________________
प्रभावकचरिते सार्धद्वादशकोठ्यस्तेन सुवर्णस्य ववृषिरे तत्र । राजा पुरलोकश्च प्रबोधितो जैनवरधर्मे ॥ ३६ ॥ चामीकररत्नमयं श्रीमुनिसुव्रतविभोस्तदा चैत्यम्। माघस्य पूर्णिमास्यां सुकृती स स्थापयामास ॥ ३७॥ माघस्य सितप्रतिपदि विभुरागादश्वरत्नबोधाय । तस्यैव सिताष्टम्यां तुरङ्गःसुरलोकमायासीत् ॥ ३८॥ इति नर्मदातटेऽभूपृगुकच्छेऽश्वावबोध इति नाम्ना। तीर्थ समस्ततीर्थातिशायि पुण्यप्रवृत्तमदः ॥ ३९ ॥ श्रीसुव्रतनिर्वाणात् द्वादशसु ततः समासहस्रेषु । अधिकेषु द्वादशभिः पद्मश्चक्रीदमुद्दभ्रे ॥४०॥ हरिषेणचक्रवर्ती पुनरुद्धारं चकार दशमोऽस्य । एवं पञ्चवर्षलक्षा एकादश जग्मुरभ्यधिकाः ॥४१॥ षण्णवतिसहस्राब्दे रुद्धारशते च तत्र जातेऽस्य । सुदर्शनोत्पत्तिरथ प्रकीर्त्यते तदुपरि तदुद्धारः ॥४२॥ वैताढ्यपर्वतोपरि रथनूपुरचक्रवालनानिपुरे । राजा विजयरथोऽभूत्तत्कान्ता विजयमालेति ॥४३॥ विजयाथो तदुहिता तीर्थानां प्रणमनाय किल यान्ती। कुकुटसर्प पुरतोऽवतीर्णमालोकयामास ॥४४॥ अपशकुन इति पत्तिजनैरुपेक्षितवती प्रहण्यमानं सा। श्रीशान्तिनाथतीर्थ गत्वा च ननाम सा भावात् ॥४५॥ तत्र च विद्याचारणयतिनीर्यतनैकनिष्टचारित्रा। नत्वा जीववधस्योपेक्षया सानुतापाभूत् ॥ ४६॥ तत्कर्म तनूचके किश्चिदपान्ते स्वजीवितव्य॑स्य । निजगृहधनमोहार्तध्यानान्मृत्वाभवच्छकुनिः ॥४७॥ स व्यालो व्याधोऽभूत्ततोऽन्यदा मासि भाद्रपदसंज्ञे । बहुदिनवर्षोपशमे वटवृक्षस्था च सा क्षुधिता ॥४८॥ सप्तापत्यनिमित्तं स्वार्थ चाहारवीक्षिका शकुनिः । व्याधस्य तस्य गेहे चश्वा जगृहे पललखण्डम् ॥४९॥ युग्मम् उड़ीय चाऽन्तरिक्षे गच्छन्ती प्रणिहितेषुणा तेन । श्रीसुव्रतचैत्यपुरः पतिता कण्ठागतप्राणा ॥५०॥ तत्पुण्यतोऽथ भानुभूषण इति यतियुगं तत्रागात् । कृपया ताभ्यामाश्वासिता च पानीयसंसेकात् ॥५१॥ १P-शायिप्रवृत्तमंदः २P मोश्च. ३ P कुकुट, ४ P अशकुन ५ P पेक्षायां ६P दघांते खजीवितस्य.