________________
९८
. प्रभावकचरिते इति तजल्पपर्जन्यगर्जिवर्षणडम्बरैः । बोधेनाङ्कुरिता सिद्धसेनमानसमेदिनी ॥९७॥ ईदृक् शक्तिर्हि नान्यस्य मद्धर्माचार्यमन्तरा। स ध्यात्वेति समुत्तीर्य तस्याही प्राणमद्गुरोः ॥ ९८॥ प्राह चान्तरविद्वेषिजितेन मयका भृशम्। आशासिताः प्रभोः पादाः क्षम्यतां तन्महाशयः॥ ९९ ॥ श्रुत्वेति गुरुराह स क्षणं वत्स न ते क्षणम् । प्राणिनां दुःखमाकालः शत्रुः सद्गतिनाशनः ॥१०० ॥ कणेहत्य मया जैनसिद्धान्तात्तर्पितो भवान् । तवापि यन्न जीर्येत मन्दाग्नेः स्निग्धभोज्यवत् ॥ १०१ ॥ अन्येषां जडताघातपीनसाश्लेष्मवद्गृहम् । का कथात्यल्पसत्वाग्निभृतां विद्यान्नजीरणे ॥ १०२॥ संतोषौषधसंवृद्धसद्ध्यानान्तरवह्निना। श्रुतं स्वयं हि जीर्यस्व महत्तमशनायितः॥ १०३॥ स्तम्भाप्तपुस्तकं पत्रं जज्ञे शासनदेवता। सांप्रतं सांप्रतीनाः किं तादृकशक्तिव्रतोचिताः ॥ १०४॥ इत्याकर्ण्य गुरोर्वाचं वाचंयमशिरोमणिः । प्राह चेहुष्कृतं नैव कुर्युः शिष्या भ्रमोदयात् ॥ १०५ ॥ तत्प्रायश्चित्तशास्त्राणि चरितार्थानि नाथ किम् । भवेयुरविनीतं मां प्रायश्चित्तैः प्रशोध्यत ॥१०६॥ वृद्धवादी विमृश्यादादस्य चालोचनातपः। स्वस्थाने न्यस्य च प्रायं स्वयं लात्वा दिवं ययौ ॥ १०७॥ मुनीन्द्रः सिद्धसेनोऽपि शासनस्य प्रभावनाम् । विदधद्वसुधाधीशसुतो व्यहरतावनौ ॥ १०८॥ अन्यदा लोकवाक्येन जातिप्रत्ययतस्तथा। आबाल्यात्संस्कृताभ्यासी कर्मदोषात्प्रबोधितः॥१०९॥ सिद्धान्तं संस्कृतं कर्तुमिच्छन्संघ व्यजिशपत् । प्राकृते केवलज्ञानिभाषितेऽपि निरादरः ॥११० ॥ तत्प्रभावं गरीयस्त्वानभिज्ञस्तत्र मोहितः। संघप्रधानरूचे च चेतःकालुष्यकर्कशैः॥१११॥ युगप्रधानर्सरीणामलंकरणधारिणाम् ।
अद्य स्वी(श्वी)नयतिवातशिरोरत्नप्रभाभृताम् ॥११२॥ १J मयि भृशं. २ J आसासि; P आशातिताः । ३P वात 'हृदाम्.. न जारणे. ४J H स्ततो विह. ५J H. केवलज्ञान. ६JH. पूराणा. ७J_H. आद्यस्वातयत्तित्त्वात्.