________________
प्रभावकचरिते वाचकस्य रसज्ञां चास्तम्भयन् मौनवान् स च । अभूत्तदं(दि)गितैतिं गुरुणा योगिकर्म तत् ॥५२॥ खशत्त्या वाचने शक्तं खं विनेयं विधाय च । अमुंचत्समये व्याख्यामव्याकुलमनाः प्रभुः ॥५३ ।। तस्य पर्यस्तिकाभूमावासनं वज्रलेपवत् । तस्थौ यथा तथा तस्य प्रस्तरेणेव निर्मितम् ॥५४॥ ततोऽवददसौ कृत्वा करसंपुटयोजनम् । अलीकप्रणिपातेन महाशक्ते विमुञ्च माम् ॥ ५५ ॥ . अपि श्रद्धालुभिः कैश्चिद्विशप्तः कृपया प्रभुः। मुक्तोऽगात्तेन कः शक्तः कुञ्जरेणेक्षुभक्षणे ॥५६॥ प्रेभुर्त्यषेधयत्तत्र साधुसाध्वीकदम्बकम् । उदीच्यां दिशि गच्छन्तं स्वीकृतायां कुयोगिना॥५७॥ धर्मकर्मनियोगेन साध्वीयुगमगात्ततः। तत्र कासारसेतौ च तिष्ठन् योगी ददर्श तत् ॥ ५८॥ अथ सन्मुखमागत्य लाघवाल्लाघवाश्रयः। एकस्या मूर्ध्नि चूर्णञ्च किश्चिश्चिक्षेप निष्कृपः॥ ५९॥ तस्य सा पृष्ठतो गत्वा पाखें निविविशे त्त(त)तः। वृद्धयोक्ता न चायाति धिक्कष्टं पूज्यलंघनम् ॥ ६०॥ साश्रुरागत्य सूरीणां तद्वत्तं व्यजिज्ञपत् । मा विषादं भलिप्यामः कार्येत्रेति प्रभुर्जगौ ॥६१॥ ततः कुशमयं तत्र पुत्रकं ते समार्पयन् । चतुर्णी श्रावकाणां च शिक्षित्वा तेप्यथो ययुः ॥ ६२॥ निर्गत्य च बहिश्चैत्याच्छित्वा तस्य कनिष्ठिकाम् । तत्पार्श्वगाः करं तस्य ददृशुस्ते निरङ्गुलिम् ॥ ६३॥ पृष्ठे कस्मादिदं जातमकस्मादिति सोऽवदत्। ऊचे तैर्मुच्यतां साध्वी बहुप्रत्यूहकारिणी ॥ ६४॥ अमानयति तां वाचं तत्र ते पुत्रकाङ्गुलिम् । द्वितीयां पश्यतस्तस्याश्छिन्दन् साप्यत्रुद्भुतम् ॥ ६५ ॥ अथाभ्यधुर्दण्डसाध्या नीचास्तत्कृपयाङ्गुली। तव छिन्ना शिरश्चैवं छिनमश्चेत्त्वकं कुतः॥६६॥ मुष्च साध्वी न चेत्पाप छेत्स्यामस्तव मस्तकम् । न जानासि परे स्वे वा शक्त्यंतरमचेतन ॥ ६७ ॥
.१JH अनीकप्रतिपातेन. २JH शमिन. ३ P निषे० ४JE. खाचरागत्य सा तद्वृत्तं व्यजिज्ञपत् । ५ J H श्रावि० ६P पृष्टै.