________________
७८
प्रभावकचरिते
एकादशसु समानां लक्षेषु विंशजिनसिद्धेः । पञ्चाशीतिसहस्त्रीषट्शत षडशीतिसहितेषु ॥ १३५ ॥ जीर्णमुपजिह्निकाभिर्जर्जरकाष्ठं चिरेण तज्जज्ञे । पुनरुद्द ग्रावभिरंबड इव राणकः श्रीमान् ॥ १३६ ॥ श्रीविजयसिंहसूरिर्जिनसमयद्रोणिकर्णधारकलः । आयुः प्रान्तेऽनशनं पुनर्गृह्य दैवीं भुवं प्राप ॥ १३७ ॥ अद्यापि तस्य वंशे प्रभावकाः सूरयः समुदयन्ते । यत्तेजःप्रसरेण प्रसर्पता शासनं जयति ॥ १३८ ॥ इत्थं प्रभोर्विजयसिंहमुनीश्वरस्य वृत्तं पवित्रमतिदुष्कर मल्पसत्वैः । अश्वावबोधवरतीर्थचरित्ररम्यं
वृत्तेन चातिशयचारु सुदर्शनायाः ॥ १३९ ॥ अम्बासुरीवरचरित्रपवित्रमत्र
संघस्य पुष्टिकरमद्भुतमुन्नतायाः । अभ्यस्यमानमतुलं प्रकटप्रभावं
भूयात्समस्तजिनशासनवैभवाय ॥ १४० ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितः शृङ्गोऽजायत षष्ठ एष गुटिकासिद्धस्य वृत्तं प्रभोः ॥ १४१ ॥ इति श्रीविजयसिंहसूरिप्रबन्धः ॥ ग्रंथानं १७९ ॥ अ० ७ ॥ उभयं १२८७ । अक्षर ॥ १८ ॥
श्रीजीवसूरिप्रबन्धः
अर्हद्ब्रह्मस्थगोः प्राणोल्लासेनं चरणोदयम् । विदधे स ददातु श्रीजीवदेवप्रभुः श्रियः ॥ १ ॥ निजप्राणैः परप्राणान् पूर्वेपि खाङ्गदा दधुः । अक्षतो मृतजीवातुर्नापरो जीवदेववत् ॥ २ ॥ अद्य प्राचीनकालीयो मादृक्षस्तस्य वर्णने । परं मां मुखरं कर्तुं तद्भक्तेर्नापरः प्रभुः ॥ ३ ॥
H-श्रीविजयसिंह
१ J -श्रीविजयसिंहसूरीश्वरराज्ये चरितं नाम. ॥ सूरिचरितं नाम ॥ २J H - अर्हद्रह्मस्थगोः । प्राणोल्लासेन चरणोल्लासेन चरणो• दयम् । ३ P जीवजीवातु. ४J H - परमं मुखरं.