________________
प्रभावकचरिते अमी पानकुरंकाभाः सप्तापि जलराशयः। यद्यशोराजहंसस्य पञ्जरं भुवनत्रयम् ॥ १२७ ॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ १२८ ॥ भयमेकमनेकेभ्यः शत्रुभ्यो विधिवत्सदा। ददासि तच्च ते नास्ति राजन् चित्रमिदं महत् ॥ १२९ ॥ इति श्लोकैर्गुरुश्लोकः स्तुतो राजा तमस्तवीत्। यत्र त्वं सा सभा धन्यावस्थेयं तन्ममान्तिके ॥ १३०॥ इति राज्ञा ससन्मानमुक्तोऽभ्यणे स्थितो यदा। तेन साकं ययौ दक्षः स कुंडंगेश्वरे कृती ॥१३१ ॥ व्यावृत्य द्वारतस्तस्य पश्चादागच्छतः सतः। प्रश्नः कृतोऽन्यदा राज्ञा देवावशां करोषि किम् ॥ १३२॥ नतिं किं न विधत्से च सोऽवादीद्भूपते शृणु। महापुण्यस्य पुंसस्ते पुर एवोच्यते मया ॥ १३३॥ जल्पितात्प्राकृतैः सार्द्ध कः शोषयति थूकृतम् । असहिष्णुः(ष्णू) प्रणामं मेऽसकौ कुर्वे ततः कथम्॥१३४॥ ये मत्प्रणामसोढारस्ते देवा अपरे ननु । किं भावि प्रणम त्वं द्राक् प्राह राजेति कौतुकी ॥ १३५ ॥ देवान्निजप्रणम्यांश्च दर्शय त्वं वदन्निति। भूपतिर्जल्पितस्तनोत्पाते दोषो न मे नृप ॥ १३६ ॥ . राजाह देशांतरिणो भवंत्यद्भुतवादिनः। देवाः किं धातुभृद्देहिप्रणामेऽप्यक्षमा केष ॥ १३७ ॥ श्रुत्वेति पुनरासीनः शिवलिङ्गस्य स प्रभुः।
उदाजह्वे स्तुतिश्लोकान् तारस्वरकरस्तदा ॥ १३८ ॥ तथाहि-प्रकाशितं त्वयैकेन यथा सम्यग्जगत्रयम् ।
समस्तैरपि नो नाथ वरतीर्थाधिपैस्तथा ॥ १३९ ॥ विद्योतयति वा लोकं यथैकोपि निशाकरः। समुद्गतः समग्रोपि तथा किं तारकागणः॥ १४०॥ त्वद्वाक्यतोऽपि केषांचिद्बोध इति मेऽद्भुतम् । भानोर्मरीचयः कस्य नाम नालोकहेतवः ॥ १४१॥ नो वाद्भुतर्मुलूकस्य प्रकृत्या क्लिष्टचेतसः। . स्वच्छा अपि तमस्त्वेन भासन्ते भास्वतः कराः॥ १४२ ॥
१JH करं० २J H. सतापि. ३ JH न सहि. ४ JH भूपतिजल्पनस्तोनात्पादौ षोनमे. ५ ऋषे इति स्यात्. ६JH मुनि. ७ P मल्लकस्य.