________________
प्रभावकचरिते
शाखानुगतनाम्नासौ श्रीरासिं (शि) लगुरुस्ततः। विद्याविनोदतः कालं गच्छन्तमपि वेद न ॥२०॥ महीपालस्तथा तस्य बन्धू राजगृहे पुरे। प्रापद्दिगम्बराचार्य श्रुतकीर्तिमिति श्रुतम् ॥ २१ ॥ प्रतिबोध्य व्रतं तस्य ददौ नाम च स प्रभुः। सुवर्णकीर्तिरिति तं निजाश्चाशिक्षयक्रियाम् ॥२२॥ श्रुतकीर्तिगुरुस्तस्यान्यदा निजपदं ददौ। श्रीमदप्रतिचक्राया विद्यां च धरणार्चिताम् ॥ २३ ॥ परकायप्रवेशस्य कलां चासुलभां कलौ । भाग्यसिद्धां प्रभुः प्रादात्तादृग्योगो हि तादृशः॥२४॥ तत्पुरागतवाणिज्यकृद्भ्यो शात्वा जैनन्यथ । जगाम मिलनायास्य भर्तरि त्रिदिवं गते ॥ २५ ॥ मिलितास्तस्य तद्गृौर्मानिता मान्यतानिधिः । जननीदृग्गुरो रत्नखानिवत्कस्य नाहिता ॥ २६ ॥ तीर्थकृद्धर्मतत्त्वानामविवादेपि काञ्चन । समाचारभिदां दृष्ट्वा निज एव सुतद्वये ॥२७॥ अवदत् शंकिता वत्स जैने धर्मेपि वोऽन्तरम् । श्वेताम्बरोतिनिष्ठाभूदृष्टीयं निःपरिग्रहः ॥ २८ ॥ किश्चिद्भवान् सुखी पूजालोलो बहुपरिग्रहः। तन्मे शंस कथं सिद्धिः प्राप्यते व्यापृतैर्जनैः॥२९॥ ततस्त्वं पूर्वजस्थाने समागच्छ मया सह। यथोभौं भ्रातरौ धर्म संविचार्यार्यसम्मतम् ॥ ३०॥ शास्त्रैः प्रमाणसिद्धान्तैर्बुध्येयमितरेतराम् । तदेकमतिको भूत्वा धर्मे स्थापयतं हि माम् ॥ ३१ ॥ स मातुरुपरोधेन विजहे वायटे पुरे। नाशिक्याविव तौ तत्राभिन्नरूपौ च संगतौ ॥ ३२ ॥ आचार्यो किल सोय्र्यो श्वेताम्बरदिगम्बरौ । खवाचारं तथा तत्त्वविचारं प्रोचतुःस्फुटम् ॥३३॥ दिग्वासा निर्मामाभासः सद्रतः श्वेतवाससा। अपि प्रौढवचः शक्तिर्बोधितः शोधितांहसा ॥ ३८॥ तावन्यदा सवित्र्या च भिक्षावृत्त्यै निमन्त्रिती।
महाभक्त्या तदाचारदर्शनार्थ च किञ्चन ॥ ३५॥ _-१-P ल०.२ P-ग्योग्या हि. ३ P-जनस्य घ. ४ JH-सुतद्वयोः ५JH omit-दन्. ६P-तौ० ७ P बुध्येथा० ८ JH ०डे. SP नाशक्या०. 'नासत्याविव' इति स्यात्,