SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीमल्लवादिप्रबन्धः । दिवं जगाम संघस्य ददानोऽनाथताव्यथाम् । तादृशां विरहे को न दुःखी यदि सचेतनः ॥ १७२ ॥ वैतालिको विशालायां ययौ कश्चित्ततः पुरात् । सिद्धश्रीत्यभिधानाया मिलितोसौ प्रभोः स्वसुः ॥ १७३॥ तत्राह स निरानन्दं पदद्वयमनुष्टुभः । उत्तरार्धे च सावादीत् स्वमतेरनुमानतः ॥ १७४ ॥ तथाहि - स्फुरन्ति वादिखद्योता साम्प्रतं दक्षिणापथे । नूनमस्तंगतो वादी सिद्धसेनो दिवाकरः ॥ १७५ ॥ साप सापायतां काये विमृश्यानशनं व्यधात् । गीतार्थविहिताराधनयासौ सद्गतिं ययौ ॥ १७६ ॥ प्रभोः श्रीपादलिप्तस्य वृद्धवादिगुरोस्तथा । श्रीविद्याधरवंशत्वनियामकमिहोच्यते ॥ १७७ ॥ संवत्सरशते पञ्चाशता श्रीविक्रमार्कतः । साग्रेजा कुटिनोद्धारे श्राद्धे न विहिते सतिं ॥ १७८ ॥ श्री रैवताद्रिमूर्धन्यश्रीनेमिभवनस्य च । वर्षाश्रस्तमठात्तत्र प्रशस्तेरिदमुद्धृतम् ॥ १७९ ॥ इत्थं पुराणकविनिर्मितशास्त्रमध्यादाकर्ण्य किंचिदुभयोरनयोश्चरित्रम् । श्रीवृद्धवादिकविवासवसिद्धसेन वादीन्द्रयोरुदितमस्तु धिये मुद्दे वा ॥ १८० ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा १०३ चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी प्रद्युम्नसूरीक्षितः शृङ्गोऽभूदमलोऽष्टमः सुचरितं श्रीवृद्धसिद्धाश्रितम्॥१८१ ॥ इति श्रीवृद्धवदिप्रबन्धः । ग्रन्थाः ॥ १९० ॥ उभयम् ॥ १६८९ ॥ श्रीमल्लवादिप्रबन्धः । सँ जयति हरिभद्रसूरिरुद्यन्मतिमदतारकभेदबद्धलक्षः । शरभ व शक्तिधिकृतारिगुरुवजलोदयदंगसंगतश्रीः ॥ १ ॥ १ P गे. २ P द्वा. ३P सत. ४J विधे P मुदेव. ५J Homit it ६J H १६८६ Pomits स.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy