________________
श्रीविजयसिंहसूरिप्रबन्धः।
पञ्चपरमेष्ठिमंत्रं साश्राव्यत तत्र यामयुगलाभ्याम् । तत्तीर्थध्यानपरा परलोकं सा ततः समगात् ॥५२॥ अस्ति च सागरतीरे दक्षिणखण्डेऽथ सिंहलद्वीपः। राजात्र चन्द्रशेखरनामा कामाकृतिर्जने ॥ ५३॥ तस्यास्ति चन्द्रकान्ता रूपेण जितरतिप्रीतिः । शकुनिस्तदुहिताभूत्सुदर्शनेत्याख्यया विदिता ॥ ५४॥ अथ च जिनदासनामा भृगुपुरसाथैश्वरः प्रवहणेन । तत्रायासीद्भूपतिरथ तेन प्राभृतैर्ददृशे ॥ ५५॥ आयुर्वेदी च तदा नृपतेः श्लेष्मोपशामकं चूर्णम् । प्रदे तीव्रत्रिकटुकयुक्तं तल्लेश उत्पतितः ॥५६॥ तेन घ्राणगतेन द्रुतमायातं बलाञ्च वणिजोऽस्य । पञ्चपरमेष्ठिमंत्रः प्रोक्तोऽनेन प्रभावनिधिः॥ ५७॥ राजसुता तं श्रुत्वा मूच्छी प्राप्ता पुरातनं जन्म। सस्मार जनकपृष्टा प्राच्यं निजगाद निजवृत्तम् ॥ ५८॥ अत्याग्रहेण पितरं तत्तीर्थोत्कण्ठिता तदापृच्छत् । अप्रेषयति गुरौ सा प्रतिशुश्रावानशनमेव ॥ ५९ ॥ अतिवल्लभापि दुहिता प्रहिता जिनदासार्थवाहेन । आलिभिरष्टादशभिः पदातिभिः षोडशसहस्त्रैः॥ ६०॥ अष्टादशभिर्यानैः मणिकाञ्चनरजतमौक्तिकापूर्णैः। अष्टाभिः क किभिस्तथांगरक्षैश्च तत्संख्यैः ॥ ६१ ॥ सहसा सह साचालीदशेषपरिवारपरिवृताथ ततः। साप्रापराजपुत्री मासनोपोषिता तीर्थम् ॥६२॥त्रिभिर्विशेष कम् श्रीमुनिसुव्रतनाथं प्रणम्य तत्रोत्सवं च विधेऽसौ । तौ भानुभूषणमुनी प्रणनाम च सुकृतिमुकुटमणिः ॥६३॥ धनमानीतं सर्व ताभ्यां ढौकितवती कृतज्ञतया। निस्संगत्वादाभ्यां निषेधिता भवविरक्तत्वात् ॥ ६४ ॥ उद्दभ्रे सा चैत्यं जीर्ण तीर्थस्य कनकरत्नदलैः। श्रीशकुनिकाविहारः प्रसिद्धमिति नाम तस्याभूत् ॥ ६५ ॥ द्वादशवर्षाणि ततस्तत्त्वा दुस्तपतपोभरं प्रान्ते । विहितानशना मृत्वा दर्शनाख्या सुरी समभूत् ॥ ६२॥ देवीलक्षपरिवृता विद्यादेवीसखीत्वमापन्ना । सा पूर्वभवं स्मृत्वा सुरकुसुमैरर्चति स्म जिनम् ॥ ६७॥ अष्टादशवरसख्यस्तस्या दुर्गत्वमापुरत्र पुरे। जम्बूद्वीपसमानावासा भुवनेषु निवसन्त्यः ॥ ६८ ॥ १JH भवति (वि) रक्ताभूत. २ P [त्व
7