________________
श्रीजीवसूरिप्रबन्धः। श्रुत्वेति स प्रपेदेऽथ स सम्यक्तां व्रतावलीम् । धर्म चतुर्विधं ज्ञात्वा समाचरदहर्निशम् ॥ १०१॥ आह चैष प्रभो किंचिदवधारयताधुना। द्रव्यलक्षस्य संकल्पो विहितः सूर्यपर्वणि ॥१०२ ।। तदर्धं व्ययितं धर्माभासे वेदस्मृतीक्षिते । कथमर्द्ध मया शेषं व्यपनीयं तदादिश ॥ १०३॥ मम चेतसि पूज्यानां दत्तं बहुफलं भवेत् । तद्गहीत प्रभो यूयं यथेच्छं दत्त वादरात् ॥ १०४॥ अथाहुर्गुरवो निष्किञ्चनानां नो धनादिके । स्पर्शोपि नोचितो यस्माद्वक्तव्यं किंनु संग्रहे ॥ १०५॥ चिन्तां भवांस्तु माकार्षीत् श्वः संध्यासमये तव । प्रक्षालितैकपादस्य प्राभृतं यत्प्रढोकते ॥१०६॥ समीपे नस्तदा नेयं कथयिष्यामहे तव ।। श्रुत्वेति सदनं सोऽगाद्विमृशन् स्वगुरोर्वचः ॥ १०७॥ परेह्नि चोक्तवेलायां कश्चिद्वर्द्धकिरानयत् । तां शय्यापालिकां नो या भूपस्यापि परिग्रहे ॥ १०८ ॥ स्मरन् गुरुवचः श्रेष्ठी तेन सार्द्धमुपाश्रये । गत्वा व्यजिशपत्पूज्यं पुरतो विस्मयोन्मुखः ॥ १०९ ॥ प्रभवः पुनरागत्य वासान्निक्षिप्य धूर्वहौ । तदाधिवासयामासुरादिशंश्चेति तं स्फुटम् ॥ ११० ॥ धुरंधराविमौ यत्र प्रयान्तौ तिष्ठतः स्वयम् । तत्र जैनालयं रम्यं द्रव्येणानेन कारय ॥ १११ ॥
ओमिति प्रतिपद्याथ धौरेयौ मुंचतिस्म सः । मुत्कलौ जग्मतुर्गामे पिप्पलानकनामनि ॥११२ ॥ तत्रावकरदेशेऽथ स्थितौ न चलतस्ततः।। ग्रामाधिपतिरेतस्य गौरवाद्भूमिमार्पयत् ॥ ११३ ॥ तत्र कर्मान्तरे सूत्रधारे द्राग् विहिते सति । शिखरं मण्डपं प्रासादस्य संपूर्णतामगात् ॥ ११४ । अवधूतः पुमान् कश्चिदपरेधुः समाययौ । दृष्ट्रा प्रसादमाधत्त प्रशंसा घ्राणकूणकः॥११५॥ जनैस्तद्दूषणं पृष्टे जगाद प्रकटं स च।। स्त्रियोऽस्थिशल्यमत्रास्ति विश्वदूषणशेखरः॥ ११६॥ विज्ञापिते च पूज्यानां मानयित्वा च तेऽदिशन् ।
उत्कील्य शल्यमाधाय चैत्यमारभ्यतां पुनः॥११७॥ १ P.- रानयन्. २ P.- पिष्पला०. ३ JH- कपटं. ४ P- स्तिशेल्य. ५JH. शेखर.