________________
११२ .
प्रभावकचरिते व्यमृशदथ सवत्सलैकनिष्ठा सुगतमते प्रभवन्ति सूरयोऽपि । अवितथमिह नो घटेत चैतत्रुटति वचो न ममापि यत्पुरस्तात्॥१०४॥ अथ बहुदिनवादतो विषण्णः स परमहंसकृती विषादमाधात् । विभयति गुरुसंकटे विचिंत्यानिजगणशासनदेवता किलाम्बा १०५ स्मृतिवशत इयं तदा सभाया जिनमतरक्षणनित्यलब्धलक्षाः। वदति च शृणु वत्स मुक्तिमस्माहुरितनराद् गुरुसत्वमूलभूमेः १०६ सुगतमतसुरी समस्ति तारा वदति निरन्तरमत्रुटद्वचः सा । मनुज इह सुरैः समं विवादी क इव भवन्तमृते समृद्धसत्वम् १०७ प्रतिवद च तमद्य दंभवादीब्रुवमसमानकृतपतिश्रवत्वम् । अनुवंदनपुरःसरं प्रजलप्यं भवति कथं तदृते हि वादमुद्रा ॥ १०८ ।। बलमिदमधुनैव तद्विनाश्यात् प्रकटतरं वदतो जयस्तवैव । अवददथ समेत्र कोन्य एव जननि विना भवतीं करोति सारां१०९ इति समुचितमुत्तरं विधायापरदिवसे विदधौ सुरी निदेशं ।। प्रतिवदितरि संझिते च मौनं स जवनिकांचलमूर्ध्निमाततान॥११०॥ कलशमथ चकार पादपातैर्विशकलमाश्रितवैपरीत्यमेषः। अवददथ सदम्भवादमुद्राब्रुवमिह कृष्टिजनाधमा भवन्तः॥ १११ ॥ वधकृतमतयोऽस्य ते ह्यमित्राः समभिहिता ननु तेन भूमिपेन । नयविजयमयः परायवृत्तः किमु वधमर्हति साधुलब्धवर्णः॥११२॥ अथ कुनयमपीममातनुध्वं यदि न सहेहमिदं निशम्यतां तत् ।। रणभुविपरिभूय मां गृहीता खलु य इमं स तु लात्त्वपातुकधीः११३ तदनु नयनसंज्ञयाथ विद्वान्ननु समकेति पलायनाय तेन । लघु लघु स पलायनं च चक्रेक इवन नश्यति मृत्युभीविहस्तः११४ द्रुतचरणगतैर्बहिः प्रगच्छन् स च निर्णेजकमेकमालुलोके । तुरगिषु सविधागतेष्ववादीत् तमिहव्रजन्त्वमिहाययौ प्रपातः ११५ स्वमतिविभवतः प्रणाशितेस्मिन् वसनविशोधनमाद्धत्तथासौ । तरलतुरगिणा च जल्पितो यन्मनुजोऽनेन पथा जगाम नैकः॥११६॥ रजक इह स तेन दर्शितोऽस्य त्वरिततरः स च शीघ्रमेव तेन । निजभटनिवहे समार्पिधृत्वा प्रतिबचलेच बलं तदीयवाक्यात्११७ निजमतिबलतस्ततः प्रकाशं विभयमनाश्चलितोभिचित्रकूटम् । अभिसमगमदिनैः कियद्भिर्गुरुचरणाम्बुरुही समागमः क्वः ॥११८॥
१JH सच बलिकनिष्टा. २ JHविभवति. ३ P भरा. ४ JH प्रविवदवत् मद्य दंभवादि ब्रुवमसमकृतप्रतिश्रुतत्त्वम्. ५ JH अथ सुवदन. ६ JH ल्या. तद्वतेहि वाच. ७JH स्याः तद जयत. ८ JH विविध सुरातिवेशम्. P निदेशां ९ कथमिहकृष्टी..... वतं. १० JH व्रमिहायवौ. ११ JH वृत्ताप्रति बलेच वत० १२ Pऊहं..