________________
श्रीविजयसिंहसूरिप्रबन्धः ।
सूरिरथ तीर्थयात्रां विधाय चायात्तदा भृगुक्षेत्रे । संघप्रवेश मुख्यैर्महोत्सवैस्तं समर्चयत ॥ १२० ॥ अन्येद्युरंकुलेश्वरनगरात् प्रबलेन पवनवेगेन । जाज्वल्यमान उच्चैर्वशः प्रेकटः प्राप तन्नगरे ॥ १२१ ॥ अर्चिर्वलयपरिप्लुतः सदनापणहर्म्यचैत्यकोटीषु । अनलः प्रससार तदा सागर इव मुक्तमर्यादः ॥ १२२ ॥ प्रथमकवले तृणावृतगृहाणि कावेल्लकावृतानि तथा । मध्याहारे किल कुट्टिमानि तृप्त्यर्थमस्यासन् ॥ १२३ ॥ दंदह्यमानमानुषपशुखचराक्रन्दभैरवारावम् । शारदगर्जितरवोऽसौ बधिरितर्वियदनिल उत्पेदे ॥ १२४ ॥ भस्मीकृतं समस्तनगरं तेनेह दहनरूपेण । समवर्तिना सगोपुर दुर्गाररियंत्रपरिकरितम् ॥ १२५ ॥ उपशान्ते नियतिवशादनुपक्रमसाध्य ईदृगुपसर्गे । श्रीमुनिसुव्रतचैत्यं काष्ठमयं भस्मसात्तदभूत् ॥ १२६ ॥ पाषाणपित्तलामयदेवप्रतिमा विशीर्णसर्वाङ्गाः । अभवन् सुव्रतबिंबं तस्थावेकं तु सदवयवम् ॥ १२७ ॥ विश्वप्रकाशरूपा दीहेग्नेरस्य ननु नवा मृत्स्ना । समराङ्गण इव मर्दितवीरे स्थैर्यस्थिते पुंसि ॥ १२८ ॥ अथ विजयसिंहसूरिगुटिकां वदने निधाय सत्पात्रम् । हस्ते कृत्वा तीर्थोद्धाराय स गोचरं व्यचरत् ॥ १२९ ॥ एत्य ब्राह्मणवेश्मसु पूर्वमगाद्धर्मलाभवक्ताऽसौ । श्री मुनिसुव्रतचैत्योद्धारे भिक्षां प्रयाचे च ॥ १३० ॥ पञ्चाशत्कोपि शतं द्विशतीं वा कोपि जातरूपस्य । प्रददौ तस्य महर्षेः पञ्चसहस्रास्तदाभूवन् ॥ १३१ ॥ अष्टमहासिद्धिभृतस्तस्यासाभ्यो धनागमो नैव । चारित्रधनं रक्षन्नादत्तादत्तमिह भगवान् ॥ १३२ ॥ पुनरुददीधरदाशु प्रधानदारुवजेन सूत्रभृता । वर्द्धरितेने तदा चक्रीवाह्नाय जिनसा ॥ १३३ ॥ तत्करवासप्रभवप्रभावतस्तन्न समदहद्वह्निः ।
अमृतनिधौ तन्मन्त्रे न प्रभवति किन्तु विध्यति ॥ १३४ ॥
७७
१ J H मुखै. २ JH वैशकटं नाम ३ P ° परिप्लुतसदना ४JH कवे० ५ P गर्जिरिवा० ६ P दनल उत्पेते. ७ P समस्तं नगरं तेनेह नमररूपेण । J H दनुक्रम्यस्पर्ध्य० ९ P •मयदेवा विविशीर्ण • १• JH दाहाग्नेरस्य न तु भविमृत्स्नाः ११JH ०रत्रेन० १२ P विध्यानि ।