस्य निकेतनम् । अहर्दिवं प्रहरके जाग्रव्यग्रभरोद्धरम् ॥ ५१६ ॥ अर्णोराजोप्यजानानः सिद्धकुंभभवव्रतम् । अथ मेनेवलेपोग्रव्याहारोर्मिभिरेव तम् ॥ ५१७ ॥ अथैकादशवर्षाणि विजुगोप पदोरधः। ममाथ द्वादशेप्यस्तु कात्र भूपालकल्पना ॥ ५१८॥ हतसत्वोद्धृतैर्भीत्या कृत्रिमैरपि दर्शनैः। जीव जीवेति जल्पद्भिर्मतो राजा स्वसेवकैः ॥ ५१९ ॥ तथा चारुभटः श्रीमत्सिद्धराजस्य पुत्रकः । हक्काढक्काखरभ्रांतहस्ती मामुपतिष्ठते ॥ ५२० ॥ इत्यनल्पविकल्पैः स यंत्रानासजयत्तदा । दुर्गे स्वर्ग इवासीन उदासीनोऽकुतो भयः ॥ ५२१॥ कुंततोमरशत्याद्यैः पूर्णेष्वद्यालकेष्वपि। विलेभे न भटवातं निजभाग्यकदर्थितः॥ ५२२॥ . श्रीमान् कुमारपालोपि ज्ञात्वेति प्रणधिवजैः। अनीकिनी निजां दानमानाद्यैः समपूजयत् ॥ ५२३ ॥ गजानां प्रतिमानानि शृंखलामुकुरांस्तथा। अश्वानां कविकावल्गादामपल्ययनानि च ॥५२४॥ रथानां किंकिणीजालचक्रांगयुगशंबिकाः। योधानां हस्तिकां वीरवलयानिव चंद्रकान् ॥ ५२५ ॥ सुवर्णरत्नमाणिक्यसूचीमुखमयान्यपि । चतुरंगेपि सैन्येऽसौ भूषणानि ददौ मुदा ॥ ५२६॥ रोहणदुमकर्पूरकश्मीरजविलेपनैः।। स्वयं विलिप्य वाणि भटानां पटुताभृताम् ॥ ५२७ ॥ सहस्रपत्रचांपेयजातीविचकिलस्रजः । कामं धम्मिल्लमालासु बबंध खयमीशिता ॥ ५२८ ॥ हेमंतसितपत्राभैः शातकुंभसमैरसौ। स्कंधानभ्यर्च्य यद्योधप्रधानानां प्रमोदतः॥ ५२९ ॥ Page #336 -------------------------------------------------------------------------- ________________ ३२८ प्रभावकचरिते सांधकारनिशीथे च राजा तेजःप्रतापभूः । तानुत्साह्य सुधासध्रीचीभिर्वचनवीचिभिः ॥ ५३०॥ चचाल संमदोत्तालकलाकेलिकुलावनिः । अतूर्यवऋनिर्घोष रहोयोगीवनिध्वनिः ॥ ५३१ ॥ पर्वताधित्यकाभूमिं गत्वा तूर्यरवान् समम् । व्यस्तारयत्तथा चक्रेऽभूपः सूकरिकास्तथा ॥ ५३२॥ तदा च वाग्भटामात्यस्तेनादिष्टः समानय । आप्रभातात्पंचशतीमार्द्राणां सैरिभत्वचाम् ॥ ५३३॥ तेनानीताश्च ताः संवमिणोघरघमंडपः। षडी:? प्रपातयामासुस्तन्मध्ये तु भटोत्कटाः॥५३४॥ एके च दशनैः खङ्गान्युत्पाट्यारुरुहुर्दुतम् । प्राकारकपिशीर्षाणि तच्छीर्षाणीव विक्रमात् ॥ ५३५॥ व्यद्रवन्नथ तेऽन्तस्था विहिते संप्रसारणे । ह्रस्वीकृतः कुमारेण भूपेनाख्यातवेदिना ॥ ५३६ ॥ विवृत्य गोपुरद्वारं बहिर्निरसरत्प्रगे। अर्णोराजोऽपि तत्राजौ स्वजीवे विगतस्पृहः ॥ ५३७ ॥ वाद्यमानेषु संग्रामतूर्येषु प्रतिशब्दितैः। शब्दाद्वैतं बभूवात्र पक्षयोरुभयोरपि ॥ ५३८॥ कातराणां तदा तत्र देहानाशाक्षमानि च । परित्यज्य ययुःप्राणाः पातालं शरणार्थिनः॥५३९ ॥ ततः प्रववृते युद्धं खङ्गाखङ्गि शराशरि। बाहुबाहवि सर्वत्रादृश्यमानजनास्यकम् ॥ ५४० ॥ शूरसंक्रांतिकाले च भूधरा अस्मया इव । बहुशः खंड्यमानांगा अदृश्यंत जनेश्वराः॥ ५४१॥ पक्ककूष्मांडकानीवाखंड्यंतात्र तुरंगमाः। शालिपर्पटवद्थ्याः समचूर्यंत निर्भरम् ॥ ५४२॥ परिपक्किमकालिंगवत्पत्तिजठरावलिः। पाटिता तत्र कालेयप्लीहफुफुससंकुलाः ॥ ५४३ ॥ विचेरुर्गगने गृध्रा नूनं मांसाभिलाषुकाः। विमानस्थाप्सरो दूता इव प्राणेशसंगमे ॥ ५४४ ॥ इत्येवमन्वयख्यातिनामोद्घट्टनपूर्वकम् । युद्धे भवति शांतासु धूलीषु मद्वारिभिः ॥ ५४५॥ पट्टवारणयोस्तत्र दंतादंति विलग्नयोः। दृष्टश्चारुभटो राज्ञारिनिषादितया स्थितः ॥ ५४६॥ १P पुप्पुस. Page #337 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः । ३२९ श्यामलाधोरणस्तत्र हस्तिहक्काभयापहृत् । उत्कील्याच्छपटी द्विः स कृत्वा तस्य श्रुती प्यधात् ॥५४७॥ ततश्चारुभटो गर्वाद्धस्तिदंते पदं दधौ। यत्कियान् प्रतिमातंग इति चेतसि चिंतयन् ॥ ५४८॥ पक्षयोगूर्जरेशोपि लोचने संन्यवीविशत् । बलं विघटितं सर्व महाधरमुषं तदा ॥ ५४९ ॥ शंकितेन तदाजल्पि शामलस्त्वमपीह किम्। भेदितो वारणं पश्चाद्यावर्त्तयसि यत्सखे ॥ ५५० ॥ स प्राह नाथ नो शक्यं स्वप्नेऽपि त्र्यभेदनम् । निखादी श्यामली स्वामी गजः कलंभकेसरी ॥ ५५१॥ पश्चात्कमैर्गतो नीचैस्ततः प्रतिगजात्पतन् । शत्रुराज्यस्य सर्वस्वं ग्राह्यश्चारुभटस्त्वया ॥ ५५२॥ यावदेवं वदत्येष तावद्विघटितौ रदौ । अंतर्द्वयोर्जवात्तत्रापतत्स्वस्वामितेजसा ॥५५३॥ जगृहे तलवर्गीयैः सुभटैः संयतश्च सः। अर्णोराजश्च राज्ञापि कुंतेन निहितोऽलिके ॥५५४॥ प्रणाशाभिमुखः कांदिशीकश्वारुभटं विना। व्यावर्त्तयद्गजं सेनाप्यस्य व्याजुघटे ततः॥ ५५५॥ जितं जितमिति प्रोच्य पटमभ्रमयत्प्रभुः। मन्यमानश्च राजानं स्वं तदा विक्रमोर्जितान् ॥ ५५६॥ सामंताश्चाययुः सर्वे मंक्षु तं पर्यवारयन् । जितो भवद्भिरेवासावित्यावर्जयदत्र तान् ॥ ५५७॥ देशः कोशश्च लुटाकैस्तस्य सेनाप्यलुंट्यत । सुलूषणाः सत्वहीना युद्धे पृष्ठाप्रदायिनः ॥ ५५८ ॥ ततश्चमूचराः सर्वे तदीयद्रविणैर्घनैः। स्वयंग्रहणतोऽतृप्यन्नासप्तपुरुषावधि ॥५५९॥ जितकाशी ततो भूपो न्यवर्त्तत पुरंप्रति । यच्छन् यथार्थनं दानमर्थिभ्यः कल्पवृक्षवत् ॥ ५६० ॥ अष्टादशशतीदेशप्रख्यपत्तनमासदत् ।। पूर्ववत् वृत्तमत्युग्रं तदीशस्याप्यबुध्य ते ॥५६१ ॥ नृपतिर्विजये सौविदल्लान्मल्लानथादिशत् ।। ततो निमंत्रणायातः पश्चाद्वाहुय॑यंत्र्यत ॥ ५६२ ॥ प्रेष्य प्रेष्यान् निजांस्तस्य मंदिरं मंदुरावरम् । अज्वालयत्क्षणादेव यथाभवदसन्सत् ॥ ५६३ ॥ १ P मुखं. २ H भो०. ३ 6 नियादि ? ४ P लवप्रीये. ५ सदृक्. Page #338 -------------------------------------------------------------------------- ________________ ३३० प्रभावकचरिते शाकटेनासृतिं क्षिप्तः स्वस्थानाच्चालितांगकः । हुंकारेणानलंभूष्णुः सोभूत्का वचने कथा ॥ ५६४ ॥ नद्युत्तारेषु पाषाणोद्घाटसंकटभूमिषु । अभूदसृग्विलिताक्षः सपट्कारस्फुरस्थिराः ॥ ५६५ ॥ परमारान्वये राजपुत्रैरुत्तीर्य भूपतिः । सम्यक्प्रणम्य विज्ञप्तो त्वमुन्मत्तनृणां स्तुतिम् ॥ ५६६ ॥ मंचातिमंचकलितमुत्तुंगकृततोरणम् । अणहिल्लपुरं प्राप क्ष्मापप्राप्तजयोदयः ॥ ५६७ ॥ महोत्सवे प्रवेशस्य गजारूढः सुरेंद्रवत् । वाग्भटस्य विहारं स ददृशे दृग्रसायणम् ॥ ५६८ ॥ तत्र प्रविश्य श्रीमंतमजितस्वामिनं नृपः । अर्चयन् सुरभिद्रव्यैरत्यासन्नोपकारिणम् ॥ ५६९ ॥ श्रीपार्श्वमथ च स्मृत्वा संपूज्य च ततोऽवदत् । प्रागुक्तं यन्मया नाथ तत्तथैवावधार्यताम् ॥ ५७० ॥ ततः प्रणम्य सोत्कंठं कंठीरववरासने । पट्टकुंजरकुंभस्थे स्थितोऽगाद्भूभृदालयम् ॥ ५७१ ॥ गोत्रवृद्धांगनावेर्ग संगीतस्फुटमंगलः । प्रतीच्छन् शिरसावर्द्धानान्यनुबभूव सः ॥ ५७२ ॥ ततो विक्रमसिंहस्य स्थाने संधीन्निवेश्य च । आनाय्यानतिदूरे तां भूपालं प्राह सस्मितः ॥ ५७३ ॥ भोविक्रमाग्नियंत्रेण भूपाला एव पंचताम् । प्रयांति नैव सामंता इति त्वं केन शिक्षितः ॥ ५७४ ॥ तत्रैव यद्यहं त्वां भो वह्नौ होता ततो भवान् । भस्मीभूतः क्व दृश्येत सपुत्रपशुबांधवः ॥ ५७५ ॥ यादृशाश्च भवंतः स्युर्गृहकर्मकरा मम । मलिना न वयं नाथास्तादृशास्तदसुन्वहः ॥ ५७६ ॥ अक्षेपि बंदे (दि) शालायां ततोसौ निजकर्मतः । इह लोके हि भोज्यंते राजभिस्तामसास्तमः ॥ ५७७ ॥ तथा श्रीरामदेवाख्यं तद्भातुनंदनं नृपः । श्रीयशोधवलं चंद्रावत्यामेष न्यवीविशत् ॥ ५७८ ॥ अन्येद्युर्वाग्भटामात्यं धर्मात्यंतिकवासनः । अपृच्छदार्हताचारोपदेष्टारं गुरुं नृपः ॥ ५७९ ॥ १ HD मत्यन्हणा मांत्वमन्सतभृणाम् ? २P तंग. ३ P वर्म. ४ P वद. Page #339 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः । सूरेः श्रीहेमचंद्रस्य गुणगौरवसौरभम् । आख्यदक्षामविद्यौघमध्यामोपशमाश्रयम् ॥ ५८० ॥ शीघ्रमाहूयतामुक्तो राज्ञा वाग्भटमंत्रिणा । राजवेश्मन्यनीयंत सूरयो बहुमानतः ॥ ५८१ ॥ अभ्युत्थाय महीशेन ते दत्तासन्युपाविशन् । राजाह सुगुरो धर्म दिश जैनं तमोहरम् ॥ ५८२ ॥ अथ तं च दयामूलमाचख्यौ स मुनीश्वरः । असत्यस्तेन ताब्रह्मपरिग्रहविवर्जनम् ॥ ५८३ ॥ निशाभोजनमुक्तिश्च मांसाहारस्य हेयता । श्रुतिस्मृतिस्वसिद्धांतनियामकशनैर्हढा ॥ ५८४ ॥ उक्तं च योगशास्त्रे ॥ ३३१ विखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ ५८५ ॥ अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ ५८६ ॥ हंता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेतानुमंता दाता च घातका एव यन्मनुः ॥ ५८७ ॥ अनुमंता विशसिता नियंता क्रयविक्रयी । संस्कर्ता चोपहर्त्ता च खादकश्चेति घातकाः ॥ ५८८ ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ५८९ ॥ इत्यादि सर्वयानां परित्यागमुपादिशत् । तथेति प्रतिजग्राह तेषां च नियमानृपः ॥ ५९० ॥ श्रीचैत्यवंदनस्तोत्रस्तुतिमुख्यमधीतवान् । वंदनक्षामणालोचप्रतिक्रमणकान्यपि ॥ ५९१ ॥ प्रत्याख्यानानि सर्वाणि तथा गाथा विचारिका । नित्यं यशनमाधत्त पर्वस्वेकाशनं तथा ॥ ५९२ ॥ स्नानाचारप्रकारं चारात्रिकस्याप्यशिक्षत । जैनं विधिं समभ्यस्य चिरं श्रावकवद्वभौ ॥ ५९३ ॥ प्राकृते चामिषाहारे परमानुशये गतः । उवाचावाच्यमेतन्मे पातकं स्वभ्रपातकम् ॥ ५९४ ॥ निक्रयोस्यांहसो नास्ति पुनरेतद्रवीम्यहम् । अपराधी निगृह्येत राजनीतेरिति स्थितिः ॥ ५९५ ॥ . दशनान् पातयाम्यद्य मांसाहारापराधिनः । सर्वत्र सहते कर्त्ता दृष्टमित्थं स्मृतावपि ॥ ५९६ ॥ Page #340 -------------------------------------------------------------------------- ________________ ३३२ प्रभावकचरिते गुरुराह महाराज रूढं स्थूलमिदं वचः । सकृद्देहापदां स्यान्निः कृतिः कृतकर्मणः ॥ ५९७ ॥ तत आर्हतधर्मेच्छापवित्रितमनाऽभवत् । प्रवर्त्ततां तथा पंकः समस्तः क्षाल्यते यथा ॥ ५९८ ॥ दंता द्वात्रिंशतः पाप्ममोक्षाय त्वं विधापय । द्वात्रिंशतं विहाराणां हाराणामिव ते वने ॥ ५९९ ॥ निजवस्त्रिभुवनपालस्य सुकृताय च । मेरुशृंगोन्नतं चैत्यं श्रीजैनेंद्रे विधापय ॥ ६०० ॥ अथाह मेदिनीपालः सुरीतिरियमुज्वला । भवकांतारनिस्तार एतदेव च शंबलम् ॥ ६०१ ॥ अथो परमया भक्त्या प्राहिणोत्प्रभुमालये । अपरेद्युश्च संप्राप वाग्भटस्य जिनालयम् ॥ ६०२ ॥ तत्रयातस्य भूपस्य ययौ नेपालदेशतः । श्रीबिंब मेकविंशत्यंगुलं चांद्रमणीमयम् ॥ ६०३ ॥ प्राभृते प्रावृते तत्र मूर्ते चिंतामणाविव । सर्वतो व्यकसद्राजा पूर्णमासीनिशीथवत् ॥ ६०४ ॥ ततो मंत्रिणम कार्य प्रसादविशदाननः । कुत्राप्यमात्यकायैहमधमर्णो भवामि वः ॥ ६०५ ॥ इत्याकर्ण्य स च प्राह प्राणाः स्वामिवशा मम परिच्छदो धनं भूमिरास्था कान्येषु वस्तुषु ॥ ६०६ ॥ राजाह प्रांजलिर्याचे प्रसादो मे प्रदीयताम् । सनाथं करवै मित्र यथा प्रतिभयानया ॥ ६०७ ॥ महाप्रसादो मे नाथ भवत्वेवं धृतिर्मम | श्रीकुमारविहारोतः परं स्वाम्याख्ययास्तु तत् ॥ ६०८ ॥ किंचिच्च स्वामिने विज्ञपये तदवधार्यताम् । श्रीकीर्तिपालतः पित्रा संदिष्टं मम यद्वचः ॥ ६०९ ॥ श्रीशत्रुंजयतीर्थस्य प्रासादः श्रेयसे मम । जीर्णशीर्णस्त्वयोद्वार्य इति मे कृत्यमस्त्यदः ॥ ६१० ॥ प्रभुपादैस्तथादिष्टं यात्रायाः प्रक्रमे तदा । देवतास्मृतिवेलायां कीर्तिपालप्रतिश्रुतान् ॥ ६११ ॥ अस्मत्कोशधनं लात्वा कार्या चैत्योद्धृतिस्त्वया । स आदेशो ममास्तु स्वैः पितुरानृण्यहेतवे ॥ ६१२ ॥ श्रुत्वेत्याह नृपोऽस्माकं कार्येऽस्मिन्सोदादरात् । एवमप्यस्त्वनुल्लंघ्यवचनस्त्वं हि नः सखे ॥ ६१३ ॥ १ P देहापदाना H देहांपदा. २ HD तत्र या ०. ३ P माहूय. Page #341 -------------------------------------------------------------------------- ________________ ३ ३ श्रीहेमचंद्रसूरिप्रबन्धः। . स्वामिन्महाप्रसादोयमित्युक्त्वा तत्र धीसखः।। विमलाद्रौ ययौ श्रेष्ठिव्यापारपरिवारितः ॥ ६१४॥ तत्र तीर्थे प्रभुं नत्वा नाभेयं भक्तिनिर्भरः। गुरुदारान्प्रदाप्यास्थात् ? प्रतिसीराश्च सर्वतः॥६१५॥ विमानकानि मंचाश्च प्रादात्करभिकास्तथा। वाटिकानि चतुष्पाटीः पट्टशाटकमंडिताः॥ ६१६॥ चंचञ्चतुरकांश्चापि स्वर्विमानोपमद्युतीन् । अनेकभेदसंघातसंकीर्णीकृतपर्वतान् ॥ ६१७ ॥ विशेषकम् । तत्र चैको वणिक प्रत्यासन्नग्रामात्समागतः। *निधिौस्थ्यस्य घृष्टानि पटञ्चरयुगं दधत् ॥ ६१८॥ षट्द्रम्मनीविकस्तैश्चै क्रीताज्यकुतपं वहन् । कटके ग्राहकव्यूहबाहुल्याद्रूपकाधिकम् ॥ ६१९ ॥ द्रम्मं स चार्जयित्वातितुष्टः श्रीवृषभप्रभुम् । कुसुमै रूपकक्रीतैः पूजयामास भक्तितः॥ ६२० ॥ सप्तद्रम्मान् सप्तलक्षानिव ग्रंथौ वहन् मुदा। वीक्षकः सचिवाधीशं तकंटीद्वारमागमत् ॥ ६२१ ॥ ददृशे तेन मंत्रीदुरीषजवनिकांतरात् । कूर्मेनेव ह्रदे बद्धजालास? वालरंध्रतः ॥ ६२२॥ सव्यमृक्षत्प्राच्यपुण्यपापयोरेतदंतरम्। पुरुषत्वे समेऽमुष्य मम चानीगाकृतिः॥ ६२३॥ वर्णमौक्तिकमाणिक्याभरणांशुदुरीक्षरुक् । व्यापारिव्यहार्यस्त्रजीविव्रातपरिच्छदः॥ ६२४ ॥ चक्रीव मुकुटाबद्धमंडलाभ्यर्चितक्रमः। श्रीनाभेयमहातीर्थजीर्णोद्धारमनोरथः ॥ ६२५ ॥ अहं तु स्वगृहिण्याथाभिभूतो निर्धनत्वतः। संध्यावध्यपि संदिग्धहारप्राप्तिर्मुधाश्रमः ॥ ६२६ ॥ कुतपोद्वहनक्लिष्टशिरा आशैशवादपि। एकरूपकलाभेन धन्यमन्यो दिन प्रति ॥६२७ ॥ एवं विचितयन् द्वारपालेन परतः कृतः।। श्रीमद्वाग्भटदेवेन मत्रिणादर्शि दैववत् ॥ ६२८॥ वणिगाहूयतामेषत्युक्ते स द्वारपालका। दूरप्रयातमपि तमाह्वास्तादेशतः प्रभोः ॥ ६२९ ॥ १P D गुरूदरा. २ निधिस्थोस्थ्यस्य ? ३ P कस्ते. म क्रीटा...... केटके० ४ D. कटी० ५P जालशेवाधर०° Page #342 -------------------------------------------------------------------------- ________________ ३३४ प्रभावकचरिते तत्पुरः पर्षदंतः स ऊौंस्थात् स्थाणुवस्थिरः । अनभिज्ञः प्रणामादौ ग्रामणीत्वादृजुस्थितिः ॥ ६३० ॥ कस्त्वमित्युक्तिभाजि श्रीमंत्रिणि प्रकटाक्षरम् । प्रागुक्तनिजवृत्तं स आख्यदक्षामदुःखभृत् ॥ ६३१ ॥ मंत्रीश्वरं प्रति प्राह धन्यस्त्वंक्लेशितोर्जितम् । यद्पकं व्ययित्वाची श्रीजिनस्य समाचरेः ॥ ६३२॥ इत्युक्त्वा स करे धृत्वा स्वाासनि निवेशितः। धर्मबंधर्भवान्मे तत्कार्य किंचिहवीहि भो॥६३३॥ सोस्य प्रभोः प्रियैर्वाक्यैः प्रीणितोचितयन्मुदा । संप्रापितः परां कोटिमनेनाकिंचनोऽप्यहम् ॥ ६३४ ॥ तदा साधर्मिकास्तत्र व्यवहारिनियोगिनः। इष्टे तीर्थसमुद्धारे नंत पुण्यभरार्थिनः ॥ ६३५॥ वहिकां मंडयामासुर्द्रव्यमीलनिकाकृतेः। प्राग्मंत्रिणस्ततो ज्येष्ठानुक्रमादभिधा व्यधुः ॥ ६३६ ॥ दृष्टा नामान्यसौ दध्यौ चेद्रम्मा सप्त मामकाः । कार्येऽस्मिन्नुपकुर्वति तत्र धन्यो मया समः ॥ ६३७ ॥ वक्तुकामोऽसि किंचित्किमित्युक्तो मंत्रिणा स च। प्राह सप्त गृहीत्वामून् द्रम्मान् प्रीणय मां प्रभो ॥ ६३८॥ तदाचारात्परानंदद्मदुरः सचिवोऽवदत् । त्वं मे धर्मसुहृद्भातस्तत्तानर्पय सत्वरम् ॥ ६३९ ॥ श्रीतीर्थजीर्णोद्धारस्य निष्पत्पाशाद्य मेऽभवत् । नीवीं जीवितवत्स्वीयां यदक्लेशत्वमव्ययः॥ ६४०॥ वहिकादौ च तन्नाम लिखित्वाथनिजाभिधाम् । अधस्तस्य ततो नामान्यन्येषां धनशालिनाम् ॥ ६४१ ॥ वयं तु कोटिसंख्यस्य द्रव्यस्य खरकर्मभिः। उपान्तस्य व्यये तं प्राभृतोन्यधनमिच्छतः॥ ६४२॥ स्वकीयकोषादाहार्षीत्ततः पट्टांशुकत्रयम् । द्रम्मपंचशतीं चैवं प्राहैतद्धिगृहाण भो॥ ६४३॥ मंत्रीशेन स चेत्युक्तः स्मित्वावादीदसौ वणिक् । न विक्रीणे ध्रुवं पुण्यमस्थिरद्रव्यलेशतः ॥ ६४४॥ भवंतः स्वामिनःप्राच्यपुण्यसंपन्नवैभवाः। कुर्वतः किं न लजंते मादृशां विप्रलंभनम् ॥ ६४५॥ इत्याकोद्धषद्रोमा मंत्रीदुः प्राह वाणिजम्। मत्तो धन्यस्त्वमेवासि यस्येनिःस्पृहं मनः ॥६४६॥ ...१ P चरः. २ P वितवज्ञखीघां. D मावी जिवितवत्स्वी'. ३ J प्रतिजाभिधा. Page #343 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरि प्रबन्धः । ततः केलिमपूगैः स पत्रैर्नागरखंडकैः । बीटकं प्रददावस्य कर्पूरपरिपूरितम् ॥ ६४७ ॥ तद्गृहीत्वा स सन्मानपूरितः स्वगृहं ययौ । गेहिन्या विश्यदभ्यस्तदुर्वाक्याली कुलक्षितेः ॥ ६४८ ॥ अकस्मात्सा च तं स्वादुवचनैः पर्यंतोषयत् । आजन्मादृष्टपूर्वं तद्दृष्ट्वा विस्मयमाप सः ॥ ६४९ ॥ तेनोक्ते च यथावृत्ते सावादीत्पारितोषिकम् । यन्न त्वया गृहीतं तन्निर्वृतं मे व्यधाद्धनम् ॥ ६५० ॥ यदि त्वं मंत्रिणः पार्श्वे लोहटंकार्धमप्यहो । अग्रहीष्यत्ततो नाहमस्थास्यं त्वद्गृहे ध्रुवम् ॥ ६५१ ॥ धेनुयोग्यं ततः स्थाणुं श्लाघ्यं गाढं कुरुष्व तत् । तयेत्युक्तः कुशीं प्रार्थ्य द्रमत्राखनत्ततः ॥ ६५२ ॥ खाते चाल्पे खनित्रं च खटत्कृतमतः स तु । भार्यामाकार्य कथयामास सा च ततोऽवदत् ॥ ६५३ ॥ रात्रौ निर्व्यजने किंचिद्विधेयं नतु सांप्रतम् । वेलां विलम्ब्य तत्तस्मात्तदाकृष्यत यत्नतः ॥ ६५४ ॥ चत्वारि हैमटकानां सहस्राणि स चासदत् । अल्पाया अपि पूजायाः फलमेतज्जिनेशितुः ॥ ६५५ ॥ अर्पयिष्याम्यहं मंत्रिवाग्भटस्य धनं ह्यदः । ईदृशि व्ययितं तीर्थे तद्धि कोटिगुणं भवेत् ॥ ६५६ ॥ पत्याप्यनुमतः प्रातर्गिरिमारुह्य मंत्रिणम् । वीक्ष्य तद्दर्शयामास गृह्णीतेत्यवदच्च तम् ॥ ६५७ ॥ श्रुत्वेति धीसखखामी प्राह मद्वचनं शृणु । सत्वात्ते सप्तभिर्द्धम्मैः पूर्णो मम मनोरथः ॥ ६५८ ॥ अतः परं भवद्द्रव्यं ग्रहीतुं नाहमीशिता । अनेन भविता यस्मात्सौवर्णः सकलो गिरिः ॥ ६५९ ॥ अभिसंधिर्न मे सोऽस्ति तत् स्वं द्रव्यं यथारुचि । व्यय वर्धय भुंक्ष्वाथ धर्मे वा धेहि शीघ्रतः ॥ ६६० ॥ स प्राह कुतपोद्वाह भाग्यस्य कनकं किमु । स्थातामेकनकेतत्कः क्लेशोंगीक्रियतेस्य नु ॥ ६६१ ॥ भवान् यथातथा कर्तुमिमं शक्तः प्रभुत्वतः । तत्प्रसद्य गृहाणेदं तुष्टोस्तु कुतपो मम ॥ ६६२ ॥ प्राह मंत्री ततो द्रव्यं न गृह्णामि निरर्थकम् । एनं भारं न वोढास्मि वाहीक इव दुर्वहम् ॥ ६६३ ॥ १ P भृथं . ३३५ Page #344 -------------------------------------------------------------------------- ________________ प्रभावकचरिते एवंविवदतोर्मन्त्रीवणिजोर्दिनमत्यगात् । रात्रौ च श्रीकपर्दीशः साक्षाद् वाणिजमभ्यधात् ॥ ६६४ ॥ श्रीयुगादिप्रभो रूपका_तुष्टो धनं ह्यदः। अहं प्रादर्शयं ते तत्त्वं व्ययस्व निजेच्छया ॥ ६६५॥ क्षयं यास्यति नैवैतदानभोगैर्घनैरपि । अन्यस्येदं हि नाधीनमत्रान्यन्माविचार्यताम् ॥ ६६६ ॥ अत्र चैतदभिज्ञानं त्वत्पत्नी दुर्मुखाप्यलम्। अकस्मात्प्रियवाक्याभूद्भक्तिप्रह्वा च विद्धि तत् ॥६६७॥ इदं समीक्ष्य च प्रातः श्रीनाभेयप्रभुं स च । सुवर्णरत्नपुष्पाद्यैस्तद्धयानः समपूजयत् ॥ ६६८॥ अभ्यर्च्य श्रीकपर्दीशं ततः स्वगृहमागमत् । स्वकृतैः सुकृतैर्जन्म पवित्रं व्यतनोत्तरम् ॥ ६६९ ॥ श्रीमद्वाग्भटदेवोऽपि जीर्णोद्धारमकारयत् । सदेवकुलिकस्यास्य प्रासादस्यातिभक्तितः ॥ ६७० ॥ घनद्रव्यव्ययाचिंतावशादक्षेपतस्तदा । पर्यपूर्यंत ककुभाश्चारुरोह मुदा सह ॥ ६७१ ॥ शिखींदुरविवर्षेच १२१३ ध्वजारोपे व्यधापयत् । प्रतिमां सप्रतिष्ठां स श्रीहेमचन्द्रसूरिभिः ॥ ६७२ ॥ इतश्च स्वर्विमानश्रीस्ततः प्रभृति विश्रुतः। श्रीकुमारविहारोयं भव्यादृक्पुण्यलक्षणम् ॥ ६७३ ॥ पटुवैकटिकश्रेणिघटनाकोटिटंकितम् । विवं श्रीपार्श्वनाथस्य निष्पन्नं रम्यतावधिः॥ ६७४ ॥ प्रातिष्ठिपत् शुभे लग्ने मंत्रीश्रीहेमसर्गभिः । अतिचिंतामणिं वांच्छितातीतवस्तुदम् ॥ ६७५ ॥ प्रासादशुकनासेवं भूपतिर्मोक्षकाभिधम् । छिद्रं विमोचयामास विश्वोपकृतितत्परः॥ ६७६ ॥ पूर्णमासीनिशीथे च रोगिप्रार्थनया ततः। प्रकटीकृततच्छिद्रेऽमृतमस्रावि बिंबतः ॥ ६७७ ॥ तच्चक्षुरादिरोगाणामपहारं जनेऽतनोत् । उपचक्रे क एवं हि नृपतिः सर्वतोमुखम् ॥ ६७८ ॥ प्रासादैः सप्तहस्तैश्च यथावणैर्महीपतिः। द्वाविंशतं विहाराणां साराणां निरमापयत् ॥ ६७९ ॥ द्वौ शुभ्रौ श्यामलौ द्वौ च द्वौ रक्तोत्पलवर्णको। द्वौ नीलौ षोडशाथस्युः प्रासादाः कनकप्रभाः ॥ ६८० ॥ १ P इति° २ H नाशेव. Page #345 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः । ३३७ चतुर्विंशतिचैत्येषु श्रीमंतो ऋषभादयः। . सीमंधराद्याश्चत्वारश्चतुषु निलयेषु च ॥६८१ ॥ श्रीरोहिणिश्च समवसरणं प्रभुपादुकाः। अशोकविटपी चैवं द्वात्रिंशत् स्थापितास्तदा ॥ ६८२ ॥ द्वात्रिंशतः पूरुषाणामनृणोस्मीति गर्भितम् । व्यजिशपत् प्रभोभूपं पूर्ववाक्यानुसारतः ॥ ६८३॥ सपंचविंशतिशतांगुलमानो जिनेश्वरः। श्रीमत्तिहुणपालाख्ये पंचविंशतिहस्तकै ॥ ६८४ ॥ विहारे स्थाप्यत श्रीमान्नेमिनाथोऽपरैरपि । समस्तदेशस्थानेषु जैनचैत्यानचीकरत् ॥ ६८५॥ युग्मम् क्षणे धर्मोपदेशस्य सप्तव्यसनवर्णनम् । घनदौर्गत्यदुर्योनिभवभ्रमणकारणम् ॥ ६८६ ॥ उपादिक्षत् प्रभू राजे स्वदेशेसौ न्यषेधयत् । अचीकरदमारिंच पटहोद्घोषपूर्वकम् ॥ ६८७॥ . पुरादेशभ्रमिस्थेन राशा मृतवणिप्रिया। . सपादलक्ष ऐक्षिष्ट खेदिता राजपूरुषैः॥ ६८८॥ तदा निषेधं जग्राह तस्या एवानुकंपया। निर्वीरास्तेन नो कार्य राज्यं चेन्मे भविष्यति ॥ ६८९ ॥ अधुनात्र मृते क्वापि व्यवहारिणि विश्रुते । अपुत्रे तद्वनं कांतानीयतास्याधिकारिभिः॥ ६९०॥ स्वामी पप्रच्छ तान्कस्य विपुत्रश्रीर्भवेदियम् । तेऽवदन् रूढिरेषास्ति तत्पुत्रस्य नृपस्य वा ॥ ६९१ ॥ स्मित्वाह भूप पूर्वेषां राज्ञामेषा विवेकधीः। यत्कौटिल्यं विना वाच्या दोषा निजगुरोरपि ॥ ६९२॥ अशाश्वतश्रियः सर्वाधीनाया हेतवे नृपाः। उत्तमाधममध्यानां पुत्रतामनुयांति यत् ॥ ६९३॥ तस्मान्नाहं भविष्यामि विश्वलोकस्य नंदनः। विश्वस्यानंदनो भावी निर्वीराधन उझिझते ॥ ६९४ ॥ मृतभर्तृसुताद्रव्यमित्यौज्झद्भूपतिः सुधीः। अभुक्तं नलरामाद्यैरपि प्राकालराजभिः॥ ६९५॥ प्रभुर्निजोपदेशानां सत्यत्वात्परितोषवान् । भूपवृत्तलसद्वृत्तिस्थेने वृत्तमुदाहरन् ॥ ६९६॥ तद्यथा-नयन्मुक्तं पूवैरघुनयु(?)षनाभागभरत- . प्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । १P रास्वेन, तिशराखेन कार्य स्वन्मे० २ H भव्य०.३ P घुष.. 29 Page #346 -------------------------------------------------------------------------- ________________ ३३८ प्रभावकचरिते विमुंचन संतोषात्तदपि रुदती वित्तमधुना कुमारक्ष्मापाल त्वमसि महतां मस्तकमणिः ॥ ६९७ ॥ एवं सांतःपुरो राजा प्रत्याख्याननिरन्तरम् । राज्यं बभार देवेन्द्र इव स्फीतं विकंटकम् ॥ ६९८ ॥ अन्येधुजैनधर्मस्थं भूपालं प्रणिधिवजैः। बलहीनं द्विधा ज्ञात्वा कल्याणकटकाधिपः ॥ ६९९ ॥ भूपोभ्यमित्रयन्नायात्प्रयाणं बलकोटिभिः। कुमारपालस्तज्ज्ञात्वा चारैश्चितामवाप च ॥ ७००॥ विज्ञप्तं च प्रभूणां तत् प्रभोज॑नस्य मे किमु । अस्मात्पराभवो भावी प्राप्तशासनलाघवः ॥ ७०१॥ प्रभुराह महाराज त्वां श्रीशासनदेवताः। पांति जानाति लग्नस्तत् सप्तमे वासरे भवान् ॥ ७०२॥ श्रुत्वेति सचमत्कारं ययौ भूपः स्वमन्दिरम् । अध्यायदजनौ सूरिर्विधिना परमाक्षरम् ॥ ७०३ ॥ तदधिष्ठायकस्तस्यादेशं साक्षाद्ददौ तदा । भाग्यात्कुमारपालस्य शत्रुरस्तंगतोद्यमः ॥ ७०४॥ सप्तमे वासरे चारैररिमृत्योः स वर्द्धितः। नृपोऽवददहो ज्ञानं महुरो परत्र तत् ॥ ७०५॥ अन्यदालिख्यमाने च स्वगुरुग्रंथसंचये। प्राग्रीत्या शास्त्रविस्तारविधये निधये धियाम् ॥ ७०६॥ ताडपत्रत्रुटिर्जशे शालभेभ्यो दवेनच (?) । देशांतरादनायातैस्तैश्चिता भूपतेरभूत् ॥ ७०७॥ महरोः करणे शक्तिलेखनेऽपि न मे पुनः । शास्त्राण वीडिता अद्य ततस्ते पूर्वजामयः॥ ७०८ ॥ गत्वारामे निजे तालजाले स्थित्वास्य पूजनम् । गंधद्रव्यैर्व्यधाद्भूपः सुगंधकुसुमैस्तथा ॥ ७०९ ॥ उवाच प्रवणराज त्वं पूज्यो ज्ञानोपकारतः । सर्वदर्शनिशास्त्राणामाधारस्त्वं दैलैः कलैः॥ ७१०॥ पुस्तकावस्थितौ चेन्मे भाग्यं जागर्ति निर्भरम् । तदा भवंतु श्रीतालाः सर्वेमी तालभूरुहः ॥ ७११ ॥ इत्युक्ता ग्रंथितं भुक्त्वा माणिक्यैः स्वर्णनिर्मितम् । ग्रैवेयकं तरोःस्कंधे न्यवेशयदशंकधीः॥ ७१२॥ व्यावृत्य सौधमूर्धानमधितस्थौ नराधिपः । प्रातः प्रावर्द्धयंस्ते चारामपालाः प्रभुं मुदा ॥७१३॥ . १P द्विजा. २ P कलैः कलैः. Page #347 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३३९ सर्वे श्रीताड़तां जग्मुः स्वामिन्नत्र नलद्रुमाः। ' यथेच्छ लेखकैः शास्त्रसमूहो लिख्यतां ततः॥७१४॥ वस्त्राभरणभोज्यादि तेषां सत्पारितोषिकम् । ददावदैन्यदं दानमनादीनवचेतनः ॥७१५॥ ततःप्रववृते पुस्तकानां लेख्यविधिस्तदा। भूपालयशसा भाग्यसंघात इव संगतः॥ ७१६ ॥ राजा सांतःपुरोगे हि व्रतं बिभ्रदनिंदितम् । सम्यग्बभार साम्राज्यं स चक्री च त्रयोदश ॥ ७१७॥ अन्यदा भूपतिं श्रीमदजितस्वामिसंस्तवम् । कुर्वन्तं प्राग रिपुच्छेदसंकल्पपरिपूरितः ॥ ७१८ ॥ तत्प्रासादविधानेच्छं प्रभुरादिक्षत स्फुटम् । गिरौ तारांगनागाख्येऽनेकसिद्धोन्नतस्थितौ ॥ ७१९ ॥ विहार उचितः श्रीमन्नक्षय्यस्थानवैभवात् । शत्रुजयापरामूर्तिर्गिरिरेषोपि मृश्यताम् ॥ ७२० ॥ चतुर्विशतिहस्तोचप्रमाणं मंदिरं ततः। बिंबं चैकोत्तरशतांगुलं तस्य न्यधापयत् ॥ ७२१ ॥ अद्यापि त्रिदशवातनरेन्द्रस्तुतिशोभितः। आस्ते संघजनैदृश्यः प्रासादो गिरिशेखरः॥ ७२२ ॥ आसीदुदयनस्यापि द्वितीयो नंदनाग्रणीः। अंबडाभिदया श्रीमानमानवपराक्रमः॥ ७२३॥ श्रीमत्कुमारपालस्यादेशतो नृपतेरसौ। कुंकणाधिपतेर्मल्लिकार्जुनस्याच्छिनच्छिरः ॥ ७२४ ॥ लाटमंडलभंभेरी सहस्रनवकं तथा। कुंकणानंद पद्रं च राष्ट्र पल्लीवनानि च ॥ ७२५॥ भुंक्ते देशानिमान् स्वामिप्रसादान्निजविक्रमात् । राजसंहार इत्युग्रं सान्वयं बिरुदं वहन् ॥ ७२६॥ युग्मम् ।। अथ श्रीभृगुकच्छेसौ श्रीसुव्रतजिनालयम् । चिरंतनं काष्ठमयं जर्जरं परिदृष्टवान् ॥ ७२७॥ घुणोत्कीर्णजरत्काष्ठपतच्चूर्णास्तृतावनिः। श्लघायाकीलकः भ्रश्यत्पट्टकच्छाद्यकावृतम् (?) ॥ ७२८ ॥ अतिवृष्टिगलत्तोयं पतद्भित्तिवजं तदा । गर्भागारेपि निश्योतदाशांतितजिनेश्वरम् ॥७२९॥त्रिभिर्विशेषकम् ॥ पूर्वप्रासादमुत्कील्य स्वस्थानस्थं प्रभुं ततः। . प्रकांतजीर्णोद्धारश्च गर्तापूरमचीखनत् ॥ ७३० ॥ १P रंग.. Page #348 -------------------------------------------------------------------------- ________________ ३४० प्रभावकचरिते अत्रांतरे स्थले कस्मिंश्चिदस्मिन् योगिनीगणः । द्वात्रिंशल्लक्षणत्वेनाच्छलयन् श्रीमदम्बडम् ॥ ७३१ ॥ सर्वांगीणव्यथाक्रांतस्ततः प्रभृतिरुग्लरुक् । अक्षुत्तृष्णो विलीनांगः कवलं क्षीयतेतराम् ॥ ७३२ ॥ पद्मावतीतितन्मात्राराद्धा पद्मावती सुरी । उपादिशदिदं स्वप्ने शृणु सत्यं वचः सुत ॥ ७३३ ॥ महापीठमिदं विश्वयोगिनीरंगसंगतेः । तगस्तं मोचयेन्नान्यो हेमचंद्रगुरुं विना ॥ ७३४ ॥ ततःप्रातःप्रेभोरेषाकारणायादिशन्नरान् । वेगात्तेपि प्रभुं दृष्ट्रा यथादेशं व्यजिज्ञपन् ।। ७३५ ॥ क्षुते नष्टे भानुरेव शरणं नापरस्ततः। जीवितव्यं सपुत्राया मम देहि प्रभो ततः॥ ७३६ ॥ श्रुत्वेति गुरुराह खेवयश्चंद्रसमन्वितः। आययौ पादचारेण समीपेंबडमंत्रिणः ॥ ७३७ ॥ गणी गणितनिष्णातश्चेष्टामैक्षिष्ट तस्य च। चित्ते विचित्य तन्मातुर्ददौ शिक्षामलक्षधीः ॥ ७३८ ॥ नरं निशीथे विश्वासपात्रं प्रैषयदंतिके। चपलान्नबलिव्यग्रकरं सौगंधसंगतम् ॥ ७३९ ॥ प्रतोलिकानामदेशे दापिते निशि सूरयः। दुर्गाद्वहिः प्रचेलुस्ते गणिना सह तेन च ॥ ७४० ॥ उद्घाट्य गोपुरद्वारं तत्र निर्गत्य ते ततः। गच्छंतो ददृशुर्मार्गे कलबिंककदंबकम् ॥ ७४१॥ चगच्चगिति शब्दाढ्ये तन्मुखे बलिमक्षिपत् ।। यशश्चंद्रात्ततो दृष्टनष्टं तत्तत्क्षणादभूत् ॥ ७४२ ॥ गच्छंति कियध्वानं तावत्ते कपिपेटकम् ।। अद्राक्षुर्मक्षु तत्रापि सपर्यक्षिपदक्षतान् ॥ ७४३ ॥ असत्तुलं ? तदाभूत्तत् ततोप्यग्रे च ते ययुः । श्रीसैंधवीसुरावेश्मपार्श्व कातरभीषणम् ॥ ७४४ ॥ अग्रे व्यलोकयन् यावत्तावन्मार्जारमंडलम् । अविच्छन्नमहारौद्रशब्दभीषितवालकम् ॥ ७४५ ॥ पुष्पाणि तत्र रक्तानि चिक्षेपाथ ननाश तत् । तोरणाय महादेव्याः प्रभुरुर्वदमःस्थितः ॥ ७४६ ॥ १P प्रभोरेखा. २ D श्वेयश०. ३ H पलानचलिध्यग्र. ४ P असत्र० ५H ऊर्द्धः. Page #349 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। अनाकुलं गणी प्रोचे हेमसूरिस्तवांगणे । आयासीदतिदूरेण पादचारेण कष्टभूः ॥ ७४७॥ अभ्युत्थानादिका पूजा कर्तुं समुचिता तव । एषोर्चितो यतः सर्वैः पीठर्जालंधरादिभिः ॥ ७४८ ॥ एवं वदत एवास्य चलचंचलकुंडला। पुरं श्रीसेंधवा देव्यस्थाद्योजितकरद्वये॥ ७४९॥ आतिथ्यमतिथीनां नो विधेहि विबुधेश्वरि । अंबडं मोचय खीयपरिवाराद्वलादपि ॥ ७५० ॥ श्रुत्वेति सहुरोर्वाक्यं प्राह सा परमर्थ्यताम् । सहस्रधाविभक्तश्च स परं योगिनीगणैः॥ ७५१॥ गण्यथाह महाक्षेपादित्थमप्यस्तु चेत्तव । व्यावृत्य निजके स्थाने उपवेष्टुं समर्थता ॥ ७५२॥ प्रभोः श्रीहेमचंद्रस्य दीयतां मानमद्भुतम् । ततो यथोभयोरूपमवतिष्ठेत मंडले ॥ ७५३ ॥ इत्याकर्ण्य भयोगान्ता देवी शब्दं दधौ गुरुम् । यदाहूतः सुरीवर्गोऽमुंचदह्नाय मंत्रिणम् ॥ ७५४॥ प्रदापयामि वाचो वः किं देव्येत्युदिते सति । ब्रह्मादिवाग्भिरास्था का परब्रह्मनिधेः प्रभोः ॥ ७५५॥ भवत्याः प्राभृतं किंचिद्विधास्याम पुनः प्रगे। विसृज्येति सुरीस्थाने स्वं ययौ प्रभुरप्यतः॥७५६॥ श्रीमदंबडमंत्रींदौ निद्रा रात्रौ तदाययौ। प्रातः साहस्त्रिकं भोग स श्रीदेव्या व्यधापयत् ॥ ७५७ ॥ इत्थं श्रीसैंधवीदेव्याः प्रभुभिर्मोचितोंबडः। श्रीमत्सुव्रतचैत्यस्य जीर्णोद्धारमकारयत् ॥ ७५८॥ हस्ताष्टादशकं चैत्यमप्रतिच्छंदद्घाटभृत् । . अनेकदेववेश्माढ्यं बभौ हेमाद्रिकूटवत् ॥ ७५९॥ ध्वजारोपोत्सवं तत्राकारयत्सचिवाग्रणीः। तं समीक्ष्याशिषं प्रादाहुरुस्तुष्टिभरैर्गुरुः ॥ ७६०॥ तथाहि-किं कृतेन न यत्र त्वं यत्र त्वं तत्र कः कलिः । कलौचेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ ७६१॥ तज्जयांचंद्रसूर्य त्वं निजवंश्यमनोरथान् । पूरयन् चूरयन्नंतर्बहिःशात्रवमंडलम् ॥ ७६२॥ तमापृच्छय समागत्य स्वस्थाने भूपति प्रभुः। प्रधानायुःप्रदानेन विदधे मेदुरं मुदा ॥ ७६३ ॥ १ म तद्यथाचं.. Page #350 -------------------------------------------------------------------------- ________________ ३४२ प्रभावकचरिते दुस्साधसाधिका यस्य गुरोरीगमानुषी। शक्तिस्तत्कृतपुण्यत्वं मय्येवेति नृपोऽवदत् ॥ ७६४ ।। अन्येधुरुपदिष्टे च सम्यक् किं संघसाक्षिकम् । राजा गृहीते गुरुभिर्गाथामेनां स जल्पितः ॥ ७६५॥ तथाहि-तुह्माणकिंकरोहं तुझे नाहा भवो यदि गयस्स। सयलधणाइंसमेउमइतुह्म समप्पिउअप्पा ॥ ७६६ ॥ व्याख्यातायामथैतस्यामर्थ सत्यापयन्नृपः। राज्यं समर्पयामास जगदुर्गुरवस्ततः॥७६७॥ निस्संगानां निरीहाणां नार्थों राज्येन नो नृप । आपिवाम कथं भोगान्वांतान नुचितं ह्यदः ॥ ७६८ ॥ एवं विवादसंबांधे दानाग्रहणकारणे । गुरुभूपालयोमैत्री वैशिष्टयमकरोदिदम् ॥ ७६९ ॥ . सर्वाणि राजकार्याणि कार्याण्यश्रावितानि नः। अतः परं प्रभो राज्ये भूयादनुमतं ह्यदः ॥ ७७० ॥ प्रतिपन्ने ततः श्राद्धव्रतसद्ध्यानहेतवे। भूपस्याध्यात्मतत्वार्थावगमाय च स प्रभुः ॥७७१॥ योगशास्त्रं सुशास्त्राणां शिरोरत्नसमं व्यधात् ।। अध्याप्य तं स्वयंचक्र तत्पुरश्च व्यचारयत् ॥ ७७२॥ युग्मम् ।। जग्राह नियमं राजा दर्शनी जिनदर्शने । यादृशस्तादृशो वामे वेद्यो मुद्रेव भूपतेः ॥ ७७३॥ चतुरंगचमूमध्ये राजा राजाध्वना व्रजन् । गजारूढोऽन्यदाद्राक्षीजैनर्षि वेश्यया समम् ॥ ७७४ ॥ क्षुरलूनशिरःकेशं सितवैकक्षकावृतम्। कस्तीरास्तीर्णसध्वानपनद्वारूढपादकम् ॥ ७७५॥ अतुल्यफणभृद्धल्लीदलबीटकहस्तकम् । आलंबितभुजादंडमंसेस्यान्मंदिराद्वहिः॥७७६॥त्रिभिर्विशेषकम्॥ कुंभयोय॑स्य मूर्द्धानं तं ननाम महीपतिः । पृष्टासनस्थितश्चके नट्टलनृपतिः स्मितम् ॥ ७७७॥ ददर्श वाग्भटामात्यस्तत्प्रभोश्च न्यवेदयत् । ततो राज्ञःपुरः पूज्या इत्थं धर्मकां व्यधुः॥ ७७८ ॥ तथहि-पासत्थाइ वंदमाणस्सनेवकित्तीननिजरोहोइ । कायकिलेसे एमेवकुणइ तहकम्मबंधवा ।। ७७९ ॥ १ Hवामः कथं भोगानवांताननुचितं०. २ संबोधेदाताग्रहणकरणे. ३ P व्यक्तं. ४ H निज. ५ P वांद्यो. ६P मंशे. ७P वंदणस्सने. Page #351 -------------------------------------------------------------------------- ________________ श्री हेमचंद्रसूरिप्रबन्धः । व्यमृशद्भूपतिः केनाप्यद्य वृत्तं निवेदितम् । व्यजिज्ञपश्च पूज्यानां शिष्याभिर्निवृतोऽस्म्यहम् ॥ ७८० ॥ इतश्च पृथिवीशक्रनमस्कारमुदीक्ष्य सः । दध्यावध्यामचैतन्यं का मय्यस्ति नमस्यता ॥ ७८१ ॥ विध्वस्तवीतरागांत्ये' त्यक्तभोगपुनर्ग्रहे । अदृश्यास्ये प्रतिज्ञाया भ्रष्टे दुर्ग्राह्यनामनि ॥ ७८२ ॥ युग्मम् ॥ अमुचद्भुजमस्याश्च चापतुल्यं मनोभुवः । कुधियां पेटकं वाथवीटकं व्रतकंटकम् ॥ ७८३ ॥ नरकाध्वनि यानाभे मुमोचायमुपानहौ । विरागी खाश्रये गच्छदतुच्छं स्वल्पभर्तृकः ॥ ७८४ ॥ पुनर्व्रतं समुच्चार्य गुरूपांते महामनाः । संगत्यागादनशनप्रत्याख्यानी बभूव सः ॥ ७८५ ॥ निजैरनेकधाप्युक्तो दृढ़ो नासौ निजाग्रहात् । पश्चाद्व्याजुघटे द्रोणीमब्धौ लब्धां हि कस्त्यजेत् ॥ ७८६ ॥ अनशन्याश्रयास्तत्र प्रावर्त्तत प्रभावनाः । वरिवस्यांतपस्यायाः श्रेयोर्थी कः करोति नः ॥ ७८७ ॥ विज्ञप्तेऽधिकृतैस्तत्र भूपो नंतुं तपोनिधिम् । अभ्याययौ प्रमोदेन सांतःपुरपरिच्छिदः ॥ ७८८ ॥ यावत्पश्यति तद्वक्रं तावद्दृष्टः स एव यः । पण्यांगना गृहद्वारे कुवेषोपि नतस्तदा ॥ ७८९ ॥ तगुरून् मुनिवर्गे च नत्वा भूपालपुंगवः । तत्पादौ प्रणमंस्तेन निषिद्वो भुजधारणात् ॥ ७९० ॥ महाराज गुरुस्त्वं मे भवाब्धेस्तारितस्त्वया । तव विश्वेपि वंद्यस्य प्रणामो ह्यतिदुर्जरः ॥ ७९१ ॥ मादृशा भ्रष्टचारित्रा विराधितजिनोक्तयः । आराधकाः कथं नु स्युस्फुरन्नरकदौहृदाः ॥ ७९२ ॥ भवादृशः पृथिव्यां चेन्नाथोपूर्वपितृप्रभुः । न स्याल्लोकद्वयापायसंहर्ता प्राणिभृद्गणे ॥ ७९३ ॥ युग्मम् ॥ अवंद्यं वद्यमानेन मां निस्तारयितुं त्वया । पुपूरे समसंवेगवासनासंगमोचिनी ॥ ७९४ ॥ निजैर्गृहस्थैर्यतिभिरेभिर्युक्तोपि जीवितुम् । ३४३ क्लीबो व्रतस्य कष्टानि स सोढा प्रायमालदम् ? ॥ ७९५ ॥ उवाच भूपतिर्धीमान् मुनीशः कस्त्वया समः । निमित्तादेकतस्त्यक्तसंग ः प्रत्येकबुद्धवत् ॥ ७९६ ॥ ३ P जाके ? २ H प्रतिज्ञयावष्टे. Page #352 -------------------------------------------------------------------------- ________________ ३४४ प्रभावकचरिते तीर्थकद्दर्शनाधारं प्रणामं मे स्वभावजम् । मानयत्नुपकाराय कृतज्ञमुकुटायसे ॥ ७९७॥ माथ चंदनामात्रार्जितमप्यप्रतीच्छया । अदिच्छन् सुकतंसं विभागार्ह नमव्यसे? ॥ ७९८ ।। उदरभरिता युक्ता सतां नैतदिति ब्रुवन् । तद्वचोवसरादानात्प्रणनाम बलादपि ॥ ७९९ ॥ अथाहानशनी धन्यो देशः पुण्यश्रियः प्रजाः। क्षाल्यते यत्र पंकस्त्वदर्शनामृतवृष्टिभिः ॥ ८०० ॥ श्रुत्वेत्यानंदसंभेदगद्दाख्यः सभापतिः। प्रभोः श्रीहेमचंद्रस्य गत्वा वृत्तमथावदत् ॥ ८०१॥ युष्माभिरुपदिष्टानां नियमानां प्रपालना। प्रभो कामदुधैवेयं समस्तहृदभीष्टदा ॥ ८०२ ॥ अवोचन गुरवः पुण्यदशेयं तव जाग्रती। प्रकाशयति वस्तूनि गुरुभत्याचिरर्चिता ॥ ८०३॥ एवं कृतार्थयन् जन्म सप्तक्षेच्यां धनं वपन् । चक्रे संप्रतिवनभवनैमैडितां महीम् ॥ ८०४ ॥ श्रीशलाकानृणां वृत्तखोपझं प्रभवोन्यदा। व्याचख्युपतेधर्मस्थिरीकरणहेतवे ॥ ८०५ ।। श्रीमहावीरवृत्तं च व्याख्यांतःसूरयोऽन्यदा। देवाधिदेवसंबंधं व्याचख्युर्भूपतेः पुरः॥ ८०६॥ यथा प्रभावती देवी भूपालोदयनप्रिया। श्रीचेटकावनीपालपुत्री तस्या यथापुरा ॥ ८०७॥ वारिधौ व्यंतरः कश्चिद्यानपात्रं महालयम् । स्तंभयित्वार्पयत् श्राद्धतस्यार्द्धसंपुटं दृढम् ॥ ८०८ ॥ एनं देवाधिदेवं य उपलक्षयिता प्रभुम् । स प्रकाशयिता न्वा इत्युक्त्वासौ तिरोदधे ।। ८०९ ॥ पुरे वीतभये यानपात्रे संघटिते यथा । अन्यैौद्घाटितं देव्या वीराख्यायाः प्रकाशितम् ॥ ८१० ॥ यथा प्रद्योतराजस्य हस्तं सा प्रतिमा गता। दास्या तत् प्रतिबिंबं च मुक्तं पश्चात्पुरे यथा ॥ ८११॥ ग्रंथगौरवभीत्या च न तथा वर्णिता कथा । श्रीवीरचरिता ज्ञेया तस्यांश्रुतिसकौतुकैः॥८१२॥षडिःकुलकम् तां श्रुत्वा भूपतिः कल्पहस्तानिपुणधीरधीः। प्रेष्य वीतभये शून्येऽचीखनत्तद्भुवं क्षणात् ॥ ८१३ ॥ १P omits this verse. २ P न्यत्य ? Page #353 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३४५ राजमंदिरमालोक्य भुवोन्तस्तेति हर्षतः। देवतावसरस्थानं प्रापुबिंबं तथार्हतम् ॥ ८१४ ॥ आनीतं च विभो राजधानीमतिशयोत्सवैः। स प्रवेशं दधे तस्य सौधदैवतवेश्मनि ॥ ८१५ ॥ प्रासादः स्फाटिकस्तत्र तद्योग्यः पृथिवीभृता । प्रारेभे प्रतिषिद्धश्च प्रभुभिर्भाविवेदिभिः॥ ८१६॥ राजप्रासादमध्ये च नहि देवगृहं भवेत् । इत्थमाज्ञामनुलंघ्य न्यवर्त्तत ततो नृपः ॥ ८१७॥ एकातपत्रतां जैनशासनस्य प्रकाशयन् । मिथ्यात्वशैलवज्रं श्रीहेमचंद्रप्रभुर्बभौ ॥ ८१८॥ तथालोलाकचैत्यस्याग्रतः क्षेत्राधिपालये। अपश्यदामिषापूर्ण शरावं तडं(दंड)काधिपः॥ ८१९ ॥ तेन त्रिलोचनस्येव संहत्तुरनयस्पृशम्। तत्रिलोचननाम्नश्च तलारक्षस्य दर्शितम् ॥ ८२० ॥ असंख्यजनसंचारानुपलब्धपदस्ततः। अन्वेषयन्नुपायं स लेभे मतिमतांवरः॥ ८२१ ॥ कुलालवृंदमाकार्य प्रत्येकं तदुदैक्षयत् । शरावं घटितं केन पप्रच्छेति कुशाग्रधीः॥ ८२२ ॥ एकस्तेषामभिशाय व्याहरद् घटितं मया। अचीकरच्छतं लक्षोनट्टलेशस्थगीधरः ॥ ८२३ ॥ विसृज्य तान्महीशाय तलारक्षो व्यजिज्ञपत् । व्याजहे तत्क्षणान्नाथ केल्हणं मंडलेश्वरम् ॥ ८२४॥ आज्ञाभंगापराधेन देशः श्रीकरणे त्वया। उद्गण्यतां स चावादीनजाने किमिदं प्रभोः॥ ८२५॥ द्वारावलगकाख्याते स्थगीशचरिते ततः। लक्षं विलक्षं हत्वा च तोषं चक्रे प्रभोरसौ ॥ ८२६॥ चैत्रमाघाश्वयुग्मासमहेष्वपि सुरीगणः। अहिंसया मुदं प्राप गुणे को मत्सरं वहेत् ॥ ८२७ ॥ कर्पूरप्रमुखैभॊगैलिभिर्मोदकादिभिः । तुष्टोसौ मद्यमांसेषु पिच्छिलेषु श्लथादरः॥ ८२८ ॥ शैवाचार्या अपि तदा मिथ्याधर्मेष्वनादृताः। जयंतस्थापनाचार्यमवहन् कृतिकर्मणः ॥ ८२९ ॥ श्रीवीतरागमभ्यर्च्य परमेष्ठिनमस्कृतीः। परावर्त्तत धर्मोपि राजाय॑ः क्रियते जनैः ॥ ८३०॥ १ D दंडकाद्विधः. २ P राजाwः. Page #354 -------------------------------------------------------------------------- ________________ ३४६ प्रभावकचरिते चराचरवपुर्भूतामभयदानदानेश्वरो जडाखिलढगापगा शरणरत्नराशिप्रदः । लसन्निजपरागमाप्रकटतत्वपारगमः शशांककुलशेखरो जयति हेमचंद्रप्रभुः ॥ ८३१॥ व्याकरणं पंचांगं प्रमाणशास्त्रं प्रमाणमीमांसा । छंदोलंकृतिचूडामणी च शास्त्रे विभुळधितः॥ ८३२ ॥ एकार्थानेकार्था देश्या निर्घट इति च चत्वारः। विहिताश्च नामकोशाः भुविकवितानधुपाध्यायाः ॥ ८३३॥ व्युत्तरषष्टिशलाका नरेशवृत्तं गृहव्रतविचारे । अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः॥ ८३४ ॥ लक्षणसाहित्यगुणं विदधे च याश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः सवीतरागस्तवानां च ॥ ८३५॥ इति तद्विहितग्रंथसंख्यैव नहि विद्यते । नामापि न विदंत्येषां मादृशा मंदमेधसः ॥ ८३६ ॥ व्याख्यायामन्यदा श्रीमच्छत्रुजयगिरेस्तवम् । श्रीमदैवतकस्यापि प्रभुराह नृपाग्रतः ॥ ८३७ ।। उपदेशप्रदीपेन विध्वस्तांतस्तमा नृपः। तीर्थयात्रां ततश्चक्रे शक्राभोज्वलकीर्तिभृत् ॥ ८३८॥ प्रयाणैः पंचगव्यूतैः पादचारेण सोऽन्यदा। अनुपानत्कगुरुणा प्रापोपचलभिद्रुतम् ॥ ८३९ ॥ तत्रास्ति स्थाप ईर्ष्यालुरिति भूमिधरद्वयम् । तदधो गुरवः प्रीताः प्रातरावश्यकं दधुः ॥ ८४०॥ भूपतिस्तत्र चागत्य वासनामोदमेदुरीः । प्रभूत्वान्निर्जितात्मीयगुरुनिष्टविशिष्टधीः ॥ ८४१॥ प्रणनाम प्रभोः पादौ प्रक्रांततः प्रयाणके । प्रासादौ कारयामास भूपोऽत्र गुरुभक्तितः ॥ ८४२ ॥ श्रीनाभेयत्रयोविंशजिनबिंबे विधाप्य च । प्रतिष्ठाप्य प्रभोः पार्थादस्थापयत चात्र सः ॥ ८४३ ॥ विमलादौ जिनाधीशं नमश्चक्रेतिभक्तितः।। निजानुमानतोऽभ्यर्च्य ययौ रैवतकाचलम् ॥ ८४४ ॥ दुरारोहं गुरुं पद्याभावादृष्ट्रा सवाग्भटम् । मंत्रिणं तद् विधानाय समादिक्षत्स तां दधौ ॥ ८४५॥ १H चरण. २ H लसति०. ३P व्यभुर. ४ P सुंदरः. ५ म पुरुनि०. Page #355 -------------------------------------------------------------------------- ________________ श्रीहेमचंद्रसूरिप्रबन्धः । तत्र छत्रशिलाशंकावशाच्छैलाधिरोहणम् । राज्ञेोविघ्नाय तदधो भूस्थः श्रीनेमिमार्चयत् ॥ ८४६ ॥ ततो व्यावृत्य संप्राप नगरं खं नराधिपः । जैनयात्रोत्सवं कृत्वा मेने स्वं पुण्यपूरितम् ॥ ८४७ ॥ शरवेदेश्वरे ११४५ वर्षे कार्त्तिके पूर्णिमानिशि । जन्माभवत्प्रभोर्व्याम बाणशंभौ ११५० व्रतं तथा ॥ ८४८ ॥ रसषट्ङ्केश्वरे सूरिप्रतिष्ठा समजायत । नंदद्वयरवौ वर्षे १२२९ ऽवसानमभवत्प्रभोः ॥ ८४९ ॥ इत्थं श्रीजिन शासनाभ्रतरणेः श्रीहेमचंद्रप्रभो ३४७ रज्ञानांधतमःप्रवाहहरणं मात्रादृशां मादृशाम् । विद्यापंक जिन विकाशविदितं राशोतिवृद्ध्यै स्फुरहृतं विश्वविबोधनाय भवताद्दुः कर्मभेदाय च ॥ ८५० ॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ श्रीहेमचंद्रप्रथाश्रीप्रयुनमुनींना विशदितः शृंगो द्विकद्विप्रमः ॥ ८५१ ॥ इति श्री हेमचंद्र प्रबंधः ॥ ग्रं० ८७१ ॥ छ ॥ स्वस्ति ॥ भास्वत्पात्रं कविमुनिबुधभ्राजितो राजसेव्यः सर्वेष्टार्थप्रद्गुरुलसत्कल्पवृक्षा (क्ष) त्वदात् (ता) | श्रीजैनाद्रिश्रियभुविशिरा सिद्धिमद्भद्रशालो गच्छश्चद्रा (द्रः) सुरगिरितुलामभुवान (नो) सम ( मो ) स्तिः ॥ १ ॥ प्रद्युम्न सूरिरिति तत्र पुरा बभूव मंदारपादपतुलाकलितोरुशाखः । यत्संगमामृतरसैर्बहवः सुधर्मा धीशा भवंति सुधियः सुमनोभिरामाः ॥ २ ॥ अल्लासभायां विजिते दिगंबरे तदीयपक्षः कलिकोशरक्षकः । दातुं प्रभोरेकप समानयत्तमेकपट्टे जगृहे सुधीषु यः ॥ ३ ॥ शिष्योऽस्याभयदेवसूरिरभवज्जाड्यांधकारं हरन् गोभिर्भास्करवत्परां विरचयन् भव्याप्तवर्गेच्छदम् । ग्रंथो वाद महार्णवोऽस्य विदितः प्रौढप्रमेयोर्मि (भृत् दत्तेर्थ (?) जिनशासनप्रवहणं सांयात्रिकाणां ध्रुवम् ॥ ४ ॥ Page #356 -------------------------------------------------------------------------- ________________ ३४८ प्रभावकचरिते त्रिभुवनगिरिखामी श्रीमान्स कर्दमभूपति स्तदुपसमभूत् शिष्यः श्रीमद्वनेश्वरसंज्ञया । अजनि सुगुरुस्तत्पद्येऽस्मात् प्रभृत्यवनिस्तुतः तदनु विदितो विश्वे गच्छः सराजपदोत्तरः ॥५॥ मुगुरुरजितसिंहस्तत्पदांभोजभानुं समजनि जनितश्रीभव्यपंकेरुहाणाम् । वचनकरचितानां यस्य देदीप्यमानं जडगतमपसोढुं दुर्दृशो न क्षमंते ॥६॥ श्रीवर्द्धमानसुगुरुः कर्कोन्नतधामसंगतस्तदनु । मतसंघचारिशरणः समजनलग्नदोषहरः ॥ ७॥ तदाह(द्रि)भूमिरुहयोषतपात्यपश्रीः श्रीशालिभद्र इति पदं प्रपेदे । धर्मोपदेशजलवाहललैर्यदीयः प्राप्नोत्तति(तो) जगति कीर्तिलताविताना ॥ ८॥ तदहिसरसीहंसः सूरिः श्रीचंद्र इत्यभूत् । विवेचकः शुचिः सद्गीस्तद्वाचानुपजीविनाम् ॥९॥ अर्थप्रकाशकं शास्त्रचक्षुषाममृतांजनं। प्येतसा संसार साद्व्यायन्मतिः पुत्तोगरंगभृत् ॥१०॥ सूरिश्रीभरतेश्वरस्तदनु च प्रामाणिकग्रामणी यन्नामस्मृतितोऽप्यघं हरति श्री श्रीधर्मघोषप्रभुः । कल्याणावलिकंदलालिजलदः श्रीसर्वदेवो गुरु श्चत्वारः किल शीलभद्रसुगुरोः शिप्या नरेंद्रार्चिताः॥ ११ ॥ श्रीपात्रं सजिनेश्वरप्रभुरभूत्संघांबुधौ चंद्रमाः सूरिश्रीजिनदत्त इत्युदितधीरुन्निद्रविद्याद्युतिः। चारित्रामलशैलनंदनवनं श्रीपद्मदेवप्रभुः श्रीश्रीचंद्रमुनीश्वरस्य जयितः शिष्या अभूवन्नमी ॥ १२ ॥ श्रीसंघरोहणधराधरुरत्तं(ररत्नं) श्रीपूर्णभद्रगुरुरभ्युदितः पदेस्य । यत्संनिधिस्थितिभृतो भुवि भव्यसार्था __ वस्तूनि "विषयानि विलोकय(यं)ति ॥१३॥ तत्पद्योदयपर्वतामृतरुचिः प्राणिश्चकोरव्रजम् श्रीचंद्रप्रभसूरिरद्भुतमतिज्योत्स्नानिधानं बभौ । Page #357 -------------------------------------------------------------------------- ________________ हेमचंद्रसूरिप्रबन्धः । ३४९ आश्चर्य न कलंकधामतमसानुलंध्य मूर्तिर्भवम् । पाथोधि अपुले विलनकमलोल्लासी? न दोषाकरः ॥ १४ ॥ आचार्यः श्रीप्रभाचंद्रस्तत्पादांभोजषट्पदः । चित्रं यः सुमनस्थोपि सदानवगु(रु)क्रमः ॥१५॥ श्री हेमचंद्रसूरीणामनुध्यानप्रवृत्तितः। पर्वणः परिशिष्टस्याष्टे ? सपुटवासनः ॥ १६ ॥ श्रीवज्रानुप्रभप्रकटमुनिपतिपृष्टवृत्तानि ? तत्तत् ग्रंथेभ्यः कानिचिञ्च श्रुतधरमुखतः कानिचित् संकलय्य । दुष्प्रापत्वादमीषां विशकलिततयैकत्र चित्रावदातं जिज्ञासैकाग्रहाणामधिगतविधयेभ्युश्चयं स प्रतेने ॥ १७ ॥ त्रिभिर्विशेषकम् । अत्र शूणं हि यत्किञ्चित्संप्रदायविभेदतः। मयि प्रसादमाधाय तच्छोधयत कोविदाः॥१८॥ गतः-आरार्थितमया शून्यं यथा तुष्टं स्व(म)तमे(भे)दात् ? । निजोक्तैः स्थापितं तत्प्राक् कथाकंथीकृतास्ततः॥१९॥ रोटारंध्रगसिद्धकिंनरगणानुल्लंघ्य शृंगस्थिति स्तुंगत्तोदितवृत्तशेवधिरति प्रौढार्थसंपत्तिकृत् । पूरनप्रभया तिरस्कृतपरज्योतिःप्रकाशोदया श्रीपूर्वर्षिचरित्ररोहणगिरौ स्यादीरवींदुब्रुवः ? ॥२०॥ श्रीप्रद्युम्नगुरोहिमांशुविशदो बोधः शुचेः संगतो मिश्रो(चारु)रुचाममप्रतिपदस्फूर्जद्यशःपूरुषः । ज्ञानश्रीपुरुतः पदाघटनबिंबद्वयोटेंकनात् ? जातो ग्रंथमिषेणसाक्षरशुचिर्द्रम्यश्चिरं नंदतु ? ॥२१॥ वेदानलशिखिशशिधरवर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने संपूर्ण पूर्वर्षिचरितम् ॥ २२॥ शिक्षाप्रसादवशतः स्वगुरोर्मयैन मायासमत्रद्धता यदवापि पुण्यम् । व्याख्यानसक्तमनसः श्रवणादराश्च श्रेयस्सु संगममनुत्तरमामवाप्नुव(माप्नुवं)तु ॥ २३॥ . 30 Page #358 -------------------------------------------------------------------------- ________________ 350 प्रभावकचरिते ग्रंथस्य मानमस्य प्रत्यक्षरगणनया सुनिर्णीतम् / पंचसहस्रा सप्त च शतानि चतुरधिकसप्ततियुतानि // 24 // प्रशस्ति श्लोक 180 / उभयं ष 080 / श्रीः श्री० (इति प्रभावकचरितं समाप्तम् ) - 9 In both D and P the verse terre etc comes after the colophonian stanza ending in Palega: and th@ whole text from भावत्पात्रं to अवाप्नुवतु (आप्नुवंतु) is omitted It is owing to this circumstance that too many errors are to be seen here. ___ 2 P ग्रंथस्य मानकथितं प्रत्यक्षरगणवयासुगिर्णीम पंचसहस्रा सप्त च शमानि च तुरसी (शी) ति अधिकमिह // 10 // ग्रंथाग्रं 855 उभयं ग्रंथसंख्या 5794 अक्षर 23 संमत् 1950 ना वर्षे आसोजमासे शुक्लपक्षे 11 गुरुवासरे लिषीम्हात्मारीषलाल ततपुत्र पुनमचंदजी नारेनारगांम नागोरमां देस मारवाड // पाटणमध्ये // खटारवोटटीनोपाडी //