________________
प्रभावकचरिते
तीर्थमश्वावबोधं श्रीमेकलकन्यकातटे जयति । तत्र गुरुरसौ समभूत्तद्वृत्तान्तोऽपि वक्तव्यः ॥ ३ ॥ कनकगिरिशिखरसोदरतुङ्गप्राकारवलयपरिकलितम् । श्रीपुरमिति नाम्नासीत्पुरा पुरं सकलपुरमुकुटः ॥ ४ ॥ तस्य च बहिरुद्याने समवासार्थी द्वितीयजिननाथः । श्रीमानजितस्वामी तत्तीर्थं पूर्वमिति विदितम् ॥ ५ ॥ पश्चात्पुष्कलकालेऽतीते चन्द्रप्रभःप्रभुरवात्सीत् । उद्यान एतदीयनाम्ना च सरस्वतीपीठे ॥ ६ ॥ पुनरपि बहुकालेन क्षीणं तद्भृगुरिति प्रथितनामा । उदधे च महर्षिर्भृगुपुरमभवत्ततः प्रभृति ॥ ७ ॥ वंशे मेरुगिरीन्द्रे चन्द्रार्धमणिकिरणरज्जुविस्तारे । यत्कीर्तिवंशनटी नृत्यति विश्वेषु सभ्येषु ॥ ८ ॥ स नृपतिरिह जितशत्रुः शत्रुश्रेणीपतङ्गगणदीपः । कलिकाल कलुषताम सविघटनपटुरात्मविषयोऽभूत् ॥ ९ ॥ युग्मन् छागानां शतषट्कं त्रिन्यूनं सोऽन्यदा महीनाथः । विप्रोपदेशमासाद्य यज्ञविधये जुहाव भृशम् ॥ १० ॥ अन्त्ये दिने द्विजैस्तैरानाय्यन (थ्यत ) हो तुमत्र पट्टाश्वः । रेवादर्शनतोऽस्य च पूर्वभवः स्मृतिपथं प्राप्तः ॥ ११ ॥ अथ मुनिसुव्रतनाथस्तं सप्तिं पूर्वजन्मसुहृदम् । ज्ञात्वा निश्येकस्यामतीत्य गव्यूतिविंशशतम् ॥ १२ ॥ तस्य प्रबोधनार्थं तदा प्रतिष्ठाननामतो नगरात् । सिद्धिपुरे विश्रम्य क्षणमेकमुपाजगामात्र ॥ १३॥ कोटिकाभिधाने परिकरितस्त्रिंशता मुनिसहस्रैः । बाह्योद्याने समवासार्थी चूतद्रुमस्याधः ॥ १४॥ त्रिभिर्विशेषकम् । सर्वज्ञं तं मत्वा सम्प्राप्तस्तेन वाजिना सहितः । राजा गत्वा यज्ञफलं तदनु पप्रच्छ ॥ १५ ॥ अवदच्च जिनाधीशः प्राणिवधात्ते भवन्ति नरकफलाः । अश्वश्च साश्रुनेत्रः प्रभुदर्शनतस्तदा जज्ञे ॥ १६ ॥ जिनपतिरबोधयदमुं नृपतिसमक्षं यथा शृणु तुरङ्गेः । स्वंपूर्वभवं धीमन्नवधानपरश्च बुध्यस्व ॥ १७ ॥ प्रागत्र पुरेऽवासीत्समुद्रदत्ताख्यया वणिग्जैनः | तस्य च सागरपोतो मिथ्यादृष्टिः सुहृत्समभूत् ॥ १८ ॥ जीवाहिंसा मुख्ये समुद्रदत्तेन बोधितो धम्र्मे । स द्वादशव्रतधरः शनैश्च सुकृतेश्वरः समभूत् ॥ १९ ॥ १ JH रानाथतहोमत्र. २ P.
७०