________________
श्रीजीवसूरिप्रबन्धः ।
ब्राह्मे मुहूर्त उत्थाय यतयो यावदङ्गणे । पश्यंति तां मृतां चेतस्यकस्माद्विस्मयावहाम् ॥ १३५ ॥ निवेदिते गुरूणां च चित्रेऽस्मिन्नरतिप्रदे | अचिन्त्यशक्तयस्ते च नाक्षुभ्यन् सिंहसन्निभाः ॥ १३६ ॥ मुनीन् मुक्त्वांगरक्षार्थ मठांतः पट्टसन्निधौ । अमानुषप्रचारेऽत्र ध्यानं भेजुः स्वयं शुभम् ॥ १३७ ॥ अन्तर्मुहूर्तमात्रेण सा धेनुः स्वयमुत्थिता । चेतना केतना चित्रहेतुश्चेत्याद्वहिर्ययौ ॥ १३८ ॥ पश्यंतस्तां च गच्छन्तीं प्रवीणब्राह्मणास्तदा । दध्युरध्युषिता रात्रौ मृता चैत्यात्कथं निरैत् ॥ १३९ ॥ नाणु कारणमत्रास्ति व्यसनं दृश्यते महत् । अबद्धा विप्रजातिर्यद् दुर्ग्रहा बटुमंडली ॥ १४० ॥ एवं विमृशतां तेषां गौर्ब्रह्मभवनोन्मुखी । खत्पदोदया पित्र्यस्नेहेनेव हृता ययौ ॥ १४१ ॥ यावत्तत्पूजकः प्रातर्द्वारमुद्घाटयत्यसौ । उत्सुका सुरभिर्ब्रह्मभवने तावदाविशत् ॥ १४२ ॥ खेटयन्तं बहिः शृङ्गयुगेनामुं प्रपात्य च । गर्भागारे प्रविश्यासौ ब्रह्ममूर्तेः पुरोऽपतत् ॥ १४३ ॥ तद्ध्यानं पारयामास जीवदेवप्रभुस्ततः । पूजको झल्लरीनादान्महास्थानममेलयत् ॥ १४४ ॥ विस्मिता ब्राह्मणाः सर्वे मतिमूढास्ततोऽवदन् । तदा दध्युरयं स्वप्नः सर्वेषां च मतिभ्रमः ॥ १४५ ॥ समकालमभूत्तत्कि गौर्मृता चलितापि च । तदप्यस्तु कथं ब्रह्मशालामाजग्मुषी स्वयम् ॥ १४६ ॥ दैवदुर्घटितस्यास्य शक्या नहि विचारणा । ज्योतिर्विदामपि ज्ञानादतीतं कार्यमागतम् ॥ १४७ ॥ अन्ये प्रोचुर्विचारः को बैटूनां दुर्नयांबुधेः । भृशमुल्लंघ्य मर्यादां स्थानमुत्पार्टेयिष्यति ॥ १४८ ॥ अन्यत्र स्थानमाधत्थ स्थानवासिद्विजव्रजाः । वायुनैव गता वायोः कीर्त्तिः स्थानाद्तो ध्रुवम् ॥ १४९ ॥ अपरे प्राहुरेको न उपायो व्यसने गुरौ । मृगेंद्र विक्रमं श्वेतांबरं चैत्यान्तरस्थितम् ॥ १५० ॥
१JH द्रुतं. २ P शृङ्गे. ३ P तद्या. ४ JH बहूनां ५ P पात. J H. अन्यवस्था० ......... । वायुनेव गता वायोः काग्निः स्थानादृतो ध्रुवम् H.