________________
प्रभावकचरिते
परिपक्रिमफलढुंबी क्षुधातुरः प्रार्थयामास ॥ १०३ ॥ तामस्य चार्पयित्वा श्रीनेमिस्मरणमथ विधायैषा । झम्पापातं चके तस्माच्छिखरात्मपुत्रापि ॥ १०४॥ श्रीनेमितीर्थनाथस्मृतिवशतो दैवतर्द्धिमाप तदा । विस्मृतकोपाटोपो विप्रोपि प्रापदनुतापम् ॥ १०५॥ अकथितवार्ता निलये सोप्यस्या आनुपदिकतां प्राप्य । आरूढो रैवतके सहकारं रैवतं चाप ॥ १०६॥ तत्रितयमृति मत्वा हत्यादोषी कथं नु जीवामि। आकूणितगन्धर्श प्रदश्यमानोऽङ्गुलीभिरहम् ॥१०७॥ तस्मान्ममापि मृत्युः श्लाघ्योत्रैवार्हतापवित्रेऽद्रौ। योऽमीषां सा मे स्यादतिरपरैः प्रलपितैः किंतु ॥ १०८ ॥ एवं विचिन्त्य पेते तत्रैवानेन भैरवे भयदे । लेभे तद्वाहनता सिंहतया व्यन्तरीभूय ॥ १०९॥ साम्बादेवी नेमिनाथतीर्थेऽत्र भक्तियुक्तानाम् । साहाय्यं कुर्वाणा तत्र गिरौ विद्यतेऽद्यापि ॥ ११०॥ अथ विजयसिंहसूरिस्तत्राष्टाङ्गप्रणाममाधाय । विहिततीर्थोपवासस्तीर्थेशं तुष्टुवे सुष्टु ॥ १११ ॥ निरुपमचारित्रनिधिं तत्र प्रेक्ष्यामुमंबिका देवी। क्षणदायां प्रत्यक्षीभूत्वा प्रणनाम तत्पादौ ॥ ११२॥ अम्बा त्वं द्विजपत्नी पतिपरिभूता जिनाघिसरसिरुहम् । स्मृत्वा सुरत्वमाप्ता त्वामनु पतिरपि च तादृगभूत् ॥ ११॥ तस्येति वचः श्रुत्वा हृष्टावादीत्समादिशत किंचित् । ते प्राहुरनीहानां कार्य किमपि नास्ति शुभे ॥ ११४ ॥ सा निःस्पृहत्वतुष्टा विशेषतस्तानुवाच बहुमानात् । गुटिकां गृह्णीत विभो चिन्तितकार्यस्य सिद्धिकरीम् ॥११५ ॥ चक्षुरदृश्यो गगनेचरश्च रूपान्तराणि कर्ता च । कवितालब्धिप्रकटो विषहृद्बद्धस्य मोक्षकरः॥ ११६॥ भवति जनो गुरुलघुतां प्रपद्यते खेच्छया तथावश्यम् । अनया मुखे निहितया विकृष्टया तदनु सहजतनुः ॥ ११७॥ सुगुरोरनिच्छतोपि हि हस्ते मुक्त्वा तिरोधे च सुरी। वदने तां न्यस्य प्राक श्रीनेमिस्तवममुं चक्रे ॥ ११८ ॥ 'नेमिः समाहितधियामित्यादिभिरमरवाक्यसंकाशैः। _ काव्यैरस्तौच्छ्रीमन्नेमिस्तुतिरस्ति साऽद्यापि ॥ ११९ ॥
१J F तामुवा०. २JH श्रीनेमिः. ३ JH काव्यैरस्तौच्छ्रीनेमि.