________________
श्रीवृद्धवादिप्रबन्धः। पूज्यानामपि चेञ्चित्तवृत्तावेज्ञानशात्रवः । अवस्कन्दं ददात्यद्य का कथास्मादृशां ततः॥११३॥ यदि विश्रुतमस्माभिः पूर्वेषां सम्प्रदायतः। चतुर्दशापि पूर्वाणि संस्कृतानि पुराऽभवत् (न्)॥११४॥ प्रशातिशयसाध्यानि तान्युच्छिन्नानि कालतः। अधुनैकादशाग्यस्ति सुधर्मस्वामिभाषिता ॥ ११५॥ बालस्त्रीमूढमूर्खादिजनानुग्रहणाय सः। प्राकृतां तौमिहाकार्षीदनास्थात्र कथं हि वः॥११६॥ पूज्यैर्वचनदोषेण भूरि कल्मषमर्जितम् । श्रुतेन स्थविरा अद्य प्रायश्चित्तं प्रजानते ॥११७॥ तैरूचे द्वादशाब्दानि गच्छत्यागं विधाय यः। निगूढजैनलिङ्गः सन् तप्यते दुस्तपं तपः॥११८॥ इति पारांचिकाभिख्यात्प्रायश्चित्तान्महांहसः। अस्य शुद्धिर्जिनाज्ञाया अन्यथा स्यात्तिरस्कृतिः॥११९॥ जैनप्रभावनां कांचिदद्भुतां विदधाति चेत् । तदुक्तावधिमध्येऽपि लभते स्वं पदं भवान् ॥ १२० ।। ततः श्रीसंघमापृच्छय स सात्विकशिरोमणिः। खवतं बिभ्रव्यक्त सिद्धसेनो गणं व्यहात् ॥ १२१ ॥ इत्थं च भ्राम्यतस्तस्य बभूवुः सप्त वत्सराः। अन्येयुर्विहरनुज्जय(यि)न्यां पुरि समागमत् ॥ १२२ ॥ स भूपमन्दिरद्वारि गत्वा क्षत्तारमभ्यधात् ।
स्वं विज्ञापय राजानं मद्वाचा विश्वविश्रुतम् ॥ १२३॥ तथाहि
दिदृक्षुर्भिक्षुरायातो द्वारि तिष्ठति वारितः। हस्तन्यस्तचतुःश्लोकः किमागच्छतु गच्छतु॥१२४ ॥ तेतो राज्ञा समाहूतो गुणवत्पक्षपाततः।
स्वामिनोनुमते पीठे विनिविश्याब्रवीदिति ॥ १२५ ॥ तद्यथा
अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः। मार्गणौघः समभ्येति गुणो याति दिगन्तरम् ॥ १२६ ॥
१P. त्ताविज्ञा. २ P. भाषिताः. ३ J H. प्राकृतानामि. ४ JH. च. ५ P adds दीयतां दशलक्षाणां शासनानि चतुःश्लोकं यद्वा गच्छतु before ततो.