________________
प्रभावकचारते
प्रणिपत्य प्रपद्यतां तं तथ्यं पुरुषं रयात् । अपारोऽयं हि चिंताब्धिस्तेन पोतेन तीर्यते॥१५१॥ युग्मम् ।। अन्ये प्राहुः स्फुरदंभैर्युष्मड्डिभैर्विरोषितः । अहर्निशं प्रसत्तिं स भवतां भजतां कथम् ॥ १५२ ॥ कृतानुपद्रवानित्थं प्राकृतोऽपि न मृष्यति । किममानुषसामों जैनर्षिर्मूर्तिमान् विधिः ॥ १५३ ॥ एकेऽवोचन् तथाप्यस्योपरोधः क्रियतेऽधुना। उत्तमप्रकृतिर्यस्मात्प्रणामाद्वैरमुज्झति ॥ १५४ ॥ एवमेकमतीभूय द्वेधा श्रीवीरमन्दिरे । भूमिदेवा ययुः पूज्यास्थानं धार्मिकमंडितम् ॥ १५५ ॥ योजयित्वाथ ते प्रोचुर्ललाटे करसंपुटम् । अवधारय वाचं नो मनानामार्तिपंजरे ॥ १५६॥ वायुर्नाम सुरः पूर्व स्थानमेतन्यवीविशत् । तत्तुल्यजीवदेवाख्यावशतः सारतस्तव ॥१५७ ॥ ततोऽस्य व्यसने प्राप्ते बटुकूटापराधतः । प्रतिकतुं तवैवास्य बलो नान्यस्य भूतले ॥१५८॥ ततस्तदवतारस्त्वं पालयापालय प्रभो। स्थानं स्वयशसः स्थानं जीवदानं ददख नः ॥ १५९ ॥ खस्य नामान्तरस्थस्य प्रतिभूत्वं यदीच्छसि। तद्रक्ष्य तेऽन्यथाभावि स्थिरमस्थैर्यदुर्यशः ॥ १६० ॥ सूरो श्रुत्वेति तूष्णीके लल्लः फुल्लयशा जगौ। मद्विशप्तिं द्विजा यूयमेकां शृणुत सूनृताम् ॥ १६१ ॥ विरक्तोऽहं भवद्धर्मादृष्ट्वा जीववधं ततः। अस्मिन् धर्मे दयामूले लग्नो ज्ञातात्स्वकीन्ननु ॥ १६२ ॥ जैनेष्वसूयया यूयमुपद्रवपरंपराम् । विधत्त प्रतिमल्लः कस्तत्र वः स्वल्पशत्रवः ॥ १६३ ॥ मर्यादामिह कांचिच्चेत् यूयं दर्शयत स्थिराम्। तदहं पूज्यपादेभ्यः किंचित्प्रतिविधापये ॥ १६४ ॥ अथ प्रोचुः प्रधानास्ते त्वं युक्तं प्रोक्तवानसि । समः कः क्षमयामीषां दुर्वारेऽस्मदुपद्रवे ॥ १६५॥ खरुच्या सांप्रतं जैनधर्मे सततमुत्सवान् । कुर्वतां धार्मिकाणां न कोपि विघ्नान् करिष्यति ॥ १६६॥ अस्तु च प्रथमो बूढः श्रीवीरव्रतिनां तथा ।
सदान्तरं न कर्त्तव्यं भूमिदेवैरतः परम् ॥ १६७॥ १ विराधितः. २ P प्रसर्ति. ३ JH. सूरे. ४ JH ज्ञातां स्वकानतु. ५JH प्रस्तुव प्रथमौ वंटाः.