________________
९४
प्रभावक
इत्युक्तेपि यदात्रैव स नौज्झद्विग्रहाग्रहम् । ओमित्युक्त्वा तदा सूरिगोपान् सभ्यान् व्यधात्तदा ॥ ४४ ॥ सिद्धसेनः प्रागवादीत् सर्वज्ञो नास्ति निश्चयः । यः प्रत्यक्षानुमानाद्यैः प्रमाणैर्नोपलभ्यते ॥ ४५ ॥ नभःकुसुमदृष्टांतादित्युक्त्वा व्यरमच्च सः । उवाच वृद्धवादी च गोपान् सांत्वनपूर्वकम् ॥ ४६ ॥ भवद्भिरेतदुक्तं भो किमप्यधिगतं नवा । ते प्राहुः पारसीकाभमव्यक्तं बुद्ध्यते कथम् ॥ ४७ ॥ वृद्धवाद्याह भो गोपा ज्ञातमेतद्वचो मया । जिनो नास्तीत्यसौ जल्पे तत्सत्यं वदतात्र भोः ॥ ४८ ॥ भवद्रामे वीतरागः सर्वशोस्ति न वा ततः । आडुस्तेऽस्य वचो मिथ्या जैनचैत्ये जिने सति ॥ ४९ ॥ नचानवतेष्वत्रादरो द्विजवचस्तुनः । सूरिराह पुनर्विप्र तथ्यां शृणु गिरं मम ॥ ५० ॥ मनीषातिशयस्तारतम्यं विश्राम्यति क्वचित् । अस्ति चातिशयेयत्तापरिमाणेष्विव स्फुटम् ॥ ५१ ॥ लघौ गुरुतरे वापि परमाणौ वियत्यपि । प्रज्ञाया अवधिर्ज्ञानं केवलं सिद्धमेव तत् ॥ ५२ ॥ ज्ञानं गुणस्तदाधारो द्रव्यं किंचिद्विचित्यताम् । योऽसौ स एव सर्वज्ञ एषाभूत्सिद्धिरस्य च ॥ ५३ ॥ ईदृग्वाचां प्रपंचेन जिग्येऽसौ वृद्धवादिना । ब्राह्मणः पण्डितंमन्यस्तस्य कास्था ह्यमूदृशाम् ॥ ५४ ॥ हर्षाश्रुलुतनेत्रश्च सिद्धसेनोप्यभाषत । प्रभो त्वमेव सर्वज्ञः पूर्वः सत्यो जिंनस्त्वया ॥ ५५ ॥ शिष्यत्वेनानुमन्यस्व मां प्रतिज्ञातपूर्विणम् । समर्थो नोत्तरं दातुं यस्य तस्यास्मि शैक्षकः ॥ ५६ ॥ अदीक्षयत जैनेन विधिना तमुपस्थितम् । नाम्ना कुमुदचन्द्रश्च स चक्रे वृद्धवादिना ॥ ५७ ॥ आशु चाशुगवत्तीक्ष्णप्रवरप्रतिभाभरात् । पारदृश्वा तदा कालसिद्धान्तस्य स चाभवत् ॥ ५८ ॥ तृतीयपरमेष्ठित्वे गुरुभिर्विदधे मुदा । पुरा ख्याताभिधैवास्य तथाच प्रकटीकृता ॥ ५९ ॥ तन्निधाय गणाधारे विज स्वयमन्यतः । शिप्रभावो दूरस्थैर्गुरुभिर्वीक्ष्यते यतः
१ P. निश्चितम् . २J H. सर्वः ३ JH. ज्झित ५ P तदा. ६ J-H. निक्षिप्तभारो.
६०॥
४P - कुसुम चन्द्र०.