________________
प्रभावकचरिते
विधायाराधनां दध्युः परमेष्ठिनमस्कृताः ॥ १८४॥ निरुध्य पवनं मूर्धा मुक्त्वा प्राणान् गुणाब्धयः। वैमानिकसुरावासं तेऽतिश्रियमशिश्रियन् ॥१८५ ॥ लब्धलक्षस्ततो दंडमुदंडं परिगृह्य सः। कपालं चूर्णयामास यथाकारोपि नेष्यते ॥ १८६ ॥ लोकशोकोत्सवोन्मुद्रशब्दाद्वैते भवत्यथ । शिबिकास्थं गुरुवपुर्गीतार्था अवहंत तत् ॥ १८७ ॥ योगी डमरुकध्वानभैरवस्तत्र चाययौ । क एष पुरुषोऽतीत इत्यप्रच्छश्च तं जनम्॥ १८८॥ प्रधानब्राह्मणश्चैकः पुरस्तस्येत्यथावदत्। क्लिन्नश्मश्रूणि सोशूणि विमुंचन गद्गदखरम् ॥ १८९ ॥ वायोरिवापरामूर्तिीवदेवो मुनीश्वरः । महास्थानधरोद्धारवराहो दिवमीयिवान् ॥ १९०॥ श्रुत्वा स कपटात् शोकं बिभ्रद्वक्षो विघातयन् । विधायोर्जितपूत्कारं रोदनं भृशमब्रवीत् ॥ १९१॥ एकदा भो मदीशस्य वकं दर्शयताधुना । अन्यथा स्वशिरोघातं कृत्वा त्यक्षाम्यसून ध्रुवम् ॥ १९२॥ तत्र प्रवर्तकोऽवोचन्मुच्यतां शिविकां भुवि । प्रभोमित्रमसौ योगी दृष्वास्यं जीवताद्धनम् ॥ १९३ ॥ विमुक्ते याप्ययाने च प्रकाशे तन्मुखे कृते । चूर्णितं तच दृष्ट्वासौ हस्तौ घृष्ट्वाब्रवीदिति ॥ १९४॥ एकखंडं कपालं श्रीविक्रमादित्यभूपतेः। ममाचार्यस्य चास्य स्यात्पुण्यपूरुषलक्षणम् ॥ १९५॥ करे मेऽस्य कपालं चेदारोक्ष्यन्मे मनोरथाः। अपूरिष्यंत किं कुर्मो नाभाग्यैः प्राप्यमीदृशम् ॥ १९६ ॥ जीवता च मृतेनापि सख्याहं घृष्ट एव यत् । मर्येषु स पुमानको येनाहं स्वमतेर्जितः ॥ १९७॥ परं तथापि लोकोऽस्य संस्कारे मां दिशत्वसौ । ममाप्यद्य विभागोऽस्तु पुण्यस्यागण्यसौहृदात् ॥ १९८ ॥ एवं कृते च स व्योमात्रानयन्मलयाचलात् । श्रीखंडागुरुकाष्ठानि विदधेऽगं च भस्मसात् ॥ १९९ ॥ अद्यापि तत्प्रभावेण तस्य वंशे कलानिधिः । भवेत्प्रभावकः सूरिरमराभः स्वतेजसा ॥ २० ॥ इत्थं चरित्रमधिगम्य महाप्रभावं
श्रीजीवदेवसुगुरोर्दुरितापहारि ।