________________
७४
प्रभावकचरिते
अथ सा विदेहनन्दीश्वरादितीर्थेषु वन्दते प्रतिमाः। तीर्थकृतां श्रीसुव्रतपदकमलध्यानलयलीना ॥ ६९॥ श्रीवीरस्य पुरः साऽन्येधुर्नाद्यमुत्तमं विदधे । तत्र सुधर्माधीशः पप्रच्छ जिनं किमेतदिति ॥ ७० ॥ तत्पूर्वभवं सर्व सर्वशः प्रथयति स्म तत्पुरतः। अस्माश्च तृतीयजन्मन्येषा निर्वाणमेष्यति च ॥ ७१ ॥ एतत्सामर्थ्यवशाम्रगुपुरमेतन्न भंगमाप्नोति । अतिसुरभिपुष्पफलरम्यमेतदिह विजितपरनगरम् ॥ ७२॥ सकलकुसुमावचायं विचिन्वती प्रतिदिनं जिनाचार्यैः । परसुरपूजनविघ्नं विदधे संतापदं लोके ॥७३॥ श्रीसंघप्रार्थनया श्रीमत्कलहंससूरयस्तां च। आर्यसुहस्तिविनेया संस्तभ्य निवारयामासुः ॥ ७४॥ सम्प्रति राजा च पुनर्जीर्णोद्धारं चकार तीर्थस्मिन् । मिथ्यादृष्टिव्यन्तरवृन्दः तत्रोपससृजे च ॥ ७५ ॥ श्रीगुणसुन्दरशिष्यैर्निवारितास्ते च कालिकाचाय्यः । पञ्चाधिकविंशतियोजनान्तरा स्वभावेन ॥ ७६ ॥ श्रीसिद्धसेनसूरेर्दिवाकराद्बोधमाप्य तीर्थेस्मिन् । उद्धारं ननु विदधे राजा श्रीविक्रमादित्यः ॥ ७७ ॥ कालिकसूरिः प्रतिमां सुदर्शनाय व्यधापयद्यां प्राक् ॥ साकाशे गच्छन्ती निषेधिता सिद्धसेनेन ॥ ७८॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते ।। वर्षाणां समजायत श्रीमानाचार्यखपटगुरुः ॥ ७९ ॥ मिथ्यादृष्टिसुरेभ्यो येन तदा सुव्रतप्रभोस्तीर्थम् । मोचितमिह ताथागतमतस्थितेभ्यश्च वादिभ्यः ॥ ८०॥ श्रीवर्धमानसंवत्सरतो वत्सरशताष्टकेतिगते । पञ्चाधिकचत्वारिंशताधिके समजनि वलभ्याः॥ ८१ ॥ भंगस्तुरष्कविहितस्तस्मात्ते भृगुपुरं विनाशयितुम् । आगच्छन्तो देव्या निवारिताः श्रीसुदर्शनया ॥ ८२॥ श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तद्ध्यंतरांश्चापि ॥ ८३॥ श्रीसातवाहनाख्यो भूप इदं तीर्थमुद्दधार पुनः। श्रीपादलिप्तसूरिध्वजप्रतिष्ठां व्यधात्तत्र ॥ ८४ ॥ प्रत्यक्षीभूय तयोः पुरतो नाद्यं सुदर्शना विदधे । विंशतितमतीर्थेश्वरनिरवधिबहुमानशंगारा ॥ ८५॥ श्रीआर्यखपटवंशे सूरिः श्रीविजयसिंह इत्यासीत्। शमदमनियमतपस्याकमलाकमलोपमाकलितः॥८६॥