________________
७५
श्रीविजयसिंहसूरिप्रबन्धः । अन्येद्युः शत्रुञ्जयरैवतकप्रभृतितीर्थमुख्येषु । तीर्थाधिपान् प्रणन्तुं व्यहरत्कृतसंयमोद्धारः ॥ ८७॥ समगस्त सुराष्टायां शनैस्ततः प्राप रैवतकशैले। तं चारुरोह तीर्थस्वामिध्यानैकलीनमनाः ॥ ८८॥ श्रीमन्नेमिनाथतीर्थे शासनरक्षाविचक्षणा देवी।
श्रीमत्पद्माभिधया प्रस्तावात्कथ्यते तदाख्यानम् ॥ ८९॥ तच्चेदं-काश्यपरोपितनगरे कासहदाख्ये समस्तभूदेवः।
श्रीसर्वदेवनामा वेदचतुष्कस्य पारगतः॥९०॥ तस्यास्ति सत्यदेवीत्याख्या वरवल्लभा सतीरत्नम् । पुत्री च तयोरम्बादेवीनाम्नी सुकृतिमौलिः ॥ ९१ ॥ यौवनसंप्राप्तां तामावृणोदेतिथिश्च कोटिनगरीयः। कुलशीलरूपचारुः स सोमभट्टाख्यया विदितः॥९२॥ उद्वाह्य च वनगरे जगाम राजा जनाभिरामां ताम् । उत्सवतो निजगेहं प्राविक्षत्परिहृतक्लेशः ॥ ९३॥ एवं गच्छति काले पुत्रद्वयमजनि वृजिनमुक्तायाः। पूर्वो विभाकराख्यः शुभंकरो नामतोऽन्यश्च ॥ ९४॥ तत्र श्रीनेमिजिनान्तेवासी सुधर्मसूरीणाम् । मुनियुगलं तद्वेश्मनि भिक्षायै विशदवृत्तमगात् ॥९५॥ अम्बादेव्यपि निर्मलमनसा शुद्धं समस्तमप्यन्नम्। दानविधिविहितहर्षा व्यजीहरद्वासनैकविधिः ॥९६॥ प्रहितौ प्रणम्य साधू तावत् प्रायाच्च सोमभट्टश्च । कृतवैश्वदेवकृत्यं विना कथं रसवती स्पृष्टा ॥९७॥ इत्यपराधोद्भावनपूर्व दुर्वचनसंहतिमवादीत् । ताममुखविकारां च प्रजहार खरं चपेटाभिः ॥९८॥ गृहमानुषैश्च सामोचितानुकम्पावशात्ततो वनिता। अपमानान्निरगच्छन्पुत्रावादाय सा गेहात् ॥ ९९ ॥ आरोहयदथ कट्यां लघु तथा चांगुलिं प्रसह्य गुरुम् । व्यमृशजिनमुनिदाने वरयित्वाहं पराभूता ॥ १००॥ तस्मात्स एव मार्गः शरणं भवतु जैनविधिविशदः । श्रीरैवतगिरिमभि सा मानारूढा ययौ त्वरितम् ॥ १०१ ॥ क्षुधिता तृषिता श्रान्ता पुनरुच्छ्रितमारुरोह गिरिराजम् । ध्यात्वेति सुकृतकामा प्रणनामारिष्टनेमिजिनम् ॥ १०२॥ चैत्यान्निर्गत्य ततो विश्रान्तां चूततरुतले तनुजः।
१ श्री नेमि. २ P-मनृणो. ३ J H-न्तेवासिनी. ४J H मसुखविकार च जहार मुखं.