________________
श्रीजीवसूरिप्रबन्धः। प्रतिष्ठितो न वाचार्यः सौवणमुर्पवीतकम् ।। परिधाप्याभिषेक्तव्यो ब्राह्मणैर्ब्रह्ममन्दिरे ॥ १६८॥ इत्यभ्युपगते तैश्च लल्लः सहुरुपादयोः। निर्वेश्य मौलिमाचख्यौ महास्थानं समुद्धर ॥ १६९ ॥ श्रीजीवदेवसूरिश्च प्राहोपशमवमितः । कालत्रयेपि नास्माकं रोषतोषौ जनद्विषौ ॥१७॥ प्रत्यूहव्यूहयातिभ्यः परं शासनदेवताः। इदानीमपि ता एव भलिष्यन्ति मम स्मृतेः॥१७१ ॥ इत्युक्त्वातर्मठं ध्यानासने संस्थाय सूरयः । निगृह्य रेचकं कुंभकेन नासाग्रदृष्टयः ॥ १७२ ॥ तस्थुर्मुहूर्त्तमात्रेण तावद्गौब्रह्मवेश्मतः। उत्थाय चरणप्राणं कुर्वती निर्जगाम सा ॥ १७३ ॥ कौतुकादृश्यमानासौ हर्षोत्तालद्विजवजैः। पुरो बाह्यप्रदेशोळ निरालंबा अपद्रुतम् ॥ १७४ ॥ आस्थानं पुनराजग्मुर्गुरवो गुरवो गुणैः । वेदोदिताभिराशीभिर्विप्रैश्चक्रे जयध्वनिः ॥ १७५॥ ततःप्रभृति सौदर्यसंबंधादिव वायटे। स्थापितस्तैरिह स्नेहो जैनैरद्यापि वर्त्तते ॥ १७६ ॥ विजह्वरन्यतः पूज्या ज्ञात्वा कालं तु ते पुनः। स्वस्थानमागमन् योग्यं शिष्यं पट्टे न्यवीविशन् ॥ १७७॥ स्वयं सर्वपरित्यागं कृत्वा धृत्वार्जवे मैनः। ददुः शिक्षां गणस्याथ नवसूरेश्च सूरयः ॥ १७८॥ गच्छेप्रवर्तकस्याथादेशं राहँस्थिकं ददुः। योगी प्रतिहतोऽस्माभिर्यः पुरा सिद्ध एव सः॥१७९ ॥ अनेकसिद्धिसंयुक्त एकखंडकपालवान् । अस्माकं निधनं ज्ञात्वा स चागन्तात्र निश्चितम् ॥ १८०॥ अप्यस्माकं कपालं चेत् सैष प्राप्स्यत्यधर्मधीः। शासनस्योपसर्गास्तद्विधास्यति तथाविधान् ॥ १८१॥ ततः स्नेहं परित्यज्य निर्जीवेऽस्मत्कलेवरे। कपालं चूर्णयध्वं चेत्तत्र स्यान्निरुपद्रवम् ॥ १८२॥ इहाथै मामकीनाज्ञापालनं ते कुलीनता ।। एतत्कार्य ध्रुवं कार्य जिनशासनरक्षणे ॥ १८३ ॥
इति शिक्षा प्रदायास्मै प्रत्याख्यानविधि व्यधुः। १JH. न्यः. २P. जवे गतः. ३J पर्वतक. ४H P राहस्मिकं. ५JH. विचिंताथ.