________________
प्रभावकचरिते
अध्वर्युराह च श्रेष्ठिन् नहि दोषोस्ति कश्चन । सुमंत्रसंस्कृते वह्नौ पतितः पुण्यवानहिः ॥ ८४ ॥ यतोऽत्र ज्वलने मृत्वा हिंस्रजीवा महांहसः। प्रामुयुर्देवभूयं ते समानुष्यमथ ध्रुवम् ॥ ८५ ॥ तत्प्रत्युतोपकारोयं विदधे बटुनामुना। अतोऽल्पमपि नैव त्वं संतापं कर्तुमर्हसि ॥ ८६ ॥ कृपालुरास्तिकश्चेत्त्वं प्रायश्चित्तं ततः कुरु । सौवर्ण द्विगुणं तस्मादहिं देहि द्विजवजे ॥ ८७॥ तादेशादसौ सर्प क्षिप्रं हैममचीकरत्। मंत्रस्तं संस्कृतं दृष्ट्वा छेदकाले तमब्रवीत् ॥ ८८ ॥ पूर्वस्य फणिनो हिंसापापेऽसौ कारितो मया। एतद्वधेऽपरः कार्योऽनवस्थापद्यतात्र तत् ॥ ८९ ॥ ततोऽहं नावगच्छामि धर्ममेनं कथं मृषा। विप्लावयत मां तस्माद्विसृष्टं सकलं मया ॥९॥ वह्निविध्यापितः कुण्डमुवृत्तं प्रेषिता द्विजाः। शान्ते भैरेयमाहात्म्ये न कोऽप्यसदृशं चरेत् ॥९१॥ ततःप्रभृत्यसौ धर्मदर्शनानि समीक्षते। भिक्षायै तगृहे प्राप्तं खेताम्बरमुनिद्वयम् ॥१२॥ अन्नं संस्कृत्य चारित्रपात्राणां यच्छत ध्रुवम् । अमीषां ते ततः प्रोचुर्नास्माकं कल्पते हि तत् ॥९३॥ पृथिव्यापस्तथा वह्निर्वायुः सो वनस्पतिः। त्रसाश्च यत्र हन्यन्ते कार्ये नस्तन्न गृह्यते ॥ ९४॥ अथ चिन्तयति श्रेष्ठी वितृष्णत्वादहो अमी। निर्ममा निरहङ्काराः सदा शीतलचेतसः ॥९५॥ ततोऽवददसौ धर्म निवेदयत मे स्फुटम् । ऊचतुस्तौ प्रभुश्चैत्ये स्थितस्तं कथयिष्यति ॥ ९६॥ इत्युक्त्वा गतयोः स्थानं स्वं तयोरपरेऽहनि । ययौ लल्लः प्रभोः पार्वे चक्रे धर्मानुयोजनम् ॥९७॥ ते च प्राहुर्दया धर्मः सर्वशो देवता जिनः। महाव्रतधरो धीरो गुरुव॑स्तान्तरद्विषन् ॥ ९८॥ रागाद्यंकाश्रयो देवो गुरुश्च सपरिग्रहः। धर्मश्च पशुहिंसाभिरेष मिथ्याभ्रमो महान् ॥ ९९॥ तस्मात्परीक्षया धर्म प्रतिपद्यस्व धार्मिक । परीक्षापूर्वकं टंकाद्यपि युष्माभिरिष्यते ॥ १००॥
१ J_H. तत्रादे० २ JHस्पृष्टं