________________
श्रीवृद्धवादिप्रबन्धः।
वृद्धवादिप्रभुः प्राहाकर्णयावहितो भव । अस्य तत्त्वं यथामार्गभ्रष्टोऽपि लभसे पुनः ॥९५ ॥ तथाहिअणु अल्पमायूरूपं पुष्पं यस्याः साऽणुपुष्पिका मानुषतनुस्तस्याः पुष्पाण्यायुःखण्डानि तानि मा त्रोटयत राजपूजागर्वाचंकुटीभिः । ओरामानात्मसक्तान् यमनियमादीन्सन्तापापहारकान् मा मोटयत भंजयत । मनःकुसुमैः क्षमामार्दवार्जवसन्तोषादिभिरर्चय निरञ्जनम् । अञ्जनान्यहंकारस्थानानि जातिलाभादीनि निर्गतानि यस्य स निरञ्जनः सिद्धिपदप्राप्तस्तं ध्यायन्तु हिंडत भ्रमत कथं वनेन वनं मोहादितरुगहनेनारण्यमिव संसाररूपं गहनमित्येकोऽर्थः॥१॥
अथवा-अणु माल्पधान्यं तस्य पुष्पाण्यल्पविषयत्वान्मानवतनोः साल्पपुष्पी तस्याः पुष्पाणि महाव्रतानि शीलाङ्गानि तानि मा मोटयत मा विनाशयत । मन आरामं मोटयत । चित्तविकल्पजालं संहरत । तथा निरञ्जनं देवं मुक्तिपदप्राप्तं मन इत्यनेन द्वौनिषेधशब्दौ मा च नश्च ततो मा कुसुमैरर्चय निरञ्जनं वीतरागम् । गार्हस्थ्योचितदेवपूजादौ षड्जीवनिकायविराधके मोद्यमं कुरु सावद्यत्वाद् । वनेन शब्देन कीर्त्या हेतुभूतया वनं चेतनाशून्यत्वादरण्यमिव भ्रमहेतुतया मिथ्यात्वशास्त्रजातं कथं भ्रमसि अवगाहसे लक्षणया तस्मान्मिथ्यावादं परिहत्य सत्ये तीर्थकदादिष्टे आदरमाधेहि इति द्वितीयोर्थः ॥ अथवाअणरणेति धातोरणशब्दः स एव पुष्पमभिगम्यत्वाद्यस्याःसाणुपुष्पा कीर्तिस्तस्याः पुष्पाणि स्याद्वादवचांसि तानि मा त्रोटयत मा संहरत।तथा मनस आरा वेधकरूपत्वात् अध्यात्मोपदेशरूपास्तान्मा त्रोटयत । कुव्याख्याभिर्मा विनाशयत । मनो निरञ्जनं रागादिलेपरहितं कुसुमैरिव कुसुमैः सुरभिशीतलैः सहुरूपदेशैरर्चय पूजितं श्लाघ्यं कुरु । तथा वनस्योपचारात्संसारार ग्यस्य तस्येनः खामी परमसुखित्वात्तीर्थकृत् तस्य वनं शब्दसिद्धान्तसूत्रं कथं हिंडत भ्रान्तिमादधत । यतस्तदेव सत्यं । तत्रैव भावना रतिः कार्येति तृतीयोऽर्थः।
इत्यादयो ह्यनेकार्था व्याख्याता वृद्धवादिना।
मतिप्रतिविधानं तु वयं विद्मस्तु किंजडाः ॥९६॥ १P अडुल्ली. २ P आरामासो. ३J H- भ्रष्टोसि. ४ P सद्बोधवचांसि. ५P सिद्धान्तः.
9