________________
श्रीविवृद्धवादिप्रबन्धः।
श्रीसिद्धसेनसूरिश्चान्यदावाह्यभुवि व्रजन् । दृष्टः श्रीविक्रमार्केण राज्ञा राजाध्वगेन सः॥६१॥ अलक्ष्य भूप्रणामं स भूपस्तस्मै च चक्रिवान् । तं धर्मलाभयामास गुरुरुञ्चतरस्वरः ॥१२॥ तस्य दक्षतया तुष्टः प्रीतिदाने ददौ नृपः ।
कोटिं हाटकटंकानां लेखकं पत्रकेऽलिखत् ॥ ६३॥ तद्यथा-धर्मलाभ इति प्रोक्ते दूरादुद्धृतपाणये ।
सूरये सिद्धसेनाय ददौ कोटि नराधिपः॥६४॥ नृपेण सिद्धमाकार्य गृहीष्यामि धनं त्वया। उवाच सिद्धो नोऽस्माकं यथारुचि तथा कुरु ॥६५॥ तेन द्रव्येण चक्रेऽसौ साधारणसमुद्रकम् । दुःस्थसाधर्मिकस्तोमचैत्योद्धारादिहेतवे ॥६६॥ अन्यदा चित्रकूटाद्रौ विजहार मुनीश्वरः। गिरेनितंब एकत्र स्तंभमेकं ददर्श च ॥ ६७ ॥ नैव काष्ठमयो ग्रावमयो न नच मृण्मयः । विमृशन्नौषधक्षोदमयं निरचनोच्च तम् ॥६८॥ तंद्रसस्पर्शगंधादिनिरीक्षाभिर्मतर्बलात। औषधानि परिज्ञाय तत्प्रत्यर्थीन्यमीमिलन् ॥ ६९ ॥ पुनः पुनर्निघृष्याथ स स्तंभे छिद्रमातनोत् । पुस्तकानां सहस्राणि तन्मध्ये च समैक्षत ॥ ७०॥ एकं पुस्तकमादाय पत्रमेकं ततः प्रभुः। विवृत्य वाचयामास तदीयामोलिमेककाम् ॥ ७१ ॥ सुवर्णसिद्धियोगं स तत्र प्रेक्षत विस्मितः। सर्षपैः सुभटानां च निष्पत्तिश्लोक एकके ॥ ७२॥ सावधानः पुरो यावद्वाचयत्येष हर्षभूः। तत्पत्रं पुस्तकं चाथ जहे श्रीशासनामरी ॥७३॥ तापूर्वगतग्रन्थवाचने नास्ति योग्यता। सत्वहानिर्यतः कालदौस्थ्यादेतादृशामपि ॥७४॥ स पूर्वदेशपर्य्यन्ते व्यहार्षीञ्च परेद्यवि । कर्मारनगरं प्राप विद्यायुगयुतः सुधीः ॥ ७५ ॥ देवपालनरेन्द्रोऽस्ति तत्र विख्यातविक्रमः। श्रीसिद्धसेनसूरिं स नंतुमभ्याययौ रयात् ॥ ७६ ॥ आक्षेपण्यादिधर्माख्याचतुष्टयवशात्प्रभुः।
तं प्रत्यबोधयत्सख्ये चास्थापयदिलापतिम् ॥ ७७॥ १J H omit this stanza. २J H तत्र. ३J H तत्प्रीत्यर्थीत्यमीमिलन्. ४ P विवृत्ति.