________________
श्रीवृद्धवादिप्रबन्धः। इत्याकर्ण्य समुत्तस्थौ देवताया गिरं गिरः । ददर्श मुशलं प्राप्तः कस्यापि गृहिणो गृहे ॥ २८॥ पूर्वोक्तयतिसोत्प्रासवाक्यश्रुत्यपमानतः।
प्राह श्लोकं श्रुतलोकप्रतिज्ञापरिपूर्तये ॥ २९॥ स चायं-अस्मादृशा अपि यदा भारति त्वत्प्रसादतः।
भवेयुवादिनः प्राज्ञा मुशलं पुष्यतां ततः॥३०॥ इत्युक्त्वा प्राशुकैर्नीरैः सिषेच मुशलं मुनिः।
सद्यः पल्लवितं पुष्पैर्युक्तं तारैर्यथा नभः॥ ३१ ॥ तथा-मुंगोः शृंगं शक्रयष्टिप्रमाणं
शीतो वह्निर्मारुतो निष्पकंपः। ... यद्वा यस्मै रोचते तन्न किंचित् ।
वृद्धो वादी भाषते कः किमाहः॥ ३२॥ इति प्रतिज्ञयैवास्य तदा कालीयवादिनः। . हताः पराहतप्रज्ञाः कांदिशीका इवाभवन् ॥ ३३॥ ततः सूरिपदे चक्रे गुरुभिर्गुरुवत्सलैः। वर्द्धिष्णवो गुणा अर्था इव पात्रे नियोजिताः ॥ ३४॥ प्रवयावादमुद्राभृद्यतः ख्यातो जगत्यपि । सान्वयीं वृद्धवादीति प्रसिद्धि प्राप स प्रभुः॥३५॥ श्रीजैनशासनांभोजवनभासनभास्करः। अस्तं श्रीस्कंदिलाचार्यः प्राप प्रायोपवेशनात् ॥ ३६॥ वृद्धवादिप्रभुर्गच्छाचलोद्धारादिकच्छपः।। विजहार विशालायां शालायां गुणसंततेः ॥ ३७॥ तदा श्रीविक्रमादित्यभूपालः पालितावनिः । दारियांधतमोभारसंभारेऽभवदंशुमान् ॥ ३८ ॥ श्रीकात्यायनगोत्रीयो देवर्षिब्राह्मणांगजः । देवश्रीकुक्षिभूर्विद्वान् सिद्धसेन इति श्रुतः॥३९॥ तत्रायात्सर्वशास्त्रार्थपारंगममतिस्थितिः। अन्येद्युर्मिलितः श्रीमदृद्धवादिप्रभोः स च ॥ ४० ॥ अद्य श्वो वृद्धवादीह विद्यते मुनिनाथवा । इति पृष्टः स एवाह सोहमेवास्मि लक्षय ॥४१॥ विद्वद्गोष्ठीमहं प्रेप्सुरित्यतोत्रैव जल्प्यते । संकल्पो मे चिरस्थायी सखे संपूर्यते यथा ॥ ४२ ॥ न गम्यते कथं विद्वन् पर्षदि स्वांततुष्टये । संप्राप्तौ शातकुंभस्य पित्तलांको जिघृक्षति ॥४३॥
१P श्लोक.