________________
प्रभावकचरिते
द्रव्याभावोद्भवा चिन्ता कार्या लल्ल नहि त्वया। द्रव्यं ते तदधिष्ठाभ्यः पूरयिष्यन्ति पुष्कलम् ॥ ११८ ॥ उत्कीलने समारब्धे निशि शुश्रुविरे स्वराः। नोत्कील्यमित्यविज्ञाते निपतन्त्यत्र लोष्टकाः ॥ ११९॥ पुनराख्यापिते वंद्यपादाध्यानमपूरयत् । देवाहाने कृते तत्र देवी साक्षादथाह तान् ॥ १२० ॥ कन्यकुब्जमहीभर्तुर्महिता दुहिता ह्यहम् । स्वीये सुखादिकादेशे तिष्ठन्ती गूर्जराभिधे ॥ १२१ ॥ म्लेच्छभंगभयादत्र कूपेऽहं न्यपतं तदा । अभूवं भूम्यधिष्ठात्री मृत्वा स्वं चास्ति मे बहु ॥ १२२ ।। ततः स्वांगास्थिशल्यानि नानुमन्ये विकर्षितुम् । ममाननुमतौ कोपि किंचित्कर्तुं नहि प्रभुः॥१२३ ॥ धर्मस्थानेषु पूज्यत्वं वारये प्रभवस्ततः। एनामन्वनयन् शांता ततोऽमीषां वचोऽमृतैः ॥ १२४ ॥ अवोचद्यदि मामत्राधिष्ठात्री कुरुताधुना। तव्यसहिताभूमिधर्मस्थानाय गृह्यताम् ॥ १२५ ॥ गुरुभिः प्रतिपन्ने च चैत्ये निर्वर्तिते वरे। तदेव कुलिकां तस्या योग्यां पृथगचीकरन् ॥१२६ ॥ आख्या भवनदेवीति कृता तस्यास्तदत्र च । अचिंत्यशक्तिरद्यापि पूजामाप्नोति धार्मिकैः ॥ १२७ ॥ अथ ललं द्विजा दृष्ट्रा जिनधम्मैकसादरम् । स्वभावं स्वमजानाना दधु नेषु मत्सरम् ॥ १२८ ॥ ततः संचरतां मार्गे साधूनां गोचरादिके। उद्वेगं ते प्रकुर्वन्ति गिरीणां वारणा इव ॥ १२९ ॥ इत्थमालोचिते तैश्च गुरुः प्राह क्षमावशात् । उपसर्गा विलीयन्ते रहस्यमिदमेव नः॥१३०॥ अन्यदा बटवः पापपटधः कटवो गिरा। आलोच्य सुरभि कांचिदंचन्मृत्युदशास्थिताम् ॥ १३१॥ उत्पोद्योत्पाद्य चरणानिशायां तां भृशं कृशाम् । श्रीमहावीरचैत्यांतस्तदा प्रावेशयन् हठात्॥१३२॥ युग्मम् । गतप्राणां च तां मत्वा बहिः स्थित्वातिहर्षतः। ते प्राहुरत्र विज्ञेयं जनानां वैभवं महत् ॥१३३॥ वीक्ष्यः प्रातर्विनोदोऽयं श्वेतांबरविडंबकः।
इत्थं च कौतुकाविष्टास्तस्थुर्देवकुलादिके ॥ १३४ ॥ १P न्. J_H omit पापपा ( ट ) वः. २ P उत्पाद्यचरणानिशा..