________________
श्रीवृद्धवादिप्रबन्धः ।
इत्यादि-न्यायावतारसूत्रं च श्रीवीरस्तुतिमप्यथ । द्वात्रिंशच्छुोकमानाश्च त्रिंशदन्याः स्तुतीरपि ॥ १४३ ॥ ततश्चतुश्चत्वारिंशद्वृत्तां स्तुतिमसौ जगौ । कल्याणमन्दिरेत्यादि विख्यातां जिनशासने ॥ १४४ ॥ अस्य चैकादशं वृत्तं पठतोऽस्य समाययौ । धरणेंद्रो दृढा भक्तिर्न साध्यं तादृशां किमु ॥ १४५ ॥ शिवलिंगात्ततो धूमस्तत्प्रभावेण निर्ययौ । यथांधतमसस्तोमैर्मध्याह्नेपि निशाभवत् ॥ १४६ ॥ यथाविह्वलितो लोको नंष्टुमिच्छन् दिशो नहि । अंज्ञासीदाश्मनस्तंभभित्तिष्वास्फालितो भृशम् ॥ १४७ ॥ ततस्तत्कृपयेवास्माद् ज्वालामालौ विनिर्ययौ । मध्येसमुद्रमावर्त्तवृत्तिसंवर्त्तकोपमा ॥ १४८ ॥ ततश्च कौस्तुभस्येव पुरुषोत्तमहत्स्थिते । प्रभोः श्रीपार्श्वनाथस्य प्रतिमा प्रकटाभवत् ॥ १४९ ॥ ततः परमया भक्त्या स्तुत्वा नाथं प्रणस्य च । मुक्तात्मानो मी देवा मत्प्रणामं सहिष्णवः ॥ १५० ॥ प्रतिबोध्येति तं भूपं शासनस्य प्रभावना । व्यधीयत विशालायां प्रवेशद्युत्सवात्पुरि ॥ १५१ ॥ युग्मम् वत्सराणि ततः पंच संघोमुष्य मुमोच च ।
१०१
चक्रे च प्रकटं श्रीमत्सिद्धसेनदिवाकरम् ॥ १५२ ॥ शिवलिङ्गादुदैचत्र कियत्कालं फणावलिः । लोकोऽप्यर्चश्च तां पश्चान्मिथ्यात्वदृढरङ्गभूः ॥ १५३ ॥ एकदापृच्छय राजानं बलादप्रतिबद्धधीः । विजहार प्रभुस्तस्मात्संघकासारवारिजम् ॥ १५४ ॥ गीतार्थैर्यतिभिः सार्द्धं दक्षिणस्यां स संचरन् । भृगुकच्छपुरोपान्ते प्रादेशभुवमाप सः ॥ १५५ ॥ तत्रासन्नगरग्रामगोव्रजारक्षकास्तदा ।
सूरेः संमिलितास्तत्र धर्मश्रवणसस्पृहाः ॥ १५६ ॥ कुत्राप्यविस्मितानस्मान् यूयं प्रभर्यंतश्चिरम् । मार्गभ्रमश्रमायस्ताः किं ब्रूमः कल्मषापहम् ॥ १५७ ॥
J Homit अस्य समा. २ P अज्ञार्थाचाश्य न. ३ JH omit माला. ४ J H व्यधायत् विशालायां प्रवेशोत्सवात्पुरि. ५ P ततः श्रीपार्श्वनाथं च संघो मुमोच च insteed. ६ P शवलिंगादुदेवात्र कियत्कालार्चितं वलिः, लोकोऽव्यर्थकृतां. ७ P प्रश्नयनिस्थिरं.