________________
प्रभावकचरिते
श्रीकामरूपभूपालः संरुरोध तमन्यदा । नाम्ना विजयवर्मेति धर्मेतरमतिस्थितिः॥ ७८॥ स आटविकनासीरैरसंख्यैर्विद्रुतोऽधिकम्।। देवपालो महीपालः प्रभुं विज्ञपयत्ततः ॥ ७९ ॥ अमुष्य शलभश्रेणिसन्निभैरद्भुतैर्बलैः। विद्रावयिष्यते सैन्यमल्पकोशबलस्य मे॥ ८०॥ अत्र त्वं शरणं स्वामिनिदमाकर्ण्य स प्रभुः। प्रायः प्रतिविधास्यामि माभैषीरत्र संकटे ॥ ८१ ॥ सुवर्णसिद्धियोगेनासंख्यद्रव्यं विधाय सः। तथा सर्षपयोगेन सुभटानकरोद्वहून् ॥ ८२॥ यद्वा पराजितः शत्रुर्देवपालेन भूभृता। प्रभोः प्रसादतः किं हि न स्यात्तागुपासनात् ॥ ८३॥ राजाह शत्रुभीत्यंधतमसोऽहं निपेतिवान् । उद्दभ्रे भास्वता नाथ भवता भवतारक ॥ ८४ ॥ ततो दिवाकर इति ख्याताख्या भवतु प्रभोः। ततःप्रभृति गीतः श्रीसिद्धिसेनदिवाकरः॥ ८५ ॥ तस्य राज्ञो दृढं मान्यः सुखासनगजादिषु । बलादारोपितो भक्त्या गच्छति क्षितिपालयम् ॥ ८६ ॥ इति ज्ञात्वा गुरुर्वृद्धवादी सूरिर्जनश्रुतेः। शिष्यस्य राजसत्कारदर्पभ्रान्तमतिस्थितेः ॥ ८७ ॥ शिक्षणेन क्षणेनैवापासितुं दुर्ग्रहाग्रहम् । समाजगाम कर्मारपुरे रूपापलापतः ॥ ८८ ॥ युग्मम् ततः सुखासनासीनमपश्यत्तं प्रभुस्तदा । राजानमिव राजाध्वान्तरे बहुजनावृतम् ॥ ८९ ॥ प्राह च प्राप्तरूपत्वं संदेहं मे निवर्तय । आयातस्य तव ख्यातिश्रुतेर्दूरदिगन्तरात् ॥ ९ ॥ पृच्छेति सिद्धसेनेन सूरिणोक्ते जगाद सः।
तारस्वरं समीपस्थविदुषां विस्मयावहम् ॥९१ ॥ तद्यथा-अणहुल्लीफुल्ल मतोडहु मन आरामा मैमोडहु ।
मणकुसुमहिं अञ्चि निरञ्जणु हिण्डहकाई वणेण वणु ॥९२॥ अज्ञातेऽत्र विमृश्यापि कदुत्तरमसौ ददौ । अन्यत्प्रच्छेति स प्राह तदेव हि विचारय ॥ ९३ ॥ अनादरादसम्बद्धं यत्किचित्तेन चाकथि।।
अमानितेऽत्र तर्हि त्वं कथयति जगाद सः॥९४॥ १JH नाशार. २ P अहुल्ली. ३ P आरामासो.