________________
श्रीजीवसूरिप्रबन्धः। सम्यक् भीतस्ततः सोपि प्राह नीरेण सिच्यताम् । अस्याः शिरस्ततो यातु निजं स्थानमनाकुला ॥ ६८॥ तथा कृते च तैः साध्वी तत्र साभूत्सचेतना । आगत्य च निजं स्थानं सा बाला लोचनां ललौ॥६९॥ भीतभीतः पलाय्यासौ योगी देशान्तरं ययौ । तादृशां किं वराकाणां गम्या गुरव ईदृशाः ॥ ७०॥ इतः श्रीविक्रमादित्यः शास्त्यवन्तीं नराधिपः। अनृणां पृथिवीं कुर्वन् प्रवर्तयति वत्सरम् ॥ ७१ ॥ वापटे प्रेषितोऽमात्यो लिम्बाख्यस्तेन भूभुजा । जनानृण्याय जीर्ण चापश्यच्छ्रीवीरधाम तत् ॥ ७२ ॥ उद्दधार स्ववंशेन निजेन सह मन्दिरम् । अर्हतस्तत्र सौवर्णकुम्भदण्डध्वजालिभृत् ॥ ७३॥ संवत्सरे प्रवृत्ते स षट्सु वर्षेषु पूर्वतः। गतेषु सप्तमस्यान्तः प्रतिष्ठां ध्वजकुम्भयोः॥ ७४॥ श्रीजीवदेवसूरिभ्यस्तेभ्यस्तत्र व्यधापयन् । अद्याप्यभङ्गं तत्तीर्थममूदृग्भिः प्रतिष्ठितम् ॥ ७५ ॥ इतश्चास्ति महास्थाने प्रधानो नैगमव्रजे। दारियारिजये मल्लःश्रेष्टी लल्लः कलानिधिः॥ ७६॥ महामाहेश्वरः कोटिसंख्यद्रव्येण भास्वरः । महादानं मुदा सोऽदात् सूर्यग्रहणपर्वणि ॥ ७॥ तथा होमं समारब्धवतानेन द्विजोत्तमाः। ऋत्विजो यायजूकाश्चाहूता अध्वरदीक्षिताः ॥ ७८॥ तानभ्यर्च्य महाभक्त्या वेदविद्याविशारदान् । प्रावर्यंत ततो होमः प्रौढमंत्रस्वरोर्जितः ॥ ७९ ॥ तत्र कुण्डोपकण्ठेहिस्तदूर्ध्वस्थाम्लिकाद्रुमात् । धूमाकुलाक्षियुग्मोसौ फटत्फटिति चापतत् ॥ ८०॥ आदातुमेष भोगीन्द्रः स्वयमागत आहुतीः।। वाचालेषु द्विजेष्वेवं कोपि वह्नौ तमक्षिपत् ॥ ८१ ॥ जाज्वल्यमानमुद्वीक्ष्य यजमानः सुधीश्च तान् । कृपया कम्पमानाङ्गः प्राह किं दुष्कृतं कृतम् ॥ ८२॥ जीवन् पश्चेन्द्रियो जीवः स्फुटं दृश्यः सचेतनः। सहसैव ज्वलद्वह्नौ क्षिप्यते धर्म एष कः॥८३॥
१H.-डे. २ P.- तो लिंबालिबाख्य० ३ P.-सवंशे "समन्दिरम्. ४ P-कुम्भं. ५ J_H.-मल: जयेमल्लः ६P.-महादासोदान्सूर्य ७JH- मोहसमा० ८ P H.-न्त.