________________
- श्रीजीवसूरिप्रबन्धः।
८१ एकः शुश्रूषितस्थालीवृन्दे भोज्यविधिः कृतः। सामान्यो मध्यमस्थानेष्वपरः प्रेचरः पुनः॥३६॥ दिग्वासाः पूर्वमायातो द्वेधाप्यस्याथ दर्शितः। अमत्रनिकरो रम्यभाण्डस्थस्तेन चाहतः ॥ ३७॥ यावदृष्टः कोऽसौ शीतो दग्धो विसंस्कृतिः । सविकारं मुखं बिभ्रदपश्यन् मातरं तदा ॥ ३८॥ तथा द्वितीयपुत्रस्य साधुयुग्मं समागमत् । प्रदर्य भोज्ययुग्मं च जननी प्राह हर्षतः ॥ ३९॥ अनयो रुचितं यद्वस्तद्गृहीतेति जल्पिते । विमृश्य पाहतुः साधू ग्राह्यं नः शुद्धमेव तत् ॥४०॥ आधाकर्मिकदोषे च संदिग्धे कल्पते न तत् । अपि यमनादायागातां तौ मुनिसत्तमौ ॥४१॥ अथ प्राह सवित्री च सवित्री धर्मकर्मणः । सुतं दिगम्बराचार्य दृष्टं भ्रातृव्रतं त्वया ॥ ४२ ॥ बही रम्ये शुभाभ्यासे रक्तानामल्पकं फलम् । आहार इव धर्मेपि ध्यात्वेति स्वरुचिं कुरु ॥४३॥ प्रतिबुद्धो जनन्या स वाग्भिर्बन्धोश्च सन्मतिः । भास्वान् प्रपद्यतेस्मैष महसे निर्मलाम्बरम् ॥ ४४ ॥ श्रीरासीलप्रभोः पार्श्वे दीक्षाशिक्षाक्रमोदयः। जैनागमरहस्यानि जानन् गीतार्थतां ययौ ॥४५॥ अन्यदा सद्गुरुयोग्यं बन्धुपट्टे न्यवीविशत् । .. श्रीजीवदेव इत्याख्याविख्यातः सहुरुर्बभौ ॥ ४६ ॥. यतिपञ्चशतीरूपपरिवारविराजितः। आन्तरद्वेषिनि:पेषनिस्त्रिंशः सयोपि सन् ॥ ४७ ॥ व्याख्यां कुर्वन्नुदग्रश्रीः श्रीवीरभवनेऽन्यदा । योगिना भोगिना दृष्टिविषेणेवेक्षितो गुरुः ॥ ४८ ॥ युग्मम् । दध्यौ स च महातेजाः सकलो धवलाम्बरः।। सार्वभौम इवाभाति जनेऽस्मिन् विस्मयं दधत् ॥४९॥ प्राकृतोपद्रवे शक्तिर्या सा कामेऽस्य चेदिह । विदधे किमपि क्षुणमक्षूणं तदहं पुमान् ॥ ५० ॥ विमृश्यति सभामध्यमध्यासीनः खलीलया।
लीलयावध्यपर्यंकमुपाविशदिलातले ॥ ५१ ॥ १P omits प्रचरः २J H-बोधो० ३ JH-सीतोदग्ध्यो. ४ P. प्रदर्श. ५ JHgead व ददर्श for जननी. ६J H यद्दत्त० ७ Pाह तुः (१) ८P यागतां० ९J H-धर्मो० १० P-राशिल....