________________
१०२
प्रभावकचरिते
ते प्रोचुराग्रहादत्र तरुच्छायासु विश्रमम् । विधाय धर्मव्याख्यानं दास्यामो गोरसानिव ॥ १५८ ॥ सूरयस्तत्सदभ्यस्तगीतं हुंबडकैस्तदा ।
भ्रान्त्वा भ्रान्त्वा ददानाश्च तालमानेन तालिकाः ॥ १५९ ॥ प्राकृतोपनिबन्धेन सद्यः सम्पाद्य रासकम् । ऊचुस्तत्प्रतिबोधार्थ तादृशामीदृगौचिती ॥ १६० ॥
तथाहि
न विमारिअर न विचोरिअइ पैरदारह संगु निवारिअइ । थोवाहविथोवंदाअर
वर्संणिदुगुडुगुजाइयइ ॥ १६१ ॥
तद्वाग्भिः प्रतिबुद्धास्ते तत्र ग्रामं न्यवेशयन् । धनधान्यादिसम्पूर्ण तत्तालारासिकाधिः ॥ १६२ ॥ अस्थापयंश्च तत्र श्रीनाभेयप्रतिमान्वितम् ।
अभ्रंलिहं जिनाधीशमन्दिरं सुरयस्तदा ॥ १६३ ॥ अचलस्थापनं तच्च तत्राद्यापि प्रणम्यते । भव्यैस्तादृक् प्रतिष्ठा हि शक्रेणापि न चाल्यते ॥ १६४ ॥ एवं प्रभावनां तत्र कृत्वा भृगुपुरं ययुः । तत्र श्रीबलमित्रस्य पुत्रो राजा धनंजयः ॥ १६५ ॥ भक्त्या चाभ्यर्हितास्तेनान्यदासावरिभिर्हतः । अवेष्टयत पुरं चैभिरमर्यादाम्बुधिप्रभैः ॥ १६६ ॥ भीतः स चाल्पसैन्यत्वात्प्रभुं शरणमाश्रयत् । तैलकूपेऽभिमंत्र्यासौ सर्षपप्रस्थमक्षिपत् ॥ १६७॥, ते सर्षपा नरीभूयासंख्याः कूपाद् विनिर्ययुः । तैः शत्रूणां बलं भग्नं हतास्ते परिपन्थिनः ॥ १६८ ॥ सिद्धसेन इति श्रेष्ठा तस्यासीत्सान्वयाभिधा । राजा तु तत्र वैराग्यात्तत्पार्श्वे व्रतमग्रहीत् ॥ १६९ ॥ एवं प्रभावनास्तत्र कुर्वतो दक्षिणापथे । प्रतिष्ठानपुरं प्रापुः प्राप्तरेखाः कविव्रजे ॥ १७० ॥ आयुः क्षयं परिज्ञाय तत्र प्रायोपवेशनात् । योग्यं शिष्यं पदे न्यस्य सिद्धसेनदिवाकरः ॥ १७१ ॥
१ J H० हावच. २ P विधाय धर्मं व्याख्यात दायासो गोरसामिव. JH सूक्ष्म for स्तत्स. ४ P अप्पु for संगु. ५ P थोबा थोबूंदाई अई. ६. P तनुसग्मिटुगुहुगुजाईइ. ७P ०र्ण तत्तालारासकच्छिधः । • P अवेष्टित.