________________
: प्रभावकचरिते. इत्युचिवांसमेनं तेन्वगृह्णन् जैनदीक्षया । त्वरैव श्रेयसिश्रेष्ठा विलम्बो विघ्नुकद्भवम् ॥१२॥ त्रिभिर्विशषेकम्
अपरेधुर्विहारेण लाटमंडलमंडनम् । प्रापुः श्रीभृगुकच्छं ते रेवासेवापवित्रितम् ॥ १३॥ श्रुतपाठमहाघोषैरंबरं प्रतिशब्दयन् । मुकुंदर्षिः समुद्रोमिध्वानसापत्यदुःखदः ॥ १४ ॥ भृशं स्वाध्यायमभ्यस्यन्नयं निद्राप्रमादिनः। विनिद्रयति वृद्धत्वादाग्रहीसन्नहर्निशम् ॥१५॥ युग्मम् यतिरेको युवा तस्मै शिक्षामक्षामधीर्ददौ। मुने विनिद्रता हिंस्रा जीवभूतद्रुहो यतः॥ १६ ॥ तस्माद्ध्यानमयं साधु विधेयाभ्यंतरं तपः।
अर्हः संकोचितुं साधो वाग्योगो निर्ध्वनिक्षणे ॥ १७ ॥ इति श्रुत्वापि जीर्णत्वोदितजाड्यचयान्वितः।। नावधारयते शिक्षा तथैवाघोषति स्फुटम् ॥ १८ ॥ त्रिभिविशेषकम्
तारुण्योचितया सूक्त्या करणासूयया ततः। अनगारेः खरां वाचमाददे नादरार्दितः ॥ १९ ॥ अजानन्वयसोंतं यदुग्रपाठादार्दितः। फुल्लयिष्यसि तन्मल्लीवल्लीवन् मुशलं कथम् ॥२०॥ इति श्रुत्वा विषेदेऽसौ जरञ्चारित्रकुंजरः। दध्यौ च मे धिगुत्पत्ति ज्ञानावरणदूषिताम् ॥२१॥ तत आराधयिष्यामि भारतीदेवतामहम् ।। अथोग्रतपसा सत्यं यथासूयावचो भवेत् ॥ २२ ॥ इति ध्यात्वा नालिकेरवसत्याख्यजिनालये। सकलां भारती देवीमाराडमुपचक्रमे ॥ २३ ॥ चतुर्धाहारमाधारं शरीरस्य दृढव्रतः।। प्रत्याख्याय स्फुरद्ध्यानवह्निनिद्भुतजाड्यभीः॥२४॥ गलद्विकल्पकालुष्यशुद्धधीः समताश्रयः।
निष्प्रपतनुय॑स्तदृष्टिमूर्तिपदाम्बुजे ॥२५॥ मुहूर्तमिव तत्रास्थादिनानामेकविंशतिम् । सत्त्वतुष्टा ततः साक्षाद्भूत्वा देवी तमब्रवीत् ॥२६॥ त्रिभिर्विशेषकम्
समुत्तिष्ठ प्रसन्नास्मि पूर्यन्तां ते मनोरथाः।
स्खलना न तवेच्छास्तु तद्विधेहि निजेहितम् ॥ २७॥ १P धेह्या०. २ P. वाचमाददर्शार्दतः. ३J H सांतं. ४ P. पाठदरा. ५JH-श्रुत्वा.