________________
हरिभद्रसूरिप्रबन्धः ।
लघुतरचरणप्रचारवृत्त्या द्रुतमपचक्रमतुः पुरात्तदीयात् । मतिविभववशादबुद्धयानी वलयति कं न मतिर्हि सुप्रयुक्ता ॥ ८९॥
त्रिभिर्विशेषकम् ।
हतहत परिभाषिणस्तयोस्ते ऽनुपदमिमे प्रययुर्भदास्तदीयाः । अतिसविधमुपागतेषु हंसोवददिति तत्र कनिष्ठमात्मबन्धुम् ॥ ९०॥ व्रज झगिति गुरोः प्रणामपूर्व प्रकथय मामकदुष्कृतं हि मिथ्या । अभणितकरणान्ममापराधः कुविनयतो विहितः समर्षणीयः ॥९१॥ इह निवसति सुरपालनामा शरणसमागतवत्सलः क्षितीशः । नगरमिदमिहास्य चक्षुरीक्ष्यं निकटतरं व्रज सन्निधौ ततोऽस्य ॥९२॥ इति सपदि विसर्जितोऽपि तस्थौ क्षणमेकं स तु तैः सहस्रयोधी । गततनुममतस्त्वा (स्तु) युद्ध्यते तैः हवहृतधन्वशरावलिंभिर्हसः ९३ अतिविपुलतया शिलीमुखानां तितउरिवाजनि तस्य विग्रहश्च । अपतथसवंद्यरक्त उर्व्यामहितनरैरभवत्ततः परासुः ॥ ९४ ॥ अवरज इहमोहि (दि) तो ह्यमुञ्चन्सविधममुष्यकृपामय वाक्या (नू ?) त्वरिततरपदप्रचारवृत्त्यागमवनीपतिसूरपालपार्श्वम् ॥ ९५ ॥ शरणमिह ययौ च तस्य धीमान् तदनुपदं रिपवः पराः सहस्राः । अवनिपतिमवाप्य चैनमूचुः प्रवितर नः प्रतिपंथिनं समेतम् ॥ ९६ ॥ अवथ स को बलेन नेता ममभुजपञ्जरवर्तिनं किलैनम् । अनयिनमपि नार्पयाम्यमुं तत्किमुत कलाकलितं नयैकनिष्ठम् ॥९७॥ सुगतमतभटास्तथाभ्यधुस्तं परतरदेशनरस्य हेतवे स्वम् । धनकनकसमृद्धराज्यराष्ट्रं गमयसि हास्मदधीशकोपनात्किम् ॥९८॥ अवददिह स चोत्तरं गरीयः पुरुषगणैर्मम यहुतं व्यधायि । मरणमथ च जीवितं हि भूयात् नहि शरणागतरक्षणं त्यजामि ॥९९॥ इतरमिह दधामि चैकमेष प्रकटमतिर्विदितप्रमाणशस्त्रः । तत इममभिभूय वादरीत्योचितमिह धत्त पराजये जये वा ॥ १०० ॥ अथ वचनविचक्षणः स तेषामधिपतिराह वचस्त्विदं प्रियं नः । परमिह वदनं न दृश्यमस्य क्रमयुगलं सुगतस्य मूर्ध्नि योदात् ॥ १०१ ॥ तदनु च यदि शक्तिरस्ति तस्यां त्वरिततरः प्रतिसारयाशु हेतून् । यदि जयति स यातु कौशलान्नियतमसौ विजितस्तु वध्य एव ॥ १०२ ॥ अथ घटमुखवादिनी रहःस्था वदति तथागतशासनाधिदेवी । स्वयमिह हरिभद्रसूरिशिष्यः पुनरनयो न बभूव दृष्टिमेलः ॥१०३॥
१ HP लीभिर्हेसः । २ P विदितः प्रमाणशास्त्रः ।
१११