________________
श्रीवृद्धवादिप्रबन्धः ।
९१ नित्यं स्मरंतु विबुधा अवधानधीरा
नंद्याच्च सूरिगरिमस्फुरणैकहेतुः ॥ २०१॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा- चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ शंगोऽगमत् सप्तमः
प्रद्युम्नप्रभुशोधितः सुचरितं श्रीजीवदेवप्रभोः॥ २०२॥ वाग्दारियप्रमथननंदमनोरतिलतादृढाधारः।
सुमनःप्रसरोल्लासश्रीमत्प्रद्युम्नकल्पतरोः ॥ २०३ ॥ इति श्रीजीवसूरिप्रबंधः॥ ग्रं २०७ उभयं १४९३ अ०॥२॥
श्रीवृद्धवादिप्रबन्धः सारसारस्वतश्रोतःपारावारसमश्रिये । वृद्धवादिमुनीन्द्राय नमः शमदमोमये ॥१॥ सिद्धसेनोऽवतु स्वामी विश्वनिस्तारकत्वकृत् । ईशहृद्भेदकं दधे योऽर्हब्रह्ममयं महः ॥२॥ कलिकालाऽचलप्लोषदम्भोलिकलयोस्तयोः। चरित्रं चित्रचारित्रामौत्रं प्रस्तावयाम्यहम् ॥३॥ पारिजातोऽपारिजातो जैनशासननंदने । सर्वश्रुतानुयोगार्हकंदकंदलनाम्बुदः॥४॥ विद्याधरवरानाये चिन्तामणिरिवेष्टदः। आसीच्छ्रीस्कंदिलाचार्यः पादलिप्तप्रभोःकुले ॥५॥ युग्मम् असंख्यशिष्यमाणिक्यरोहणाचलचूलिका । अन्यदा गौडदेशेषु विजढे स मुनीश्वरः ॥६॥ तत्रास्ति कोशलाग्रामसंवासा विप्रपुंगवः। मुकुंदाभिधया साक्षान्मुकुंद इव सत्वतः॥७॥ प्रसंगादमिलत्तेषां बाह्यावनिविहारिणांम् । सर्वस्य सर्वकार्येषु जागर्ति भवितव्यता ॥ ८॥ तेभ्यश्च शुश्रुवे धर्मः शर्मदः प्राणिनां दया। सुकरः संयमारूढेरतिवैराग्यरंगितैः॥९॥ स प्राह कारिताकार्यैरनार्यैर्दुर्जनैरिव । चित्रैरिव भ्रमिभ्राग्निर्विषयैर्मुषितोऽस्म्यहम् ॥१०॥ तेभ्यस्त्रायस्व निःसंगस्वामिन् विध्वस्तशात्रव।।
पलायनेपि मां क्लीवं विश्रसावैशसध्रुतम् (१) ॥११॥ १JH स्मरणे को हेतुः. २JH omit this. ३ P त्रामस्तं. ४JH-द्भुताम् (?).