________________
श्रीविजयसिंहसूरिप्रबन्धः ।
तस्य प्राक्कर्मवशात्क्षयनामा चान्यदाभवद्रोगः । निजधर्मत्यागादयसस्याभूत्तंनिजाः प्राहुः ॥ २० ॥ तस्यापि भावहानिर्व्याधिग्रस्तस्य संबभूव तदा । स्वकजनवचनैः कोपि प्रलुभ्यते न चटुपटुभिर्वा ॥ २१ ॥ पर्वण्युद्गयनाख्ये क्रियमाणे लिङ्गपूर्णमहे च । आह्रियमाणेषु तदा प्राज्येष्वाज्येषु कुतपेभ्यः ॥ २२ ॥ अध्वन्युज्झिततल्लेशसंगताः किल घृतेलिमा अमिताः । प्रत्यावृत्तः सागरपोतः सदयो निनिन्द तं धर्म्मम् ॥ २३ ॥ निःशूकैस्तैश्चतदा सयष्टिमुष्ट्यादिभिः प्रहतः । किंकरपादाघातैः क्षुण्णः स ददर्श सघृणमनाः ॥ २४ ॥ आर्त्तध्यानान्मृत्त्वा तिर्यग्गतिभवशतेषु विभ्रम्य । अश्वः समभूच्च भवानथ मे शृणु भवमहो पूर्वम् ॥ २५ ॥ अजनि पुरा चन्द्रपुरे श्रीवर्मा नरपतिः प्रथितकीर्तिः । आबोधि वीजलाभादहंभवे सप्तमे श्रीमान् ॥ २६ ॥ उक्तंचागमे-सिवकेउसोहम्मे कुबेरदत्तोसणं कुमारम्मि ।
सिरिवज्जकुंडलोवं भलोयकप्पं मिसिरिवम्मो ॥ २७ ॥ पाणयकप्पे मुणि सच्चउअतिछाहिवो भवे नवमे । इय संखेवो भणिउ विछसमयं अउबुछम् ॥ २८ ॥ व्यवहारी च भृगुपुरात् समुद्रदत्ताख्य आययौ तत्र । निःसंख्यपण्यपूरितयानं स्थानं समस्तलक्ष्मीणाम् ॥ २९ ॥ नृपतिस्तेन समैक्ष्यत तदर्पितप्राभृतैर्मुदितचित्तः । दानगुणादिस्वागत करणादेषोपि तमनुजग्राह ॥ ३० ॥ राज्ञः प्रसादवृद्धया साधोस्तदुचितविधानतश्चापि । सख्यमभूजिनधर्मे बोधश्चास्मादवनिपस्य ॥ ३१ ॥ सागरपोतेनापि तत्रायातेन तद्वयस्येन । मैत्री राज्ञः समजनि तद्बोधसमानबोधत्वात् ॥ ३२ ॥ अन्ते समाधिमरणात् प्राणतकल्पे नृपोऽभवद्देवः । सोऽहं तस्माच्युत्वा भरतक्षेत्रे नृपो जज्ञे ॥ ३३ ॥ इत्याकर्ण्यतुरङ्गः प्रभुकर्मकथां नृपेण सोऽनुमतः । सप्तदिनान्यनशनभृत् समाहितोऽगात्सहस्रारम् ॥ ३४ ॥ तत्र पुरन्दर सामानिकतां सप्तदशसागरायुरसौ । raamsafart प्राग्भवमस्मार्षीच्च तत्रस्थः ॥ ३५ ॥
७१
१ J H धर्म आगादयमस्या यशस्योभूत् इति स्यात्. २ P प्रलभ्यते. ३ J H बोधिश्ञ्चास्या. ४ P धर्म्मचा (त्त्वा) तू.