________________
१०४
प्रभावकचरिते कुसुमविशिखमोहशत्रुपाथो
निधिनिधनाश्रयविश्रुतः प्रकामम् । स्थिरपरिचयगाढरूढमिथ्या_ ग्रहजलबालकशैलवृद्धिविनः॥२॥ जिनभटमुनिराजराज
कलशभवो हरिभ्रद्रसूरिसत्वैः। वरचरितमुदीरयेऽस्य बाल्या
दविगणयन्मतितानवं खकीयम् ॥ ३॥ युग्मम् इह निखिलकुहूकृतोपकारा
दहिमरुचिः शशिना निमश्रितो नु। रुचिरतररुचिप्रकाशिताशः
प्रभवति यत्र निशासु रत्नराशिः॥४॥ जगदुपकृतिकारिणोर्बहिष्कृ
द्रविशशिनोः शिथिलः समैक्षि मेरुः । शिरसि वसतिदस्तु शिश्रिये यस्त्रिदिविभिरस्ति स चित्रकूटशैलः ॥५॥ बहुतरपुरुषोत्तमेशलीला
भवनमलं गुरुसात्विकाश्रयोऽतः। त्रिदिवमपि तृणाय मन्यते य
नगरवरं तदिहास्ति चित्रकूटम् ॥ ६॥ हरिरपरवपुर्विधाय यं स्वं
क्षितितलरक्षणदक्षमक्षताख्यम् । असुरपरिवृढव्रजं विभिन्ने
स नृपतिरत्र बभौ जितारिनामा ॥७॥ चतुरधिकदशप्रकारविद्या
स्थितिपठनोन्नतिरग्निहोत्रशाली। अतितरलमतिः पुरोहितोऽभूत्
नृपविदितो हरिभद्रनामचिंत्तः ॥ ८॥ परिभवनमतिमहावलेपात्
क्षितिसलिलांबरवासिनां बुधानाम् । अवदारणजालकाधिरोह
ण्यपि स धौ त्रितयं जयाभिलाषी ॥९॥ स्फुटति जठरमत्र शास्त्रपूरादिति स धावुरे सुवर्णपट्टम् । मम सममतिरस्ति नैव जंबूक्षितिवलये वहते लतां च जंब्वाः ॥१०॥ १J H. राजकल. २J H. कृपदितो हरिभद्रनागचित्तः.
अव