________________
श्रीजीवसूरिप्रबन्धः। लवित्रं जाड्यकक्षस्य वहितं पापवारिधेः । धवित्रं दुःखधर्मस्य चरित्रं तस्य कीर्त्यते ॥४॥ जगत्प्राणः पुरा देवो जगत्प्राणप्रदायकः। स्वयं सदानवस्थानः स्थानमिच्छन् जगत्यसौ ॥५॥ वायटौख्यं महास्थानं गूर्जरावनिमण्डनम् ।। ददौ श्रीभूमिदेवेभ्यो ब्रह्मभ्य इव मूर्तिभिः ॥६॥ युग्मम् । शालातालाकसंबन्धनिवेशेन तदा मरुत् । निदधे ब्रह्मशालायां चैत्ये च परमेष्ठिनम् ॥७॥ मलयाद्रौ यथा सर्वे चन्दनन्ति महीरुहः। ब्राह्मणा वणिजश्चात्र तथासन् बाँयटाख्यया ॥ ८॥ अभूजातिः स्फुरजातिपुष्पसौरभनिर्भरा। सरसालिभिराराध्या तन्नाम्ना सर्वमूर्द्धगा ॥९॥ धर्मदेवः श्रियां धर्मश्रेष्ठी तत्रास्ति विश्रुतः। साक्षाद्धमे इव न्यायार्जितद्रव्यप्रदानतः॥१०॥ शीलभूस्तस्य कान्तास्ति नाम्ना शीलवती यया । आनन्दिवचसा नित्यं जीयन्ते चन्द्रचन्दनाः॥११॥ तयोः पुत्रावुभावास्तां श्रेयःकर्मसु कर्मठौ। महीधरमहीपालाभिधाभ्यां विश्रुताविति ॥१२॥ महीपालोप्यभूत्कर्मदोषाहेशान्तरभ्रमी । महीधरश्च सौभ्रात्रस्नेहाद्वैराग्यवानभूत् ॥१३॥ तत्रास्ति जंगम तीर्थ जिनदत्तः प्रभुः पुरा। संसारवारिधेः सेतुः केतुः कामाद्यरिबजे ॥ १४ ॥ संप्राप्य सूत्रधारं यं सत्काष्ठात्कर्षसंघटम्। संपूर्णसिद्धिसौधस्य मध्यसाध्या समाश्रिताः॥१५॥ अन्यदा तं प्रभुं नत्वा भवोद्विग्नो महीधरः। बंधोर्विरहवैराग्यात् प्रार्थयज्जैनसंगमम् ॥१६॥ योग्यं विज्ञाय तं तस्य पितरौ परिपृच्छय च । प्रव्रज्यां प्रददौ सूरिरभाग्यालभ्यसेवनः ॥ १७ ॥ गुरुशिक्षा द्विधादायानेकविद्याब्धिपारगः। अतिप्रशावलः सोऽभूदभूमिः परवादिनाम् ॥ १८ ॥ भववारिधिनिस्तारपोताभं भविनां भुवि । तं शिष्यं स्वपदे न्यस्य गुरुः प्रेत्य श्रियोऽभजत् ॥ १९ ॥
१JH-सदासव० २ J H-जयत्यसौ. ३ JH-बायडा० ४ JHमण्डलम्. ५JH-नाम् । ६ JH-वायडा. ७ JH omit केतुः. ८JH-सत्काष्ठान्०. ९ P मध्यासनाश्रितः.